रजस्वला स्तवराजम्
श्रीगणेशाय नमः ।
ॐ सरस्वत्यै नमः ।
ॐ अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य, ईश्वरऋषिः, अनुष्टुप्छन्दः,
श्रीरजस्वला देवतायै, ममोपासने जपे विनियोगः ॥
अथ ऋष्यादि षडङ्गन्यासः ।
ॐ ह्रां क्लां ईश्वरऋषये नमः शिरसि ।
ॐ ह्रीं क्लीं अनुष्टुप् छन्दसे नमः मुखे ।
ॐ ह्रूं क्लूं रजस्वला देवतायै नमः हृदये ।
ॐ ह्रैं क्लैं बीजाय नमः गुह्ये ।
ॐ ह्रैं क्लौं शक्तये नमः पादयोः ।
ॐ ह्रः क्लः कीलकाय नमः नाभौ सर्वाङ्गेतिव्यापकम् ॥
अथ करन्यासः ।
ॐ ह्रां क्लां अङ्गुष्टाभ्यां नमः ।
ॐ ह्रीं क्लीं तर्जनिभ्यां नमः ।
ॐ ह्रूं क्लूं मध्यमाभ्यां नमः ।
ॐ ह्रैं क्लैं अनामिकाभ्यां नमः ।
ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः क्लः करतलकरपृष्टाभ्यां नमः ॥
अथ हृदयादि षडङ्गन्यासः ।
ॐ ह्रां क्लां हृदयाय नमः ।
ॐ ह्रीं क्लीं शिरसे स्वाहा ।
ॐ ह्रूं क्लूं शिखायै वषट् ।
ॐ ह्रैं क्लैं कवचाय हुम् ।
ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः क्लः अस्त्राय फट् ॥
अथ ध्यानम् ।
बालार्ककोटिवर्णाभ्यां भालचन्द्रनिभाननाम् ।
अनन्तबाणसहितां ध्यायेद्देविरजस्वलाम् ॥
इति ध्यानम् ।
अथ गायत्री ।
ॐ ह्रां क्लीं रजस्वलायै विद्महे । ॐ ह्रां क्लौं सर्व शक्ति च धीमहि ।
ॐ ह्रां क्लुः तन्नोरजस्वला प्रचोदयात् ।
इति गायत्री मन्त्रः ॥
अथ मूलमन्त्रः ।
ॐ ह्रीं श्रीं क्लीं ऐं स्वाहा ॥ १३०० जपसङ्ख्या ॥
अथ जटिका खोलनमन्त्रः ।
ॐ श्रीं क्लीं एकाक्षराय भगवते विश्वरूपाय सर्वयोगेश्वराय
त्रैलोकनाथाय सर्वकामप्रदाय नमः स्वाहा ।
सिद्धिर्भवति मनवाञ्छितफलप्राप्तिर्भवति ॥
ॐ श्रीं ह्रीं क्लीं रजस्वलायै हः हः हः स्वाहा ॥ इति मूल मन्त्रः ॥
ॐ ऐं ह्रीं क्लीं उच्छिष्टचाण्डालिनि
ॐ सुं मुखिदेविमहापिशाचिनी ॐ ह्रीं ॐ ठः ठः ठः ॐ स्वाहा ॥ इति मूलमन्त्रः ॥
ॐ नमः कालिकाय नमः ।
रजस्वलाधोमुखन्दृष्ट्वा सर्वपापं व्यपोहति ।
भाषणङ्कुरुते राज अश्वमेधादिकं फलम् ॥ १॥
तस्य स्पृश्यमात्रेण लभ्यते फलचतुर्विधम् ।
यस्य सङ्गममात्रेण त्रैलोक्यक्षोभनक्षमः ॥ २॥
श्रद्धायां पूजितं भक्त्यो भगं स रजशोभितम् ।
न्यासङ्कृत्वा स्वदेहे च कलाभिः कामषोडशैः ॥ ३॥
मात्रिकान्यास देहेषु अनुलोम विलोमतः ।
शिवरूपं विचिन्त्यस्य भगपूजासमाचरेत् ॥ ४॥
कोटिजन्मार्जितैर्पुण्यैर्भक्त्यायां पूजयेद्भगम् ।
विशेष्य पूज्यते योनिपुष्पसङ्ख्या न विद्यते ॥ ५॥
महद्यत्नेन देवेशि पुष्पवन्ति सुलक्षणः ।
पुज्यते देव्या भक्त्या च पिशितालिङ्गसंयुतम् ॥ ६॥
नवपात्रन्तु विधिवत् स्वयं भक्त्याघरक्षया ।
पिबन्ति च सुराज्योति तज्जाड्यं हरते ध्रुवम् ॥ ७॥
वृत्यैभूतो स्वयं भक्त्या विकल्पेन च अचेतसाम् ।
पुष्पैभूतं भगं पूज्य तन्मध्ये लिङ्गविक्षिपेत् ॥ ८॥
स्तोत्रपाठं मैथुनं च क्रियते जप पूर्वकम् ।
यावत् भुक्तं सुखं जाप्यं जपित्वाचसुरेश्वरि ॥ ९॥
निर्जनस्य च पाठस्य पूनःकार्य सर्वैशुभैः ।
एवं कृतेतुवीरेण शिवतुल्यो भवेन्नरः ॥ १०॥
अत्यन्त गोप्यं देवेशि तस्ययोनि विनिक्षिपेत् ।
अप्रकास्य कुपात्रस्य गोप्यागोप्यकृतं शुभम् ॥ ११॥
प्रकाशं परमाद्रहस्यं सद्योमृत्युः न संशयः ।
इन्द्रलोकेन देवेशि गोप्यात्सफलम्महत् ॥ १२॥
भक्त्याचयमतेवीरो पूज्यते साधकोभवेत् ।
रतिकाले विशेषेण शिवतुल्यो भवेन्नरः ॥ १३॥
इति त्रयोदश श्लोकै स्तवनं परमाद्भुतम् ।
रजस्वला समीपेतु पठ्यते सर्वसिद्धिदे ॥ १४॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशय ।
सम्पुष्पं भगपूजाच ब्रह्मलोकेऽपिदुर्लभम् ॥ १५॥
यस्य स्तोत्रस्य माहात्म्यं यावक्तुर्नशक्यते ।
विरञ्चिभगवान् विष्णुः पठ्यते च निरन्तरम् ॥ १६॥
यस्य पाठप्रभावेण सृष्टिस्थितिभवेदिहः ।
तस्मात्सर्वप्रयत्नेन देविगोप्यङ्करं शुभम् ॥ १७॥
॥ इति श्रीरजस्वलास्तवराजं सम्पूर्णम् ॥
॥ श्री ललिताम्बार्पणमस्तु ।
Proofread by rajesh thyagarajan