श्रीरेणुकाषट्कम्
श्रीगणेशाय नमः ।
जयदेवसमूहनुते जमदग्निमुनेर्दयिते ।
जननं विबुधावनि ते जगतामुपकारकृते ॥ १॥
विपिने विप्ने विनुता नगरे नगरे नमिता ।
जयति स्थिरचित्तहिता जमदग्निमुनेर्वनिता ॥ २॥
मतिकैरविणीन्दुकला मम हृत्कमले कमला ।
जयति स्तुतिदूरबला जमदग्निवधूर्विमला ॥ ३॥
कलिपक्षजुषां दमनी कलुषप्रततेः शमनी ।
जयति स्तुवतामवनी जगतामवतुर्जननी ॥ ४॥
निखिलामयतापहरी निजसेवकभव्यकरी ।
जमदग्निनदोपझरी जयतीश्वरचिल्लहरी ॥ ५॥
सकलामयनाशचणे सततं स्मरतः सुगुणे ।
मम कार्यगतेः प्रथमं मरणं न भवत्वधमम् ॥ ६॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोर्गणपतेः कृतिः रेणुकाषट्कं समाप्तम् ॥
From Complete works of Shri Vasishtha Ganapati Muni Vol. 2.12
Proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com