रेणुकास्तोत्रं मुचुकुन्दकृतम्
श्रीगणेशाय नमः ।
मुचुकुन्द उवाच
अनाथमकृतप्रज्ञं अज्ञानतिमिरावृतम् ।
मोहपङ्कनिमग्नञ्च मामुद्धर सुरेश्वरि ॥
त्वां रेणुकेति वरदेति च सुन्दरीति
वागीश्वरीति सकलेति च पार्वतीति ।
सिद्धेश्वरीति सुभगेति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
अम्बेति विश्वजननीति जगद्धितेति
विद्येति धर्मनिरतेति परात्परेति ।
आद्येति वेदजननीति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
त्वां वेदशास्त्रमितिहासविनोदिनीति
ब्रह्मेति ब्रह्मगमकेति शुभावहेति ।
विश्वेश्वरीति कमलेति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
आनन्दभूतनिलयेत्यनलोद्भवेति
गूढेति भावगमकेति शुभावहेति ।
विश्वेश्वरीति कमलेति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
नित्येति दिव्यचरणेति महाव्रतेति
हृद्येति भक्तजनदुःखविनाशिनीति ।
श्रद्धेति रामजननीति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
त्वां पुण्यदेति जमदग्नि-ऋषिप्रियेति
गङ्गेति तत्त्वविहितेति परापरेति ।
सुद्धेति पातककदम्बकुठारकेति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
त्वां राजनीति परमामृतभोजनेति
शृङ्गारमुख्यनवषट् च रसप्रियेति ।
लक्ष्मीप्रदेति सुमुखेति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
स्कन्द उवाच
स्तुतैवं मुचुकुन्देन रेणुका ब्रह्मरूपिणी ।
प्रत्यक्षरूपा प्राहेदं प्रसन्नाहं मुनीश्वर ॥
देव्युवाच
मुचुकुन्द त्वया तुल्यः कश्चिद्भक्तो न विद्यते ।
किं प्रार्थयसि मत्तस्त्वं ब्रूहि यत्तेऽभिवाञ्छितम् ॥
मुचुकुन्द उवाच
त्वद्भक्तिमतुलां देहि देवि त्वं विश्वरूपिणी ।
नान्यदिच्छाम्यहं मातः सत्यमेतन्मयोदितम् ॥
आत्मनः स्वं परं ब्रह्मस्वरूपं दर्शयस्व मे ।
यदि तुष्टासि दासस्य कृपया त्वं ममोपरि ॥
इति श्रीस्कन्दमहापुराणे रेणुकामाहात्म्ये
श्रीरेणुकास्तोत्रं मुचुकुन्दकृतम् ॥
Encoded by Kaushal S. Kaloo kaushalskaloo at gmail.com