श्रीरुक्मिणीस्तवम्
ॐ श्री
॥ श्रीशङ्कर ॥
(भुजङ्गप्रयात)
जगन्मातरं मातरं पद्मजादेः
परब्रह्मशक्तिं परामप्रमेयाम् ।
अचिन्त्यामनन्यामनाद्यन्तरूपाम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ १॥
सुमान्यां शरण्यां वरेण्यां वदान्याम्
हरिप्राप्तिधन्यां विदर्भेशकन्याम् ।
सदा चन्द्रभागातटे विष्टरस्थाम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ २॥
विभोर्विठ्ठलस्यार्धभागे वसन्तीम्
सतीं पाण्डुरङ्गप्रियां कोमलाङ्गीम् ।
शरच्चन्द्रविम्बाननां दिव्यकान्तिम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ ३॥
यदीय प्रभावात् विधिः सर्गशक्तो
जगत्पालनेऽभूदुपेन्द्रः समर्थः ।
लये व्योमकेशोऽपि तां सार्वभौमाम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ ४॥
कृपालेशतोऽस्या रविर्भाति लोके
चकास्ति प्रभा विद्युतः तारकाणाम् ।
सुधांशुः सदाऽऽह्लादकोऽनङ्गंसूं ताम्
शुभा रुक्मिणीं कृष्णपत्नीं नमामि ॥ ५॥
श्रुतिनामगम्यां सुभावैकगम्याम्
मनोवागतीतां चिदानन्दसत्ताम् ।
रमां शारदां पार्वतीं सर्वमूलाम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ ६॥
धरित्रीं सवित्रीं समस्यादिकर्त्रीम्
त्रिलोकैकधात्रीं वरां भीमपुत्रीम् ।
भवोत्पन्नभीशोकमोहापहर्त्रीम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ ७॥
लसन्मञ्जुहास्यप्रभालङ्कृतोष्ठीम्
कटाक्षे कृपार्द्रां प्रियोपेन्द्रगोष्ठीम् ।
कटौ न्यस्तहस्तामनन्ताधिदेवीम्
शुभां रुक्मिणीं कृष्णपत्नीं नमामि ॥ ८॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीरुक्मिणीस्तवं सम्पूर्णम् ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar