साङ्ख्ययोगघटलक्ष्मीव्रतम्
अथाऽप्यन्यद्व्रतं लक्ष्मि वदामि साङ्ख्ययौगिकम् ।
साङ्ख्ययोगकृतदीक्षायुतां त्वां तत्र पूजयेत् ॥ ८७॥
पूर्णिमायां तथा चैकादश्यां शुक्ले तु पक्षके ।
सर्वमासेषु सौवर्णां कृत्वा लक्ष्मीं शुभाननाम् ॥ ८८॥
रक्ताम्बरां रक्तलेपां रक्तचन्दनचर्चिताम् ।
पाटलां त्वां रत्तवर्णासने सम्यक् प्रपूजयेत् ॥ ८९॥
रक्तकुङ्कुमसलिलैः स्नापयेत्त्वां विभूषयेत् ।
रक्तपुष्पाम्बरै रक्तहारै रक्तफलादिभिः ॥ ९०॥
रक्तपुष्पैः पूजयेच्च रक्तां नारायणे मयि ।
भोजयेत्पूजयेच्चापि नीराजयेन्नमेत्तथा ॥ ९१॥
प्रार्थयेत्पूजिकां त्वां च साङ्ख्ययोगव्रतस्थिता ।
रक्तवस्त्रे महालक्ष्मि रक्ते नारायणे स्थिते ॥ ९२॥
स्वास्थ्यं त्यागं महाशान्तिं हरेर्योगं प्रदेहि मे ।
अन्येभ्यश्च विरक्ताऽहं रक्ताऽहं श्रीपतौ प्रभौ ॥ ९३॥
साङ्ख्ययोगमहालक्ष्मीव्रतं तेऽत्र करोम्यहम् ।
अनेन मम सौभाग्यं तवैव भवताद्धरौ ॥ ९४॥
सर्वविघ्नविनाशोऽस्तु सर्वानन्दा भवन्तु मे ।
सर्वे रसाः सर्वश्रेयःकल्याणानि भवन्तु मे ॥ ९५॥
इत्यभ्यर्थ्य दिशेल्लक्ष्मीं गुरवे कानकीं तथा ।
रत्नभूषाम्बरधान्यपात्रादीनि समर्पयेत् ॥ ९६॥
एवं व्रतं प्रकर्त्र्यास्तु हरेर्दास्यं प्रपद्यते ।
भुक्तिर्मुक्तिर्भवेद्धस्तगता नारायणाश्रयात् ॥ ९७॥
सोपवासं प्रकर्तव्यं साङ्ख्ययौगव्रतं त्विदम् ।
सर्वपापहरं दिव्यदेहप्रदं हरिप्रियम् ॥ ९८॥
हरिप्रिया भवेत्साध्वी व्रतकर्त्री विदेहिनी ।
चमत्कारमयी दिव्याऽक्षरधामगता भवेत् ॥ ९९॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१३७-अध्यायान्तर्गतं साङ्ख्ययोगघटलक्ष्मीव्रतं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३७/८७-९९॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 137/87-99..
This stotra is meant for women.
Proofread by PSA Easwaran