सावित्रीपञ्जरस्तोत्रम् अथवा गायत्रीपञ्जरस्तोत्रम्
श्रीगणेशाय नमः ॥
भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ १॥
शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् ।
बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ २॥
शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ ३॥
मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः ।
कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्धनम् ॥ ४॥
विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥
नारद उवाच ।
भगवन् देवदेवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥
ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् ।
ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ ७॥
यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् ।
यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ ८॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् ।
सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९॥
प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ।
पुरा मया तु कथितं कश्यपाय सुधीमते ॥ १०॥
सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ ११॥
वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् ।
स्तोत्रं शृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ १२॥
ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ।
आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ १३॥
ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् ।
धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम् ॥ १४॥
वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् ।
ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ १५॥
तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ।
नादबिन्दुकलातीतां गोपुरैरुपशोभिताम् ॥ १६॥
विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् ।
निगमार्गलसञ्च्छन्नां निर्गुणद्वारवाटिकाम् ॥ १७॥
चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् ।
साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ १८॥
ध्यानधारणयोगादितृणगुल्मलतावृताम् ।
सदसच्चित्स्वरूपाख्यां मृगपक्षिसमाकुलाम् ।
विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ १९॥
अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ।
पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ २०॥
वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् ।
इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥ २१॥
गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् ।
नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥ २२॥
कृतगानविनोदादिकथालापनतत्पराम् ।
तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ २३॥
जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ।
वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥ २४॥
अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् ।
देवस्य सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ २५॥
धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् ।
धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥ २६॥
परोऽसौ सविता साक्षादेनोनिर्हरणाय च ।
परो रजस इत्यादि परं ब्रह्म सनातनम् ॥ २७॥
आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् ।
रसोऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥ २८॥
भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् ।
महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् ॥ २९॥
तादृगस्या विराड्रूपकिरीटवरराजिताम् ।
व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥ ३०॥
मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् ।
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ ३१॥
इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् ।
सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥ ३२॥
सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् ।
पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् ॥ ३३॥
आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् ।
प्रजापत्याख्यजघनां कटीन्द्राणीति संज्ञिकाम् ॥ ३४॥
ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् ।
जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥ ३५॥
अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् ।
पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम् ॥ ३६॥
ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् ।
तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥ ३७॥
अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् ।
मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् ॥ ३८॥
ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ।
कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ ३९॥
सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ।
प्रागतीतां मनोरम्यां वरदां वेदमातरम् ॥ ४०॥
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।
ध्यात्वा स्वात्मनि भेदेन ब्रह्मपञ्जरमारभेत् ॥ ४१॥
पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ।
देवता च परो हंसः परब्रह्माधिदेवता ॥ ४२॥
प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ।
तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ॥ ४३॥
मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् ।
विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥ ४४॥
ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् ।
पूर्वोक्तदेवतां ध्यायेत् साकारगुणसंयुताम् ॥ ४५॥
पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् ।
मुक्ताविद्रुमसौवर्णां सितशुभ्रसमाननाम् ॥ ४६॥
वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ।
षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् ॥ ४७॥
मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् ।
अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् ॥ ४८॥
रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् ।
अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् ॥ ४९॥
दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् ।
वराभयाब्जयुगलां शङ्खचक्रगदाङ्कुशान् ॥ ५०॥
शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् ।
गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥ ५१॥
आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् ।
विचित्रमन्त्रजनर्नीं स्मरेद्विद्यां सरस्वतीम् ॥ ५२॥
त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥ ५३॥
चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् ।
षट्त्रिशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥ ५४॥
प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।
पातु प्रतीचीमनिशं सामब्रह्मशिरोऽङ्किता ॥ ५५॥
सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका ।
उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका ॥ ५६॥
पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी ।
व्योमाख्या पातु मे चोर्ध्वां दिशं वेदाङ्गसंस्थिता ॥ ५७॥
विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा ।
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ ५८॥
ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ।
बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे पातु नैरृतीम् ॥ ५९॥
चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ।
वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥ ६०॥
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।
शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम ॥ ६१॥
चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ।
वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥ ६२॥
तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः ॥ ६३॥
मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता ।
व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी ॥ ६४॥
तत्पदं मे शिरः पातु भालं मे सवितुःपदम् ।
वरेण्यं मे दृशौ पातु श्रुतीर्भगः सदा मम ॥ ६५॥
घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ।
जिह्वा मम धियः पातु कण्ठं मे पातु यःपदम् ॥ ६६॥
नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ।
करौ मे च परः पातु पादौ मे रजसेऽवतु ॥ ६७॥
असौ मे हृदयं पातु मम मध्यं सदावतु ।
ॐ मे नाभिं सदा पातु कटिं मे पातु मे सदा ।
ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ ६८॥
ऊरू मम रसः पातु जानुनी अमृतं मम ।
जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा ॥ ६९॥
पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ।
रोमाणि मे महः पातु रोमकं पातु मे जनः ॥ ७०॥
प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ।
सत्यं पातु ममायूंषि हंसो शुद्धिं च पातु मे ॥ ७१॥
शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम ।
मतिं पात्वन्तरिक्षं सद्धोता दानं च पातु मे ॥ ७२॥
वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् ।
धर्मं दुरोणसत् पातु नृषत् पातु सुतान्मम ॥ ७३॥
वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् ।
व्योमसत्पातु मे बन्धून् भ्रातॄनब्जाश्च पातु मे ॥ ७४॥
पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् ।
सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥ ७५॥
अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् ।
तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ ७६॥
इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् ।
सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ ७७॥
धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः ।
स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥ ७८॥
इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे सावित्रीपञ्जरस्तोत्रं
अथवा गायत्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com