श्रीरत्नसिंहासनीय श्रीसीतापञ्चायतन स्तोत्रम्
वन्दे विदेहतनयापदपुण्डरीकं
कैशोरसौरभसमाहृतयोगिचित्तम् ।
हन्तुं त्रितापमनिशं मुनिहंससेव्यं
सम्मानशालिपरिपीतपरागपुञ्जम् ॥ १॥
दुर्वादलद्युतितनुं तरूणाब्जनेत्रं
हेयाम्वरांवरविभूषणभूषिताङ्गम् ।
कन्दर्पकोटिकमनीयकिशोरमूर्तिं
पूर्तिं मनोरथभुवाम्भजजानकीशम् ॥ २॥
कपूरगौरवपुषं शरदिन्दुवक्त्रं
नीलाम्बरं सरसिजाक्षमनन्तमाद्यम् ।
वामोर्मिलं ललितभूषणभूषिताङ्गं
रामानुजं जमनोऽभयदं निजानाम् ॥ ३॥
विश्वम्भरं भरतमम्बुजपत्रनेत्रं
नीलाम्बुदामवपुषं कनकाभवस्त्रम् ।
भक्ताभयप्रदमनेकविभूषणाढ्यं
जाड्यापहं सुभजतां भजमाण्डवीशम् ॥ ४॥
कैशोरमूर्तिमनुरूपमनूपरूपं
पञ्चेषु सुन्दरतनुं श्रुतिकीर्तिकान्तम् ।
गौरं सुवर्णमणिभूषणमम्बुजाक्षं
पीताम्बरं भजमनोऽखिल सिद्धिहेतुम् ॥ ५॥
उद्यद्दिनेशकररञ्जितकञ्जवक्त्रं
पिङ्गारुणाब्जनयनं नयनाभिरामम् ।
सौवर्णवर्णवसनं रत्नादिभूषं
भक्तेष्टकामदतरुं भज वायुसूनुम् ॥ ६॥
श्रीसीतापञ्चायतनस्तोत्रं प्रातःकाले पठेत्तुयः ।
इहलोके परेवाऽपि तस्य किञ्चिन्नदुर्लभम् ॥ ७॥
इति सुन्दरीतन्त्रोक्तं श्रीरत्नसिंहासनीय
श्रीसीतापञ्चायतन स्तोत्रम् ॥
Proofread by Prabhav Tengse