श्रीसम्बलेश्वरी-स्तोत्रम्
श्रीसम्बलेश्वरी-स्तोत्रम्
लोकवन्द्या शक्तिराद्या महामाया महीयसी ।
जयति सा पराम्बिका देवी श्रीसम्बलेश्वरी ॥ १॥
कमनीय-कलेवरा शमनी सर्वदुष्कृताम् ।
ममतामयी मातस्त्वं नमस्तुभ्यं महेश्वरि ! ॥ २॥
महानदी-तीरे रम्ये मन्दिरे सुप्रतिष्ठिता ।
अधिष्ठात्री त्वं सम्बलपुरस्य प्रिय-सम्बलम् ॥ ३॥
शाल्मलीद्रुम-निम्नस्थां माल्य-मन्दार-पूजिताम् ।
कल्मषापहां मातस्त्वां नमामः सम्बलेश्वरीम् ॥ ४॥
उत्सवे धवलानना सिन्दूर-वदना स्वयम् ।
जगदुद्धारिणी देवि ! श्रद्धया त्वां नुमो वयम् ॥ ५॥
त्र्यम्बक-वल्लभा देवी सम्बलेश्वरी पावनी ।
अम्बुजाक्षि ! नमस्तुभ्यं शम्भु-शक्त्यै नमोनमः ॥ ६॥
तवाशीर्वादः सर्वेषां ददातु मनोवाञ्छितम् ।
तव स्नेहाञ्चलच्छाया भक्तान् रक्षतु सौख्यदा ॥ ७॥
अम्ब ! त्वं सम्बलेश्वरी दोषजातं क्षमस्व नः ।
त्रायस्व विपत्तारिणी दह दुःखं नमोऽस्तु ते ॥ ८॥
स्तोत्रं श्रीसम्बलेश्वरी-देव्याः प्रियं मुदावहम् ।
विनाशयतु दुष्कृतं जगतां तनुतां शुभम् ॥ ९॥
(इति श्रीहरेकृष्णमेहेर-प्रणीतं श्रीसम्बलेश्वरी-स्तोत्रं सम्पूर्णम् ।)
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher