सन्ध्यावलीकृतं लक्ष्मीस्तोत्रम्
(विन्ध्यावलीकृतं लक्ष्मीस्तोत्रम्)
स(वि)न्ध्यावली प्राञ्जलिस्तां नत्वा हृदि जगाद च ।
नमो मात्रे महालक्ष्म्यै त्राहि भक्तं च मे पतिम् ॥ ४॥
नमः प्रकृतिसंज्ञायै मूलायै ते नमो नमः ।
संहर्त्र्यै ब्रह्ममात्रे ते कुक्षिसृष्ट्यै नमो नमः ॥ ५॥
वामना वापि दीर्घाश्च नारायणास्तु ते मुखे ।
महाकालादयश्चापि सन्ति ग्रासाश्च ते नमः ॥ ६॥
सङ्कर्षणास्तथा रुद्रा यमाश्चैव तवानने ।
दंष्ट्रैकचर्वणाः सर्वे महामात्रे नमो नमः ॥ ७॥
वासुदेवस्तथा भूमा नारायणाश्च पूरुषाः ।
त्वत्पल्लताताडितास्ते महाशक्त्यै नमो नमः ॥ ८॥
त्वत्तो लक्ष्मीः समुत्पन्ना महाविष्णुस्त्वदङ्कजः ।
ब्रह्माण्डानि च ते रोम्णि रक्ष लक्ष्म्यै नमो नमः ॥ ९॥
महाग्नयस्तु ते गुप्ते त्वत्स्वेदे वाडवाऽनलाः ।
भगवन्तश्च ते गर्भे चण्डलक्ष्म्यै नमोऽस्तु ते ॥ १०॥
जृम्भे ते प्रलयाः सन्ति चण्डे कालः प्रकम्पते ।
चूर्णायन्ते महाण्डानि पृष्ठम्रीडे नमोऽस्तु ते ॥ ११॥
रक्ष रक्ष महामाये पतिं मे परमेश्वरि ।
चण्डी तण्डी महामुण्डी घमण्डी डिण्डिकादिकाः ॥ १२॥
कालीकरालीप्रज्वालीलिहालीरक्तिलादिकाः ।
शक्तयस्ते रक्तलेशः पाहि कान्तं द्रुतं कुरु ॥ १३॥
पाहि शीघ्रं चान्यथा त्वां गलं निकृत्य पूजये ।
यद्यहं विधवा स्यां चेत्पूर्वं त्वं विधवा भव ॥ १४॥
यद्यहं राज्यशून्यां स्यां त्वं वैकुण्ठं विना भव ।
यद्यवमानितो राजा स्यात्पतिस्तेऽप्यमानितः ॥ १५॥
मद्यज्ञे चेद्भवेद्विघ्नं तव यज्ञे तथाऽस्तु वै ।
वदत्येवं चण्डवेगा शृण्वन्त्यपि सभासदः ॥ १६॥
मा मेत्येवं तदा देवा निवारयन्ति तां स्त्रियम् ।
तावत्तत्रागता पत्नी महालक्ष्मीर्महाप्रभोः ॥ १७॥
सान्त्वयित्वा च तां राज्ञीं पतितां खर्वपादयोः ।
मा मैवं देव चात्यन्तं मा भक्तस्य हर प्रभो ॥ १८॥
वामनश्च तदा प्राह नैनं वै मारयाम्यहम् ।
राज्यभ्रष्टं च नैवाऽहं करोम्येनं सुसेवकम् ॥ १९॥
स(वि)न्ध्यावली सदैवाऽस्तु सुसौभाग्यवती प्रिये ।
दैत्योऽयं दैत्यराज्यं वै करोतु सुतले प्रिये ॥ २०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १५५-अध्यायान्तर्गतं
स(वि)न्ध्यावलीकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १५५/४-२०॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 155/4-20..
Proofread by PSA Easwaran