सरस्वतीं संस्कृतमाश्रयामः
आयान्तु रे भारतमातृपुत्राः
सरस्वतीं संस्कृतमाश्रयामः ।
आर्षोपदेशानवलम्ब्य लोके
स्वजीवनं स्वर्णयितुं व्रजामः ॥ १॥
सा भारती या जगदादिकालात्
मृत्योर्मनुष्यानमृतं नयन्ती ।
तमोऽपनोदेन दिशं दिशन्तीं
विराजते भारतवर्षमध्ये ॥ २॥
इयं धरा कान्तमथान्तरिक्षं
नीलं नभो मञ्जुलवन्यमालाः ।
तारस्वरैः स्वैर्महयन्ति सर्वे
स्वीयामिमां सुन्दरसौम्यवाणीम् ॥ ३॥
सा संस्कृतिर्यां सकलं हि विश्वं
आराधनीयामथ सेवनीयाम् ।
सम्मानवाणीभिरलङ्करोति
विराजते संस्कृतवाणिमध्ये ॥ ४॥
यस्या नितान्तं विमलान्तरालाद्
भाषाः समस्ता उदिता जगत्याम् ।
आद्याङ्कुरैः प्रास्फुटि सभ्यताया
महीयसी सैव सरस्वतीयम् ॥ ५॥
यस्या नितान्तं कवयः कवित्वं
मनीषिणः स्वं मननीयतत्त्वम् ।
संसारिणो जीवनदिग्दिनेशं
वेदोज्ज्वलाभ्यां दुदुहुः स्तनाभ्याम् ॥ ६॥
यदस्मदीयाः खलु भारतीयाः
समादरं प्राप्नुवते जगत्याम् ।
तत्केवलं संस्कृतवाक्सरण्या
ज्ञानाम्बुवाहप्रसरप्रभावः ॥ ७॥
कालाच्चिराद्दास्यवशात्तथैव
प्लुष्टो गिरो ज्ञाननिधिर्यदस्याः ।
नेया परामुन्नतिमद्य सर्वैः
सर्वैः प्रयत्नैरियमर्हणीया ॥ ८॥
समागतं भारतसुप्रभातं
उषा नवीना समुदेति चाग्रे ।
उल्लासयन्तीं स्वयमुल्लसन्तीं
आयान्तु शुभ्रामभिनन्दयामः ॥ ९॥
इति श्रीकेशवदर्शनाचार्यविरचितः सरस्वतीं संस्कृतमाश्रयामः ।
Encoded and proofread by Suba Ramesh