श्रीसरस्वतीदशश्लोकी
या वेदान्तार्थतत्त्वैक-स्वरूपा परमार्थतः ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥ १॥
या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ २॥
या वर्णपदवाक्यार्थ-स्वरूपा परमार्थतः ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ ३॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥ ४॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ ५॥
या प्रत्यग् दृष्टिभिर् जीवैर् व्यज्यमानानुभूयते ।
व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ ६॥
नाम-जात्यादिभिर् भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥ ७॥
व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ ८॥
यां विदित्वाखिलं बन्धं निर्मय्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥ ९॥
नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः ।
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ १०॥
इति श्रीसरस्वतीदशश्लोकी सम्पूर्णा ।
(From sarasvatIrahasyopaniShad)
Proofread by Narendran Madathil