श्रीसरस्वतीप्रार्थना
तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै पातु वाग्देवता नः ॥
त्वदीये पुण्यपादाब्जे नतोऽहं शारदे देवि
दयामयि त्वद्दयालेशं श्रितोऽहं शारदे देवि ।
करे ते राजते माला मरालो वाहनं दिव्यं
त्वदङ्के कच्छपी वीणा प्रवीणा शारदे देवि ॥ १॥
त्वदङ्गे शोभते शुभ्रं दुकूलं कासपुष्पाभं
सितैः पुष्पैरलङ्कारैः सिताभा शारदे देवि ।
तुषारक्षीरकुन्देन्दुस्फटिकहारावदाताभा
त्वदीया वर्ण्यते कान्तिः मनोज्ञा शारदे देवि ॥ २॥
त्वदीया मञ्जुलां शोभां न वक्तुं शक्तिमच्छेषः
महिम्ना वर्णयेन्मादृक् कथं तां शारदे देवि ।
कृपालेशेन ते वाचस्पतिरित्यल्पप्रज्ञोऽपि
दयादृष्ट्या निपाल्योऽहं विनीतः शारदे देवि ॥ ३॥
पुरा ते सन्निधानेन ममेदं भारतं वर्षं
प्रतिष्ठां स्थापयामास जगत्यां शारदे देवि ।
पुनस्तन्त्रीं गुणक्वाणैः सुतान् निद्रानिमग्नः स्वा-
न्स्तुता सम्बोधयन्ती स्याः सदा त्वं शारदे देवि ॥ ४॥
सुतस्ते शङ्कराचार्यः कृपातस्ते यथा रक्षत
अनीश्वरवादतो लोकं विमुग्धं शारदे देवि ।
तथा नानामताविष्टं जगत् संरक्षितुं मातः
स्वशक्तिं स्वीयसन्तानेऽर्पय त्वं शारदे देवि ॥ ५॥
इति आचार्यसत्यनारायणशुक्लविरचिता श्रीसरस्वतीप्रार्थना समाप्ता ।