श्रीसरस्वतीस्तोत्रम्
श्वेताम्बरां हंसमुसेवितातां
मृडाल पुष्पोपरि संषिशाञ्च ।
वीणा नदन्तीं स्वर साधयन्ती
नमामि वाणीं जन शान्तिदात्रीम् ॥ १॥
सरस्वतीं वेद विशारदां परां
विमुक्तिदां नित्य सुधाब्धिधामदाम् ।
अलौकिकां लोकसुबुद्धिदां त्वां
नमामि कोटीन्दु समम्मुचिस्मिताम् ॥ २॥
वराभय पुस्तक मालिकामयीं
स्वरैश्चर्वर्णालय गान तत्पराम् ।
वेदान्त विज्ञानघनाञ्च शारदां
नमामितां चन्द्रमुखीं समुज्ज्वलाम् ॥ ३॥
हारैर्सुवासैश्च किरीटकुण्डले
करद्वये वल्लकिना सुशोभिते ।
उत्तुङ्ग वक्षस्थलरत्न शोभितां
नमामी वाणीं सकलार्थ दायिनीम् ॥ ४॥
ऐङ्कार पूर्वं च सरस्वतीञ्च
युक्तं चतुर्थी नमः शब्दमुत्तरम् ।
कृत्त्वातु पञ्चायुत जापकाय
सिद्धिं प्रदात्रीं प्रणमामि वाणीम् ॥ ५॥
शास्त्रार्थ सारं परमार्थ सारं
विज्ञान सारं शुभज्ञान सारम् ।
स्वरमलङ्कार गतं सुसारं
तां शारदां नित्य नमामि भक्तया ॥ ६॥
ॐ ह्रीं ऐं धीं क्लीं सौं श्रीं सरस्वत्यै नमः ``इति मन्त्रः''
ह्रीङ्काररूपां सुमुखीं विशुद्धां
ऐङ्काररूपां विमलां सुबोधाम् ।
धीङ्काररूपां हृदये विशन्तीं
क्लीङ्काररूपां प्रणमामि वाणीम् ॥ ७॥
सौङ्काररूपां सुखदां च नित्यं
श्रीङ्काररूपां सकलार्थदाञ्च ।
सरस्वतीं शान्तिप्रदां सदा त्वां
नमामि नित्यं परमार्थतत्त्वाम् ॥ ८॥
शारदाष्टकमिदं पुण्यं सर्वशास्त्रफलप्रदम् ।
पठनात् मननात् ध्यानात् भवति विमला मतिः ॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं सरस्वती स्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao