श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्
श्रीगणेशाय नमः ।
बृहस्पतिरुवाच -
सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥
मतिदां वरदां चैव सर्वकामफलप्रदाम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥
मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥
मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् ।
पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४॥
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५॥
इति सत्यं स्तुता देवी वागीशेन महात्मना ।
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६॥
श्रीसरस्वत्युवाच -
वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते ।
बृहस्पतिरुवाच -
प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७॥
श्रीसरस्वत्युवाच -
दत्तं ती निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८॥
लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः ।
कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९॥
त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १०॥
॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम्
सम्पूर्णम् ॥
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
There is a similar version from stotrArNavaH 08-21
श्रीसरस्वतीस्तोत्रं सिद्धसारस्वतम्
बृहस्पतिरुवाच-
सरस्वति नमस्यामि चेतनाहृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनेस्त्वां ह्रीं ह्रीङ्कारप्रियां तथा ॥ १॥
मतिदां वरदां चैव सर्वकामफलप्रदाम् ।
केशवस्य प्रियां भायों वीणाहस्तां वरप्रदाम् ॥ २॥
ही ही मन्त्राम्प्रेयां हृद्यां कुमतिध्वंसकारिणीम् ।
स्वप्रकाशनिरालम्बामज्ञानतिमिरापहाम् ॥ ३॥
मोभप्रदां शुभां नित्यां शुभदा भुवनप्रियाम् ।
पद्मस्थितां कुण्डलिनी शुक्लवस्त्रां मनोरमाम् ॥ ४॥
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
नित्यवासस्थितां देवीं वागीशेन महात्मना ॥ ५॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभा ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ६॥
बृहस्पतिरुवाच-
प्रसन्ना भव हे देवि दिव्यज्ञानं प्रयच्छ मे ।
सरस्वत्युवाच-
वर्तते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन यो भक्त्या मां स्तुवन्ति सदा नरः ॥ ७॥
त्रिसन्ध्यं प्रयतो भूत्वा यः स्तुति पठते तथा ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८॥
प्रथमं भारती चैव द्वितीयं तु सरस्वती ।
तृतीयं शारदा देवी चतुर्थ कंसमर्दनी ॥ ९॥
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।
सप्तमं चैव वाराही ह्यष्टमं ब्रह्मचारिणी ॥ १०॥
नवमं चैव कामाक्षी दशमं ब्रह्मपुत्रिका ।
एकादशं तु लक्ष्मीस्तु द्वादशं सुरसुन्दरी ॥ ११॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
तस्य सारस्वतं चैव षण्मासादेव सिध्यति ॥ १२॥
सिद्भसारस्वतं सिद्धसारस्वतं नाम स्तोत्रं वक्ष्येऽहमुत्तमम् ।
उमा च भारती भद्रा वाणी च विजया जया ॥ १३॥
वाणी सर्वगता गौरी कामाक्षी कमलप्रिया ।
सरस्वती च कमला मातङ्गी चेतना शिवा ॥ १४॥
क्षेमङ्करी शिवानन्दी कुण्डली वैष्णवी तथा ।
ऐ इन्द्री मधुमती लक्ष्मीर्गिरिजा शाम्भवाम्बिका
तारा पद्मावती हंसा पनवासा मनोन्मणी ।
अपर्णा ललिता देवी कौमारी कबरी तथा ॥ १६॥
शाम्भवी मुमुखी नेत्री त्रिनेत्री विश्वरूपिणी ।
आर्या मृडानी हीङ्कारी साधनी सुमनाश्च हि ॥ १७॥
सूक्ष्मा परापरा कार्तस्वरवर्णा हरिप्रिया ।
ज्वालामालिनिका चर्चा कन्या च कमलासना ॥ १८॥
महालक्ष्मीर्महासिद्धिः स्वधा स्वाहा सुधामयी ।
त्रिलोकपावनी भी त्रिसन्ध्या त्रिपुरा त्रयी ॥ १९॥
त्रिशक्तिस्त्रिपुरा दुर्गा ब्राह्मी त्रैलोक्यमोहिनी ।
त्रिपुष्करत्रिवर्गादौ त्रिवर्णा त्रिस्वधामयी ॥ २०॥
त्रिगुणा निर्गुणा नित्या निर्विकारा निरञ्जना ।
कामाक्षी कामिनी कान्ता कामदा कलहंसगा ॥ २१॥
सहजा कालजा प्रज्ञा रमा मङ्गलसुन्दरी ।
वाग्विलासा विशालाक्षी सर्वविद्या सुमङ्गला ॥ २२॥
काली महेश्वरी चैव भैरवी भुवनेश्वरी ।
अष्टोत्तरशतं नाम्नां वाग्भत्रिळ चपुरार्जितम् ॥ २३॥
त्रिसन्ध्यं कीर्तयेद्यस्तु सर्वसिद्धिं लभेत सः ।
आयुरारोग्यमैश्वर्य सुख सम्पत्तिवर्धनम् ॥ २४॥
षट्कर्मसिद्धिदं स्तोत्रं साक्षात्रैलोक्यमोहनम् ।
सिद्धसारस्वतं चैव भवेद्विषयनाशनम् ॥ २५॥
॥ इति श्रीसरस्वतीस्तोत्रं सिद्धसारस्वतं सम्पूर्णम् ॥