श्रीसरस्वतिस्तोत्रम्
(शिखरिणीवृत्तम्)
लसे देवि! स्तोतुं तव विविधवैचित्र्यसुकृतिं
परं त्वेषा बुद्धिस्तव विमलशक्त्या न कलिता ।
सुवाग्धीधात्री! त्वद्घटितसुकृपापाङ्गनिरता
यदि स्याद्धे मातः! स्तुतिरिति तदानीं घटयति ॥ १॥
मतिर्मे वाणी वा भगवति! तवांशौ सुविमले!
महाब्धिस्तारङ्गैः स्फुटमसि तथा त्वञ्च सकलैः ।
भवत्प्रज्ञैकत्वं स्फुटतरविकास वितनुते
यदा बुद्धौ देवि! स्तुतिरिति तदानीं घटयति ॥ २॥
अविद्यायाः कार्यं कलुषयति मद्बुद्धिमभये!
न तस्यां हे देवि! स्फुटतरविभानं तव खलु ।
अपाकृत्य त्वं हे जननि! यदि तां भासि विमला
यदा नैवाज्ञानं स्तुतिरिति तदानीं घटयति ॥ ३॥
अविद्याया चैवं मम तनुरियं वा तनुरहं
अनेकाकारैर्वा जगदिदमहो मोहयति माम् ।
मनःकालुष्यं हे जननि! न च शक्यं कथयितुं
यदा शुद्धो बुद्धः स्तुतिरिति तदानीं घटयति ॥ ४॥
भयं चिन्ता दुःखं मम मतिमतिर्भ्रामयति यत्
द्रुतं त्वं प्रीत्या हे जननि! तव दिव्यामृतकरैः ।
निजं मामालिङ्ग्य त्वयि सुखनिधौ स्थापयसि चे-
दहं स्वान्तः शान्तः स्तुतिरिति तदानीं घटयति ॥ ५॥
अयि! त्वद्वाण्या मां भगवति! दयापूर्णनयने!
किल त्वं ब्रह्मासि त्वयि किमपि नो भेदभरितम् ।
यदैवं हे देवि! ह्युपदिशसि मामर्भकधिया
यदाहं मुक्तः स्यां स्तुतिरिति तदानीं घटयति ॥ ६॥
भवादुद्धर्त्रीं त्वां शरणमहमेवं गत इतो
भवाब्धेः पारं मां यदि नयसि वात्सल्यभरिते! ।
कृतं युक्तं मन्ये तदिह खलु चिह्नं तव शुभे! (तव शिवे!)
यदा त्वत्त्रातोऽहं स्तुतिरिति तदानीं घटयति ॥ ७॥
जनन्यां प्रीतिर्या भवति किल बालस्य तु यथा
न जानासि त्वं हे जननि! तव माता नहि यतः ।
अहो क्रोशन्तं मां प्रियनिजतनूजं न वहसे
यदा शान्तो मातः! स्तुतिरिति तदानीं घटयति ॥ ८॥
पृथिव्यां या माता वसति शिशुभिर्या परिवृता
रुषा पश्यन्त्येनान् रुदत इति सा नैति वहति ।
तथा त्वं नैवासि! ह्यमितकरुणापाङ्गनिभृता
यदा जाने मातः! स्तुतिरिति तदानीं घटयति ॥ ९॥
मदुक्तैर्दुर्वाक्यैरपि तु घनदोषैर्मुनिनुते
प्रमादात्त्वं क्रुद्धा यदि न दयया लालयसि माम् ।
अहं बालस्तावन्मदनुसरणं न त्वयि तथा
यदा ज्ञास्ये मातः! स्तुतिरिति तदानीं घटयति ॥ १०॥
समाधातुं मां त्वं यदि न च विजानासि शुभदे!
ब्रुवेऽहं त्वां मातः! श्रवणसुलभोपायमुचितम् ।
गृहीत्वा त्वद्वीणां ह्यतिमधुरकण्ठेन सदये
समाधेह्यन्तर्मां स्तुतिरिति तदानीं घटयति ॥ ११॥
जगन्मातः स्तोतुं भवति किल को वा मतियुतः (भवति खलु)
कृपापाङ्गो न स्याद्यदि मयि ततस्त्वं कुरु कृपाम् ।
अहं याचे मातर्मदभिलषिता पूरितधिया
यदा सर्वज्ञोऽस्मि स्तुतिरिति तदानीं घटयति ॥ १२॥
जगत्सत्यं नो वा भवति न च को वाऽस्य विषयः
इमौ कौ जीवेशौ जगदिदमनीशं किल न वा ।
इयं माया कस्मात्प्रभवति च भिन्नोत न च वा
न जाने हे मातः! स्तुतिरिति तदानीं घटयति ॥ १३॥ (न जाने मां शाधि)
मुमुक्षूणां मुक्त्यै त्वमिह खलु नान्योऽस्त्यघहरे!
प्रसिद्धं तद्यस्माज्जननि! वद कं यामि शरणम् ।
असौ कोऽपि ब्रह्मा हरिरपि शिवाद्याः सुरगणाः
निजब्रह्मैक्यार्थं जननि! तव भक्तिं विदधते ॥ १४॥
(शार्दूलविक्रीडितवृत्तम्)
अज्ञानां प्रतिभासि हे श्रुतिनुते! मायेति मोहप्रदा
सुज्ञानां प्रतिभासि सुष्टु चरतां ब्रह्मेति मोक्षप्रदा ।
ब्रह्मैकं तव दिव्यरूपममलं स्वानन्दमात्रं शिवं
मन्ये नित्यमपारसंसृतिभयात्परं नयस्वाधुना ॥ १५॥
(मालिनीवृत्तम्)
जयतु जयतु नित्यं शारदा वेदमाता
जयतु जयतु देवी ज्ञानदा मोक्षदा च ।
जयतु जयतु या श्रीस्सर्वदेवैरुपास्या
जयतु जयतु नित्यं भारती चित्स्वरूपा ॥ १६॥
य इदं पठति स्तोत्रं नित्यं भक्त्यानुपावनम् ।
सरस्वतीप्रसादेन विद्यावान् सम्भवेद्ध्रुवम् ॥
इति श्रीसमर्थरामदासानुगृहितरामपदकञ्जभृङ्गायमान
श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामिना विरचितं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ।
शारदा नवरात्री - रचनास्थानं - सिरसि संवत्सरः - १९४२
Proofread by Manish Gavkar