श्रीसरयू माहात्म्यम्
महारजदशरथ उवाच ।
मन्वन्तर सहस्त्रैस्तु काशीवासेन यत्फलम् ।
तत्फलं समवाप्नोति सरयू दर्शने कृते ॥ १॥
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम् ।
सा गतिः स्नान मात्रेण सरय्वां हरि वासरे ॥ २॥
पुष्करे तु नरो गत्वा कार्तिक्यां कृत्तिका दिने ।
तत्फलं समवाप्नोति सरयू दर्शने कृते ॥ ३॥
षष्ठि वर्ष सहस्राणि भागीरथ्यवगाहनात् ।
तत्फलं समवाप्नोति दृष्ट्वा दाशरथीं पुरीम् ॥ ४॥
निमिषन्निमिषार्धं वा प्राणिनां रामचिन्तनम् ।
यत्र कुत्रस्थितो जीवो ह्ययोध्यां मनसास्मरेत् ।
न तस्य पुनरावृत्तिः कल्पान्तर शतैरपि ॥ ५॥
जलरूपेण ब्रह्मैव सरयू मोक्षदा सदा ।
नैवात्र कर्मणां भोगो रामरूपो भवेन्नरः ॥ ६॥
इति श्रीसरयू माहात्म्यं सम्पूर्णम् ।
Encoded and proofread by Prabhav Tengse