सर्वकामप्रदा विद्यास्तोत्रम्
हरिरुवाच ।
सर्वकामप्रदां विद्यां सप्तरात्रेण तां शृणु ।
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥ १, १९५.१॥
प्रद्युम्नायानिरुद्धाय नमः सङ्गर्षणाय च ।
नमो विज्ञानमात्राय परमानन्दमूर्तये ॥ १, १९५.२॥
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ।
त्वद्रूपाणि च सर्वाणि तस्मात्तुभ्यं नमो नमः ॥ १, १९५.३॥
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये ।
यस्मिन्निदं यतश्चैतत्तिष्ठत्यग्रेऽपि जायते ॥ १, १९५.४॥
मृण्मयीं वहसि क्षोणीं तस्मै ते ब्रह्मणे नमः ।
यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिस्त्वं चरसि व्योमतुल्यं नमाम्यहम् ॥ १, १९५.५॥
ॐ नमो भगवते महापुराषाय महाभूतपतये
सकलसत्त्वभाविव्रीडनिकरकमलरेणूत्पलनिभधर्माख्यविद्यया
चरणारविन्दयुगल परमेष्ठिन्नमस्ते ।
अवाप विद्याधरतां चित्रकेतोश्च विद्यया ॥ १, १९५.६॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
पञ्चनवत्यधिकशततमोऽध्यायः ।
गरुडपुराण । पूर्वखण्ड । अध्याय १९५/१-६॥
garuDapurANa . pUrvakhaNDa . adhyAya 195/1-6..
Proofread by PSA Easwaran