श्रीसर्वमङ्गलामहाबलेश्वरस्तवः
(श्रीगोकर्णक्षेत्रे)
सर्वाणि मङ्गलान्यपि यत्त्वं प्रददासि नम्रजनतायै ।
तस्मादाख्या समभून्मातस्तव सर्वमङ्गलेत्येव ॥ १॥
मातुः सुतेषु करुणा सहजा न हि कारणान्तराद्भवति ।
रहितेऽपि भक्तिगन्धेनातनु करुणां मयीह करुणाब्धे ॥ २॥
पराङ्गनां नौमि सुराङ्गनेड्यां महेशवामाङ्कनिवासशीलाम् ।
परां हि सिद्धिं त्वरितं मनुष्याः प्रयान्ति यस्याः प्रणतेः कदाचित् ॥ ३॥
विलोक्य चन्द्रं हि चकोरमुख्याः प्रयान्ति तृप्तिं तु कदाचिदम्ब ।
तवास्यचद्रं तु विलोक्य नम्राः प्रयान्ति तृप्तिं न कदापि लोके ॥ ४॥
महाबलेशमाहात्म्यं वक्तुं शक्रोति कः पुमान् ।
यद्भयादर्यमाप्यस्य पश्चाद्भाग उदेष्यति ॥ ५॥
चित्रं तव चारित्रं मच्चित्ते भाति गौरीश ।
देवोऽपि महान्भूत्वा गोकर्णे वससि यस्मात्त्वम् ॥ ६॥
हारो भवतु हारोऽयमिति बुद्ध्या समर्पितः ।
त्वया हर गृहीतेऽस्मिन्हारत्वं नान्यथा खलु ॥ ७॥
हारेऽस्मिन्हारपदं रूढं जागर्ति यौगिकं नैव ।
परिगृह्य यौगिकं तत्सम्पादय पार्वतीनाथ ॥ ८॥
महाविभवदायक प्रणमतां जनानां द्रुतं
महाहरिमुखामरप्रणतपादपङ्केरुह ।
महाघतिमिरच्छटादिनमणे कृपाम्भोनिधे
महाबल महाप्रभो मयि कृपामपारां कुरु ॥ ९॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीसर्वमङ्गलामहाबलेश्वरस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran