श्रीसौभाग्यकवचम् २

श्रीसौभाग्यकवचम् २

ॐ श्रीगणेशाय नमः । श्रीगुरुभ्योनमः हरिः ॐ । कैलासशिखरे रम्ये सुखसीनं सुरार्चितम् । गिरीशं गिरिजा नत्वा स्तोत्रैर्वेदार्थगोचरैः ॥ १॥ प्रणम्य परया भक्त्या तमपृच्छत्कृताञ्जलिः । श्रीदेव्युवाच - रहस्यं रक्षणकरं सर्वसम्पत्करं वद ॥ २॥ ईश्वर उवाच - एतत्सौभाग्यकवचं रहस्यातिरहस्यकम् । सौभाग्यकवचं देवि श‍ृणु सौभाग्यदं परम् ॥ ३॥ (मूलविद्यया ऋष्यादिन्यासम्) ध्यानम् - शोणप्रभं सोमकलावतंसं पाणिस्फुरत्पञ्चशरेक्षुचापम् । प्राणप्रियं नौमि पिनाकपाणिं कोणत्रयस्थं कुलदैवतं मे ॥ इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् । उद्यत्सूर्यनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ अथ कवचम् । ॐ शिखायां सततं पातु महात्रिपुरसुन्दरी । शिरः कमेश्वरी नित्या तत्पूर्वाङ्गं भगमालिनी ॥ १॥ नित्यक्लिन्ना च तद्दक्षं भेरुण्डा पश्चिमं शिरः । वह्निवासिन्यस्य वामं वज्रेश्वर्यलकांस्तथा ॥ २॥ शिवदूती ललाटं च त्वरिता तस्य दक्षिणम् । तद्वामपार्श्वमवतात्तथैव कुलसुन्दरी ॥ ३॥ नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी । वामभ्रुवं च विजया नयनं सर्वमङ्गला ॥ ४॥ ज्वालामालिन्यक्षि वामं चित्रा रक्षतु नासिकाम् । दक्षश्रोत्रं तु गणपः स्वयं पातु महोद्यमः ॥ ५॥ दक्षसव्यन्तु बटुकः कपोलं क्षेत्रपालकः । दक्षनासापुटं दुर्गा तदन्यं पातु भारती ॥ ६॥ अणिमा दक्षिणं शङ्खं महिमा च तदन्यकम् । दक्षगण्डं तु गरिमा लधिमा चोत्तरं तथा ॥ ७॥ ऊर्ध्वमोष्ठं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् । ईषित्वमूर्ध्वदन्तांश्च वशित्वमधरांस्तथा ॥ ८॥ इछासिद्धिस्तु रसनां मोक्षसिद्धिस्तु तलुकम् । तालुमूलद्वयं ब्राह्मी माहेश्वर्यौत्तरक्षताम् ॥ ९॥ कुमारी चिबुकं पातु तदधः पातु वैष्णवी । कण्ठं रक्षतु वाराही इन्द्राणी रक्षतादधः ॥ १०॥ कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः । सर्वसंक्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् ॥ ११॥ तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् । आकर्षवश्यमुद्रे द्वे चोन्मादिन्यथ दक्षिणम् ॥ १२॥ भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् । वामकक्षं बीजमुद्रा योनिःस्थाद्दक्षबाहुकम् ॥ १३॥ लसत्त्रिखण्डिनी मुद्रा वामबाहुं प्रपालयेत् । कामाकर्षिणिका नित्यं रक्षताद्दक्षकूर्परम् ॥ १४॥ कूर्परं वाममवताद्बुध्याकर्षिणिका तथा । अहङ्काराकर्षिणी तु प्रकोष्ठं पातु दक्षिणम् ॥ १५॥ शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकावतु । तन्मध्यं दक्षिणं पातु रूपाकर्षिणिकेतरम् ॥ १६॥ रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् । गन्धाकर्षिणिका वामं चित्ताकर्षिणिकावतु ॥ १७॥ करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् । स्मृत्याकर्षिण्यसौ पाणिं नामाकर्षिणि दक्षिणम् ॥ १८॥ बीजाकर्षिण्यसौ पायात्सततं दक्षिणाङ्गुलीः । आत्माकर्षिण्यदक्षिण्याममृताकर्षिणी नखान् ॥ १९॥ शरीराकर्षिणी वामनखान् रक्षतु सर्वदा । अनङ्गकुसुमा शक्तिः पातु दक्षस्तनोपरि ॥ २०॥ अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु । अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः ॥ २१॥ रक्षतादनिशं देवी अनङ्गमदनातुरा । स्तनयोर्मध्यमं पायादनङ्गमदनातुरा अनङ्गरेखा वामञ्च वक्षोजं तस्य चूचुकम् ॥ २२॥ अनङ्गवेगिनी क्रोडामनङ्गस्याङ्कुशावतु । अनङ्गमालिनी पायाद्वक्षस्थलमहर्निशम् ॥ २३॥ सर्वसंक्षोभिणी हृच्च सर्वविद्राविणी परा । कुक्षिं सर्वाकर्षिणी पातु पातु पार्श्वं तु दक्षिणम् ॥ २४॥ आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी परा । सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी ॥ २५॥ वशङ्करी वस्तिदेशं कटिं सा सर्वरञ्जिनी । उन्मादिनी तु सर्वाद्या पायाज्जघनमण्डलम् ॥ २६॥ सर्वार्थसाधिनीशक्तिर्नितम्बं रक्षतादथ । दक्षस्फिचं सदा पातु सर्वसम्पत्प्रपूरिणी ॥ २७॥ सर्वमन्त्रमयीशक्तिः पातु वामस्फिचं मम । पायात्ककुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी ॥ ३१॥ सर्वसिद्धिप्रदा देवी वृषणं पातु दक्षिणम् । सर्वसम्पत्प्रदा देवी वृषणं पातु वामकम् ॥ ३२॥ सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा । मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी ॥ ३३॥ सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् । तयोर्मद्ध्यं सदा पातु सर्वकामफलप्रदा । पायात्तदन्यं देवी तु सर्वदुःखविमोचिनी ॥ ३४॥ सर्वमृत्युप्रशमनी देवी पातु गुदं मम । पातु देवी देहमद्ध्यं सर्वविघ्ननिवारिणी ॥ ३५॥ सर्वाङ्गसुन्दरी देवी रक्षताद्दक्षसक्थिकम् । वामसक्थितलं पायत्सर्वसौभाग्यदायिनी ॥ ३६॥ अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् । अन्यष्ठीवं सर्वशक्तिर्देवी पातु चिरं मम ॥ ३७॥ सर्वैश्वर्यप्रदा देवी दक्षजानुं सदावतु । सर्वज्ञानमयी देवी तदन्यज्जानु रक्षतु ॥ ३८॥ अव्यादियं दक्षजङ्घां सर्वव्याधिविनाशिनी । तदन्यं पातु देवी च सर्वाधारस्वरूपिणी ॥ ३९॥ सर्वपापहरा देवी दक्षगुल्भं सदावतु । सर्वानन्दमयी देवी वामगुल्फं सदावतु ॥ ४०॥ पार्ष्णिं मे दक्षिणं पायात्सर्वरक्षास्वरूपिणी । अव्यात्सव्यं सदा पार्ष्णिं सर्वेप्सितफलप्रदा ॥ ४१॥ दक्षाङ्घ्रिं वशिनी पातु पूर्वं वाग्देवता मम । सर्वकामेश्वरी पुर्वं सदा वाग्देवतोत्तरम् ॥ ४२॥ मोदिनी प्रपदं पातु दक्षिणं विमलेतरम् । अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला ॥ ४३॥ तदन्यं जयिनी पायात्सदा वाग्देवतेतरम् । दक्षपादलं सर्वेश्वरी वाग्देवता मुदा ॥ ४४॥ वामपादतलं पायात्कौलिनी देवता मम । कुर्वन्तु जृम्भणा बाणास्त्रैलोक्यकर्षणं मम ॥ ४५॥ मोहं संहरताद्दिक्षु कोदण्डं भृङ्गमौर्विकम् । करोतु सततं पाशी वशीकरणमुत्तमम् ॥ ४६॥ विदधात्वङ्कुशा नित्यं स्तम्भनं शत्रुसङ्गरे । पीठं मे कामरूपाख्या पातु कामान्निकामतः ॥ ४७॥ पूर्णं पूर्णगिरेः पीठं पायादर्थं मदीयकम् । जालन्धरस्य जालन्ध्रं पीठं रक्षतु मे सदा ॥ ४८॥ (/पूर्णं पुर्णागिरीपीठं पयादर्थं मदीयकम् ॥ ४८॥) सायुज्यं तनुतां प्राज्यं श्रीपीठं श्रीकरं मम । कामेश्वरी चात्मतत्त्वं रक्षेद्वज्रेश्वरी च माम् ॥ ४९॥ विद्यातत्त्वं शैवतत्त्वं पायाच्छ्री भगमालिनी । कामं छिन्द्यान्महाशत्रुममृतार्णवमासनम् ॥ ५०॥ क्रोधं बोधापहं हन्याद्रक्तपोताम्बुजासनम् । लोभं दिव्यासनं भिन्द्याद्देव्यात्मा दिव्यरूपभाक् ॥ ५१॥ मोहं संहरताच्चक्रं मदं मन्त्रासनं महत् । मात्सर्यं नाशयेन्नित्यं मम साध्यासनं जवात् ॥ ५२॥ आधारं त्रिपुरा रक्षेत्स्वाधिष्ठानं पुरेश्वरी । मणिपूरं मणिद्योतं पायात्त्रिपुरसुन्दरी ॥ ५३॥ अव्यादनाहतं भव्यं नित्यं त्रिपुरवासिनी । विशुद्धं त्रिपुराश्रीश्च आज्ञा त्रिपुरमालिनी ॥ ५४॥ इडां मे त्रिपुरा सिद्धा त्रिपुराम्बा च पिङ्गलाम् । सुषुम्नां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ५५॥ त्रैलोक्यमोहनं चक्रं रोमकूपांश्च पातु मे । सर्वाशापूरकं चक्रं सप्तधातूंश्च रक्षतु ॥ ५६॥ सर्वसंक्षोभणं चक्रं प्राणाद्यं वायुपञ्चकम् । सौभाग्यदायकं चक्रं नागाद्यानिलपञ्चकम् ॥ ५७॥ सर्वार्थसाधकं चान्तःकरणानां चतुष्टयम् । सर्वरक्षाकरं चक्रं पायात्पूर्तेष्टकं च मे ॥ ५८॥ सर्वरोगहरं चक्रं रक्षतान्मे गुणत्रयम् । सर्वसिद्धिप्रदं चक्रं ममाव्यात्कोशपञ्चकम् ॥ ५९॥ सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु । सौन्दर्यमन्मथः पायाद्रतिः पातु रतिं मम ॥ ६०॥ प्रीतिर्मे पातु सा प्रीतिरुत्साहं च वसन्तकः । सङ्कल्पं कल्पकोद्यानं महालक्ष्मीर्मम श्रियम् ॥ ६१॥ कान्तिं कपालिनी रक्षेन्मन्दिरं मम मन्डपम् । पुत्रान् शङ्खनिधिः पायाद्भार्यां पद्मनिधिस्तथा ॥ ६२॥ मार्गे मां भैरवी रक्षेन्मातङ्गी मुकुटं सदा । अष्टदिक्षु महेन्द्राद्याः सायुधाःपान्तु मां सदा ॥ ६३॥ पायादूर्ध्वदिशं ब्रह्मा विष्णुश्चक्रायुधो त्वधः । अनावृतानि स्थानानि कवचेन तु यानि मे ॥ ६४॥ तानि रक्षन्तु सततं शिवादि गुरवः क्रमात् । एतत्सौभाग्यकवचं स्वकरे यस्तु धारयेत् ॥ ६५॥ त्रिसन्ध्यं पठति प्रीत्या श‍ृणुयाद्वा समाहितः । तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः ॥ ६७॥ ब्रह्मवित्तु गिरीशेन्द्रकन्र्परविभिः समः । विहरत्खिलान् लोकान् सिद्धगन्धर्वसेवितः ॥ ६८॥ तस्य स्मरणमात्रेण महाभूतपिशाचकाः । कीटवत्प्रपलायन्ते कूषमाण्डा भैरवादयः ॥ ६९॥ तस्याङ्घ्रितोयपतनात् प्रशाम्यन्ति महारुजः । तत्पादकमलासक्तरजोलेशाभिमर्शनात् ॥ ७०॥ वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् । भूपालमहिला भूपाः किमु माया विमोहिताः ॥ ७१॥ इति श्रीवामकेश्वरतन्त्रे नित्या षोडशार्णवर सौभाग्यकवचं समाप्तम् । शुभमस्तु । श्रीशुभम् । The kavacha text has quite a few variations from the one already posted with detailed nyAsa. Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Saubhagyakavacham 2
% File name             : saubhAgyakavacham2.itx
% itxtitle              : saubhAgyakavacham 2 (vAmakeshvarantantrAntargatam)
% engtitle              : saubhAgyakavacham 2
% Category              : devii, kavacha, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : vAmakeshvarantantre nityAShoDashikArNave.  See other alternate edited version.
% Indexextra            : (Manuscripts 1, 2, alternate)
% Latest update         : March 7, 2020, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org