श्रीशारदाभुजङ्गप्रयातस्तवनम्
॥ दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव
नृसिंहभारती महास्वामिभिः विरचितम् ॥
ॐ स्मितोद्धूतराका निशानायकायै कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थ सत्यै नमः शारदायै ॥
भवाम्बोधिपारं न यन्त्यै स्वभक्तान् विनाऽयासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादि सम्सेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥
सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥
नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरंत्यै ।
स्मितेनेन्दु दर्पं च तोषां व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ॥
नतालीयदारिद्र्यदुःखापहन्त्र्यै तथाभीतिभूतादिबाधाहरायै ।
फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ॥
सुधाकुम्भमुद्राक्षमालाविराजत् करायै कराम्भोजसम्मर्दितायै ।
सुराणां वराणां सदा मानिनीनां मुदा सर्वदायै नमः शारदायै ॥
समस्तैश्च वेदैः सदागीतकीर्त्यै निराशान्तरङ्गाम्बुजात स्थितायै ।
पुराराति पद्माक्ष पद्मोद्भवाद्यैर्मुदा पूजितायै नमः शारदायै ॥
अविद्यापदुद्धार बद्धादरायै तथा बुद्धि सम्पत्प्रदानोत्सुकायै ।
नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यतत्यै नमः शारदायै ॥
पदाम्भोजनम्रान् कृतेभीतभीतान् द्रुतं मृत्युभीतेर्विमुक्तान् विधातुम् ।
सुधाकुम्भमुद्राक्षमाला करायै द्रुतं पाययित्वा यथा तृप्ति वाणी ॥
महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः ।
इति ख्यापनायानतानां कृपाब्धे सरोजान्यसंख्यानि धत्से किमम्ब ॥
शरच्चन्द्रनीकाशवस्त्रेणवीता कनद्भर्मयष्टेरहङ्कार भेत्री ।
किरीटं सताटङ्कमत्यन्तरम्यं वहन्ति हृदब्जे स्फुरत्वं सुमूर्तिः ॥
निगृह्याक्षवर्गं तपोवाणि कर्तुं न शक्नोमि यस्यादवश्याक्षवर्गः ।
ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ॥
विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् ।
यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रम्मदम्बाम् ॥
पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ शृङ्गपूर्वे प्रतिष्ठाप्य चक्रे ।
समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रम्मदम्बाम् ॥
भवाम्बोधिपारं नयन्तीं स्वभक्तान् भवाम्भोजनेत्राजसम्पूज्यमानाम् ।
भवद्भव्यभूताघ विध्वंसदक्षां भजे शारदाम्बामजस्रम्मदम्बाम् ॥
वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि ।
इति त्वं गिरां देवि मा ब्रूहि यस्मादघारण्यदावानलेति प्रसिद्धा ॥ ॐ ॥
Encoded by R. Harshananda harshanand\_16@rediffmail.com