श्रीशारदामाहात्म्यम्
ॐ अथ शारदामाहात्म्यम् ॥
भैरव्युवाच ।
वद सत्यं महादेव शारदावनमुत्तमम् ।
शाण्डिल्यो यत्र वै गत्वा सर्वान्कामानवाप्तवान् ॥ १॥
अनादिनिधना देवी यथा भूलोकमागमत् ।
शारदा नाम सा शक्तिस्त्रिधा रूपमधारयत् ॥ २॥
तस्या माहात्म्यमीशान वद लोकहितेप्सया ।
का च देवी परा यासौ शारदानामधारिणी ॥ ३॥
भैरव उवाच ।
शृणु वक्ष्ये महादेवि शारदावनमुत्तमम् ।
यस्य दर्शनमात्रेण परां सिद्धिमवाप्नुयात् ॥ ४॥
मातङ्गकन्यासङ्गाच्च सम्भूतस्तत्सरूपकः ।
शाण्डिल्यो नाम तनुजो महर्षेर्भावितात्मनः ॥ ५॥
श्यामाङ्गः स तमोरूपः पित्राज्ञप्तश्चचार ह ।
घोरं तपो महादेवि महादेवाद्रिसंनिधौ ॥ ६॥
जगत्त्राणादिकृच्छक्तिजपध्यानपरायणः ।
निराहारो यतात्मा स दध्यौ देवीं सनातनीम् ॥ ७॥
एवं तु ध्यायतस्तस्य शाण्डिल्यस्य महात्मनः ।
प्रादुर्बभूव तु महच्छ्यामलं तेज उत्तमम् ॥ ८॥
अद्भुतं तन्मुनिर्दृष्ट्वा विस्मितो न शशाक ह ।
किञ्चिद्वक्तुं चेष्टितुं वा स्थाणुभूतो महेश्वरि ॥ ९॥
क्षणेनान्तर्दधे तत्तु तेजः श्यामलमुत्तमम् ।
मुनिः स विस्मितो भूयः प्रेक्ष्यान्तर्धानमागतम् ॥ १०॥
सस्मार पितरं तत्र शाण्डिल्यो वन उत्तमे ।
तेनापि प्रेषितस्तत्र नारदो मुनिसत्तमः ॥ ११॥
आगत्य नारदः प्राह शाण्डिल्यं मुनिसत्तमम् ।
ध्यायस्व भूयो विप्राग्र्य येन दर्शनमाप्स्यसि ॥ १२॥
श्यामलां श्यामलाङ्गीं तां शक्तिं शक्तिमतोऽनघाम् ।
दृष्ट्वा तु तामघं सर्वं नाशमायाति तत्क्षणात् ॥ १३॥
इत्युक्त्वान्तर्दधे तत्र नारदो मुनिसंनिधौ ।
श्रुत्वा देवर्षिवचनं पुनर्दध्यौ सुरेश्वरि ॥ १४॥
शतवर्षं ध्यानपरः श्यामाङ्गीं दृष्टवान्मुनिः ।
नुत्वा स्तुत्वा च विधिना श्यामाङ्गीं तां सुरेश्वरि ॥ १५॥
सोवाच तं महाभाग वरं वरय सुव्रत ।
श्रुत्वा तु तद्वचः सौम्यं वरदा चेन्महेश्वरि ॥ १६॥
ममाङ्गात् सकलं पापं विलयं यातु तत्क्षणात् ।
इति श्रुत्वा वचस्तस्य शाण्डिल्यस्य महात्मनः ॥ १७॥
प्रोवाच श्यामला देवी पुत्र सर्वमवाप्स्यसि ।
इति गच्छ महाराष्ट्रं श्यामलं नाम नामतः ॥ १८॥
तत्र द्रक्ष्यसि तां देवीं शारदां त्रिविधात्मिकाम् ।
ततः प्राप्स्यसि स्वं रूपं ब्राह्ममेव न संशयः ॥ १९॥
इत्युक्त्वा शाण्डिल्यमुनिं देवी चान्तर्दधे तदा ।
स्मृत्वा वचो महादेव्याः श्यामलाया मुनीश्वरः ॥ २०॥
प्रतस्थे श्यामलं नाम विषयं सार्वकामिकम् ।
तत्र गत्वा मुनिर्ध्यानरतो घोषं समृद्धिदम् ॥ २१॥
घोषे ध्यात्वा महादेवीं ददर्शाग्रस्थितां सतीम् ।
स्तुता तत्र महेशानी अग्र एवादिशन्मुनिम् ॥ २२॥
इतोऽदूरे मुनिश्रेष्ठ शारदाया वनं महत् ।
तत्र प्रविष्टस्य मुनेस्तमो नश्यति तत्क्षणात् ॥ २३॥
तमोनाशे च स्वामेव प्रकृतिं प्राप्स्यसि ध्रुवम् ।
इत्युक्त्वान्तर्दधे देवी हयशीर्षाश्रमे मुनिः ॥ २४॥
ततो वनं समासाद्य कृष्णगङ्गां समाश्रयत् ।
दृष्ट्वा स्पृष्ट्वा च विधिवच्श्यामां गङ्गां महामुनिः ॥ २५॥
सुवर्णार्धाङ्गके गत्वा परं तत्र विसिस्मिये ।
सौवर्णार्धाङ्गस्तद्वीक्ष्य ययौ भूयो महेश्वरि ॥ २६॥
तत्र वै शाण्डिल्यमुनिः सुवर्णार्धाङ्ग ईक्षितः ।
स देशः प्रथितोऽद्यापि सुर्वर्णार्धाङ्गसंज्ञया ॥ २७॥
सुवर्णार्धाङ्गके देशे स्नानदानजपार्चनैः ।
पुण्यं प्राप्नोति मनुजो वेदपारायणे प्रिये ॥ २८॥
तस्मात्सर्वप्रयत्नेन सुवर्णार्धाङ्गके कलौ ।
स्नानं तत्र विशेषेण ब्रह्महत्यां व्यपोहति ॥ २९॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
स्नात्वा श्रीकृष्णगङ्गायां मुच्येज्जन्मशतोद्भवैः ॥ ३०।
ततस्तु गिरिमारुह्य मुनिः परमकारुणः ।
प्रतस्थे दर्शनाकाङ्क्षी देव्याः प्रापद्धि नाटकम् ॥ ३१॥
ददर्श नाटकं तत्र देवीनां विस्मितो मुनिः ।
नमस्कृत्य च देवीनां गणं रङ्गमुपेयिवान् ॥ ३२॥
देव्यस्तु दृष्ट्वा तत्रैव सुर्वर्णार्धाङ्गकं मुनिम् ।
परस्परमथोचुस्ताः सुवर्णार्धाङ्गको मुनिः ॥ ३३॥
सर्वाङ्गसुन्दरो भूत्वा गच्छेदिति न संशयः ।
तथेत्युक्त्वा महेशानि देवीनां गण उत्तमः ॥ ३४॥
नाट्यं कृत्वा तेन सह ततोऽन्तर्धानमागतः ॥
तत्र देवीगणं नाट्यपरं दृष्ट्वा स वै मुनिः ॥ ३५॥
तन्नालं प्रकटीभूतं रङ्गवाट्यां महेश्वरि ।
दृष्ट्वा देवीवनं तत्र रङ्गवाट्यभिधं परम् ॥ ३६॥
मुच्यते घोरपापौघैर्जन्मजन्मान्तरोद्भवैः ।
ततो दृष्ट्वाद्भुतं दिव्यं रङ्गवाटाभिधं वनम् ॥ ३७॥
गन्धर्वनगराकारं प्रतस्थे विस्मितो मुनिः ।
ततोऽग्रे तस्य देवेशि शाण्डिल्यस्य महामुनेः ॥ ३८॥
गोस्तम्भो ह्यभवत्तत्र रङ्गदर्शनविस्मितः ।
अनेलमूको ह्यभवद्यत्र वै विस्मितो मुनिः ॥ ३९॥
तद्वनं प्रथितं लोके गोस्तम्भनसमाख्यया ।
गोस्तम्भनवनं दृष्ट्वा स्नात्वा दत्त्वा यथाविधि ॥ ४०॥
मुच्यते घोरहत्याभिरिति सत्येन ते शपे ।
ततो ह्यनेलमूकः स मुनिः परमविस्मितः ॥ ४१॥
प्राप्य तेजवनं नाम गङ्गातीरे ददर्श सः ।
मुनिं गौतममासीनं गत्वा नत्वा च भूरिशः ॥ ४२॥
अनेलमूकं शाण्डिल्यमपृच्छत्कृपया मुनिः ।
दृष्टं किमद्भुतं ब्रह्मन् तत्र दिव्ये महावने ॥ ४३॥
शक्तिप्रसादात् प्राप्नोषि वरमेतन्न संशयः ।
तमोभूतस्तमोरूपस्तामसस्तामसोद्भवः ॥ ४४॥
सुवर्णाङ्गो भवान्यस्मात् संपन्नो दर्शनेन यः ।
स एवानेलमूकोऽसि विस्मयाद्द्विजसत्तम ॥ ४५॥
स्नानाच्च परमं तेजः स्थानं प्राप्स्यसि चोत्तमम् ।
श्रुत्वा तस्य वचो दिव्यं स्नात्वा पुण्ये च वारिणि ॥ ४६॥
गोस्तम्भान्मुक्तिमासाद्य तेजः परमवाप्तवान् ।
तत्तेजः परमं दृष्ट्वा मुनिः शाण्डिल्यनामकः ॥ ४७॥
गौतमं प्रत्युवाचैनं तेजस्वी परमादरात् ।
मुने कोऽयं प्रभावोऽस्ति क्षेत्रे यस्य प्रभावतः ॥ ४८॥
यस्य दर्शनतो जातं मम तेजः परं मुने ।
श्रुत्वा मुनेर्गौतमोऽपि वचस्तत्परमं प्रिये ॥ ४९॥
प्रत्युवाच मुनिं तत्र किमाश्चर्येण वै द्विज ।
इति श्रुत्वा प्रस्थितश्च भूयोऽग्रे सुरसुन्दरि ॥ ५०॥
यत्र मुक्तो महेशानि गोस्तम्भात्स मुनिः परः ।
तेजः परमकं प्राप स देशः पावनः स्मृतः ॥ ५१॥
तत्तत्तेजवनं नाम क्षेत्रं परमपावनम् ।
प्रयत्नेन तु तत्क्षेत्रे स्नातव्यममरेश्वरि ॥ ५२॥
मुच्यते घोरहत्याभिः स्नानध्यानजपार्चनैः ।
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ ५३॥
उत्तेजने महाक्षेत्रे मुच्यते घोरसङ्कटात् ।
उत्तेजनसमं क्षेत्रं दिवि भुव्यन्तरिक्षके ॥ ५४॥
घोरपापहरं दिव्यं न भूतं न भविष्यति ।
ततो गिरिं समारुह्य शाण्डिल्यः प्रस्थितो मुनिः ॥ ५५॥
दृष्ट्वाग्रे गणपं दिव्यं विघ्नकर्तारमीश्वरम् ।
प्रसादयित्वा देवेशं विघ्नानां नायकं परम् ॥ ५६॥
तदाज्ञया जगामाग्रे वनं पुण्यमतन्द्रितः ।
दृष्ट्वा पुण्यं वनं दिव्यं शारदाया महेश्वरि ।
तत्राचरत्तपो घोरं दिव्यवर्षसहस्रकम् ॥ ५७॥
दिव्यवर्षसहस्रान्ते श्रीशैलशिखरात्प्रिये ।
श्यामला धवला देवी रक्ता चाविर्बभूव ह ॥ ५८॥
दृष्ट्वा तु देवीं तां तत्र शारां वर्षसहस्रकम् ।
यस्माद्रक्ता च श्यामा च श्वेता च वरवर्णिनि ॥ ५९॥
तस्मात्प्रोक्ता पुराविद्भिः शारदानामनामतः ।
शिखराग्रे च दृष्ट्वा तां देवीं त्रिविधविग्रहाम् ॥ ६०॥
मुनिर्विस्मयमापन्नस्तस्थौ स्मरणतत्परः ।
शारीभूता यतो देवी दृष्टा ते नात्र संशयः ॥ ६१॥
ततः प्रोक्ता पुराविद्भिः शारदेति महेश्वरि ।
शरत्काले यतो देवी पूजिता सर्वजन्तुभिः ॥ ६२॥
ततः प्रोक्ता पुराविद्भिः शारदानामनामतः ।
शबलेति यतो देवि प्रोक्ता त्रिविधविग्रहा ॥ ६३॥
शारदा नारदा चैव वाग्देवीति च सोच्यते ।
नारदस्योपदेशेन या दृष्टा श्यामलाङ्गका ॥ ६४॥
सरस्वतीति सा प्रोक्ता वाक्स्तम्भान्मुच्यते यया ।
निर्मला या च मुनिना दृष्टा त्रिविधविग्रहा ॥ ६५॥
श्रीशैलशिखरे पुण्ये शारदेति मता च सा ।
दृष्ट्वा देवीं तत्र मुनिः प्रणनाम चिरं मुदा ॥ ६६॥
दण्डवत्पतितो भूत्वा गिरा परमयैडयत् ॥ ६७॥
श्रीशाण्डिल्य उवाच ।
देवीं चिदानन्दमयीमजस्रं विश्वात्मिकां विश्वपरां जयन्तीम् ।
तमोऽपहर्त्रीं मनसा परेशीं तां शारदाख्यां शरणं प्रपद्ये ॥ ६८॥
पापैः शबलितो यस्मान्मोचितोऽस्मि स्वभावतः ।
तस्मात्त्वां शारदां नाम प्रवदन्ति मनीषिणः ॥ ६९॥
चिद्विमर्शमहाशक्तिं परमानन्ददायिनीम् ।
शरणं देवदेवेशीं त्वामेव गतवानहम् ॥ ७०॥
रजस्तमोव्यक्तरूपामोमित्येकाक्षरात्मिकाम् ।
शरणं यामि तां देवीं शारदां शबलां पराम् ॥ ७१॥
अघोरां घोररूपां तां घोरघोरतरां शुभाम् ।
शर्वाणीं चाथ रुद्राणीं मृडानीं तां नमाम्यहम् ॥ ७२॥
शतरुद्रां परां नित्यां शारदां तां नतोऽस्म्यहम् ।
महाकालाग्निना ग्रस्तं जगत्त्रातुमिहोद्यता ॥ ७३॥
परास्वरूपां परमां शारदां तां नतोऽस्म्यहम् ।
महाकालाग्निरूपां तां सृष्टिसंहारकारिणीम् ॥ ७४॥
जगत्स्थितिकरीं देवी शारदां शरणं श्रये ।
श्यामां शबलितापाङ्गां शर्मदां भार्गवार्चिताम् ॥ ७५॥
नारदानुग्रहकरीं शारदां शरणं श्रये ।
वाक्स्तम्भमोचनीं भद्रां महदुत्तेजनीं पराम् ॥ ७६॥
गौतमेनार्चितां दुर्गां शारदां वरदां भजे ।
चिन्त्यामचिन्त्यां चेत्यां च चिद्विमर्शविधायिनीम् ॥ ७७॥
चिद्रूपां चारुनयनां शारदां शरणं श्रये ।
घोरकाननसंलीनां त्रिविधां त्रिस्वरूपिणीम् ॥ ७८॥
श्रीशैले त्रिपुटां देवीं शारदां तां भजामहे ।
कामक्रोधभयोन्मादग्रस्तमोक्षविधायिनीम् ॥ ७९॥
त्रिपुरां त्रिविधावासां शारदां नारदां भजे ।
भक्ताभयकरीं देवीं वरचापशराङ्किताम् ॥ ८०॥
त्रिशूलखट्वाङ्गधरां त्रिनेत्रां चारुहासिनीम् ।
षड्भुजां षड्गुणां रम्यां गुणातीतां गुणात्मिकाम् ॥ ८१॥
प्रकृतिं विकृतिं दिव्यां शारदां वरदां भजे ।
अतीतानागतां दिव्यां महामायास्वरूपिणीम् ॥ ८२॥
ब्रह्मविष्णुशिवातीतपर्यङ्कासनसंस्थिताम् ।
महामोहपरिग्रस्तां महामोहस्वरूपिणीम् ॥ ८३॥
मोहान्धितजनोद्धारां शारदां वरदां भजे ।
दीनानाथपरित्राणपरायणपरायणाम् ॥ ८४॥
मादृक्प्रपन्नपशुपाशविमोचनीं तां
सच्चिद्विमर्शविमलां परमार्थरूपाम् ।
मानप्रमातृरहितां स्थितिमप्रमेयां
तां शारदां भुवनकोशगतां नतोऽस्मि ॥ ८५॥
इति स्तुत्वा महादेवीं शाण्डिल्यः कानने शुभे ।
चकार स मुनिस्तत्र तपः पापनिबर्हणम् ॥ ८६॥
वायुभक्षो निराहारो देवीदर्शनलालसः ।
एवं सञ्चरतस्तस्य दुश्चरं परमं तपः ॥ ८७॥
जगाम सुमहान्कालो देवी प्रीता बभूव ह ।
अत्रोपहारं वक्ष्यामि तच्छृणुष्व सुरेश्वरि ॥ ८८॥
सा च देवी प्रतुष्येत पशुं दृष्ट्वा वार्ध्रीणसम् ।
पशुरपि परां मुक्तिं लभते नात्र संशयः ॥ ८९॥
वैष्णवोऽपि नरस्तत्र ब्राह्मणः क्षत्रियोऽथवा ।
वैश्यो वापि प्रकुर्वीत होमं पशुपुरःसरम् ॥ ९०॥
वैष्णवो नैव भुञ्जीत व्रतधारी तथैव च ।
मांसं वार्ध्रीणसस्यास्य न दोषस्तत्र विद्यते ॥ ९१॥
अमांसभोजनः शम्भुस्तुष्यते नात्र संशयः ।
देवी चापि सुरेशानि सदा प्रीतिकरा भवेत् ॥ ९२॥
मोदकैर्मत्स्यमांसैश्च गणनाथं प्रपूजयेत् ।
इत्येष पटलो गुह्यो पावनः प्रीतिवर्धनः ॥ ९३॥
तथा तपसि सक्तस्य प्रसन्नाभून्महेश्वरी ।
देवी दुर्वाससा सार्धं मुनिभिश्च समाययौ ॥ ९४॥
दृष्ट्वा देवीं पुरस्तत्र शाण्डिल्यो दण्डवत्क्षितौ ।
पपात पुनरुत्थाप्य देवी शाण्डिल्यमब्रवीत् ॥ ९५॥
श्रीशैलोपरि शाण्डिल्य मत्पार्श्वे तु चिरं वस ।
मद्दर्शनाच्च यत्पुण्यं तद्भवद्दर्शनादपि ॥ ९६॥
उत्तिष्ठ शीघ्रं पुत्र त्वं मत्पार्श्वे सन्निधिं कुरु ।
दास्यामि वेदांस्तत्रैव साङ्गानपि च पुत्रक ॥ ९७॥
त्रिसृणाश्चैव मोक्ष्यामि सत्यं जानीहि मानद ।
इत्युक्त्वा तत्र शाण्डिल्यं देवदेवी महेश्वरी ॥ ९८॥
तत्रैवान्तर्हिता भूत्वा श्रीशैलोपरिसंस्थिता ।
शाण्डिल्योऽपि ययौ तत्र यत्र देवी प्रतिष्ठिता ॥ ९९॥
गच्छतस्तस्य देवेशि शाण्डिल्यस्य महात्मनः ।
अर्धाङ्गं तु सुवर्णस्य बभूव किल सुन्दरि ॥ १००॥
अर्धाङ्गं तु सुवर्णस्य दृष्ट्वा हृष्टो भवन् मुनिः ।
विस्मयं परमं प्राप्तो मनसैतदचिन्तयत् ॥ १०१॥
किं ममाङ्गं सुवर्णस्य फलं कस्यैष कर्मणः ।
राष्ट्रस्य महिमा कोऽपि तथा तीर्थजलस्य च ॥ १०२॥
अथवा देवदेव्यास्तु शारदायाः प्रसादतः ।
इत्थं चिन्तयतस्तस्य शाण्डिल्यस्य महामुनेः ॥ १०३॥
विस्मितस्य महादेवि पितरो दृष्टिमागताः ।
दृष्ट्वा पितृगणांस्तत्र शाण्डिल्यः पुरतः स्थितान् ॥ १०४॥
उवाच विस्मितः के वै भवन्तः पुरतः स्थिताः ।
किमर्थमागता यूयं ब्रूतागमनकारणम् ॥ १०५॥
भवतां किङ्करश्चास्मि अविलम्बेन सत्तमाः ।
ब्रूतागमनकृत्यं मे समुद्युक्तोऽस्मि तत्कृते ॥ १०६॥
पितर ऊचुः ।
वयं ते पितरः पुत्र क्षीणाः स्मोऽथ चिरंसमाः ।
वर्णसङ्करजाद्दोषाच्छुद्धवर्णोऽसि सांप्रतम् ॥ १०७॥
अधुना पातुमिच्छामस्त्वत्त एव जलाञ्जलीन् ।
दातुमर्हसि नः पुत्र सिन्धौ श्राद्धमनुत्तमम् ॥ १०८॥
जलाञ्जलिमपीदानीमस्माकं तृप्तिकारणम् ।
योऽर्हः सन्नैव पितॄणां ददाति जलतर्पणम् ॥ १०९॥
श्राद्धं वापि मुनिश्रेष्ठ स दरिद्रः प्रजायते ।
निरपत्यः कुलच्छेदकारकश्चैव पुत्रक ॥ ११०॥
तस्मादार्यैः सदा देयः पितृभ्यस्तु जलाञ्जलिः ।
श्राद्धं मधुघृतैर्वापि फलैर्वा गुडपायसैः ॥ १११॥
तूष्णीं बभूवुर्देवेशि मुनिं प्रोच्य प्रहर्षिताः ।
पितरस्ते तदा सर्वे शाण्डिल्यं प्राञ्जलिं स्थितम् ॥ ११२॥
भैरव उवाच ।
श्रुत्वा तेषां वचः सौम्यं शाण्डिल्यश्चातिविस्मितः ।
उवाच पितॄन्संस्तुत्य वाचा परमया मुदा ॥ ११३॥
अधुनैव पितृगणाः सिन्धौ दास्यामि वो जलम् ।
वपनं तु करिष्यामि पितॄणां श्राद्धशुद्धये ॥ ११४॥
कृत्वा हि वपनं तत्र श्राद्धं कुर्वन्ति ये नराः ।
तृप्ताः स्युः पितरस्तेषां कर्तॄणां च महाफलम् ॥ ११५॥
इत्येवमुक्त्वा पितृभ्यस्तान्सन्तोष्य महातपाः ।
कृत्वा तु वपनं तत्र शाण्डिल्यो मुनिसत्तमः ॥ ११६॥
चकार विधिवच्छ्राद्धं पितृभ्यस्तृप्तिहेतवे ।
शाण्डिल्यश्चैव देवेभ्यः पितृभ्यश्च ददौ जलम् ॥ ११७॥
शाण्डिल्यहस्ताद्देवेशि महासिन्धुजलं तदा ।
क्षौद्रमेव बभूवाशु पितॄणां तृप्तिकारणम् ॥ ११८॥
सिन्धोः स्रोतो महादेवि मुनिहस्तगतं यदा ।
अर्धं क्षौद्रमयं जातं पितॄणां तृप्तिहेतवे ॥ ११९॥
यदाप्रभृति शाण्डिल्यः पितॄन्सन्तृप्तवान् जलैः ।
ततः सिन्धुप्रवाहस्य नामाभून्मधुमत्यपि ॥ १२०॥
सुवर्णो जगदीशानि शाण्डिल्यो नाम वै मुनिः ।
बभूव परमप्रीतः पितॄणां तृप्तिकारणम् ॥ १२१॥
ततोऽग्रे मधुमत्याश्च सिन्धोः सङ्गम एव च ।
स्नात्वा च वपनं कृत्वा श्राद्धं कृत्वा महेश्वरि ॥ १२२॥
साक्षाद्भूता महादेवी शाण्डिल्यमिदमब्रवीत् ।
भ्राजमानतनुं त्वां ये वनेऽमुष्मिन्प्रतिष्ठितम् ॥ १२३॥
मां चापि त्रिविधां चात्र ये पश्यन्ति नरोत्तमाः ।
ते सिद्धाः कथिताः पुत्र पापमुक्ता न संशयः ॥ १२४॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
क्षेत्रं पीठेश्वराख्यं च दृष्ट्वा मुच्येत किल्बिषैः ॥ १२५॥
इत्युक्त्वा तं मुनिं देवी तूष्णीमास महेश्वरि ।
तस्मात्सर्वप्रयत्नेन शारदावनमाश्रयेत् ॥ १२६॥
घोषं गत्वा च नुत्वा च घोषावासाञ्जनानपि ।
उपोष्य रजनीमेकां षट्तिस्रो द्वादशैव वा ॥ १२७॥
आह्वानार्चनपाद्यार्घ्यमधुपर्कैर्यथाक्रमम् ।
संपूज्य भोजयित्वा च मङ्गलोच्चारपूर्वकम् ॥ १२८॥
सुवर्णाङ्गं ततो गत्वा तेजनीसिन्धुसङ्गमे ।
वपनं विधिवत्कृत्वा श्राद्धं चैव यथाविधि ॥ १२९॥
शाण्डिल्यमधुमत्योश्च सङ्गमे लोकविश्रुते ।
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ॥ १३०॥
कुर्वन्ति संनिधानं च मासि भाद्रपदे सदा ।
शुक्लपक्षे चतुर्थ्यां च तथान्यासु च सर्वदा ॥ १३१॥
चतुर्दश्यां च शुक्लायां त्वत्प्रसादान्महेश्वरि ।
गोस्तम्भनमथाभ्यर्च्य प्रविशेन्मुनिकाननम् ॥ १३२॥
मुनिं दृष्ट्वा ततो देवि शारदां त्रिविधात्मिकाम् ।
संपूज्य परया भक्त्या धूपैः कुसुमचन्दनैः ॥ १३३॥
क्षीरखण्डाज्यधूपैश्च दीपैः कर्पूरवर्तिकैः ।
नैवेद्यैर्घृतपक्वैश्च बलिदानैरनेकशः ॥ १३४॥
पूजयेद्विधिना देवीं वस्त्रालङ्कारभूषणैः ।
कुमारीः पूजयेच्चापि तथा ब्राह्मणपूजनैः ॥ १३५॥
गोदानैरश्वदानैश्च कन्थावस्त्रान्नभूषणैः ।
अक्षयं फलमाप्नोति सत्यं सत्यं वरानने ॥ १३६॥
अपुत्रिणः पुत्रान्योग्यान्निर्धनाश्च धनं बहु ।
मूर्खश्च शोभनां विद्यां रोगिणः स्वास्थ्यमाप्नुयुः ॥ १३७॥
स्वर्गं च नरकाद्भीतास्तथा मोक्षं मुमुक्षवः ।
शारदां गन्तुकामस्य गृहात्प्रभृति सुन्दरि ॥ १३८॥
पदानि क्रममाणस्य यावन्तो भूमिरेणवः ।
पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ १३९॥
उपोष्य रजनीमेकां तिस्रः षड्द्वादशैव वा ।
आह्वानार्चनपाद्यार्घ्यमधुपर्कैर्यथाक्रमम् ॥ १४०॥
नृत्तगीतैस्तथा वाद्यैर्भोगैर्दानैस्तथा गृहैः ।
हस्त्यश्वरथयानैश्च वासोभिः शयनैस्तथा ॥ १४१॥
शारदाक्षेत्रमाहात्म्यं नालं वक्तुं चतुर्मुखः ।
शेषो नालं फलं वक्तुं प्रभावं चापि सुन्दरि ॥ १४२॥
इति तत्कथितं तुभ्यं यत्पृष्टोऽहमिति त्वया ।
अधुना देवदेवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १४३॥
इत्येष पटलो गुह्यो महापातकहा कलौ ।
श्रुत्वा पठित्वा मुच्येत कोटिजन्मभवादघात् ॥ १४४॥
इति श्रीभृङ्गीशसंहितायामुत्तरविषयोपजाततीर्थसङ्ग्रहे
शारदामाहात्म्यं समाप्तम् ॥
Shankara processed.
Proofread by P. P. Narayanaswami swami at mun.ca, PSA Easwaran