शारदाम्बाष्टकम्
गौरीरमासन्नमनीयदेहां वेदोक्तसद्ब्रह्मविचारसाराम् ।
धर्मार्थकामाञ्झटितिप्रदात्रीं मोक्षस्वरूपां प्रणमामि देवीम् ॥ १॥
संसृतिसागरसन्तरणोडुपनादविनोदकवाद्यकरां
केकयराट्तनुजामतिहारकविग्रहमञ्जुलदेवनुताम् ।
ब्रह्महृदि त्रिजगज्जनितुं सुनिषण्णसुमङ्गलरूपधृतां
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ २॥
साधकसाधनसाध्यसमन्वितमूर्तिमहं इति सारविदां
क्रोधमदप्रतियत्नरतिप्रमदांश्च कुमत्सरताम्मथनीम् ।
आविधिसूक्ष्मसचेतनसंहननान्तसमग्रजगत्सुतिनीं
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ३॥
शिञ्जितमञ्जररुक्मनिबन्धितमाल्यविभूषितकण्ठयुतां
कङ्कणशोभितहस्तचतुष्टयवर्णचतुष्टयधीददिताम् ।
संसृतिसंस्थितिसंहरणातिकृतीकरयुक्तशरीरयुतां
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ४॥
ब्रह्मविचाररतेषु ययाऽवगमः झरवत्प्रवहत्यनिशं
तां प्रणमामि हि पञ्चदशाक्षरमन्त्रविभूषितदेहमहम् ।
रङ्गविरङ्गितहारविरञ्जितदिव्यकुचां घटवद्धृदयां
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ५॥
कुञ्जरगामिनि शारदचन्द्रविभासिनि रुद्रसहोदरि ते
पादसरोजरजं कलये हृदयेऽहमधीरपतिः नितराम् ।
सत्कुलकामिनि कुण्डलिनि प्रमदेश्वरि सुस्वरसम्मुदिते
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ६॥
शृङ्गधरोपरिसन्निवसस्यखिलाण्डविधायिनि वेदनुते
मोक्षकवाटवितण्डसमुद्घटनातुरहस्तसरोजशुभे ।
अर्कविमण्डलमध्यविराजितसद्यतिमण्डलसद्विनुते
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ७॥
विश्रुतवाक्त्रयमध्यविलासकरीं सततं परलास्यकरीं
योगरतैरपचायितनित्यपरेतिपरिष्कृतवाक्परमाम् ।
विश्वजगत्प्रतिभासितवाद्यरवेषु च वेदरवेषु वसन्
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ८॥
माधुरसुस्मितविश्वविमोहनकारणतारणसारविदां
सत्यकचुम्बितबिम्बसुमेनसमं शुभदच्छदसम्मृदुलाम् ।
सृष्टिविधायकशक्तिसमुद्भवकारकसञ्चितरूपधृतां
बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम् ॥ ९॥
इति शारदाम्बाष्टकं सम्पूर्णम् ।
Composed, encoded and proofread by Priyanshu priyanshu12406 at gmail.com