श्रीशारदापञ्चकम्
विश्वात्मिके! वन्दितपादपद्मे! हंसाऽऽसनेऽज्ञानचयं धुनाने! ।
गीताञ्चिते! हारयुते! सवीणे! श्रीशारदे! मत्प्रणतिं गृहाण ॥ १॥
विद्याधनोद्भ्राजितभूरिभारे! प्रफुल्लिते! मञ्जुलकुन्दहासे! ।
काव्यामृताम्भोधिसुभव्यवासे! भद्रं निदध्या ननु सेवकानाम् ॥ २॥
मातस्त्वदीये नलिनाङ्घ्रियुग्मे नित्यं वयं दीनमुखाः स्तुवन्तः! ।
शातप्रिये! दुःखमवेक्ष्य गाढं नाऽस्नं कथं ते सहसाऽऽयताक्ष्णोः ॥ ३॥
देशान्तरादत्र समागतानां बन्धून् विना हा! हतभाग्यकानाम् ।
मातस्तवावाप्तिकृतव्रतानां दृष्ट्वा दशां नः करुणा कथं न ? ॥ ४॥
याऽऽसीत् कृपा ते ननु कालिदासे या वा कृपा मण्डनमिश्रपत्न्याम् ।
मातः! कृपा सा यदि भक्तवर्गे लोके तदा ते महिमावलिः स्यात् ॥ ५॥
इति श्रीशारदापञ्चकं सम्पूर्णम् ।
रचयिता - साहित्याचर्यः, पाण्डेय श्री कुसुमाकरशर्मा आयुर्वेद शास्त्री
(आयुर्वेदिककाॅलेज, पटना, (१९८७)।
Encoded and proofread by Anuj Tiwari