श्रीशारदास्तोत्रम् २
वाग्देवते ! भक्तिमतां स्वशक्तिकलापवित्रा सितविग्रहा मे ।
बोधं विशुद्धं भवती विधत्तां कलापवित्रा सितविग्रहा मे ॥ १॥
अङ्कप्रवीणा कलहंसपत्रा कृतस्मरेणानमतां निहन्तुम् ।
अङ्कप्रविणा कलहंसपत्रा सरस्वती शश्वदपोहतां वः ॥ २॥
ब्राह्मि विजेषाष्ठ विनिन्द्रकुन्दप्रभावदाता घनगर्जितस्य !
स्वरेण जैत्री ऋतुना स्वकीय प्रभावदाता घनर्गर्जितस्य ॥ ३॥
मुक्ताक्षमालालसदौषधीशाऽभिशूजजवला भाति करे त्वदीये ।
मुक्ताक्षमालालसदौषधीशा यां प्रेक्ष्य भेजे मुनयोऽपि हर्षम् ॥ ४॥
ज्ञानं प्रदातुं प्रवणा ममातिशयालुनानाभवपातकानि ।
त्वं नेमुषां भारति ! पुण्डरीकशयालु नानाभवपातकानि ॥ ५॥
प्रौढप्रभावासमपुस्तकेनः द्याताऽसि येनाम्ब ! विराजिहस्ता ।
प्रौढप्रभावासमपुस्तकेन विद्यासुघापूरमदूरदुःखा ॥ ६॥
तुभ्यं प्रणामः क्रियते न येन मरालयेन प्रमदेन मातः ।
कीर्ति प्रतापौ भुवि तस्य नम्रमरालयेन प्रमदेन मातः ॥ ७॥
रूच्चारविन्दभ्रमदं करोति, वेलं यदीयोऽर्चति तेऽङ्घ्रियुग्मम् ।
रूच्चारविन्दभ्रमदं करोति स स्वस्थ गोष्ठीं विदूषां प्रविश्य ॥ ८॥
पादप्रसादात् वद्रव रूप-सम्पत्लेखाभिरामोदितमानवेशः ।
भवेन्नरः सूक्तिभिरम्ब ! चित्रोल्लेखाभिरामोदितमानवेशः ॥ ९॥
सितांशुकान्ते नयनाभिरामामूर्ति समाराध्य भवेन्मनुष्यः ।
सितांशुकानन्ते नयनाभिरामान्धकारसूर्यः क्षितिपावतंसः ॥ १०॥
येन स्थितं त्वामनु सर्वतीर्थ्यैः सभाजिता मानतमस्तकेन ।
दुर्वादिनां निर्दलितं नरेन्द्रसभाजिता मानतमस्तकेन ॥ ११॥
सर्वज्ञवक्त्रवरमारसाङ्कलीना
मालिं घ्नती प्रणयमन्थरया दशैव ।
सर्वज्ञवक्त्रवरतामरसाङ्कलीना
प्रीणात् विश्रुतयशाः श्रुतदेवता नः ॥ १२॥
कॢप्तस्तुतिर्निबिडभक्तिजडत्वपृक्तै-
र्गुम्फैर्गिरामिति गिराभधिदेवता सा ।
बालऽनुकम्प्य इति रोपयतु प्रसाद-
स्मेरा दृशं मयि जिनप्रभसूरिवर्ण्या ॥ १३॥
॥ इति श्रीशारदास्तोत्रं (२) सम्पूर्णम् ॥
Encoded and proofread by DPD