श्री-शारदा-स्वर्णरथ-समर्पण-पद्यावलिः
श्रीशङ्करगुरूत्तंससमर्चितपदाम्बुजे ।
शारदे रथमारोह सौवर्णं सर्वमङ्गले ॥ १॥
स्वर्गादिसुखसन्दात्रि स्वर्णसच्छायविग्रहे ।
स्वर्णस्यन्दनमारुह्य सर्वान् पालय शारदे ॥ २॥
भक्तिप्रिये भद्रदात्रि भक्तानामभयप्रदे ।
भक्त्या समर्पयाम्येनं जाम्बूनदमयं रथम् ॥ ३॥
हिरण्यगर्भवामाङ्गि हरिदश्वादिसेविते ।
हिरण्यरथमारोह हिताय जगतां सदा ॥ ४॥
कनकाभरणैर्युक्ते कविताविभवप्रदे ।
कार्तस्वरमयं मातः आरोह रथमुत्तमम् ॥ ५॥
इति श्री-शारदा-स्वर्णरथ-समर्पण-पद्यावलिः सम्पूर्णा ।