शारिकाकवचम्

शारिकाकवचम्

ॐ श्रीगणेशाय नमः । अथ श्रीशारिकाभगवतीकवचस्य विनियोगः । अस्य श्रीशारिकाभगवतीकवचस्य श्रीभैरव ऋषिः । त्रिष्टुप्छन्दः । त्रैलोक्यमोहनेश्वरी शारिकाभगवती देवता । शां बीजम् । श्रीं शक्तिः । फ्रां कीलकम् । त्रैलोक्यमोहनकवचपाठे विनियोगः ॥ भैरवऋषये नमः शिरसि । त्रिष्टुप्छन्दसे नमो मुखे । श्रीशारिकादेवतायै नमो हृदि । शां बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये । फ्रां कीलकाय नमः पादयोः । त्रैलोक्यमोहनकवचविनियोगाय नमः सर्वाङ्गेषु । शामिति षड्दीर्घयुक्तबीजेन करषडङ्गन्यासौ कृत्वा ध्यायेत् ॥ ॥ मातृकान्यासः ॥ ॐ अं नमः शिरसि । ॐ आं नमः मुखे । ॐ इं नमः दक्षिणनेत्रे । ॐ ईं नमः वामनेत्रे । ॐ उं नमः दक्षिणकर्णे । ॐ ऊं नमः वामकर्णे । ॐ ऋं नमः दक्षिणनासापुटे । ॐ ॠं नमः वामनासापुटे । ॐ ऌं नमः दक्षिणगण्डे । ॐ ॡं नमः वामगण्डे । ॐ एं नमः ओष्ठे । ॐ ऐं नमः अधरोष्ठे । ॐ ओं नमः दन्तपङ्क्तौ । ॐ औं नमः जिह्वायाम् । ॐ अं नमः कण्ठे । ॐ अः नमः हृदये । ॐ कं नमः दक्षिणबाहुमूले । ॐ खं नमः दक्षिणकूर्परे । ॐ गं नमः दक्षिणमणिबन्धे । ॐ घं नमः दक्षिणाङ्गुलिमूले । ॐ ङं नमः दक्षिणाङ्गुल्यग्रेषु । ॐ चं नमः वामबाहुमूले । ॐ छं नमः वामकूर्परे । ॐ जं नमः वाममणिबन्धे । ॐ झं नमः वामाङ्गुलिमूले । ॐ ञं नमः वामाङ्गुल्यग्रेषु । ॐ टं नमः दक्षिणपादमूले । ॐ ठं नमः दक्षिणजानुनि । ॐ डं नमः दक्षिणगुल्फे । ॐ ढं नमः दक्षिणपादाङ्गुलिमूले । ॐ णं नमः दक्षिणपादाङ्गुल्यग्रेषु । ॐ तं नमः वामपादमूले । ॐ थं नमः वामजानुनि । ॐ दं नमः वामगुल्फे । ॐ धं नमः वामपादाङ्गुलिमूले । ॐ नं नमः वामपादाङ्गुल्यग्रेषु । ॐ पं नमः दक्षिणपार्श्वे । ॐ फं नमः वामपार्श्वे । ॐ बं नमः पृष्ठे । ॐ भं नमः नाभौ । ॐ मं नमः उदरे । ॐ यं नमः हृदये । ॐ रं नमः कण्ठे । ॐ लं नमः मुखे । ॐ वं नमः जिह्वायाम् । ॐ शं नमः दक्षिणस्कन्धे । ॐ षं नमः वामस्कन्धे । ॐ सं नमः हृदयदेशे । ॐ हं नमः नाभौ । ॐ ळं नमः ललाटे । ॐ क्षं नमः सर्वाङ्गे ॥ ॥ षडङ्गन्यासः ॥ ॐ ह्रीं शारिकायै हृदयाय नमः । ॐ ह्रीं शारिकायै शिरसे स्वाहा । ॐ ह्रीं शारिकायै शिखायै वषट् । ॐ ह्रीं शारिकायै कवचाय हुम् । ॐ ह्रीं शारिकायै नेत्रत्रयाय वौषट् । ॐ ह्रीं शारिकायै अस्त्राय फट् ॥ ॥ मातृकाकरन्यासः ॥ ॐ अं कं खं गं घं ङं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं ञं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं मध्यमाभ्यां नमः । ॐ एं तं थं दं धं नं अनामिकाभ्यां नमः । ॐ ओं पं फं बं भं मं कनिष्ठिकाभ्यां नमः । ॐ अः यं रं लं वं शं षं सं हं ळं क्षं करतलकरपृष्ठाभ्यां नमः ॥ ॥ लं इत्यादि पञ्चोपचारपूजा ॥ लं पृथिवीतत्त्वात्मिकायै शारिकायै गन्धं समर्पयामि । वं जलतत्त्वात्मिकायै शारिकायै नैवेद्यं समर्पयामि । रं वह्नितत्त्वात्मिकायै शारिकायै दीपं दर्शयामि । यं वायुतत्त्वात्मिकायै शारिकायै धूपमाघ्रापयामि । हं आकाशतत्त्वात्मिकायै शारिकायै पुष्पं समर्पयामि । ॐ ऐं ह्रीं श्रीं शारिकायै नमः ॥ ॥ श्रीशारिकाध्यानम् ॥ सिन्दूरारुणदेहां त्रिनयनयुतां विद्युत्प्रभां शोभमानां शूलं खड्गं च पाशं डमरुकसहितं दक्षिणे बिभ्रतीं ताम् । खेटं चर्मं च पात्रं वरदभयकरां वामहस्तेषु दिव्यां शारिकां शङ्कराराध्यां प्रणतभयहरां भावये हृद्यमध्ये ॥ बालार्कद्युतिदीप्तवक्त्रकमलां माणिक्यमौलिस्रजं हस्तैः पाशाङ्कुशाभीष्टवरदां शूलं च बिभ्रतीम् । भक्ताभीष्टफलप्रदां त्रिनयनां सिंहासनाध्यासिनीं ध्यायेत् शारिकमम्बिकां त्रिभुवनेश्वरीं सिद्धिदाम् ॥ श्रीशङ्खचक्रमुसलाम्बुजयुग्महस्तां नागेन्द्रहारवलयां सितकण्ठमाल्याम् । सिन्दूरकुङ्कुमसहस्रमरीचिदीप्तिं श्रीशारिका त्रिनयनां हृदये स्मरामि ॥ अथ शारिकाकवचम् । श्रीभैरव उवाच - ॐ अधुना श‍ृणु देवेशि शारिकाकवचं परम् । त्रैलोक्यमोहनं नाम मूलमन्त्रमयं परम् ॥ १॥ अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् । सर्वापत्तारणं दिव्यं सर्वसिद्धिप्रदं कलौ ॥ २॥ सर्वस्वं मे रहस्यं मे परमं परमाद्भुतम् । धारणादस्य देवेशि विष्णुना स जलोद्भवः ॥ ३॥ दानवेन्द्रो हतः शीघ्रमन्धकारो यथेन्दुना । मयापि त्रिपुराध्यक्षो दानवो जिष्णुना बलः ॥ ४॥ जम्भो वृत्रासुरो देवि प्रभावादस्य वर्मणः । कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः ॥ ५॥ त्रिष्टुप्छन्दो देवता च त्रैलोक्यमोहिनीश्वरी । शारिका शर्म बीजं च माशक्तिः कीलकं गजः ॥ ६॥ त्रैलोक्यमोहविद्यार्थे विनियोगः प्रकीर्तितः । ॐ मे दुर्गा शिरः पायादेकाक्षरविभूषणा ॥ ७॥ ॐ ह्रीं चण्डी ललाटं मे जगदुल्लासरूपिणी । ॐ ह्रीं श्रीं त्र्यक्षरा पातु भ्रुवौ मे भगमालिनी ॥ ८॥ ॐ ह्रीं श्रीं हूं च नेत्रेऽव्यात्सर्वमङ्गलमङ्गला । ॐ ह्रीं श्रीं हूं फ्रामऽव्यान्मे श्रुती शङ्करवल्लभा ॥ ९॥ ॐ ह्रीं श्रीं हूं फ्रां आं पातु नासां नारायणेश्वरी । ॐ ह्रीं श्रीं हूं फ्रां आं शां मे पातु वक्त्रं सरस्वती ॥ १०॥ अं आं इं ईं रदान्पातु मातृका शेखरेश्वरी । उं ऊं ऋं ॠं ऌं ॡं एं ऐं पायादोष्ठौ भवप्रिया ॥ ११॥ ॐ औं अं अः गलं पातु नीलकण्ठासनेश्वरी । कं खं गं घं ङं मे पातु स्कन्धौ स्कन्दसमर्चिता ॥ १२॥ चं छं जं झं ञं मे पायाद्वक्षो वामप्रियाम्बिका । टं ठं डं ढं णं मे पायात्पार्श्वौ पर्वतनन्दिनी ॥ १३॥ तं थं दं धं नं मे पातु कुक्षिं कुलाकुलेश्वरी । पं फं बं भं मं मे पातु नाभिं नारदसेविता ॥ १४॥ यं रं लं वं गुदं पातु गुह्यकेश्वरपूजिता । शं षं सं हं कटिं पातु देवी कात्यायनी तथा ॥ १५॥ ळं क्षः ऊरू सदा पातु सर्वसारस्वतप्रदा । ॐ शां जानू शिवा पातु ॐ आं जङ्घेऽवतादुमा ॥ १६॥ ॐ फ्रां पादौ सदा पातु राजमातङ्गिनी मम । ॐ हूं पादादिमूर्धान्तं वपुर्मे पातु कुब्जिका ॥ १७॥ ॐ श्रीं मूर्धादिपादान्तं वपुर्मे, पातु शारदा । ॐ ह्रीं सप्ताक्षरीपातु शारिका सकलं वपुः ॥ १८॥ पूर्वे मां पातु ब्रह्माणी वह्नौ मे वैष्णवी सदा । दक्षिणेऽवतु मां चण्डी नैरृते मेऽपराजिता ॥ १९॥ पश्चिमेऽवतु कौमारी वायव्ये शाम्भवी च माम् । वाराही चोत्तरे पायादीशाने नारसिंहिका ॥ २०॥ प्रभाते मामुमा पातु मध्ये कामाऽवताच्च माम् । चार्वङ्गी मां दिनान्तेऽव्यान्निशादौ टङ्कधारिणी ॥ २१॥ निशीथेऽव्यादुग्रतारा निशान्ते पार्वती च माम् । सर्वत्र यक्षिणी पातु शिवा मां पातु सर्वदा ॥ २२॥ असिताङ्गः क्षितेः पातु रुरुर्मां पातु पाथसः । चण्डो मां पातु मरुतः क्रोधोऽव्यान्मां हुताशनात् ॥ २३॥ उन्मत्तः सोमतः पातु कपाली सूर्यतोऽवतु । भीषणो यज्ञविघ्नात्तु संहारः शून्यमण्डलात् ॥ २४॥ रणे मां कालिका पातु द्यूते त्रिपुरसुन्दरी । दुर्गाऽवतु विवादे वा श्रीचक्रं सर्वदाऽवतु ॥ २५॥ सर्वत्र सर्वदा देवी पातु मां शारिका परा । धनं पुत्रं सुतान्दारान्गृहं यद्यत्तु मामकम् । तत्तन्मम शिवः पातु वामदेवो चिदीश्वरः ॥ २६॥ इत्येतत्कवचं दिव्यं त्रिषु लोकेषु दुर्लभम् । त्रैलोक्यमोहनं नाम शारिकाया रहस्यकम् ॥ २७॥ विनाऽमुना न सिद्धिः स्यात्कवचेन्द्रेण पार्वति । कोटिलक्ष्यप्रजप्तस्य मन्त्रस्याऽस्य महेश्वरि ॥ २८॥ तस्मात्पठेच्छिवे वर्म मनुगर्भमनुक्षणम् । सर्वोत्पातप्रशमनं बलबुद्धिप्रवर्धनम् ॥ २९॥ परमानन्ददं लोके परमैश्वर्यकारणम् । यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ ३०॥ स एव भैरवाध्यक्षस्त्रैलोक्यविजयी विभुः । रवौ भूर्जे लिखेद्वर्म स्वयम्भूकुसुमस्रजा ॥ ३१॥ कुसुमेनाष्ठगन्धेन स्तन्येन निजरेतसा । धारयेन्मूर्ध्नि वा बाहौ प्राप्नुयात्परमां गतिम् ॥ ३२॥ धनकामी लभेद्वित्तं पुत्रकामी लभेत्प्रजाम् । रणे रिपून्नरो हत्वा कल्याणी गृहमाविशेत् ॥ ३३॥ धृत्वा वक्षसि देवेशि वाग्मित्वं जायते क्षणात् । वन्ध्या च काकवन्ध्या च मृतवत्सा लभेत्सुतान् ॥ ३४॥ मार्काण्डेयायुषो देवि साक्षाद्वैश्रवणोपमान् । किं किं न लभते मर्त्यः पठन्कवचमुत्तमम् ॥ ३५॥ यः पठेदर्धरात्रे तु श्मशाने मुक्तकुन्तलः । पीत्वा शीधुं स देवेशि देवीदर्शनमाप्नुयात् ॥ ३६॥ स्तम्भयेद्भास्करं वायुं मोहयेत्त्रिजगद्ध्रुवम् । बहु किं कथ्यतां तस्य कवचस्याऽस्य धारणात् ॥ ३७॥ पठणाच्छ्रवणाद्वापि स भवेद्भैरवोपमः । इतीदं कवचं देवि त्रैलोक्यवश्यकारणम् ॥ ३८॥ त्रैलोक्यमोहनं नाम गोपनीयं सुरेश्वरि । यस्य कस्य न दातव्यं विना शिष्येण पार्वति ॥ ३९॥ दीक्षिताय कुलीनाय दत्त्वा मोक्षमवाप्नुयात् । विना दानं न गृह्णीयान्नदद्याद्दक्षिणां विना ॥ ४०॥ दत्त्वा गृहीत्वाऽप्युभयोः सिद्धिहानिर्भवेद्ध्रुवम् । अन्यथा यस्तु गृह्णीयाद्दद्याद्वा कवचेश्वरम् ॥ ४१॥ पुत्रान्दारान्सुताँश्चैव योगिन्यो भक्षयन्ति तम् । अज्ञात्वा कवचं देवि पूजयेच्छ्रीशिलां शिवे ॥ ४२॥ स भवेच्छिवहा सत्यं सर्वोपद्रवसङ्कुलः । धृत्वा यः कवचं देवि पूजयेच्छ्रीशिलां शिवे ॥ ४३॥ स एव परमां सिद्धिं लभते नात्र संशयः । इतीदं कवचं देवि सारं सर्वस्वमुत्तमम् । रहस्यं शारिकारत्नं गोपनीयं स्वयोनिवत् ॥ ४४॥ ॥ कवचान्ते मातृकाकरन्यासः ॥ ॐ क्षं ळं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं ॐ अः अं औं ओं ऐं एं ॡं ऌं ॠं ऋं ऊं उं ईं इं आं अं अङ्गुष्ठाभ्यां नमः । तर्जनीभ्यां नमः । मध्यमाभ्यां नमः । अनामिकाभ्यां नमः । कनिष्ठिकाभ्यां नमः । करतलकरपृष्ठाभ्यां नमः ॥ ॥ प्रतिलोम षडङ्गन्यासः ॥ ॐ ह्रीं शारिकायै अस्त्राय फट् । ॐ ह्रीं शारिकायै नेत्रत्रयाय वौषट् । ॐ ह्रीं शारिकायै कवचाय हुम् । ॐ ह्रीं शारिकायै शिखायै वषट् । ॐ ह्रीं शारिकायै शिरसे स्वाहा । ॐ ह्रीं शारिकायै हृदयाय नमः ॥ ॥ प्रतिलोम मातृकान्यासः ॥ ॐ क्षं नमः सर्वाङ्गे । ॐ ळं नमः ललाटे । ॐ हं नमः नाभौ । ॐ सं नमः हृदयदेशे । ॐ षं नमः वामस्कन्धे । ॐ शं नमः दक्षिणस्कन्धे । ॐ वं नमः जिह्वायाम् । ॐ लं नमः मुखे । ॐ रं नमः कण्ठे । ॐ यं नमः हृदये । ॐ मं नमः उदरे । ॐ भं नमः नाभौ । ॐ बं नमः पृष्ठे । ॐ फं नमः वामपार्श्वे । ॐ पं नमः दक्षिणपार्श्वे । ॐ नं नमः वामपादाङ्गुल्यग्रेषु । ॐ धं नमः वामपादाङ्गुलिमूले । ॐ दं नमः वामगुल्फे । ॐ थं नमः वामजानुनि । ॐ तं नमः वामपादमूले । ॐ णं नमः दक्षिणपादाङ्गुल्यग्रेषु । ॐ ढं नमः दक्षिणपादाङ्गुलिमूले । ॐ डं नमः दक्षिणगुल्फे । ॐ ठं नमः दक्षिणजानुनि । ॐ टं नमः दक्षिणपादमूले । ॐ ञं नमः वामाङ्गुल्यग्रेषु । ॐ झं नमः वामाङ्गुलिमूले । ॐ जं नमः वाममणिबन्धे । ॐ छं नमः वामकूर्परे । ॐ चं नमः वामबाहुमूले । ॐ ङं नमः दक्षिणाङ्गुल्यग्रेषु । ॐ घं नमः दक्षिणाङ्गुलिमूले । ॐ गं नमः दक्षिणमणिबन्धे । ॐ खं नमः दक्षिणकूर्परे । ॐ कं नमः दक्षिणबाहुमूले । ॐ अः नमः हृदये । ॐ अं नमः कण्ठे । ॐ औं नमः जिह्वायाम् । ॐ ओं नमः दन्तपङ्क्तौ । ॐ ऐं नमः अधरोष्ठे । ॐ एं नमः ओष्ठे । ॐ ॡं नमः वामगण्डे । ॐ ऌं नमः दक्षिणगण्डे । ॐ ॠं नमः वामनासापुटे । ॐ ऋं नमः दक्षिणनासापुटे । ॐ ऊं नमः वामकर्णे । ॐ उं नमः दक्षिणकर्णे । ॐ ईं नमः वामनेत्रे । ॐ इं नमः दक्षिणनेत्रे । ॐ आं नमः मुखे । ॐ अं नमः शिरसि ॥ इति श्रीरुद्रयामले तन्त्रे शारिकाकवचं समाप्तम् । Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran Pre and post viniyoga and nyAsa-s by Dayavanti Agarwal
% Text title            : Sharika Kavacham
% File name             : shArikAkavacham.itx
% itxtitle              : shArikAkavacham (rudriyAmalAntargatam)
% engtitle              : shArikAkavacham
% Category              : devii, shArikA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : shArikA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer, Dayavanti Agarwal
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran, Dayavanti Agarwal
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : October 9, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org