श्रीशारिकास्तोत्रम् ३
ॐ अष्टादशैरसिगदादियुतैर्भुजैर्या
त्रातुं समस्तभुवनानि विपद्भयेभ्यः ।
जागर्त्यशेषजनदुःखहरा परा सा
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ १॥
उद्यत्सहस्ररविभास्करदीप्तिदीप्तां
सिंहासनां शशिकलाभरणां त्रिनेत्राम् ।
यां चिन्तयन्ति बहुभक्तिरसार्द्रचित्ताः
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ २॥
यत्पादयोः सकृदपीह कृतार्चनो ना
भक्त्यान्वितो ह्यनुभवत्यमरप्रभुत्वम् ।
श्रीराजराजसखिसौख्यनिवासभूमिः
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ३॥
सौदामनीप्रमदमत्तगजेन्द्र कर्ण-
स्थित्या समापि भजते स्थिरतां विभूतिः ।
यत्पादपङ्कजयुगाश्रयणात्सदा सा
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ४॥
यत्कीर्तनश्रवणसम्मननोत्थपुण्यं
शक्नोति नो गणयितुं बहुधाप्यनन्तः ।
साऽशेषरोगदलनाय धृतौषधीशा
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ५॥
श्रीमातृकाभिरुपसेवितपादधूल्या
प्रद्युम्न पीठसमवस्थितया ययेश्या ।
कश्मीरदेशजनता परिपाल्यते सा
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ६॥
यस्याः प्रदक्षिणपरिक्रमणात्सुभक्त्या
पापोऽप्यलङ्घ्यभवसागरपारमेति ।
सा शोकमोहपरितापविपत्तिहर्त्री
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ७॥
मूलालवालमणिपुरकनाभिपद्म-
हृत्कण्ठशिष्टिमतिवाह्य करन्ध्रमेत्य ।
या मोदते सह शिवेन सहस्रपत्रे
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ८॥
यस्या अनाहतनिनादसुधारसेन-
स्नातः परात्परसुखानुभवात्प्रहृष्टः ॥
जीवंश्च मुक्त इव भाति नरोत्तमः सा
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ ९॥
यद्देहसङ्गतिरसेन सुधापर्रार्ध-
धिक्कारकेण विषधारणशक्तियुक्तः ।
श्रीनीलकण्ठ इति कीर्तिमवाप शम्भुः
श्रीशारिका दिशतुमङ्गलसन्ततिं नः ॥ १०॥
अमे सुरेशि योगीन्द्रामृतपायनतत्परे ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ११॥
कामे कामितकामानां पूरणे पूर्णताप्रदे ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १२॥
चार्वङ्गि कोटिकन्दर्पलावण्ये विश्वमोहिनि ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १३॥
टङ्कधारिणि शत्रूणां तिलशो देहखण्डिनि ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १४॥
तारे निसर्गगम्भीरभवसागरतारिणि ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १५॥
पार्वति त्रिजगन्मातर्हिमवद्वंशपावने ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १६॥
यक्षिणीष्टाष्टसिद्धीनां दायिनी देवपूजिते ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १७॥
सत्त्वादिशबलेऽनन्तब्रह्माण्डजननीश्वरि ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १८॥
कलानिधिकलाकान्तकिरीटकुण्डलोज्ज्वले ।
श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १९॥
इति श्रीशारिकास्तोत्रं समाप्तम् ।
Encoded and proofread by Manoj Sethuraman