श्रीशैलपुत्रीं नमाम्यहम् अष्टकम्
हिमाद्रिशिखरासीनां शशिखण्डविभूषिताम् ।
त्रिनेत्रां वृषभारूढां वन्दे शैलसुतां शिवाम् ॥ १॥
दिव्यदेहसमायुक्तां त्रिशूलकमलान्विताम् ।
करुणामृतसम्पूर्णां भक्ताभीष्टफलप्रदाम् ॥ २॥
रक्ताम्बरधरां देवीं मुक्ताहारविभूषिताम् ।
सर्वमङ्गलमाङ्गल्यां शैलपुत्रीं नमाम्यहम् ॥ ३॥
उद्यद्भानुसहस्राभां तेजःपुञ्जस्वरूपिणीम् ।
सर्वविघ्नहरां दुर्गां ध्यायामि परमेश्वरीम् ॥ ४॥
प्रकृतिं परमां शक्तिं शिवसङ्कल्परूपिणीम् ।
भुक्तिमुक्तिप्रदां देवीं वन्दे गौरीं यशस्विनीम् ॥ ५॥
वृषगमनसुशीलां शैलराजस्य पुत्रीं
त्रिशिखकरविराजां चन्द्रलेखावतंसाम् ।
कनकनिभसुवस्त्रां पद्महस्तां त्रिनेत्रां
जननसुखकरीं तां शैलपुत्रीं भजामि ॥ ६॥
करुणरसतरङ्गां भक्तचित्तैकवेद्यां
सकलभयविनाशां सिद्धिसौभाग्यदात्रीम् ।
अमितविभवयुक्तां दिव्यतेजःप्रपूर्णां
हृदयकमलमध्ये शैलपुत्रीं स्मरामि ॥ ७॥
दिव्यां दिव्यविभूषणां त्रिजगतां मातुः स्वरूपात्मिकां
रक्ताम्भोजसमानकान्तिवदनां कारुण्यपूर्णेक्षणाम् ।
भक्ताभीष्टफलप्रदां भगवतीं संसारदुःखापहां
वन्दे नन्दितदेववृन्दविनुतां दुर्गां शिवां शैलजाम् ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीशैलपुत्रीं नमाम्यहं नामाष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com