शक्ति-गीतिका
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ।
महोज्ज्वला, गौरी विमला,
त्रिगुणमयी मङ्गल-तरङ्गिणी ।
दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (ध्रुवम्) ॥
मात-र्जगतां त्वां सर्वगतां पश्यामि सदा,
त्वं शर्वाणी त्वं श्री-र्वाणी सुखदा वरदा ।
विमोहिनी, महिष-मर्दिनी,
हर मान्द्यं मृगेन्द्र-विहारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ १॥
आद्या शक्तिः शरण-रक्षणी सरसिजेक्षणा,
नारायणि हे ! त्वं भय-हरणी शुभ-विभूषणा ।
सुहासिनी, दुष्ट-शासिनी,
भव शिवदा कुविदां विदारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ २॥
त्वं हरि-माया रम्या परमा रण-रुद्राणी,
खण्डित-पापा चण्डिका सती जन-कल्याणी ।
जनय त्वम्, हृदि देवत्वम्,
भव भवानि ! दानव-निवर्हिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ ३॥
तमसां हन्त्री त्वं गायत्री भद्रकालिका,
दह कुकर्माणि माणिकेश्वरी विश्व-पालिका ।
त्रिशूलिनी, शौर्यशालिनी,
त्वं श्रद्धा शिवार्द्ध-शरीरिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ ४॥
कात्यायनि हे ! भक्त्या नियतं त्वं सुपूजिता,
असि पराम्बिका सम्बलेश्वरी चापराजिता ।
हैमवती, त्वं विभास्वती,
भव सुरसा महसां प्रसारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ ५॥
अघ-परिवारं विषमाकारं जहि दुर्वारम्,
नाशय दैन्यं दुर्दिन-जन्यं हर कलिभारम् ।
धृतायुधा, त्वं ज्ञान-सुधा,
भव सिद्धा वसुधा-सुधारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ ६॥
सत्य-सुन्दरं कुरु सुनन्दितं भुवनं सकलम्,
स्थापय शान्तिं प्रापय कान्तिं वितरात्मबलम् ।
नमोऽस्तु ते, भव जगत्कृते,
अयि मातः ! करुणा-सुवर्षिणी ॥
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ ७॥
-- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः
(मातृगीतिकाञ्जलिः-काव्यतः)
Copyright Dr.Harekrishna Meher