मदकृतां शक्तिस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
मद उवाच ।
नमामि त्वां महामाये सर्वशक्तिसमन्विताम् ।
त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥ २०॥
अनादिमप्रमेयां त्वां न जानन्ति महर्षयः ।
वेदान्तवेद्यरूपां वै नमामि परमेश्वरीम् ॥ २१॥
नानाभेदकरीं देवीं नानाभेदविवर्जिताम् ।
भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥ २२॥
पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा ।
समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥ २३॥
त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् ।
बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥ २४॥
सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् ।
योगिनीं योगदात्रीं वै योगेशीं त्वां नमाम्यहम् ॥ २५॥
त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः ।
देवाः स्कन्दश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥ २६॥
धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् ।
यत्तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥ २७॥
इत्युक्त्वा संस्थितस्तूष्णीं भावेन स मदासुरः ।
तमुवाच महाशक्तिर्भक्तिभावेन यन्त्रिता ॥ २८॥
(फलश्रुतिः)
शक्तिरुवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति महाभाग सर्वकामफलप्रदम् ॥ २९॥
धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति ।
पठतां शृण्वतां सर्वं सुखदं च महासुर ॥ ३०॥
इति मदकृतां शक्तिस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ४४ । २.४४। २०-३०॥
- .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 44 . 2.44. 20-30..
Proofread by Yash Khasbage, Preeti Bhandare