श्री शिवकामसुन्दरीमन्त्रवर्णरत्नस्तुतिः

श्री शिवकामसुन्दरीमन्त्रवर्णरत्नस्तुतिः

(ॐ ऐं शिं सौं मं ।) ओमित्यक्षरमुद्यतं तदनु च व्याहृत्यभिख्या पुनः गायत्री स्मृतिभिस्त्रयी शिवगलात्सर्गादिमेऽधीत्य तत् । यस्यास्सान्द्रकृपावलोकनवशाद्ब्रह्मा ससर्जाखिलं तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ १॥ ऐं वर्णं प्रतिभाप्रकाशनपरं द्वैतीयकं यन्मनोः अभ्यासादनिलानलोक्तविभवे यक्षे गते देवराट् । गौरीं हैमवतीमुमां भगवतीं दृष्ट्वा विमुक्तोऽभवत् तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ २॥ शिं वर्णं शिवदं तृतीयमपरं मन्त्रस्य यस्याः पुरा जापं जापमवापुरद्भुततमास्सिद्धीश्च सिद्धाः पराः । नन्दीशप्रमुखाश्च यामभिनुताः पञ्चाश्रवह्न्यश्रगे तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ ३॥ सौं वर्णं च तुरीयमन्तरनिशं यन्मन्त्रराजः स्वयं ध्यायन् शक्रसमो भुवि प्रथितवान् भूत्वा विजेजीयते । आत्मारामविहारवान् स सुकृती स्वान्तेऽपि यस्याः पदे तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ ४॥ मं वर्णं मनुपञ्चमं विधिमुखात् ज्ञात्वा समन्याह्वये स्थाने व्योम्नि सभान्तरे परशिवस्यानन्द लास्यानुगाम् । स्वाभिन्नां सनकादयस्सुकृतिनः पश्यन्ति यां शाम्भवीं तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ ५॥ शार्दूलाङ्घ्रितनूभवेन शिवकाम्यम्बामनोर्वर्णभाक् स्तोत्रं यत्कृतमन्वहं च पठतां तेषां शिवानुग्रहात् । वाक्श्रीसौख्ययशस्सुमङ्गलधराकान्तात्मजातादिमाः दीर्घायुष्यमरोगतां च चरमे दैव्यं पदं स्याद्ध्रुवम् ॥ ६॥ इति उपमन्युमहर्षिविरचिता श्रीशिवकामसुन्दरीमन्त्रवर्णरत्नस्तुतिः । Proofread by Aruna Narayanan
% Text title            : Shri Shivakamasundarimantravarnaratna Stuti
% File name             : shivakAmasundarImantravarNaratnastutiH.itx
% itxtitle              : shivakAmasundarImantravarNaratnastutiH (upamanyumaharShivirachitA)
% engtitle              : shivakAmasundarImantravarNaratnastutiH
% Category              : devii, mantra, stuti, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : upamanyu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org