श्रीशिवकामसुन्दरीपञ्चरत्नम्
राकाचन्द्र सुदीप्त वक्त्रकमलामालोलनीलालकां
गौरीं कुङ्कुमभूषिताङ्गलतिकां माङ्गल्यसूत्रोज्वलाम् ।
श्रीमच्छैवसुजाह्नवी तटगृहां भक्तेष्टसम्पत्प्रदां
वन्दे त्वां शिवकामसुन्दरसखीं वाञ्छाधिकेष्टप्रदाम् ॥ १॥
कान्त्या विश्वविमोहिनीं कलिमलप्रद्ध्वंसिनीं हर्षिणीं
शार्दूलाङ्घ्रिपतञ्जलि प्रभृतिभिर्भक्तैर्नुताङ्घ्रिद्वयाम् ।
पापाघौघविनाशनैक चतुरामाकर्णनेत्रोत्पलां
वन्दे त्वां शिवकामसुन्दरसखीं वाञ्छाधिकेष्टप्रदाम् ॥ २॥
नित्यां नीरजलोचनां निगमगां नित्यादिभिश्शंसितां
शोकध्वान्त रविप्रभां श्रितजनाभीष्टप्रदां सत्वरम् ।
मुक्ताहारविभूषितार्मुनिजनैर्मुक्त्यर्थमासेवितां
वन्दे त्वां शिवकामसुन्दरसखीं वाञ्छाधिकेष्टप्रदाम् ॥ ३॥
नन्दिस्कन्दगजेन्द्रचण्ड गणपैस्सेव्यां परां देवतां
वेदैःप्रस्तुत वैभवां विधिमुखैर्वृन्दारकैर्वन्दिताम् ।
श्रीमत्स्वर्णसभाधिनाथ दयितां कारुण्यकल्लोलिनीं
वन्दे त्वां शिवकामसुन्दरसखीं वाञ्छाधिकेष्टप्रदाम् ॥ ४॥
श्रीमत्तिल्लवनैकवासिमखिभिस्सम्पूज्यमानां मुदा
श्रीकल्याणगुणावहां गिरिसुतां पुत्रादि सम्पत्प्रदाम् ।
शान्तां शाम्भवतल्लजैःपरिवृतां संसारतापापहां
वन्दे त्वां शिवकामसुन्दरसखीं वाञ्छाधिकेष्टप्रदाम् ॥ ५॥
इति श्रीशिवकामसुन्दरीपञ्चरत्नं सम्पूर्णम् ।
Composed, encoded, and proofread by
(Copyright) Raghava Deekshithar N sivathmika.puliyur at gmail.com