शिवकृता शक्तिस्तुतिः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
- शिवपार्वतीसंवादे -
त्वमेव शक्तिः परमा कालचक्रप्रवर्तिका ॥ १.२॥
त्वमेव परमासिद्धिः त्वं स्वाहा त्वं स्वधा शिवे ।
त्वमेव ब्रह्मणो देवी सर्गे शक्तिकरी समृता ॥ २॥
गीयसे त्वं पुराणज्ञैः साक्षाद्देवी सरस्वती ।
सर्वशब्दमयी विश्वं पुनासि परमेश्वरि ॥ ३॥
त्वं विष्णौ पद्मजाशक्तिः सर्वपालनकारिणी ।
त्वया समृद्धं यत्किञ्चित्तद्वृद्धिमधिगच्छति ॥ ४॥
त्वमेव रुद्रे परमा शक्तिः संहारकारिणी ।
त्वं प्रभासि तथा भानौ दहने दहनात्मिका ॥ ५॥
पवने चलनीशक्तिस्त्वं कान्तिः सोममण्डले ।
इन्द्रे प्रभुत्वशक्तिस्त्वं यमे दण्डात्मिका ह्यसि ॥ ६॥
धनाधिपे निधिमयी नैऋते खड्गरूपिणी ।
वरुणे पाशशक्तिस्त्वं त्वं सर्वं मातृमण्डलम् ॥ ७॥
त्वयैव शक्तिमानस्मि अस्मिन् भुवनमध्यमे (मण्डले) ।
अमूर्तोऽहं त्वया मूर्त्तिं गृहीत्वा क्रीडयाम्यहम् ॥ ८॥
लोकमेनं महादेवस्तस्मान्मे शक्तिरुत्तरा ।
भुवि त्वं धारिणीशक्तिर्नदीषु स्यन्दरूपिणी ॥ ९॥
॥ इति शिवरहस्यान्तर्गते शिवकृता शक्तिस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ५ मुनिवाक्यम् । १.२-९॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 5 munivAkyam . 1.2-9..
Notes:
Śiva शिव eulogizes Pārvatī पार्वती as Śakti शक्ति that pervades the entire Universe.
Proofread by Ruma Dewan