शिवकृतं सुरभिस्तोत्रम्
सुरभिं गां च गोलोके तां तुष्टाव सुसंयतः ।
सृष्टिस्थितिविनाशानां कर्त्र्यै मात्रे नमो नमः ॥ ३०॥
या त्वं रसमयैर्भावैराप्याययसि भूतलम् ।
देवानां च तथासङ्घान्पितॄणामपि वै गणान् ॥ ३१॥
सर्वैर्ज्ञाता रसाभिज्ञैर्मधुरास्वाददायिनी ।
त्वया विश्वमिदं सर्वं बलस्नेहसमन्वितम् ॥ ३२॥
त्वं माता सर्वरुद्राणां वसूनां दुहिता तथा ।
आदित्यानां स्वसा चैव तुष्टा वाञ्च्छितसिद्धिदा ॥ ३३॥
त्वं धृतिस्त्वं तथा पुष्टिस्त्वं स्वाहा त्वं स्वधा तथा ।
ऋद्धिः सिद्धिस्तथा लक्ष्मीर्धृतिः कीर्तिस्तथा मतिः ॥ ३४॥
कान्तिर्लज्जा महामाया श्रद्धा सर्वार्थसाधिनी ।
त्वया विरहितं किञ्चिन्नास्ति त्रिभुवनेष्वपि ॥ ३५॥
वह्नेस्तृप्तिप्रदात्री च देवादीनां च तृप्तिदा ।
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ३६॥
पादास्ते वेदाश्चत्वारः समुद्राः स्तनतां ययुः ।
चन्द्रार्कौ लोचने यस्या रोमाग्रेषु च देवताः ॥ ३७॥
शृङ्गयोः पर्वताः सर्वे कर्णयोर्वायवस्तथा ।
नाभौ चैवामृतं देवि पातालानि खुरास्तथा ॥ ३८॥
स्कन्धे च भगवान्ब्रह्मा मस्तकस्थः सदाशिवः ।
हृद्देशे च स्थितो विष्णुः पुच्छाग्रे पन्नगास्तथा ॥ ३९॥
शकृत्स्था वसवः सर्वे साध्या मूत्रस्थितास्तव ।
सर्वे यज्ञा ह्यस्थिदेशे किन्नरा गुह्यसंस्थिताः ॥ ४०॥
पितॄणां च गणाः सर्वे पुरःस्था भान्ति सर्वदा ।
सर्वे यक्षा भालदेशे किन्नराश्च कपोलयोः ॥ ४१॥
सर्वदेवमयी त्वं हि सर्वभूतविवृद्धिदा ।
सर्वलोकहिता नित्यं मम देहहिता भव ॥ ४२॥
प्रणतस्तव देवेशि पूजये त्वां सदाऽनघे ।
स्तौमि विश्वार्तिहन्त्रीं त्वां प्रसन्ना वरदा भव ॥ ४३॥
विप्रशापाग्निना दग्धं शरीरं मम शोभने ।
स्वतेजसा पुनः कर्त्तुमर्हस्यमृतसम्भवे ॥ ४४॥
इति श्रीस्कन्दपुराणे नागरखण्डे अष्टपञ्चाशत्तमाधिकद्विशततमाध्यायान्तर्गतं
शिवकृतं सुरभिस्तोत्रं समाप्तम् ।
स्कन्दपुराण । नागरखण्ड । अध्याय २५८/३०-४४॥
skandapurANa . nAgarakhaNDa . adhyAya 258/30-44..
Proofread by PSA Easwaran