शिवकृता सीतास्तुतिः
महादेव उवाच ।
अहं हरिः पद्मभवस्तथान्ये देवा पदङ्घ्रिद्वितयं प्रपन्नाः ।
भवन्ति लोके महतामपीशास्तां रामरामां प्रणतोऽस्मि नित्यम् ॥ १॥
गुह्यं च ते नाम यदास्ति नित्यं गृह्णन्ति यद्वै सहजेति वेदाः ।
मातः स्फुटं तत्प्रतिपाद्यरूपां त्वां देवतां कामपि संश्रयामि ॥ २॥
वनं प्रमोदाख्यमनन्तकोटिश्रीजुष्टमानन्दमयं समन्तात् ।
त्वद्वल्लभो यत्र च रामचन्द्रो विभाति कन्दर्पपरार्घ्यवेषः ॥ ३॥
भक्त्या प्रयुक्तं तदहं श्रयामि भूत्वा कदाचित् खलु कोऽपि गोपः ।
चिरं यदानन्दसमुद्रमग्नो ब्रह्माक्षरं वेद न किञ्चिदेतत् ॥ ४॥
तव स्वरूपं श्रुतिभिर्विमृग्यं ब्रह्मादिदेवैरपि नैव गम्यम् ।
अधिप्रमोदाटविकुञ्जवीथिष्वदो विसर्पत्यभितः पदाभ्याम् ॥ ५॥
शृङ्गारनामा रसराज उच्चैस्तवैव देहे कलिनप्रतिष्ठः ।
यदंशमात्रेण जगत्समस्तं विमोहित स्थावरजङ्गमाढ्यम् ॥ ६॥
लक्ष्मीः स्वयं या हरिसङ्गमेन प्रमोदयन्ती हृदयं विभाति ।
सा त्वत्कटाक्षामृतभूरिवर्षैः प्रभाविनीति ध्रुवमेव वेद्मि ॥ ७॥
विना त्वदङ्घ्रिप्रभवप्रभावं कुतो भवेदृद्धिरिति प्रतीतम् ।
यतस्त्वदाराधनवञ्चितानां भवोदधौ दुःखपरम्परैव ॥ ८॥
दिने-दिने यत्र तवोदयेच्छुः सखीसमूहो यतते त्वदीशम् ।
वशे विधातुं बहुभावदूत्यैः स ते विलासो हृदये ममास्ताम् ॥ ९॥
यथा पुमर्थाः पुरुषाय भोगा यच्छन्ति चत्वार उदीर्णरूपाः ।
तथा स्वतन्त्रः खलु ते विलासः फलात्मकश्चैव फलार्पकश्च ॥ १०॥
तवैव नित्यं वशवर्तिनी सा मायाभिधा शक्तिरनन्तरूपा ।
यथाखिलं मोहितमेतदुच्चैर्जगत्स्वरूपं परतन्त्रमेव ॥ ११॥
अचिन्त्यरूपा करुणा भवत्याः शक्ता समुद्धर्तुमुदेतिजीवान् ।
नो चेत्कथं दुस्तरमोहजालं विभिद्य पारं परमं प्रयान्ति ॥ १२॥
पितामहो यद्वितनोतिविश्वं रक्षन् हरिर्द्रावयते च दैत्यान् ।
अहं तथा संहरणं करोमि तदेतदाभाति भवत्प्रसाद ॥ १३॥
यतोऽभवद्वाङ्मनसं निवृत्तं यदाप्यनावाप्यमिहास्ति किञ्चित् ।
यदेव सर्वेर्मुनिभिर्गृहीतं तदेव रूपं परमं भवत्याः ॥ १४॥
अनन्तशक्तिप्रभवप्रभावमनन्तसङ्ख्याका पुमर्थमूलम् ।
अनन्तकालक्षपणाक्षयं ते विचेष्टितं मे हृदये चकास्तु ॥ १५॥
तडिल्लतावच्च सुवर्णवर्णं रामाभ्रसम्पर्कसदामनोज्ञम् ।
ध्यातं न यैस्ते जननि स्वरूपं तेषां भवेऽस्मिन् जनुरेव मोघम् ॥ १६॥
तावन्मुखे जाड्यमुदेति भूयस्तावद्दरिद्रो भवतीह लोकः ।
तवन्न कान्तिप्रसरोऽस्मिन् देहे यावन्न तेऽजायत दृष्टिपातः ॥ १७॥
अधिप्रमोदाटविकुञ्ज मध्ये श्रीरामयोगेन सदा स्फुरन्ती ।
इन्दीवरश्यामललोचनां त्वां सम्पत्तिसंवित्तिकृते भजामि ॥ १८॥
यद्वाग्भवं नाम निरूढ़वीजं परात्मकं वेदसमूलमूलम् ।
तत्तद्वपुः सन्निहितं समस्ततन्त्रैषु मन्त्रात्मतया भजामि ॥ १९॥
कदाचिदुन्मीलितमानभावोन्नते भ्रुवौ मन्मथचापचारू ।
श्रीरामचन्द्रैकरसीन्द्रभाव्ये भजामि ते मुक्तकृपाकटाक्षे ॥ २०॥
वेदान्तवाक्येषु निगूढमुच्चैर्यत्तत्परं ब्रह्म चिदेकमात्रम् ।
तस्यापि चेत्थं परमाप्रतिष्ठा तदा कथं वाग्विषयत्वमेषि ॥ २१॥
नित्ये महिम्नि प्रथितप्रतिष्ठा त्वेके महागाथगुणेकजुष्टा ।
अगोचरा ब्रह्मशिवादिभिस्त्वमधिप्रमोदाटवि दृश्यसे वै ॥ २२॥
कदापि पञ्चत्वमियाद्विरञ्चिस्तथा विरामं भजते रमेशः ।
भजाम्यहं चैव विनाशभाव तदा त्वमीशः स्वयमेव चासि ॥ २३॥
त्वदङ्घ्रिपङ्केरुहगर्भधूली त्रिवेदमल्लीसुमनोमधूलीम् ।
विचिन्वतां ज्ञानयथेष्वगम्यामधिप्रमोदाटवि किं न लप्स्ये ॥ २४॥
वेदान्तविज्ञानविनिश्चितार्थैर्योगेन कष्टेन गृहीतमन्यैः ।
तत्त्वत्स्वरूपं प्रमुदाटवीनामाभीरकन्याभिरहो सुखापम् ॥ २५॥
यथाकथञ्चिद्विषयैर्विमुक्ता नृपां मनोवृत्तिरुदीर्णरूपा ।
त्वामप्रमेयामविलभ्य सीते कदर्थनीया किमु मुक्तिमार्गे ॥ २६॥
ये स्वाश्रयां च प्रवदन्ति मुक्तिं तेषामहम्भाविनष्टमात्रा ।
ब्रह्मास्त्रिरूपाखलु चित्तवृत्तिरत्यर्थमेवप्रविभाति मोघा ॥ २७॥
ये त्वत्पदाब्ज प्रभजन्ति सन्तस्तेषां परानुग्रहमात्रवश्या ।
स्वं ब्रह्मधर्मं प्रविहाय मातः करोषि साश्चर्यचरित्रचर्याम् ॥ २८॥
रजांसि भूमेः प्रमिमातु कश्चित्तथा तरङ्गान् जलधेर्बिभर्तु ।
तथापि मातस्तव दिव्यकेलीगुणान् न सङ्ख्यातुमसौ समर्थः ॥ २९॥
नमस्त्रिवेदीशिरसि स्थितायै ततोऽपि दौर्लभ्यतमान्वितायै ।
स्वभक्तिमात्रैकसुलभात्मने ते श्रीसच्चिदानन्दपदोन्नतायै ॥ ३०॥
प्रमोदवनवीथीषु सहजानन्दिनी तु या ।
सा त्वं जनकभूपस्य गृहे मातः समागता ॥ ३१॥
भक्तानुग्रहकारिण्याः को जानाति तव क्रियाम् ।
फलानुमेयमात्रत्वात्तथापि खलु गीयते ॥ ३२॥
इत्युच्चार्यं शिवः स्तोत्रं सीतायाः परमश्रियः ।
सानन्दाश्रुमिलन्नेत्रं दण्डवन्न्यपतद्भुवि ॥ ३३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे
भरतलक्ष्मणीये सीताजन्मस्तुतावेकोनविंशोऽध्यायः ॥ १९॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय १९/१-३३॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 19/1-33..
Encoded and proofread by Mrityunjay Rajkumar Pandey