श्रीकृष्णदेवीतारा महाकल्पनवाक्षरमहामन्त्रः
॥ विनियोगः ॥
अस्य मन्त्रस्य ।
शक्ति ऋषिः ।
वृहती छन्दः ।
तारिणी देवता ।
ह्रीँ बीजम् ।
ऐँ शक्तिः ।
सर्वाभीष्टसिद्धये जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
ॐ शक्ति ऋषये नमः शिरसि ।
ॐ वृहती छन्दसे नमः मुखे ।
ॐ तारिणी देवतायै नमः हृदि ।
ॐ ह्रीँ बीजाय नमः गुह्ये ।
ॐ ऐँ शक्तये नमः पादयोः ।
ॐ सर्वाभीष्टसिद्धये जपे विनियोगाय नमः सर्वाङ्गे ॥
इति ऋष्यादिन्यासः ॥
॥ करन्यासः ॥
ॐ ह्राँ अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीँ तर्जनीभ्यां नमः ।
ॐ ह्रूँ मध्यमाभ्यां नमः ।
ॐ ह्रैँ अनामिकाभ्यां नमः ।
ॐ ह्रौँ कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
इति करन्यासः ॥
॥ षडङ्गन्यासः ॥
ॐ ह्राँ हृदयाय नमः ।
ॐ ह्रीँ शिरसे स्वाहा ।
ॐ ह्रूँ शिखायै वषट् ।
ॐ ह्रैँ कवचाय हुँ ।
ॐ ह्रौँ नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ॥
इति षडङ्गन्यासः ॥
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
॥ वर्णन्यासः ॥
अँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ ऌँ ॡँ नमः हृदि ।
एँ ऐँ ओँ औँ अँ अः कँ खँ गँ घँ नमः दक्षबाहौ ।
ङँ चँ छँ जँ झँ ञँ टँ ठँ डँ ढँ नमः वामबाहौ ।
णँ तँ थँ दँ धँ नँ पँ फँ बँ भँ नमः दक्षपादे ।
मँ यँ रँ लँ वँ शँ षँ सँ हँ क्षँ नमः वामपादे ।
इति वर्णन्यासः ॥
॥ वर्णन्यासः कालीतन्त्रे ॥
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ नमः हृदि ।
ए ऐ ओ औ अं अः क ख ग घ नमः दक्षबाहौ ।
ङ च छ ज झ ञ ट ठ ड ढ नमः वामबाहौ ।
ण त थ द ध न प फ ब भ नमः दक्षपादे ।
म य र ल व श ष स ह क्ष नमः वामपादे ।
इति वर्णन्यासः ॥
॥ व्यापकन्यासः ॥
क्रीँ क्लीँ कृष्णदेवी ह्रीँ क्रीँ ऐँ ।
इति मूर्धादि पादपर्यन्तम् ॥
इति व्यापकन्यासः ॥
॥ दिक्न्यासः ॥
ॐ कल्पवृक्षाय नमः पूर्वे ।
ॐ मणिपीठाय नमः उत्तरे ।
ॐ शिवाय नमः पश्चिमे ।
ॐ कृपालाय नमः दक्षिणे ॥
इति दिक्न्यासः ॥
॥ चक्रन्यासः ॥
ॐ दुर्गायै नमः ।
ॐ जयायै नमः ।
ॐ मेधायै नमः ।
ॐ विजयायै नमः ।
ॐ सुप्रभायै नमः ।
ॐ काल्यै नमः ।
ॐ गौर्यै नमः ।
ॐ शिवायै नमः ॥
इति चक्रन्यासः ॥
॥ योनिन्यासः ॥
ॐ योनिबीजायै नमः ।
ॐ योनिविश्वायै नमः ।
ॐ योनिरूपायै नमः ।
ॐ योनिकामायै नमः ।
ॐ योनिहारायै नमः ।
ॐ योनिरूपायै नमः ।
ॐ योनिच्छायायै नमः ।
ॐ योनिकामायै नमः ।
ॐ योनिरूपायै नमः ।
ॐ योनिचिन्तायै नमः ।
ॐ योनिनित्यायै नमः ।
ॐ योनिरूपायै नमः ।
ॐ योनिसिद्धायै नमः ।
ॐ योनिबुद्धायै नमः ॥
इति योनिन्यासः ॥
॥ ध्यानम् ॥
कृष्णां लम्बोदरीं भीमां नागकुण्डलशोभिताम् ।
रक्तमुखीं ललज्जिह्वां रक्ताम्बरधरां कटौ ॥
पीनोन्नतस्तनीमुग्रां महानागेन वेष्टिताम् ।
शवस्योपरि देवेशि तस्योपरि कपालिके ॥ १॥
नासाग्रध्याननिरतां महाघोरां वरप्रदाम् ।
चतुर्भुजां दीर्घकेशीं दक्षिणस्योर्ध्वबाहुना ॥
बिभ्रतीं नलिनीमेकां वामोर्ध्वे पानपात्रकम् ।
वराभयधरां देवीं मध्यस्थां दक्षवामयोः ॥ २॥
पिबन्तीं रौधिरीं धारां पानपात्रे सदाशिवे ।
सर्वसिद्धिप्रदां देवीं नित्यां गिरिनिवासिनीम् ॥
लोचनत्रयसंयुक्तां नागयज्ञोपवीतिनीम् ।
दीर्घनासां दीर्घजङ्घां दीर्घाङ्गीं दीर्घजिह्विकाम् ॥ ३॥
चन्द्रसूर्याग्निभेदेन त्रिलोचनसमन्विताम् ।
शत्रुनाशकरीं देवीं महाभीमां वरप्रदाम् ॥
व्याघ्रचर्मशिरोबद्धां जगत्त्रयविभाविताम् ।
साधकानां सुखकर्त्रीं सर्वलोकाभयङ्करीम् ॥
एवं भूता महादेवीं तारिणीं प्रणमाम्यहम् ॥ ४॥
॥ पञ्चपूजा ॥
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ॥
॥ जपमाला मन्त्रः ॥
ॐ मां माले महामाये सर्वमन्त्रस्वरूपिणि ।
चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मे सिद्धिदा भव ॥
॥ गुरु मन्त्रः ॥
ॐ ह्रीं सिद्धगुरो प्रसीद ह्रीं ॐ ॥
॥ उत्कीलन मन्त्रः ॥
स्त्रीँ क्रीँ क्लीँ कृष्णदेवी ह्रीँ क्रीँ ऐँ ॐ ॥
॥ सञ्जीवन मन्त्रः ॥
क्रीँ क्लीँ कृष्णदेवी ह्रीँ क्रीँ ऐँ ऐँ ॥
॥ शापविमोचन मन्त्रः ॥
ॐ स्त्रीँ ह्रीँ ब्रह्मशापं विमोचय विमोचय ॥
॥ सम्पुटीकरण मन्त्रः ॥
फट् क्रीँ क्लीँ कृष्णदेवी ह्रीँ क्रीँ ऐँ ॥
॥ श्रीकृष्णदेवीतारा महाकल्प नवाक्षर महामन्त्रः ॥
क्रीँ क्लीँ कृष्णदेवी ह्रीँ क्रीँ ऐँ ॥
इति श्रीकृष्णदेवीतारा महाकल्पनवाक्षरमहामन्त्रः सम्पूर्णः ।
(मन्त्रार्नवे)
Encoded and proofread by Durga Sharma