॥ श्रीमूकपञ्चशती ॥

माता मरकतश्यामा मातङ्गी मदशालिनी । कुर्यात् कटाक्षं कल्याणी कदम्बवनवासिनी ॥ ॥ श्रीः ॥ ॥ श्रीचन्द्रमौलीश्वराय नमः ॥ ॥ श्रीकारणपरचिद्रूपायै नमः ॥ श्रीमूकमहाकविप्रणीता ॥ श्रीः ॥ ॥ श्रीमूकपञ्चशती ॥ श्रीकामाक्षीपरदेवतायाः पादारविन्दयोः भक्तिभरेण समर्पितम् ॥ आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् । कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता- मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम्॥ [मन्दस्मित १०१ ] श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीकामकोटिपीठाधीश्वर- जगद्गुरु श्रीमत् चन्द्रशेखरेन्द्रसरस्वती श्रीपादानां श्रीमुखेन समद्भासिता
॥ श्रीः ॥ ॥ श्रीचन्द्रमौलीश्वर ॥ मुद्रा स्वस्ति श्रीमदखिलभूमण्डलालंकार-त्रयस्त्रिंशत्कोटि- देवतासेवित श्रीकामाक्षीदेवीसनाथ-श्रीमदेकाम्रनाथ- श्रीमहादेवीसनाथ-श्रीहस्तिनिरिनाथ-साक्षात्कारपरम- अधिष्ठानसत्यव्रतनामाङ्कित-काञ्चीदिव्यक्षेत्रे शारदा- मठसुस्थितानाम्, अतुलितसुधारसमाधुर्यकमलासनकामिनी- धम्मिल्ल सम्फुल्लमल्लिकामालिकानिष्यन्दमकरन्दझरी- सौवस्तिकवाङ्निगुम्भविजृम्भणानन्दतुन्दिलितमणीषि- मण्डलानाम्, अनवरताद्वैतविद्याविनोदरसिकानाम्, निरन्तरालंकृतीकृतशान्तिदान्तिभूम्नाम्, सकलभुवन- चक्रप्रतिष्ठापक श्रीचक्रप्रतिष्ठाविख्यातयशोऽलंकृतानाम्, निखिलपाषण्डषण्डकण्टकोद्धाटनेन विशदीकृतवेदवेदान्त- मार्गषण्मतप्रतिष्ठापकाचार्याणाम्, श्रीमत्परमहंसपरिव्राजक- आचार्यवर्य-श्रीजगद्गुरु श्रीमच्छंकरभगवत्पादाचार्याणाम् अधिष्ठाने सिंहासनाभिषिक्त श्रीमन्महादेवेन्द्रसरस्वती- संयमीन्द्राणाम्, अन्तेवासिवर्य श्रीमच्चन्द्रशेखरेन्द्रसरस्वती श्रीपादैः । क्रियते नारायणस्मृतिः तत्रभवान् मूक इति सुप्रसिद्धः महाकविशिरोमणिः श्रीकामाक्षीदेवीकरुणाकटाक्षतरङ्गितपुण्यकवितारसपूरः `मूकपञ्चशती' इति कर्तुर्नाम्ना प्रसिद्धमिमं लोकोत्तरं ग्रन्थं प्रणीय भूमण्डलेऽनुत्तमं पुण्ययशोविशेषं शाश्वतीं परानन्दानुभूतिं च लब्धवानिति सुविदितमेव । स्तोत्ररत्ने चास्मिन् काञ्चीमध्यगत कामकोटिपीठाधिष्ठात्रीम् इन्दुमौलेरैश्वर्यरूपां श्रीकामाक्षीं परदेवताम्, आरूढयौवनाटोपा, तरुणिमसर्वस्वं, नित्यतरुणी, लावण्यामृततरङ्गमाला, विभ्रमसमवायसारसन्नाहा, शृङ्गाराद्वैततन्त्रसिद्धान्तं, मीनध्वजतन्त्रपरमतात्पर्यं\, कन्दर्पसूतिकापाङ्गी, मनसिजसाम्राज्यगर्वबीजं, पुष्पायुधवीर्यसरसपरिपाटी, मदनागमसमयदीक्षित- कटाक्षा, कुसुमशरगर्वसम्पत्कोशगृहम्, अनङ्गब्रह्मतत्त्व- बोधसिरा, पञ्चशरशास्त्रबोधनपरमाचार्यदृष्टिपाता इत्यादिरूपेण वर्णयन् पुनः लावण्यमृतपरकाष्ठाभूतां तामेव परदेवतां, कारणपरचिद्रूपा, कैवल्यानन्दकन्दः, आम्नायरहस्यम्, उपनिषदरविन्दकुहरमधुधारा, वाङ्मनोऽतीता, आनन्दाद्वैतकन्दली, मुक्तिबीजम्, आगमसल्लापसारयाथार्थ्यं, बोधामृतवीची, अभिदाकृतिः, ऐकात्म्यप्रकृतिः, निगमवचस्सिद्धान्तः, गुरुमूर्तिः, इत्येवं- रूपेण साक्षत्कुर्वन् यौवनशृङ्गारादिविषयरसानुभव- सामग्रीं ज्ञानवैराग्यादिब्रह्मानन्दानुभवसामग्रीत्वेन सम्पादयन् - ᳚शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥᳚ इति परदेवतानुग्रहफलीभूतां परवैराग्यकाष्ठां प्रकटयति । [आर्या ४८ ] पद्मपञ्चशतकात्मकेऽत्र ग्रन्थे शतकानां या आनुपूर्वी तस्यामयं विशेषो दृश्यते । यथा कश्चन शिशुः चक्षुरादि इन्द्रियप्रागल्भ्याविर्भावात्पूर्वं मनोवृत्तिमात्रेण कलयति स्वेप्सितम् ; एवमार्याशतके भक्तशिशोः मनः प्रवृत्तिम् अम्बिकायाः स्वरूपानुसन्धानपटीयसीं सम्पादयति कविपुङ्गवः ; अयमाशयः - ᳚अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते । चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥᳚ इति श्लोकेन सूचितः ॥ [आर्या ९८ ] द्वितीयशतके तावत् यथा किञ्चित्प्रवृद्धग्रहणशक्तिः बालकः खान्तिके विद्यमानस्य वस्तुनः दर्शन- स्पर्शनादिभिः आह्लादमधिगच्छति तद्वत् भक्तबालकः अत्यन्तमधोभागे विद्यमानस्य स्वस्यान्तिकत्वेनैव जगन्मातुः निरन्तरध्यानफलीभूत पादारविन्द दर्शन- आनन्दमनुभवतीत्ययमाशयः - ᳚मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥᳚ इति श्लोकेन सूचितः ॥ [पादारविन्द ३ ] यथा मनसः ज्ञानेन्द्रियाणां च स्फूर्त्यनन्तरमेव वाक्प्रसरति, तथैव आर्यापादारविन्दशतकयोरनन्तरं स्वप्रेमास्पदं वस्तु निरर्गलं स्तोतुमारभते - ᳚पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते । स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥᳚ इतादिना स्तुतिशतकेन । [स्तुति १ ] लौकिकाविद्यादिषु कुशलः कश्चन यथा लौकिकसम्पदः प्राप्तुर्महो भवति तद्वत् पूर्वकृतस्तुतिफलत्वेन भक्तः अम्बिकायाः कटाक्षविशेषमधिगम्य परसंविदनुभूत्य- उचिततेजःपुष्ट्यादिपात्रं भवतीत्ययमाशयः- ᳚अस्तं क्षणान्नयतु मे परितापसूर्य- मानन्दचन्द्रमसमानयतां प्रकाशम् । कालान्धकारसुषमां कलयन् दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥᳚ इत्यादिभिर्वर्णनैः कटाक्षशतके सूचितः ॥ [कटाक्ष ६ ] यथा लौकिकसम्पत्सम्पूर्णः कश्चन समग्रयौवनः लौकिकशृङ्गारसुखानुभवाय पात्रं भवति, तद्वत् देव्याः परमानुग्रहपात्रीभूतः तदीयमन्दस्मित- चन्द्रिकासनाथः आनन्दचन्द्र इव अलौकिक- निरतिशयानन्दानुभवात्मकः प्रकाशत इति अमूमेव भावप्रणालिकां महाकविः स्वयमेव पञ्चशतीपुर्तिम्पद्येन आविष्यकरोति । यथा - ᳚आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् । कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता- मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥᳚ इति । [मन्दस्मित १०१ ] अस्या लोकोत्तरायाः स्तुतेः पठनमात्रेण तत्क्षणे महाकविनाऽमुना अन्ततः परदेवतयैव वा ऐकात्म्यमनुभवतीव साधकः । तदिदं ग्रन्थरत्नं द्राविडभाषामयार्थानुवाद- सहितमचिरादेव महता परिश्रमेण भक्तिभरेण मुद्राप्य श्री कामाक्षी देवी कुम्भाभिषेक शुभ- मुहूर्त एव उपहारीकृतवते, मुद्रापणदिविषये परमं साहाय्यमाचरितवद्भयः, तद्ग्रन्थपठितृभ्यश्च भक्तपुङ्गवेभ्यः श्रीकामाक्षीकटाक्षाः समुल्ल- सन्त्वित्याशास्महे॥ ॥ इति नारायणस्मृतिः ॥
॥ आर्याशतकम् ॥ कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता । काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १॥ कंचन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् । कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ २॥ चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे । चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥ ३॥ कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् । कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ४॥ पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ५॥ परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया । परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ॥ ६॥ ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् । ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ ७॥ श्रितकम्पसीमानं शिथिलितपरमशिवधैर्यमहिमानम् । कलये पटलिमानं कंचन कञ्चुकितभुवनभूमानम् ॥ ८॥ आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम् । आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ९॥ तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् । गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ १०॥ काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् । परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ ११॥ कम्पातीचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १२॥ आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १३॥ अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ॥ १४॥ अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः । अधिकाञ्चि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥ १५॥ मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा । चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ १६॥ मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७॥ धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् । अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥ १८॥ लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९॥ श्वेता मन्थरहसिते शाता मध्ये च वाड्भनोऽतीता । शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २०॥ पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् । पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१॥ पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा । पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२॥ तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् । तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३॥ पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः । अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥ २४॥ संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५॥ मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् । आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६॥ उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् । उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ॥ २७॥ एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् । एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ॥ २८॥ स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदम् । दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मग्नाः ॥ २९॥ कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते । कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥ ३०॥ वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् । विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥ ३१॥ कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः । कूलंकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२॥ कुडूमलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् । कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ॥ ३३॥ अङ्कितकचेन केनचिदन्धंकरणौषधेन कमलानाम् । अन्तःपुरेण शम्भोरलंक्रिया काऽपि कल्प्यते काञ्च्याम् ॥ ३४॥ ऊरीकरोमि सन्ततमूष्मलफालेन ललितं पुंसा । उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ॥ ३५॥ अङ्कुरितस्तनकोरकमङ्कालंकारमेकचूतपतेः । आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥ ३६॥ पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७॥ लोलहृदयोऽस्ति शम्भोर्लोचनयुगलेन लेह्यमानायाम् । ललितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८॥ मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९॥ वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता । पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥ ४०॥ बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् । आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥ ४१॥ कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् । अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२॥ शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे । सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥ ४३॥ समया सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया । उमया काञ्चीरतया न मया लभ्यते किं नु तादात्म्यम् ॥ ४४॥ जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि । वन्धो यदि भवति पुनः सिन्धोरम्भस्सु बम्भ्रमीति शिला ॥ ४५॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६॥ अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः । अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७॥ शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९॥ मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥ ५०॥ अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमयैः । अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥ ५१॥ नन्दति मम हृदि काचन मन्दिरयन्ता निरन्तरं काञ्चीम् । इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२॥ शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् । लिम्पामि मनसि किंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३॥ अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ॥ ५४॥ ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् । अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५॥ आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६॥ मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७॥ पञ्चदशवर्णरूपं कंचन काञ्चीविहारधौरेयम् । पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८॥ परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् । पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥ ५९॥ आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् । स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६०॥ तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया । स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१॥ प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२॥ कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः । कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥ ६३॥ यूना केनापि मिलद्देहा स्वाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४॥ कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५॥ दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६॥ अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः । आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥ ६७॥ बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८॥ किं वा फलति ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी । सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९॥ मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७०॥ रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया । श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२॥ मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥ ७३॥ वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् । मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४॥ पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५॥ कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु । अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ॥ ७६॥ प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥ ७७॥ विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले । भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥ ७८॥ मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते । शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥ ७९॥ देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः । कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥ ८०॥ वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय । कुङ्कुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥ ८१॥ अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कांचिदद्राक्षम् । अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२॥ परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३॥ दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् । तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥ ८४॥ मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा । विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५॥ अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६॥ प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा । कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७॥ श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा । देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८॥ उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण । गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९॥ ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला । क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥ ९०॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥ ९१॥ विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ॥ ९२॥ कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः । श्रीकामाक्षि तदीयसङ्गमकलामन्दीभवत्कौतुकः जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥ ९३॥ कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् । कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४॥ लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते । वदनं तव कुवयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५॥ जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥ ९६॥ सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या । अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७॥ अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते । चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥ ९८॥ कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् । अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ॥ ९९॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ १००॥ आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०१॥ आर्याशतकं सम्पूर्णम् ॥
॥ पादारविन्दशतकम् ॥ महिम्नः पन्थानं मदनपरिपन्थिप्रणयिनि प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः । तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥ १॥ गलग्राही पौरन्दरपुरवनीपल्लवरुचां धृतपाथम्यानामरुणमहसामादिमगुरुः । समिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥ २॥ मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३॥ वहन्ती सैन्दूरीं सरणिमवनम्रामरपुऱी- पुरन्ध्रीसीमन्ते कविकमलबालार्कसुषमा । त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४॥ प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः स्मरारातेश्चूडावियति गृहमेधी हिमकरः । ययोः सान्ध्यां कान्तिं वहति सुषमाभिश्चरणयोः तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥ ५॥ ययोः पीठायन्ते विबुधमुकुटीनां पटलिका ययोः सौधायन्ते स्वयमुदयभाजो भणितयः । ययोः दासायन्ते सरसिजभवाद्याश्चरणयोः तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥ ६॥ नयन्ती संकोचं सरसिजरुचं दिक्परिसरे सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता । कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी स्फुरन्ती कामाक्ष्याः चरणरुचिसन्ध्या विजयते ॥ ७॥ विरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं पुरस्तादानम्रे पुरविजयिनि स्मेरवदने । वयस्येव प्रौढा शिथिलयति या प्रेमकलह- प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥ ८॥ सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः । भृतं कान्त्यम्भोभिः विसृमरमरन्दैः सरसिजैः विधत्ते कामाक्ष्याः चरणयुगलं बन्धुपदवीम् ॥ ९॥ रजःसंसर्गेऽपि स्थितमरजसामेव हृदये परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् । अलभ्यं मन्दानां दधदपि सदा मन्दगतितां विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥ १०॥ जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरैः निषिदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् । जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥ ११॥ तुलाकोटिद्वन्द्वक्कणितभणिताभीतिवचसोः विनम्रं कामाक्षी विसृमरमहःपाटलितयोः । क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः पुनीयान्मूर्धानं पुरहरपुरन्ध्री चरणयोः ॥ १२॥ भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ । ययोर्लाक्षाबिन्दुस्फुरणधरणाद्ध्वर्जटिजटा- कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३॥ पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः परागास्ते पापप्रशमनधुरीणाः परशिवे । कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा वलन्तो व्यातन्वन्त्यहमहमिकां माधवमुखाः ॥ १४॥ बलाकामालाभिर्नखरुचिमयीभिः परिवृते विनम्रस्वर्नारीविकचकचकालाम्बुदकुले । स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद- स्तटिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥ १५॥ सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् । कथंकारं मातः कथय पदपद्मस्तव सतां नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६॥ जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी- विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा । मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥ १७॥ नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोत्पलमहः- पयोधौ रिङ्खद्भिर्नखकिरणफेनैर्धवलिते । स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा- वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥ १८॥ शिवे पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिसरिति त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९॥ निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः । शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥ २०॥ नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी- निसर्गप्रेङ्खोलत्कुरलकुलकालाहिशबले । नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥ २१॥ कदा दूरीकर्तुं कटुदुरितकाकोलजनितं महान्तं सन्तापं मदनपरिपन्थिप्रियतमे । क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२॥ ययोः सान्ध्यं रोचिः सततमरुणिम्ने स्पृहयते ययोश्चान्द्री कान्तिः परिपतति दृष्ट्वा नखरुचिम् । ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३॥ जगन्नेदं नेदं परमिति परित्यज्य यतिभिः कुशाग्रीयस्वान्तैः कुशलधिषणैः शास्त्रसरणौ । गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते गिरामैदम्पर्यं तव चरणपद्मं विजयते ॥ २४॥ कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां दधानं वैशद्यं कलितरसमानन्दसुधया । अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा- पयोधेरन्तस्स्थं तव चरणरत्नं मृगयते ॥ २५॥ मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः । विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥ २६॥ कवीनां चेतोवन्नखररुचिसम्पर्कि विबुध- स्रवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः । दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥ २७॥ सदा किं सम्पर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः तटैर्नीहाराद्रेरधिकमणुना योगिमनसा । विभिन्ते संमोहं शिशिरयति भक्तानपि दृशाम् अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८॥ पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः । प्रवालैरम्भोजैरपि च वनवासव्रतदशाः सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९॥ चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं निरस्यन्ती जाड्यं नियतजडमध्यैकशरणम् । अदोषव्यासङ्गा सततमपि दोषाप्तिमलिनं पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥ ३०॥ सुराणामानन्दप्रबलनतया मण्डनतया नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया । पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१॥ सितिम्ना कान्तीनां नखरजनुषां पादनलिन- च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने । लभन्ते मन्दारग्रथितनवबन्धूककुसुम- स्रजां सामीचीन्यं सुरपुरपुरन्ध्रीकचभराः ॥ ३२॥ स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां वहन्नब्जं चक्रं दरमपि च लेखात्मकतया । श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३३॥ नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः । सतां गम्यः शङ्के सकलफलदाता सुरतरुः त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३४॥ वषट्कुर्वन्माञ्जीरकलकलैः कर्मलहरी- हवींषि प्रौद्दण्डं ज्वलति परमज्ञानदहने । महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥ ३५॥ महामन्त्रं किंचिन्मणिकटकनादैर्मृदु जपन् क्षिपन्दिक्षु स्वच्छं नखरुचिमयं भास्मनरजः । नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता- पिशाचीं पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ॥ ३६॥ उदीते बोधेन्दौ तमसि नितरां जग्मुषि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्याङ्गं नखरुचिपटेनाङ्घ्रियुगली- पुरन्ध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥ ३७॥ दिनारम्भः सम्पन्नलिनविपिनानामभिनवो विकासो वासन्तः सुकविपिकलोकस्य नियतः । प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८॥ धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् । मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं पदं ते पातङ्गीं परिकलयते पर्वतसुते ॥ ३९॥ शनैस्तीर्त्वा मोहाम्बुधिमथ समारोढुमनसः क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् । लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४०॥ प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि- त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् । प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण- प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥ ४१॥ मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा । गुणोत्कर्षान्माञ्जीरककलकलैस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥ ४२॥ जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा समैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी- तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ ४३॥ गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग- त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ । नखैः स्मेरौ सारौ निगमवचसां खण्डितभव- ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥ ४४॥ अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् । तुलाकोटिद्वन्दं दधदपि च गच्छन्नतुलतां गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥ ४५॥ प्रवालं सव्रीलं विपिनविवरे वेपयति या स्फुरल्लीलं बालातपमधिकबालं वदति या । रुचिं सान्ध्यां वन्ध्यां विरचयति या वर्धयतु सा शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६॥ किरञ्ज्योत्स्नारीतिं नखमुखरुचा हंसमनसां वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः । प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥ ४७॥ नखाङ्कूरस्मेरद्युतिविमलगङ्गाम्भसि सुखं कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् । उदञ्चन्मञ्जीरस्फुरणमणिदीपे मम मनो मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥ ४८॥ भवाम्भोधौ नौकां जडिमविपिने पावकशिखा- ममर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् । जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९॥ परत्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां विधातुं चेष्ठन्ते बलरिपुवधूटीकचभराः ॥ ५०॥ अविश्रान्तं तिष्ठन्नकृतकवचःकन्दरपुटी- कुटीरान्तः प्रौढं नखरुचिसटालीं प्रकटयन् । प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥ ५१॥ पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी- पुरन्ध्रीणां लास्यं तव ललितमालोक्य शनकैः । नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै- श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥ ५२॥ सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः । स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥ ५३॥ नतानां सम्पत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः । त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४॥ वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया पदाम्भोजन्यासं पशुपरिबृढप्राणदयिते । पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५॥ प्रणामोद्यद्बृन्दारमुकुटमन्दारकलिका- विलोलल्लोलम्बप्रकरमयधूमप्रचुरिमा । प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी- कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥ ५६॥ वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे । क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥ ५७॥ समन्तात्कामाक्षि क्षततिमिरसन्तानसुभगान् अनन्ताभिर्भाभिर्दिनमनु दिगन्तान्विरचयन् । अहन्ताया हन्ता मम जडिमदन्तावलहरिः विभिन्तां सन्तापं तव चरणचिन्तामणिरसौ ॥ ५८॥ दधानो भास्वत्ताममृतनिलयो लोहितवपुः विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥ ५९॥ नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ- प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् । जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो- र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥ ६०॥ जनोऽयं सन्तप्तो जननि भवचण्डांशुकिरणैः अलब्धवैकं शीतं कणमपि परज्ञानपयसः । तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१॥ जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे । निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥ ६२॥ प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण- श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये । सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३॥ महाभाष्यव्याख्यापटुशयनमारोपयति वा स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा । द्विरेफाणामध्यासयति सततं वाधिवसतिं प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४॥ विवेकाम्भस्स्रोतस्स्नपनपरिपाटीशिशिरिते समीभूते शास्त्रस्मरणहलसंकर्षणवशात् । सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५॥ दधानो मन्दारस्तबकपरिपाटीं नखरुचा वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् । अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो विकासी वासन्तः समय इव ते शर्वदयिते ॥ ६६॥ नखांशुप्राचुर्यप्रसृमरमरालालिधवलः स्फुरन्मञ्जीरोद्यन्मरकतमहश्शैवलयुतः । भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो नदः शोणाभिख्यो नगपतितनूजे विजयते ॥ ६७॥ धुनानं पङ्कौघं परमसुलभं कण्टककुलैः विकासव्यासङ्गं विदधदपराधीनमनिशम् । नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम् असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८॥ करीन्द्राय द्रुह्यत्यलसगतिलीलासु विमलैः पयोजैर्मात्सर्यं प्रकटयति कामं कलयते । पदाम्भोजद्वन्द्वं तव तदपि कामाक्षि हृदयं मुनीनां शान्तानां कथमनिशमस्मै स्पृहयते ॥ ६९॥ निरस्ता शोणिम्ना चरणकिरणानां तव शिवे समिन्धाना सन्ध्यारुचिरचलराजन्यतनये । असामर्थ्यादेनं परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७०॥ उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ मरालानां शङ्के मसृणगतिलालित्यसरणौ । अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥ ७१॥ दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् । रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२॥ कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ । मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३॥ परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः । निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४॥ स्वभावादन्योन्यं किसलयमपीदं तव पदं म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् । वने पूर्वस्येच्छा सततमवने किं तु जगतां परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥ ७५॥ कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः सदैवानन्दार्द्रान्विरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६॥ चलत्तृष्णावीचीपरिचलनपर्याकुलतया मुहुर्भ्रान्तस्तान्तः परमशिववामाक्षि परवान् । तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७॥ विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय- प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा । त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा नभोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८॥ विनम्राणां चेतोभवनवलभीसीम्नि चरण- प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि । असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥ ७९॥ विराजन्ती शुक्तिर्नखकिरणमुक्तामणिततेः विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् । त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने मुनीनां ज्ञानाग्नेररणिरयमङ्घिर्विजयते ॥ ८०॥ समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः । भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो- बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१॥ वसन्तं भक्तानामपि मनसि नित्यं परिलसद्- घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् । नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥ ८२॥ कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः- प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः । अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३॥ भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः । नतानामामृष्टे हृदयमुकुरे निर्मलरुचि प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥ ८४॥ तव त्रस्तं पादात्किसलयमरण्यान्तरमगात् परं रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे वासो वा शरणगमनं वा निजरिपोः ॥ ८५॥ गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा- कटाक्षर्कज्योतिश्शमितममताबन्धतमसः । यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥ ८६॥ जडानामप्यम्ब स्मरणसमये तवच्चरणयोः भ्रमन्मन्थक्ष्माभृद्धुमुघुमितसिन्धुप्रतिभटाः । प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकरा भवन्ति स्वच्छन्दं प्रकृतिपरिपक्का भणितयः ॥ ८७॥ वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ तमेवाधः कर्तुं किमिव यतते केलिगमने । भवस्यैवानन्दं विदधदपि कामाक्षि चरणो भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥ ८८॥ यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् । किरीटैः संघट्टं कथमिव सुरौघस्य सहते मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९॥ मनोरङ्गे मत्के विबुधजनसंमोदजननी सरागव्यासङ्गं सरसमृदुसंचारसुभगा । मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं रणन्मञ्जीरा ते चरणयुगलीनर्तकवधूः ॥ ९०॥ परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट् पराचां हृत्पद्मं परमभणितीनां च मकुटम् । भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता- पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥ ९१॥ प्रसूनैः सम्पर्कादमरतरुणीकुन्तलभवैः अभीष्टानां दानादनिशमपि कामाक्षि नमताम् । स्वसङ्गात्कङ्केलिप्रसवजनकत्वेन च शिवे त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥ ९२॥ महामोहस्तेनव्यतिकरभयात्पालयति यो विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् । स रागस्योद्रेकात्सततमपि कामाक्षि तरसा किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥ ९३॥ सदा स्वादुंकारं विषयलहरीशालिकणिकां समास्वाद्य श्रान्तं हृदयशुकपोतं जननि मे । कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात् गृहीत्वा रुन्धीथारस्तव पदयुगीपञ्जरपुटे ॥ ९४॥ धुनानं कामाक्षि स्मरणलवमात्रेण जडिम- ज्वरप्रौढिं गूढस्थिति निगमनैकुञ्जकुहरे । अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिनः चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ ९५॥ रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा । निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६॥ सुरागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा । मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९७॥ शिवे संविद्रूपे शशिशकलचूडप्रियतमे शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते । यतन्ते सन्तस्ते चरणनलिनालानयुगले सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥ ९८॥ यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते । सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥ ९९॥ मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये सम्पर्के धृतरसमरन्दा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ १००॥ पुरा मारारातिः पुरमजयदम्ब स्तवशतैः प्रसन्नायां सत्यां त्वयि तुहिनशैलेन्द्रतनये । अतस्ते कामाक्षि स्फुरतु तरसा कालसमये समायाते मातर्मम मनसि पादाब्जयुगलम् ॥ १०१॥ पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां गिरामन्ते भ्रान्तं कृतकरहितानां परिबृढे । जनानामानन्दं जननि जनयन्तं प्रणमतां त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १०२॥ इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् । स विश्वेषां वन्द्यः सकलकविलोकैकतिलकः चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०३॥ पादारविन्दशतकं सम्पूर्णम् ॥
॥ स्तुतिशतकम् ॥ पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते । स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥ १॥ तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे । कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे ॥ २॥ ये सन्ध्यारुणयन्ति शंकरजटाकान्तारचन्रार्भकं सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे । पुण्यं ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३॥ कामाडम्बरपूरया शशिरुचा कम्रस्मितानां त्विषा कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती । कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४॥ कामाक्षीणपराक्रमप्रकटनं सम्भावयन्ती दृशा श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा । कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥ ५॥ श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी । मारारातिमनोविमोहनविधौ काचितत्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६॥ प्रौढध्वान्तकदम्बके कुमुदिनीपुण्यांकुरं दर्शयन् ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् । कालिन्दीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७॥ तन्द्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः । मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिन्धमैः कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्करैः शांकरैः ॥ ८॥ नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती तेजस्संचयपाटवेन किरणानुष्णद्युतेर्मुष्णती । काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥ ९॥ कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् । कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १०॥ राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम् एका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११॥ जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः सन्तापविच्छेदिनी । आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२॥ ऐक्यं येन विरच्यते हरतनौ दम्भावपुम्भावुके रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते । औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान् कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३॥ अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन् उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने । माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपयन् काञ्चीसीम्नि चकास्ति कोऽपि कवितासन्तानबीजाङ्कुरः ॥ १४॥ खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने । तारुण्योष्मनखम्पचं स्तनभरं जङ्घास्पृशं कुन्तलं भाग्यं देशिकसंचितं मम कदा सम्पादयेदम्बिके ॥ १५॥ तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अंहोवञ्चनचुञ्चु किंचन भजे काञ्चीपुरीमण्डनं पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६॥ आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीं चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया । मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्याञ्चिता काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७॥ यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित- ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् । द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥ १८॥ कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसन्ध्योदये । मणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९॥ कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी । कविकुलगिर्ः श्रावंश्रावं मिलत्पुलकांकुरा विरचितशिरःकम्पा कम्पातटे परिशोभते ॥ २०॥ सरसवचसां वीची नीचीभवन्मधुमाधुरी भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी । जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१॥ भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते । अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२॥ मधुरवचसो मन्दस्मेरा मतङ्गजगामिनः तरुणिमजुषस्तापिच्छाभास्तमःपरिपन्थिनः । कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३॥ कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः । रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४॥ कलितरतयः काञ्चीलीलाविधौ कविमण्डली- वचनलहरीवासन्तीनां वसन्तविभूतयः । कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥ २५॥ कबलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः सरसिजवनीसन्तानानामरुन्तुदशेखराः । नयनसरणेर्नेदीयंसः कदा नु भवन्ति मे तरुणजलदश्यामाः शम्भोस्तपःफलविभ्रमाः ॥ २६॥ अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया सरसिजभुवो यानं म्लानं गतेन च मञ्जुना । त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७॥ जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरम्भरिः । तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८॥ मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् । जगति महतो मोहव्याधेर्नृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९॥ मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी- हिमगिरितटप्राग्भारायाक्षराय परात्मने । विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः ॥ ३०॥ मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम् अमृतलहरीपूरं पारं भवाख्यपयोनिधेः । सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१॥ प्रणमनदिनारम्भे कम्पानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदञ्चितः । प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२॥ शमितजडिमारम्भा कम्पातटीनिकटेचरी निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला । फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३॥ मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् । जगति शमितस्तम्भां कम्पानदीनिलयामसौ श्रियति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम् ॥ ३४॥ परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् । अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५॥ पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकविताभाजा काञ्चीपुरोदरसीमया । तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६॥ नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् । मरतकरुचो माहेशाना घनस्तननम्रिताः सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरन्धराः ॥ ३७॥ मनसिजयशःपारम्पर्यं मरन्दझरीसुवां कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् । मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८॥ शिथिलिततमोलीलां नीलारविन्दविलोचनां दहनविलसत्फालां श्रीकामकोटिमुपास्महे । करधृतसच्छूलां कालारिचित्तहरां परां मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥ ३९॥ कलालीलाशाला कविकुलवचःकैरववनी- शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी । पुनीते नः कम्पापुलिनतटसौहार्दतरला कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥ ४०॥ नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्चूडाभरणममृतस्यन्दि शिशिरम् । सदा वास्तवेभ्यः सुविधभुवि कम्पाख्यसरिते यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥ ४१॥ असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी- कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः । तमोमुद्रां विद्रावयतु मम काञ्चीर्निलयना हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२॥ अनाद्यन्ता काचित्सुजननयनानन्दजननी निरुन्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् । स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥ ४३॥ सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः । स्तनाभ्यामानम्रा स्तबकयतु मे काङ्क्षिततरुं दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४४॥ कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां निहन्त्री सन्तापं निगममुकुटोत्तंसकलिका । परा काञ्चीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥ ४५॥ कवित्वश्रीकन्दः सुकृतपरिपाटी हिमगिरेः विधात्री विश्वेषां विषमशरवीरध्वजपटी । सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६॥ दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः स्तनाभोगक्कान्तास्तरुणहरिणाङ्काङ्कितकचाः । हराधीना नानाविबुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७॥ वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो नरीनर्तु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जडिमानः परजने सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥ ४८॥ क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् । नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी- सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९॥ पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां प्रचारस्ते कम्पातटविहृतिसम्पादिनि दृशोः । इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः- परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥ ५०॥ उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् । उपादत्ते मारप्रतिभटजटाजूटमुकुटी- कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१॥ श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा । त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२॥ मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् । गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३॥ घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरान् दृशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मनश्शोके मूके हिमगिरिपताके करुणया ॥ ५४॥ नतानां मन्दानां भवनिगलबन्धाकुलधियां महान्ध्यां रुन्धानामभिलषितसन्तानलतिकाम् । चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५॥ परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूरं दूरं चरणनतपौरन्दरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ ५६॥ अहन्ताख्या मत्कं कबलयति हा हन्त हरिणी हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ । कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥ ५७॥ बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा । कथंकारं नास्मै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८॥ प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि- प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् । चरन्तीं सौषुम्ने पथि परपदेन्दुप्रविगल- त्सुधार्द्रां कामाक्षीं परिणतपरंज्योतिरुदयाम् ॥ ५९॥ जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती । शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६०॥ चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् । मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१॥ कालाम्भोदप्रकरसुषमां कान्तिभिस्तिर्जयन्ती कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् । कन्दर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२॥ ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां पाथोजानां नयनयुगले परिपन्थ्यं वितन्वन् । कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३॥ काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मीः जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः । माकन्दश्रीर्मधुरकविताचातुरी कोकिलानां मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥ ६४॥ सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ लीलालोला कुवलयमयी मान्मथी वैजयन्ती । काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५॥ व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् । काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासुः बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६॥ कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती । हंसारावं विकचकमले मञ्जुमुल्लासयन्ती कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥ ६७॥ चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् । जातः शैलान्न तु जलनिधेः स्वैरसंचारशीलः काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८॥ ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् । व्यावृन्वाना सुकृतलहरी कापि काञ्चिनगर्याम् ऐशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९॥ आहारांशं त्रिदशसदसामाश्रये चातकानाम् आकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् । कम्पातीरे विहरतितरां कामधेनुः कवीनां मन्दस्मेरो मदननिगमप्रक्रियासम्प्रदायः ॥ ७०॥ आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः आस्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः । कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥ ७१॥ आधून्वन्त्यै तरलनयनैराङ्गजीं वैजयन्तीम् आनन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै । आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चैः आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥ ७२॥ दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् । कम्पातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३॥ खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती । तुण्डीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे ॥ ७४॥ येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा यद्दृक्कोणे मदननिगमप्राभवं बोभवीति । यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किम्पचानः कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥ ७५॥ धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् । साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीतिः वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥ ७६॥ यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः । यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥ ७७॥ एका माता सकलजगतामीयुषी ध्यानमुद्राम् एकाम्राधीश्वरचरणयोरेकतानां समिन्धे । ताटङ्कोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥ ७८॥ दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः । अङ्कूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या- मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥ ७९॥ त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् । मतङ्गकुलनायिकां महिषमर्दनीं मातृकां भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥ ८०॥ महामुनिमनोनटी महितरम्यकम्पातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी । सदा भवतु कामिनी सकलदेहिनां स्वामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१॥ जडाः प्रकृतिनिर्धना जनविलोचनारुन्तुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते । वचस्सु मधुमाधुरीं प्रकटयन्ति पौरन्दरी- विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम् ॥ ८२॥ घन्सतनतटस्फुटस्फुरितकञ्चुलीचञ्चली- कृतत्रिपुरशासना सुजनशीलितोपासना । दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे परा परमयोगिनां मनसि चित्कुला पुष्कला ॥ ८३॥ कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी । मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४॥ धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान्न दूयामहे । स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत- स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥ ८५॥ सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः । गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६॥ पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥ ८७॥ कदा कलितखेलनाः करुणयैव काञ्चीपुरे कलायमुकुलत्विषः शुभकदम्बपूर्णाङ्कुराः । पयोधरभरालसाः कविजनेषु ते बन्धुराः पचेलिमकृपारसा परिपतन्ति मार्गे दृशोः ॥ ८८॥ अशोध्यमचलोद्भवं हृदयनन्दनं देहिनाम् अनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते । अनेन समलंकृता जयति शङ्कराङ्कस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९॥ परामृतझरीप्लुता जयति नित्यमन्तश्चरी भुवामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९०॥ तमोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे । कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९१॥ त्वमेव सति चण्डिका त्वमसि देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । त्वमेव किल शाम्भवी त्वमसि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९२॥ परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते । त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९३॥ मनोमधुकरोत्सवं विदधती मनीषाजुषां स्वयम्प्रभववैखरीविपिनवीथिकालम्बिनी । अहो शिशिरिता कृपामधुरसेन कम्पातटे चराचरविधायिनी चलति कापि चिन्मञ्जरी ॥ ९४॥ कलावति कलाभृतो मुकुटसीम्नि लीलावति स्पृहावति महेश्वरे भुवनमोहने भास्वति । प्रभावति रमे सदा महितरूपशोभावति त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥ ९५॥ त्वयैव जगदम्बया भुवनमण्डलं सूयते त्वयैव करुणार्द्रया तदपि रक्षणं नीयते । त्वयैव खरकोपया नयनपावके हूयते त्वयैव किल नित्यया जगति सन्ततं स्थीयते ॥ ९६॥ चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयीं परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥ ९७॥ जय जगदम्बिके हरकुटुम्बिनि वक्त्ररुचा जितशरदम्बुजे घनविडम्बिनि केशरुचा । परमवलम्बनं कुरु सदा पररूपधरे मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९८॥ भुवनजननि भूषाभूतचन्द्रे नमस्ते कलुषशमनि कम्पातीरगेहे नमस्ते । निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९९॥ क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी- शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः । घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥ १००॥ समरविजयकोटी साधकानन्दधाटी मृदुगुणपरिपेटी मुख्यकादम्बवाटी । मुनिनुतपरिपाटी मोहिताजाण्डकोटी परमशिववधूटी पातु मां कामकोटी ॥ १०१॥ इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकृतिप्रकटनप्रदीपायितम् । स्तवं पठति नित्यदा मनसि भावयन्नम्बिकां जपैरलमलं मखैरधिकदेहसंशोषणैः ॥ १०२॥ स्तुतिशतकं सम्पूर्णम् ॥
॥ कटाक्षशतकम् ॥ मोहान्धकारनिवहं विनिहन्तुमीडे मूकात्मनामपि महाकवितावदान्यान् । श्रीकाञ्चिदेशशिशिरीकृतिजागरूकान् एकाम्रनाथतरुणीकरुणावलोकान् ॥ १॥ मातर्जयन्ति ममताग्रहमोक्षणानि माहेन्द्रनीलरुचिशिक्षणदक्षिणानि । कामाक्षि कल्पितजगत्त्रयरक्षणानि त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २॥ आनङ्गतन्त्रविधिदर्शितकौशलानाम् आनन्दमन्दपरिघूर्णितमन्थराणाम् । तारल्यमम्ब तव ताडितकर्णसीम्नां कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३॥ कल्लोलितेन करुणारसवेल्लितेन कल्माषितेन कमनीयमृदुस्मितेन । मामञ्चितेन तव किंचन कुञ्चितेन कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४॥ साहाय्यकं गतवती मुहुरर्जनस्य मन्दस्मितस्य परितोषितभीमचेताः । कामाक्षि पाण्डवचमूरिव तावकीना कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५॥ अस्तं क्षणान्नयतु मे परितापसूर्यम् आनन्दचन्द्रमसमानयतां प्रकाशम् । कालान्धकारसुषुमां कलयन्दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥ ६॥ ताटाङ्कमौक्तिकरुचाङ्कुरदन्तकान्तिः कारुण्यहस्तिपशिखामणिनाधिरूढः । उन्मूलयत्वशुभपादपमस्मदीयं कामाक्षि तावककटाक्षमतङ्गजेतन्द्रः ॥ ७॥ छायाभरणे जगतां परितापहारी ताटङ्करत्नमणितल्लजपल्लवश्रीः । कारुण्यनाम विकिरन्मकरन्दजालं कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥ ८॥ सूर्याश्रयप्रणयिनी मणिकुण्डलांशु- लौहित्यकोकनदकाननमाननीया । यान्ती तव स्मरहराननकान्तिसिन्धुं कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९॥ प्राप्नोति यं सुकृतिनं तव पक्षपातात् कामाक्षि वीक्षणविलासकलापुरन्ध्री । सद्यस्तमेव किल मुक्तिवधूर्वृणीते तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १०॥ यान्ती सदैव मरुतामनुकूलभावं भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा । कामाक्षि कौतुकतरङ्गितनीलकण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११॥ गङ्गाम्भसि स्मितमये तपनात्मजेव गङ्गाधरोरसि नवोत्पलमालिकेव । वक्त्रप्रभासरसि शैवलमण्डलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२॥ संस्कारतः किमपि कन्दलितान् रसज्ञ- केदारसीम्नि सुधियामुपभोगयोग्यान् । कल्याणसूक्तिलहरीकलमांकुरान्नः कामाक्षि पक्ष्मलयतु त्वदपाङ्गमेघः ॥ १३॥ चाञ्चल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रतिपथाक्रमजागरूकः । कैवल्यमेव किमु कल्पयते नतानां कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४॥ संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । संस्तम्भने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥ १५॥ नीलोऽपि रागमधिकं जनयन्पुरारेः लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् । वक्रोऽपि देवि नमतां समतां वितन्वन् कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६॥ कामद्रुहो हृदययन्त्रणजागरूका कामाक्षि चञ्चलदृगञ्चलमेखला ते । आश्चर्यमम्ब भजतां झटिति स्वकीय- सम्पर्क एव विधुनोति समस्तबन्धान् ॥ १७॥ कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू- चापाञ्चितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयञ्जगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८॥ श्रीकामकोटि शिवलोचनशोषितस्य शृङ्गारबीजविभवस्य पुनःप्ररोहे । प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के केदारमम्ब तव केवलदृष्टिपातम् ॥ १९॥ माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य- संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः । धैर्याम्बुधिं पशुपतेश्चुलकीकरोति कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २०॥ पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री- मैत्री निसर्गमधुरा कृततारकाप्तिः । कामाक्षि संश्रितवती वपुरष्टमूर्तेः ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१॥ अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञम् अम्भोजकाननमिवाञ्चितकण्टकाभम् । भृङ्गीव चुम्बति सदैव सपक्षपाता कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२॥ केशप्रभापटलनीलवितानजाले कामाक्षि कुण्डलमणिच्छविदीपशोभे । शङ्के कटाक्षरुचिरङ्गतले कृपाख्या शैलूषिका नटति शंकरवल्लभे ते ॥ २३॥ अत्यन्तशीतलमतन्द्रयतु क्षणार्धम् अस्तोकविभ्रममनङ्गविलासकन्दम् । अल्पस्मितादृतमपारकृपाप्रवाहम् अक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४॥ मन्दाक्षरागतरलीकृतिपारतन्त्र्यात् कामाक्षि मन्थरतरां त्वदपाङ्गडोलाम् । आरुह्य मन्दमतिकौतुकशालि चक्षुः आनन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५॥ त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि- रङ्गं विहारसरसी करुणाप्रवाहः । दासाश्च वासवमुखाः परिपालनीयं कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६॥ वागीश्वरी सहचरी नियमेन लक्ष्मीः भ्रूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमम्ब तेषां कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७॥ माहेश्वरं झटिति मानसमीनमम्ब कामाक्षि धैर्यजलधौ नितरां निमग्नम् । जालेन शृङ्खलयति त्वदपाङ्गनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८॥ उन्मथ्य बोधकमलाकारमम्ब जाड्य- स्तम्बेरमं मम मनोविपिने भ्रमन्तम् । कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९॥ उद्वेल्लितस्तबकितैर्ललितैर्विलासैः उत्थाय देवि तव गाढकटाक्षकुञ्जात् । दूरं पलाययतु मोहमृगीकुलं मे कामाक्षि स्तवरमनुग्रहकेसरीन्द्रः ॥ ३०॥ स्नेहादृतां विदलितोत्पलकन्तिचोरां जेतारमेव जगदीश्वरि जेतुकामः । मानोद्धतो मकरकेतुरसौ धुनीते कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१॥ श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां कामाक्षि सन्ततमपि स्मृतिमार्गगामी । कौटिल्यमम्ब कथमस्थिरतां च धत्ते चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२॥ नित्यं श्रेतुः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः कामाक्षी किन्तु तव कालिमसम्प्रदायम् ॥ ३३॥ भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ कामाक्षि वक्त्ररुचिसंचयवारिराशौ । आनन्दति त्रिपुरमर्दननेत्रलक्ष्मीः आलम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४॥ श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः कामाक्षि कन्दलितमेदुरतारकान्तिः । ज्योत्स्नावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५॥ कालाञ्जनं च तव देवि निरीक्षणं च कामाक्षि साम्यसरणिं समुपैति कान्त्या । निश्शेषनेत्रसुलभं जगतीषु पूर्व- मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥ ३६॥ धूमाङ्कुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते । अत्यन्तमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरुणाङ्कमौलेः ॥३७॥ आरभ्भलेशसमये तव वीक्षणस्स कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिस्वयंवरणमाल्यवती वृणीते ॥ ३८॥ कालाम्बुवाह उव ते परितापहारी कामाक्षि पुष्करमधःकुरुते कटाख़्षः । पूर्वः परं क्षणरुचा समुपैति मैत्री- मन्यस्तु स।ततरुचिं प्रकटीकरोति ॥ ३९॥ सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमार्गे । संसारपङ्कनिचये न पतत्यमूं ते कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४०॥ कामाक्षि सन्ततमसौ हरिनीलरत्न- स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः । बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१॥ कामाक्षि काष्णर्यमपि सन्ततमञ्जनं च बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः । वैमल्यमन्वहमनञ्जनता च भूयः स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२॥ मन्दस्मितस्तबकितं मणिकुण्डलांशु- स्तोमप्रवालरुचिरं शिशिरीकृताशम् । कामाक्षि राजति कटाक्षरुचेः कदम्बम् उद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३॥ कामाक्षि तावककटाक्षमहेन्द्रनील- सिंहासनं श्रितवतो मकरध्वजस्य । साम्राज्यमङ्गलविधौ मुणिकुण्डलश्रीः नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४॥ मातः क्षणं स्नपय मां तव वीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिरोत्करभास्करेण श्रेयस्करेण मधुपद्युतितस्करेण ॥ ४५॥ प्रेमापगापयसि मज्जनमारचय्य युक्तः स्मितांशुकृतभस्मविलेपनेन । कामाक्षि कुण्डलमणिद्युतिभिर्जटालः श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६॥ कैवल्यदाय करुणारसकिंकराय कामाक्षि कन्दलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवंकराय मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७॥ साम्राज्यमङ्गलविधौ मकरध्वजस्य लोलालकालिकृततोरणमाल्यशोभे । कामेश्वरि प्रचलदुत्पलवैजयन्ती- चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८॥ मार्गेण मञ्जुकचकान्तितमोवृतेन मन्दायमानगमना मदनातुरासौ । कामाक्षि दृष्टिरयते तव शंकराय संकेतभूमिमचिरादभिसारिकेव ॥ ४९॥ व्रीडनुवृत्तिरमणीकृतसाहचर्या शैवालितां गलरुचा शशिशेखरस्य । कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मीः मन्दं समाश्रयति मज्जनखेलनाय ॥ ५०॥ काषायमंशुकमिव प्रकटं दधानो माणिक्यकुण्डलरुचिं ममताविरोधी । श्रुत्यन्तसीमनि रतः सुतरां चकास्ति कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१॥ पाषाण एव हरिनीलमणिर्दिनेषु प्रम्लनतां कुवलयं प्रकटीकरोति । नौमित्तिको जलदमेचकिमा ततस्ते कामाक्षि शून्यमुपमनमपाङ्गलक्ष्म्याः ॥ ५२॥ शृङ्गारविभ्रमवती सुतरां सलज्जा नासाग्रमौक्तिकरुचा कृतमन्दहासा । श्यामा कटाक्षसुषमा तव युक्तमेतत् कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३॥ नीलोत्पलेन मधुपेन च दृष्टिपातः कामाक्षि तुल्य इति ते कथमामनन्ति । शैत्येन निन्दयति यदन्वहमिन्दुपादान् पाथोरुहेण यदसौ कलहायते च ॥ ५४॥ ओष्ठप्रभापटलविद्रुममुद्रिते ते भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ । कामाक्षि वारिभरपूरणलम्बमान- कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५॥ मन्दस्मितैर्धवलिता मणिकुण्डलांशु- सम्पर्कलोहितरुचिस्त्वदपाङ्गधारा । कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६॥ कामाक्षि शीतलकृपारसनिर्झराम्भः- सम्पर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला । गोभिः सदा पुररिपोरभिलष्यमाणा दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७॥ हृत्पङ्कजं मम विकासयतु प्रमुष्ण- न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा । दोषानुषङ्गजडतां जगतां धुनानः कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८॥ चक्षुर्विमोहयति चन्द्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः । प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९॥ कामाक्षि वीक्षणरुचा युधि निर्जितं ते नीलोत्पलं निरवशेषगताभिमानम् । आगत्य तत्परिसरं श्रवणवतंस- व्योजेन नूनमभयार्थनमातनोति ॥ ६०॥ आश्चर्यमम्ब मदानाभ्युदयावलम्बः कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते । धैर्यं विधूय तनुते हृदि रागबन्धं शम्भोस्तदेव विपरीततया मुनीनाम् ॥ ६१॥ जन्तोः सकृत्प्रणमतो जगदीड्यतां च तेजास्वितां च निशितां च मतिं सभायाम् । कामाक्षि माक्षिकझरीमिव वैखरीं च लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२॥ कादम्बिनी किमयते न जलानुषङ्गं भृङ्गावली किमुररीकुरुते न पद्मम् । किं वा कलिन्दतनया सहते न भङ्गं कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३॥ काकोलपावकतृणीकरणेऽपि दक्षः कामाक्षि बालकसुधाकरशेखरस्य । अत्यन्तशीतलतमोऽप्यनुपारतं ते चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४॥ कार्पण्यपूरपरिवर्धितमम्ब मोह- कन्दोद्गतं भवमयं विषपादपं मे । तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५॥ कामाक्षि घोरभवरोगचिकित्सनार्थ- मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् । तत्रापि देवि लभते सुकृती कदाचि- दन्यस्य दुर्लभमपाङ्गमहौषधं ते ॥ ६६॥ कामाक्षि देशिककृपांकुरमाश्रयन्तो नानातपोनियमनाशितपाशबन्धाः । वासालयं तव कटाक्षममुं महान्तो लब्ध्वा सुखं समाधियो विचरन्ति लोके ॥ ६७॥ साकूतसंलपितसम्भृतमुग्धहासं व्रीडानुरागसहचारि विलोकनं ते । कामाक्षि कामपरिपन्थिनि मारवीर- साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८॥ कामाक्षि विभ्रमबलैकनिधिर्विधाय भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् । स्वाधीनतां तव निनाय शशाङ्कमौले- रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९॥ कामांकुरैकनिलयस्तव दृष्टिपातः कामाक्षि भक्तमनसां प्रददातु कामान् । रागान्वितः स्वयमपि प्रकटीकरोति वैराग्यमेव कथमेष महामुनीनाम् ॥ ७०॥ कालाम्बुवाहनिवहैः कलहायते ते कामाक्षि कालिममदेन सदा कटाक्षः । चित्रं तथापि नितराममुमेव दृष्ट्वा सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१॥ कामाक्षि मन्मथरिपुं प्रति मारताप- मोहान्धकारजलदागमनेन नृत्यन् । दुष्कर्मकञ्चुकिकुलं कबलीकरोतु व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२॥ कामाक्षि मन्मथरिपोरवलोकनेषु कान्तं पयोजमिव तावकमक्षिपातम् । प्रेमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३॥ मूको विरिञ्चति परं पुरुषः कुरूपः कन्दर्पति त्रिदशराजति किम्पचानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४॥ नीलालका मधुकरन्ति मनोज्ञनासा- मुक्तारुचः प्रकटकन्दबिसाङ्कुरन्ति । कारुण्यमम्ब मकरन्दति कामकोटि मन्ये ततः कमलमेव विलोचनं ते ॥ ७५॥ आकांक्ष्यमाणफलदानविचक्षणायाः । कामाक्षि तावककटाक्षककामधेनोः । सम्पर्क एव कथमम्ब विमुक्तपाश- बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६॥ संसारघर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति घनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७॥ प्रेमाम्बुराशिसततस्नपितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । सन्धुक्षयन्ति मुहुरिन्धनराशिरीत्या मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७८॥ कालाञ्जनप्रतिभटं कमनीयकान्त्या कन्दर्पतन्त्रकलया कलितानुभावम् । काञ्चीविहाररसिके कलुषार्तिचोरं कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९॥ क्रान्तेन मन्मथदेन विमोह्यमान- स्वान्तेन चूततरुमूलगतस्य पुंसः । कान्तेन किंचिदवलोकय लोचनस्य प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८०॥ कामाक्षि कोऽपि सुजनास्त्वदपाङ्गसंगे कण्ठेन कन्दलितकालिमसम्प्रदायाः । उत्तंसकल्पितचकोरकुटुम्बपोषा नक्तन्दिवसप्रसवभूनयना भवन्ति ॥ ८१॥ नीलोत्पलप्रसवकान्तिनिर्दशनेन कारुण्यविभ्रमजुषा तव वीक्षणेन । कामाक्षि कर्मजलधेः कलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२॥ अत्यन्तचञ्चलमकृत्रिममञ्जनं किं झंकारभङ्गिरहिता किमु भृङ्गमाला । धूमाङ्कुरः किमु हुताशनसंगहीनः कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३॥ कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति- बीजाय विभ्रममदोदयघूर्णिताय । कन्दर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४॥ दर्पाङ्कुरो मकरकेतनविभ्रमाणां निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् । दीपाङ्कुरो भवतमिस्रकदम्बकानां कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५॥ कैवल्यदिव्यमणिरोहणपर्वतेभ्यः कारुण्यनिर्झरपयःकृतमञ्जनेभ्यः । कामाक्षि किंकरितशङ्करमानसेभ्य- स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६॥ अल्पीय एव नवमुत्पलमम्ब हीना मीनस्य वा सरणिरम्बुरुहां च किं वा । दूरे मृगीदृगसमञ्जसमञ्जनं च कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७॥ मिश्रीभवद्गरलपङ्किलशङ्करोरस्- सीमाङ्गणे किमपि रिङ्खणमादधानः । हेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८॥ प्रौढिकरोति विदुषां नवसूक्तिधाटी- चूताटवीषु बुधकोकिललाल्यमानम् । माध्वीरसं परिमलं च निरर्गलं ते कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९॥ कूलंकषं वितनुते करुणाम्बुवर्षी सारस्वतं सुकृतिनः सुलभं प्रवाहम् । तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९०॥ जगर्ति देवि करुणाशुकसुन्दरी ते ताटङ्करत्नरुचिदाडिमखण्डशोणे । कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज- माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१॥ कामाक्षि सत्कुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसौ तव दृष्टिपातः । किंच स्फुटं कुटिलतां प्रकटीकरोति भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२॥ एषा तवाक्षिसुषमा विषमायुधस्य नाराचवर्षलहरी नगराजकन्ये । शंके करोति शतधा हृदि धैर्यमुद्रां श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३॥ बाणेन पुष्पधनुषः परिकल्प्यमान- त्राणेन भक्तमनसां करुणाकरेण । कोणेन कोमलदृशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४॥ मारद्रुहा मुकुटसीमनि लाल्यमाने मन्दाकिनीपयसि ते कुटिलं चरिष्णुः । कामाक्षि कोपरभसाद्वलमानमीन- सन्देहमङ्कुरयति क्षणमक्षिपातः ॥ ९५॥ कामाक्षि संवलितमौक्तिककुण्डलांशु- चञ्चत्सितश्रवणचामरचातुरीकः । स्तम्भे निरन्तरमपाङ्गमये भवत्या बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६॥ यावत्कटाक्षरजनीसमयागमस्ते कामाक्षि तावदचिरान्नमतां नराणाम् । आविर्भवत्यमृतदीधितिबिम्बमम्ब संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७॥ कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुः समस्तविभवं नमतां नराणाम् । भृङ्गस्य नीलनलिनस्य च कान्तिसम्प- त्सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८॥ अत्यन्तशीतलमनर्गलकर्मपाक- काकोलहारि सुलभं सुमनोभिरेतत् । पीयूषमेव तव वीक्षणमम्ब किन्तु कामाक्षि नीलमिदमित्ययमेव भेदः ॥ ९९॥ अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यन्तगर्वमनधीतसमस्तशास्त्रम् । अप्राप्तसत्यमसमीपगतं च मुक्तेः कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥ १००॥ (कामाक्षि मामवतु ते करुणाकटाक्षः) पातेन लोचनरुचेस्तव कामकोटि पोतेन पतकपयोधिभयातुराणाम् । पूतेन तेन नवकाञ्चनकुण्डलांशु- वीतेन शीतलय भूधरकन्यके माम् ॥ १०१॥ कटाक्षशतकं सम्पूर्णम् ॥
॥ मन्दस्मितशतकम् ॥ बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां कन्दर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे । कामाक्ष्या घनसारपुञ्जरजसे कामद्रुहश्चक्षुषां मन्दारस्तबकप्रभामदमुषे मन्दस्मितज्योतिषे ॥ १॥ सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे- राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे । स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २॥ कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् । क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जती कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥ ३॥ या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते । या सौन्दर्यधुनीतरङ्गततिषु व्यालोलहंसायते कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥ ४॥ येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा येषां सन्ततमारुरुक्षति तुलाकक्ष्यां शरच्चन्द्रमाः । येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कुराः ॥ ५॥ आशासीमसु सन्ततं विदधती नैशाकरीं व्याक्रियां काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती । ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष- क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥ ६॥ आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं कन्दर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः । यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चञ्चला सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥ ७॥ शम्भोर्या परिरम्भसम्भ्रमविधौ नैर्मल्यसीमानिधिः गैर्वाणीव तरङ्गिणी कृतमृदुस्यन्दां कलिन्दात्मजाम् । कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं कामाक्ष्याः स्मितकन्दली भवतु नः कल्याणसन्दोहिनी ॥ ८॥ जेतुं हारलतामिव स्तनतटीं संजग्मुषी सन्ततं गन्तुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि । लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती मञ्जुस्ते स्मितमञ्जरी भवभयं मथ्नातु कामाक्षि मे ॥ ९॥ श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती शीतापि स्मरपावकं पशुपतेः सन्धुक्षयन्ती सदा । स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशन्ती गतिं कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥ १०॥ वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् । निर्निद्रामलपुण्डरीककुहनापाण्डित्यमाबिभ्रती कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ॥ ११॥ नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवैः शुद्धस्य द्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता । या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासप्रभा ॥ १२॥ द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती यान्ती चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेङ्खणम् । ज्ञानाम्भोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥ १३॥ काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः । वक्षोजन्मतुषारशैलकटके संचारमातन्वती कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४॥ कम्बोर्वंशपरम्परा इव कृपासन्तानवल्लीभुवः सम्फुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव । वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५॥ वक्षोजे घनसारपत्ररचनाभङ्गीसपत्नायिता कण्ठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता । ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्खत्प्रसूनायिता कामाक्षि स्फुरतां मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६॥ येषां बिन्दुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः येषां दीन इवाधिकण्ठमयते हारः करालम्बनम् । येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७॥ या जाड्याम्बुनिधिं क्षिणोति भजतां वैरायते कैरवैः नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् । बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी कामाक्षि स्मितमञ्जरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥ १८॥ आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् । ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९॥ वक्त्रेन्दोस्तव चन्द्रिका स्मितततिर्वल्गु स्फुरन्ती सतां स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् । एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते बिम्बोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालम्बते ॥ २०॥ सादृश्यं कलशाम्बुधेर्वहति यत्कामाक्षि मन्दस्मितं शोभामोष्ठरुचाम्ब विद्रुमभवामेताद्भिदां ब्रूमहे । एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान् एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥ २१॥ उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका- पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः । सन्ध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२॥ क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः । किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ॥ २३॥ कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चन्द्रातपैः मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् । श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः तत्तादृङ्मम तापशान्तिविधये किं देवि मन्दायते ॥ २४॥ मध्येगर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा । यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५॥ बिम्बोष्ठद्युतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा । कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे । फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६॥ बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् । आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७॥ प्रेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं वक्त्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् । नैरन्तर्यविजृम्भितस्तनतटे नैचोलपट्टायितं कालुष्यं कबलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८॥ पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापप्रथा कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे । मन्दारस्य कथालवं न सहते मथ्नाति मन्दाकिनी- मिन्दुं निन्दति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते ॥ २९॥ विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा विख्यातो मदनान्तकेन मुकुटीमध्ये च संमान्यताम् । आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३०॥ चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः । संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१॥ कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमंकरानङ्कुरान् । ये वक्त्रं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह- द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥ ३२॥ कुर्युर्नः कुलशैलराजतनये कूलंकषं मङ्गलं कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं सन्तोषयन्तीश्वरं कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥ ३३॥ कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम- व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा । कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चुना कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४॥ त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः । किंच क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका- बिब्वोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः ॥ ३५॥ दुष्कर्मार्कनिसर्गकर्कशमहस्सम्पर्कतपतं मिल- त्पङ्कं शङ्करवल्लभे मम मनः काञ्चीपुरालंक्रिये । अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा- मानन्दोदयसौधशृङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६॥ नम्राणां नगराजशेखरसुते नाकालयानां पुरः कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् । आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७॥ कामाक्षि प्रथमानविभ्रमनिधिः कन्दर्पदर्पप्रसूः मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् । यं द्रष्टुं विहिते करग्रह उमे शम्भुस्त्रपामीलितं स्वैरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८॥ क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः । मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं मार्गं दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९॥ ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं हंसैरेव शरद्विलाससमये व्याकोचमम्भोरुहम् । स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिम्बं दिवः पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४०॥ मानग्रन्थिविधुन्तुदेन रभसादास्वाद्यमाने नव- प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य स्मितचन्द्रिकां पुनरिमामुन्मीलनं जग्मुषीं चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१॥ कामाक्षि स्मितमञ्जरीं तव भजे यस्यास्त्विषामङ्कुरा- नापीनस्तनपानलालसतया निश्शङ्कमङ्केशयः । ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुण्डया सूनुसुते बिसशङ्कयाशु कुहनादन्तावलग्रामणीः ॥ ४२॥ गाढाश्लेषविमर्दसम्भ्रमवशादुद्दाममुक्तागुण- प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि । या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां सा मे खेलतु कामकोटि हृदये सान्द्रस्मितांशुच्छटा ॥ ४३॥ मन्दारे तव मन्थरस्मितरुचां मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते । चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते शुद्धानां कथमीदृशी गिरिसुतेऽतिशुद्धा दशा कथ्यताम् ॥ ४४॥ पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते । शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ ४५॥ आशङ्के तव मन्दहासलहरीमन्यादृशीं चन्द्रिका- मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे । वक्षोजाम्बुरुहे न ते रचयतः कांचिद्दशां कौङ्मली- मास्याम्भोरुहमम्ब किंच शनकैरालम्बते फुल्लताम् ॥ ४६॥ आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी मारद्रोहिणि कन्दलत्स्मरशरज्वालावलीर्व्यञ्जती । निन्दन्ती घनसारहारवलयज्योत्स्नामृणालानि ते कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७॥ सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम- स्सन्दोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी । निर्यान्ती वदनारविन्दकुहरान्निर्धूतजाड्या नृणां श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥ ४८॥ कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासाङ्कुराः । ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी- कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९॥ प्रेङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता मज्जन्तो मन्दनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् । श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो नीलाम्भोधरनैपुणीं तत इतो निर्निद्रयन्त्यञ्जसा ॥ ५०॥ व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता । उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१॥ कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते । आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥ ५२॥ वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन । कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥ ५३॥ लावण्याम्बुजिनीमृणालवलयैः शृङ्गारगन्धद्विप- ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोङ्कुरैः । आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥ ५४॥ उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा- चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती । या वैदग्ध्यमुपैति शंकरजटाकान्तारवाटीपत- त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मञ्जुला ॥ ५५॥ सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै- रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् । प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥ ५६॥ धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः । जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७॥ यन्नाकम्पत कालकूटकबलीकारे चुचुम्बे न यद्- ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् । चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ॥ ५८॥ सम्भिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः संमिश्रेव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः । कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिना कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ॥ ५९॥ जानीमो जगदीश्वरप्रणयिनि त्वन्मन्दहासप्रभां श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा । आस्येन्दोरवलोकेन पशुपतेरभ्येति सम्फुल्लतां तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६०॥ यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः भान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी । बिम्बोष्ठद्युतिपुञ्जचुम्बनकलाशोणायमानेन ते कामाक्षि स्मितरोचिषा समदशामारोढुमाकाङ्क्षते ॥ ६१॥ श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् । शीतं देवि तथा यथा हिमजलं सन्तापमुद्रास्पदं श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥ ६२॥ त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं सन्तः सन्ततमामनन्त्यमलता तल्लक्षणं लक्ष्यते । अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यन्तरं ध्वान्तं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ॥ ६३॥ नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बन्धूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं बिम्बोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ॥ ६४॥ मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती । उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥ ६५॥ श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलंमन्या जगन्मण्डले । लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्षं विरहय्य मङ्गलतरं मन्दारचन्द्रादयः ॥ ६६॥ क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे । एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥ ६७॥ श्रीकाञ्चीपुररत्नदीपकलिके तान्येव मेनात्मजे चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे । कम्पातीरकुटुम्बचंक्रमकलाचुञ्चूनि चञ्चूपुटैः नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८॥ शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन् नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् । लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन् कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ ६९॥ श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् । यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयन्त्यञ्जसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ॥ ७०॥ श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि । चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१॥ ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्तिं विना त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना । सन्तापो विनिवार्यते नववयःप्राचुर्यमङ्कूर्यते सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२॥ वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव सन्धुक्ष्यते ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव सम्पद्यते । स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥ ७३॥ प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् । यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका- गर्भे मौक्तिकमण्डली च सरसीमध्ये मृणाली च सा ॥ ७४॥ हेरम्बे च गुहे हर्षभरितं वात्सल्यमङ्कूरयत् मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयत् । आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत् कामाक्षि स्मितमञ्जसा तव कथंकारं मया कथ्यते ॥ ७५॥ संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगमं वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् । अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् ॥ ७६॥ श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरप्रक्रमम्ं नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् । तत्तादृक्तव मन्दहासमहिमा मातः कथं मानितां तन्मूर्ध्ना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७॥ ये माधुर्यविहारमण्टपभुवो ये शैत्यमुद्राकरा ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाङ्कुराः । कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८॥ कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षान्तके वीक्षणे मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः । दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९॥ जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् । एनःपङ्कपरम्परामलिनितामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८०॥ अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे । इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः वैकुण्ठैरवकुण्ठनं च कुरुते धूलीचयैर्भास्मनैः ॥ ८१॥ श्रीकाञ्चीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् । मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ॥ ८२॥ किं त्रैस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थं नवं पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः । किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३॥ भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती नीवी विभ्रमसन्ततेः पशुपतेः सौधी दृशां पारणा । जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥ ८४॥ सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५॥ जन्तूनां जनिदुःखमृत्युलहरीसन्तापनं कृन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः । श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा- दालोकेन निहन्युरन्धतमसस्तोमस्य मे सन्ततिम् ॥ ८६॥ उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी- रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी । श्रीकामाक्षि तव स्मितद्युतिततिर्बिम्बोष्ठकान्त्यङ्कुरैः चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ॥ ८७॥ स्वाभाव्यात्तव वक्त्रमेव ललितं सन्तोषसम्पादनं शम्भोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम् । अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियम्भावुकं कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ॥ ८८॥ पुम्भिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभन्तेतराम् । सूक्तिं पक्ष्मलयन्ति निर्मलतमां यत्तावकाः सेवकाः तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥ ८९॥ आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय- न्निन्दुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् । हिंसत्संसृतिडम्बरं तव शिवे हासाह्वयो मान्त्रिकः श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ॥ ९०॥ क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित- ज्योतिर्मण्डलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठकर्मघर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥ ९१॥ श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिम्फूर्जति प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् । दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ॥ ९२॥ मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां कादाचित्कतया विशङ्क्य बहुशो वैशद्यमुद्रागुणः । सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ ९३॥ इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल- प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम् । मातर्मां परिषिञ्च किंचिदमलैः पीयूषवर्षैरिव श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥ ९४॥ भाषाया रसनाग्रखेलनजुषः शृङ्गारमुद्रासखी- लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे । श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५॥ सन्तापं विरलीकरोतु सकलं कामाक्षि मच्चेतना मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते । नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिबिम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६॥ चेतःक्षीरपयोधिमन्थरचलद्रागाख्यमन्थाचल- क्षोभव्यापृतिसम्भवां जननि ते मन्दस्मितश्रीसुधाम् । स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ ९७॥ आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल- प्रेङ्खन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः । काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥ ९८॥ सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहुः माधुर्यागमसम्प्रदायमथवा सूक्तेर्नु मन्दस्मितम् । इत्थं कामपि गाहते मम मनः सन्देहमार्गभ्रमिं श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥ ९९॥ क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे । निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १००॥ आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् । कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम् आरोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥ १०१॥ मन्दस्मितशतकं सम्पूर्णम् ॥ श्री मूकपञ्चशती सम्पूर्णा ॥ ॥ ॐ तत् सत् ॥
Encoded and proofread by Sridhar Seshagiri sridhar.seshagiri at gmail.com

% Text title            : shrImUkapanchashatI
% File name             : shrImUka500.itx
% itxtitle              : mUkapanchashatI (AryA pAdAravinda stuti kaTAkSha mandasmitashatakam)
% engtitle              : mUkapanchashatI (AryA pAdAravinda stuti kaTAkSha mandasmitashatakam)
% Category              : shataka, devii, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : mUka mahAkavi
% Language              : Sanskrit
% Subject               : stotra/hinduism/religion
% Transliterated by     : Sridhar  Seshagiri sridhar.seshagiri at gmail.com
% Proofread by          : Sridhar  Seshagiri sridhar.seshagiri at gmail.com
% Indexextra            : (1, Meaning 1, archive Tamil, Telugu(1))
% Latest update         : January 6, 2003, March 10, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP