श्रीसूक्तार्थसङ्ग्रहः
हिरण्यं विष्णुराख्यातस्तस्य वर्णस्तु वैष्णवी ।
लक्ष्मीहिरण्यवर्णेति श्रूयते कनकप्रभा ॥ १॥
हरिणीं तु हरेः पत्नीं दारिद्र्यपरिहारिणीम् ।
प्रपद्येऽहं हरिद्राभां हरिणाक्षीं हिरण्मयीम् ॥ २॥
हिरण्यरेतसः शम्भोः शक्तिः प्रोक्ता हिरण्मयी ।
धनार्थिभिरूपास्यैषा जातवेदसि सर्वदा ॥ ३॥
चतुरङ्गबलोपेतां धनधान्य सुखेश्वरीम् ।
अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥ ४॥
देवैर्जुष्टामुदारां च पद्मिनीमीं भजाम्यहम् ।
त्वां वृणे त्वत्प्रसादेन ममालक्ष्मीर्विनश्यतु ॥ ५॥
उद्यदादित्यसङ्काशां बिल्वकाननमध्यगाम् ।
तनुमध्यां श्रियं ध्यायेदलक्ष्मीपरिहारिणीम् ॥ ६॥
कुबेरस्तपसा पूर्वं तोषयामास शङ्करम् ।
शिवार्थं तु महालक्ष्मीः कुबेरस्य वशे स्थिता ॥ ७॥
तस्माद्धि भक्तवात्सल्यं श्रीदेव्याः प्रकटीकृतम् ।
अनुगृह्णाति यं यं श्रीस्तं कुबेरोऽनुधावति ॥ ८॥
खड्गं सवातचक्रञ्च कमलं वरमेव च ।
करैश्चतुर्भिर्बिभ्राणां ध्यायेच्चन्द्राननां श्रियम् ॥ ९॥
गोवृन्दानुगतां ध्यात्वा सुरभिं सस्यमालिनीम् ।
पृथुलां प्राणिनामीशां दुर्धर्षां श्रियमर्चयेत् ॥ १०॥
तां ध्यायेत् सत्यसङ्कल्पां लक्ष्मीं क्षीरौदनप्रियाम् ।
ख्यातां सर्वेषु भूतेषु तत्तज्ज्ञानबलक्रियाम् ॥ ११॥
सवत्सागौरिव प्रीतां कर्दमेन तथेन्दिराम् ।
कल्याणी मद्गृहे नित्यं निवसेत् पद्ममालिनीम् ॥ १२॥
चिक्लीत श्रीसुत स्वामिन्-श्चिरं निवस मद्गृहे ।
मत्कुले सुचिरं तिष्ठ मच्चित्ते सन्निधिं कुरु ॥ १३॥
त्वदागमनमात्रेण त्वन्माता त्वामनुव्रजेत् ।
श्रीदेवीं तां मम गृहे चिरं वासय मातरम् ॥ १४॥
तां स्मरेदभिषेकार्द्रां पुष्टिदां पुष्टिरूपीणीम् ।
सूर्यामैश्वर्यरूपां च सावित्रीं सूर्यरूपीणीम् ॥ १५॥
आत्मसज्ञां च चिद्रूपां ज्ञानदृष्टिस्वरूपिणीम् ।
स्वर्णात्मनाविर्भूतां च जातवेदो म आवह ॥ १६॥
हिरण्मयीं महालक्ष्मीं ऋग्भिः सम्पूजयेन्नरः ।
पूर्णानन्दप्रतिष्ठां च प्राप्नोत्येव न संशयः ॥ १७॥
इति श्रीसूक्तार्थसङ्ग्रहः सम्पूर्णा ।
Proofread by Narendran Madathil