श्रीवल्लीभुवनेश्वर्यष्टोत्तरशतनामावलिः

श्रीवल्लीभुवनेश्वर्यष्टोत्तरशतनामावलिः

ॐ ह्रीं शिरालीक्षेत्रचैतन्यायै नमो नमः । ॐ ह्रीं श्रीचित्रापुरवासिन्यै नमो नमः । ॐ ह्रीं मठप्रासादसाम्राज्ञ्यै नमो नमः । ॐ ह्रीं श्रीवल्लीभुवनेश्वर्यै नमो नमः । ॐ ह्रीं आराध्यार्धाङ्गिनीपूर्णायै नमो नमः । ॐ ह्रीं भवानीशङ्करप्रियायै नमो नमः । ॐ ह्रीं रामाञ्जनेयचिद्वाण्यै नमो नमः । ॐ ह्रीं गणेशस्नेहसन्धितायै नमो नमः । ॐ ह्रीं क्षेत्रपालकजागर्य्यायै नमो नमः । ॐ ह्रीं गुरुपरम्परागिरायै नमो नमः । १० ॐ ह्रीं दक्षिणामूर्तिमौनाभायै नमो नमः । ॐ ह्रीं भाष्यकारान्तरङ्गिण्यै नमो नमः । ॐ ह्रीं आश्रमसम्प्रदायाद्यायै नमो नमः । ॐ ह्रीं आश्रमवंशसूत्रिकायै नमो नमः । ॐ ह्रीं परिज्ञानेडितैश्वर्यायै नमो नमः । ॐ ह्रीं परिज्ञानजधर्मधृते नमो नमः । ॐ ह्रीं सारस्वतसमाराध्यायै नमो नमः । ॐ ह्रीं वात्सल्यपूर्णविग्रहायै नमो नमः । ॐ ह्रीं सहस्रांशुलसत्कायायै नमो नमः । ॐ ह्रीं पीयूषनिधिकैरव्यै नमो नमः । २० ॐ ह्रीं लसच्चन्द्रकलाधात्र्यै नमो नमः । ॐ ह्रीं यौवनोत्पलसौरभ्यै नमो नमः । ॐ ह्रीं रक्तचन्दनवर्णाङ्ग्यै नमो नमः । ॐ ह्रीं चन्द्रार्कवह्निलोचनायै नमो नमः । ॐ ह्रीं स्मितालङ्कृतबिम्बौष्ठायै नमो नमः । ॐ ह्रीं पीनोत्तुङ्गकुचद्वय्यै नमो नमः । ॐ ह्रीं वेदवेदाङ्गपादाब्जायै नमो नमः । ॐ ह्रीं कुञ्चिततनुमध्यमायै नमो नमः । ॐ ह्रीं वरदभीतिहामुद्रायै नमो नमः । ॐ ह्रीं पाशाङ्कुशसुयन्त्रणायै नमो नमः । ३० ॐ ह्रीं नागालङ्कृतधम्मिल्लायै नमो नमः । ॐ ह्रीं केतक्यङ्कितवेणिधृते नमो नमः । ॐ ह्रीं पद्मनिहितपादाङ्ग्यै नमो नमः । ॐ ह्रीं पन्नगेश्वरमेखलायै नमो नमः । ॐ ह्रीं नानावर्णाम्बरोपेतायै नमो नमः । ॐ ह्रीं नानाभावाङ्कितेक्षणायै नमो नमः । ॐ ह्रीं दर्शनात्पापभस्मीकृते नमो नमः । ॐ ह्रीं जपादकालमृत्युहायै नमो नमः । ॐ ह्रीं शिवगुरुकृपापाङ्ग्यै नमो नमः । ॐ ह्रीं दीर्घजाड्यविनाशिन्यै नमो नमः । ४० ॐ ह्रीं मन्त्रोपदिष्टसङ्गोप्त्र्यै नमो नमः । ॐ ह्रीं अक्षमालाविलासिन्यै नमो नमः । ॐ ह्रीं वाग्बीजध्यानसन्तुष्टायै नमो नमः । ॐ ह्रीं ह्रींकाराक्षररूपिण्यै नमो नमः । ॐ ह्रीं ह्रींकारमणिचित्राङ्ग्यै नमो नमः । ॐ ह्रीं ह्रींबीजविश्वकारिण्यै नमो नमः । ॐ ह्रीं ह्रींकारवनसारङ्ग्यै नमो नमः । ॐ ह्रीं ह्रींकारकलशामृतायै नमो नमः । ॐ ह्रीं ह्रींकारमन्त्रसंल्लभ्यायै नमो नमः । ॐ ह्रीं ह्रींमन्त्रोपासनास्फुरायै नमो नमः । ५० ॐ ह्रीं सुव्रतार्चितहृल्लेखायै नमो नमः । ॐ ह्रीं तापसार्चिततत्पदायै नमो नमः । ॐ ह्रीं विविक्तचित्तसंव्यक्तायै नमो नमः । ॐ ह्रीं अम्बुजदलमातृकायै नमो नमः । ॐ ह्रीं हृदम्भोजपराबीजायै नमो नमः । ॐ ह्रीं पश्यन्तीस्फुटपल्लव्यै नमो नमः । ॐ ह्रीं मध्यमाकलिकाभूतायै नमो नमः । ॐ ह्रीं पूर्णफुल्लितवैखर्यै नमो नमः । ॐ ह्रीं ह्रींकारमन्त्रचित्तस्थायै नमो नमः । ॐ ह्रीं क्षेत्रमण्डलिनीश्वर्यै नमो नमः । ६० ॐ ह्रीं आधारकुण्डलीरूपायै नमो नमः । ॐ ह्रीं सहस्रदलगामिन्यै नमो नमः । ॐ ह्रीं सुषुम्नानाडिसङ्गन्त्र्यै नमो नमः । ॐ ह्रीं क्षेत्रषट्चक्रभेदिन्यै नमो नमः । ॐ ह्रीं शाम्भववेधसद्दीक्षायै नमो नमः । ॐ ह्रीं द्वादशान्तनिवासिन्यै नमो नमः । ॐ ह्रीं जपफलप्रदायित्र्यै नमो नमः । ॐ ह्रीं चिद्विमर्शतरङ्गिण्यै नमो नमः । ॐ ह्रीं श्रीसारस्वतयुक्ताङ्ग्यै नमो नमः । ॐ ह्रीं शब्दार्थसूक्ष्मदृष्टिदायै नमो नमः । ७० ॐ ह्रीं वाणीब्रह्माण्डसाम्राज्ञ्यै नमो नमः । ॐ ह्रीं चिदाकाशतडिल्लतायै नमो नमः । ॐ ह्रीं त्रैलोक्यव्याप्तहृल्लेखायै नमो नमः । ॐ ह्रीं सूक्तिवीणासुवादिन्यै नमो नमः । ॐ ह्रीं छन्दश्शास्त्रमहेशान्यै नमो नमः । ॐ ह्रीं काव्यालङ्कारमोदिन्यै नमो नमः । ॐ ह्रीं सुधामाधुर्यसम्पूर्णायै नमो नमः । ॐ ह्रीं सर्वशास्त्रविशारदायै नमो नमः । ॐ ह्रीं तत्त्वातीतपराशक्त्यै नमो नमः । ॐ ह्रीं दहराकाशविस्तृतायै नमो नमः । ८० ॐ ह्रीं अवकाशप्रदायित्र्यै नमो नमः । ॐ ह्रीं बाह्याकाशविधायिन्यै नमो नमः । ॐ ह्रीं शुश्रूषुसुष्ठुताकर्त्र्यै नमो नमः । ॐ ह्रीं शुश्रूषुगुरुवाक्यदायै नमो नमः । ॐ ह्रीं सच्छिष्यकार्यसङ्कर्त्र्यै नमो नमः । ॐ ह्रीं सच्छिष्य गुरुलक्ष्यदायै नमो नमः । ॐ ह्रीं दिव्यकार्यस्थितस्फूर्त्यै नमो नमः । ॐ ह्रीं गुरुसङ्केतदर्शन्यै नमो नमः । ॐ ह्रीं गुरुकार्यस्थसन्त्वक्त्रायै नमो नमः । ॐ ह्रीं कार्यसिद्धिप्रदायिन्यै नमो नमः । ९० ॐ ह्रीं अर्पितकार्यसन्तुष्टायै नमो नमः । ॐ ह्रीं कृतव्रतोत्सवार्चितायै नमो नमः । ॐ ह्रीं क्षमायाचनसन्तृप्तायै नमो नमः । ॐ ह्रीं प्रायश्चित्तप्रकाशितायै नमो नमः । ॐ ह्रीं तपःसिद्धिददन्नित्यायै नमो नमः । ॐ ह्रीं नतदोषनिवारिण्यै नमो नमः । ॐ ह्रीं नतचित्तविवेकार्च्च्यै नमो नमः । ॐ ह्रीं सेवापूतविरागदायै नमो नमः । ॐ ह्रीं षट्सम्पत्तिपराकोशायै नमो नमः । ॐ ह्रीं भवार्णवैकतारिण्यै नमो नमः । १०० ॐ ह्रीं सर्वतीर्थसमायुक्तायै नमो नमः । ॐ ह्रीं अनुग्रहवहन्नद्यै नमो नमः । ॐ ह्रीं स्वतन्त्रतासुगन्धाढ्यायै नमो नमः । ॐ ह्रीं सच्छिष्यार्हविभूतिदायै नमो नमः । ॐ ह्रीं सच्चिदानन्दहृल्लेखायै नमो नमः । ॐ ह्रीं गाम्भीर्यतोषलक्षितायै नमो नमः । ॐ ह्रीं स्वानन्दनिर्झरीयोन्यै नमो नमः । ॐ ह्रीं श्रीश्रीपूर्णकलामय्यै नमो नमः । १०८ इति श्रीवल्लीभुवनेश्वर्यष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Rajesh Thyagarajan
% Text title            : shrIvallIbhuvaneshvaryaShTottarashatanAmAvaliH
% File name             : shrIvallIbhuvaneshvaryaShTottarashatanAmAvaliH.itx
% itxtitle              : shrIvallIbhuvaneshvaryaShTottarashatanAmAvaliH (sadyojAta shaNkarAshramasvAmivirachitam)
% engtitle              : shrIvallIbhuvaneshvaryaShTottarashatanAmAvaliH
% Category              : devii, dashamahAvidyA, devI, aShTottarashatanAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajesh Thyagarajan
% Proofread by          : Rajesh Thyagarajan, NA
% Source                : Shri Chitrapura Stuti Manjari, 2019
% Indexextra            : (publications)
% Acknowledge-Permission: Shri Chitrapur Math - Publications Committee https://chitrapurmath.net/
% Latest update         : June 8, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org