सिद्धकृतं गङ्गास्तोत्रम् ११
सिद्ध उवाच ।
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः ।
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ २५॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २६॥
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् ।
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ २७॥
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् ।
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ॥ २८॥
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ २९॥
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ ३०॥
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ॥ ३१॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ ३२॥
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा ।
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ॥ ३३॥
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः ।
क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ॥ ३४॥
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना ।
तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ ३५॥
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ ३६॥
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् ।
गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ ३७॥
इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् ।
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ ३८॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।
मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ ३९॥
लम्बेतावाक्षिरा यस्तु युगानामयुतं पुमान् ।
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ ४०॥
अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम ।
तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ ४१॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ ४२॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।
गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ ४३॥
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये ।
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ ४४॥
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् ।
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ ४५॥
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः ।
येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ॥ ४६॥
विनयाचारहीनाश्च अशिवाश्च नराधमाः ।
ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥ ४७॥
यथा सुराणाममृतं पितॄणां च यथा स्वधा ।
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ ४८॥
उपासते यथा बाला मातरं क्षुधयार्दिताः ।
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ ४९॥
स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते ।
स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ ५०॥
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता ।
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ ५१॥
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः ।
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ ५२॥
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः ।
मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥ ५३॥
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः ।
बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ॥ ५४॥
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा ।
स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ॥ ५५॥
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः ।
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥ ५६॥
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् ।
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ ५७॥
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् ।
गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ ५८॥
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।
अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ५९॥
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह ।
वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥ ६०॥
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे ।
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ ६१॥
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता ।
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ ६२॥
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् ।
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥ ६३॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च ।
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ ६४॥
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् ।
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ ६५॥
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च ।
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ ६६॥
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् ।
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ ६७॥
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ।
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ ६८॥
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसम्मतः ।
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ ६९॥
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः ।
आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ ७०॥
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः ।
दधार शिरसा देवीं तामेव दिवि सेवते ॥ ७१॥
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः ।
यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥ ७२॥
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः ।
देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ॥ ७३॥
मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा ।
न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥ ७४॥
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः ।
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥ ७५॥
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति ।
गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥ ७६॥
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः ।
गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ ७७॥
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि ।
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ ७८॥
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः ।
यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ॥ ७९॥
वाय्वीरिताभिः सुमहास्वनाभिर्द्रुताभिरत्यर्थसमुच्छ्रिताभिः ।
गङ्गोर्मिभिर्भानुमतीभिरिद्धः सहस्ररश्मिप्रतिमो विभाति ॥ ८०॥
पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् ।
गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् ॥ ८१॥
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा ।
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥ ८२॥
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् ।
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ ८३॥
यो वत्स्यति द्रक्ष्यति वापि मर्त्य स्तस्मै प्रयच्छन्ति सुखानि देवाः ।
तद्भाविताः स्पर्शने दर्शने य स्तस्मै देवा गतिमिष्टां दिशन्ति ॥ ८४॥
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां शिवामृतां सुरसां सुप्रसन्नाम् ।
विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥ ८५॥
ख्यातिर्यस्याः खं दिवं गां च नित्यं पुरा दिशो विदिशश्चावतस्थे ।
तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ ८६॥
इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा ।
प्रातस्त्रिमार्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया ॥ ८७॥
सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कक्ष्यानुरूपा ।
भव्या पृथिव्या भाविनी भाति राज न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ॥ ८८॥
मधुप्रवाहा घृतरागोद्धृताभिर्महोर्मिभिः शोभिता ब्राह्मणैश्च ।
दिवश्च्युता शिरसात्ता भवेन गङ्गावनीध्रास्त्रिदिवस्य माला ॥ ८९॥
योनिर्वरिष्ठा विरजा वितन्वी शुष्मा इरा वारिवहा यशोदा ।
विश्वावती चाकृतिरिष्टिरिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः ॥ ९०॥
क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव ।
तुल्या गङ्गा सम्मता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम् ॥ ९१॥
ऋषिष्टुतां विष्णुपदीं पुराणीं सुपुण्यतोयां मनसापि लोके ।
सर्वात्मना जाह्नवीं ये प्रपन्ना स्ते ब्रह्मणः सदनं सम्प्रयाताः ॥ ९२॥
लोकानिमान्नयति या जननीव पुत्रा न्सर्वात्मना सर्वगुणोपपन्ना ।
स्वस्थानमिष्टमिह ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या ॥ ९३॥
उस्रां जुष्टां मिषतीं विश्वतोया मिरां वज्रीं रेवतीं भूधराणाम् ।
शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ ९४॥
प्रसाद्य देवान्सविभून्समस्ता न्भगीरथस्तपसोग्रेण गङ्गाम् ।
गामानयत्तामभिगम्य शश्व न्पुमान्भयं नेह नामुत्र विद्यात् ॥ ९५॥
उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या ।
शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥ ९६॥
मेरोः समुद्रस्य च सर्वरत्नैः सङ्ख्योपलानामुदकस्य वापि ।
वक्तुं शक्यं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव ॥ ९७॥
तस्मादिमान्परया श्रद्धयोक्ता न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव ।
भजेद्वाचा मनसा कर्मणा च भक्त्या युक्तः परया श्रद्दधानः ॥ ९८॥
लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् ।
गङ्गाकृतानचिरेणैव लोका न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ॥ ९९॥
तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः ।
अभिगतजनवत्सला हि गङ्गा भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥ १००॥
इति महाभारते अनुशासनपर्वणि २७ अध्यायान्तर्गतं
सिद्धकृतं गङ्गास्तोत्रं सम्पूर्णम् ।
महाभारत । अनुशासनपर्व । अध्याय २७/२५-९८॥
mahAbhArata . anushAsanaparva . adhyAya 27/25-98..
Proofread by PSA Easwaran