सिद्धकृतं गङ्गास्तोत्रम् ११

सिद्धकृतं गङ्गास्तोत्रम् ११

सिद्ध उवाच । ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः । येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ २५॥ तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २६॥ स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् । न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ २७॥ सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् । गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ॥ २८॥ पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः । पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ २९॥ स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् । व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ ३०॥ यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ॥ ३१॥ अपहत्य तमस्तीव्रं यथा भात्युदये रविः । तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ ३२॥ विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा । तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ॥ ३३॥ वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः । क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ॥ ३४॥ यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना । तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ ३५॥ त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते । तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ ३६॥ यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् । गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ ३७॥ इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् । पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ ३८॥ तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् । मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ ३९॥ लम्बेतावाक्षिरा यस्तु युगानामयुतं पुमान् । तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ ४०॥ अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम । तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ ४१॥ भूतानामिह सर्वेषां दुःखोपहतचेतसाम् । गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ ४२॥ भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् । गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ ४३॥ अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये । तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ ४४॥ प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् । पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ ४५॥ ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः । येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ॥ ४६॥ विनयाचारहीनाश्च अशिवाश्च नराधमाः । ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥ ४७॥ यथा सुराणाममृतं पितॄणां च यथा स्वधा । सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ ४८॥ उपासते यथा बाला मातरं क्षुधयार्दिताः । श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ ४९॥ स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते । स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ ५०॥ यथोपजीविनां धेनुर्देवादीनां धरा स्मृता । तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ ५१॥ देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः । अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ ५२॥ जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः । मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥ ५३॥ जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ॥ ५४॥ गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा । स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ॥ ५५॥ व्यसनैरभितप्तस्य नरस्य विनशिष्यतः । गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥ ५६॥ हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् । पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ ५७॥ हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् । गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ ५८॥ न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः । अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ५९॥ वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह । वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥ ६०॥ सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे । पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ ६१॥ श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता । गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ ६२॥ दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् । पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥ ६३॥ य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च । स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ ६४॥ न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् । प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ ६५॥ जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च । समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ ६६॥ भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् । देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ ६७॥ वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः । विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ ६८॥ उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसम्मतः । चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ ६९॥ न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः । आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ ७०॥ गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः । दधार शिरसा देवीं तामेव दिवि सेवते ॥ ७१॥ अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः । यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥ ७२॥ दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः । देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ॥ ७३॥ मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा । न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥ ७४॥ नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः । तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥ ७५॥ पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति । गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥ ७६॥ तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः । गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ ७७॥ भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि । गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ ७८॥ त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः । यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ॥ ७९॥ वाय्वीरिताभिः सुमहास्वनाभिर्द्रुताभिरत्यर्थसमुच्छ्रिताभिः । गङ्गोर्मिभिर्भानुमतीभिरिद्धः सहस्ररश्मिप्रतिमो विभाति ॥ ८०॥ पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् । गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् ॥ ८१॥ अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा । देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥ ८२॥ ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् । त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ ८३॥ यो वत्स्यति द्रक्ष्यति वापि मर्त्य स्तस्मै प्रयच्छन्ति सुखानि देवाः । तद्भाविताः स्पर्शने दर्शने य स्तस्मै देवा गतिमिष्टां दिशन्ति ॥ ८४॥ दक्षां पृथ्वीं बृहतीं विप्रकृष्टां शिवामृतां सुरसां सुप्रसन्नाम् । विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥ ८५॥ ख्यातिर्यस्याः खं दिवं गां च नित्यं पुरा दिशो विदिशश्चावतस्थे । तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ ८६॥ इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा । प्रातस्त्रिमार्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया ॥ ८७॥ सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कक्ष्यानुरूपा । भव्या पृथिव्या भाविनी भाति राज न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ॥ ८८॥ मधुप्रवाहा घृतरागोद्धृताभिर्महोर्मिभिः शोभिता ब्राह्मणैश्च । दिवश्च्युता शिरसात्ता भवेन गङ्गावनीध्रास्त्रिदिवस्य माला ॥ ८९॥ योनिर्वरिष्ठा विरजा वितन्वी शुष्मा इरा वारिवहा यशोदा । विश्वावती चाकृतिरिष्टिरिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः ॥ ९०॥ क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव । तुल्या गङ्गा सम्मता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम् ॥ ९१॥ ऋषिष्टुतां विष्णुपदीं पुराणीं सुपुण्यतोयां मनसापि लोके । सर्वात्मना जाह्नवीं ये प्रपन्ना स्ते ब्रह्मणः सदनं सम्प्रयाताः ॥ ९२॥ लोकानिमान्नयति या जननीव पुत्रा न्सर्वात्मना सर्वगुणोपपन्ना । स्वस्थानमिष्टमिह ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या ॥ ९३॥ उस्रां जुष्टां मिषतीं विश्वतोया मिरां वज्रीं रेवतीं भूधराणाम् । शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ ९४॥ प्रसाद्य देवान्सविभून्समस्ता न्भगीरथस्तपसोग्रेण गङ्गाम् । गामानयत्तामभिगम्य शश्व न्पुमान्भयं नेह नामुत्र विद्यात् ॥ ९५॥ उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या । शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥ ९६॥ मेरोः समुद्रस्य च सर्वरत्नैः सङ्ख्योपलानामुदकस्य वापि । वक्तुं शक्यं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव ॥ ९७॥ तस्मादिमान्परया श्रद्धयोक्ता न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव । भजेद्वाचा मनसा कर्मणा च भक्त्या युक्तः परया श्रद्दधानः ॥ ९८॥ लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् । गङ्गाकृतानचिरेणैव लोका न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ॥ ९९॥ तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः । अभिगतजनवत्सला हि गङ्गा भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥ १००॥ इति महाभारते अनुशासनपर्वणि २७ अध्यायान्तर्गतं सिद्धकृतं गङ्गास्तोत्रं सम्पूर्णम् । महाभारत । अनुशासनपर्व । अध्याय २७/२५-९८॥ mahAbhArata . anushAsanaparva . adhyAya 27/25-98.. Proofread by PSA Easwaran
% Text title            : Siddhakritam Ganga Stotram
% File name             : siddhakRRitaMgangAstotram11.itx
% itxtitle              : gaNgAstotram 11 (siddhakRitaM mahAbhAratAntargatam te deshAste janapadAste.a.ashramAste cha parvatAH)
% engtitle              : siddhakRRitaM gangAstotram 11
% Category              : devii, devI, nadI, mahAbhArata, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | anushAsanaparva | adhyAya 27/25-98||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org