सिद्धिचण्डिकासहस्राक्षरीमहाविद्यामन्त्रः

सिद्धिचण्डिकासहस्राक्षरीमहाविद्यामन्त्रः

वन्दे परागमविद्यां सिद्धिचण्डीं सङ्गिताम् । महासप्तशतीमन्त्रस्वरूपां सर्वसिद्धिदाम् ॥ विनियोगः ॐ अस्य सर्वविज्ञानमहाराज्ञी-सप्तशती-रहस्यातिरहस्यमयी- पराशक्ति-श्रीमदाद्याभगवती-सिद्धिचण्डिका-सहस्राक्षरी- महाविद्यामन्त्रस्य श्रीमार्कण्डेय-सुमेधा ऋषिः, गायत्र्यादि नानाविधानि छन्दांसि, नवकोटिशक्तियुक्ता श्रीमदाद्याभगवती सिद्धिचण्डी देवता, श्रीमदाद्याभगवती सिद्धिचण्डी प्रसादादखिलेष्टार्थे जपे विनियोगः ॥ ऋष्यादि-न्यासः श्रीमार्कण्डेय-सुमेधा ऋषिभ्यां नमः शिरसि । गायत्र्यादि नानाविधानि छन्देभ्यो नमः मुखे । नवकोटिशक्तियुक्ता श्रीमदाद्याभगवती सिद्धिचण्डी देवतायै नमः हृदि । श्रीमदाद्याभगवती सिद्धिचण्डी प्रसादादखिलेष्टार्थे जपे विनियोगाय नमः सर्वाङ्गे ॥ महाविद्या-न्यासः ॐ श्रीं नमः सहस्रारे । ॐ हें नमः भाले । क्लीं नमः नेत्रयुगले । ॐ ऐं नमः कर्णद्वये । ॐ सौं नमः नासापुटद्वये । ॐ ॐ नमो मुखे । ह्रीं ॐ नमः कण्ठे । ॐ श्रीं नमो हृदये । ॐ ऐं नमो हस्तयुगे । ॐ क्लें नमः उदरे । ॐ सौं नमः कट्याम् । ॐ ऐं नमो गुह्ये । ॐ क्लीं नमो जङ्घायुगले । ॐ ह्रीं नमो जानुद्वये । ॐ श्रीं नमः पादादिसर्वाङ्गे ॥ ॐ या माया मधुकैटभप्रमथनी, या माहिषोन्मूलनी । या धूम्रेक्षणचण्डमुण्डदलनी, या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यमथनी, या सिद्धलक्ष्मी परा । सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥ ॐ ऐं ह्रीं श्रीं ह्मौं श्रीं ह्रीं क्लौं ऐं सौं । ॐ ह्रीं श्रीं ऐं क्लीं सौं ऐं क्लीं ह्रीं श्रीं ॥ जय जय महालक्ष्मि जगदाद्ये बीज-सुरासुर-त्रिभुवन-निदाने दयाङ्कुरे सर्वतेजोरूपिणि महामहामहिमे महामहारूपिणि महामहामाये महामायास्वरूपिणि विरञ्चिसंस्तुते, विधिवरदे सच्चिदानन्दे विष्णुदेहव्रते महामोहिनि मधुकैटभजिह्वासिनि नित्यवरदानतत्परे, महास्वाध्यायवासिनि महामहातेजोधारिणि, सर्वाधारे सर्वकारणकरणे अचिन्त्यरूपे, इन्द्रादिनिखिलनिर्जरसेविते, सामगानं गायन्ति पूर्णोदयकारिणि, विजये जयन्ति अपराजिते सर्वसुन्दरि रक्तांशुके सूर्यकोटिशशाङ्केन्द्रकोटिसुशीतले अग्निकोटिदहनशीले यमकोटिक्रूरे वायुकोटिवहनसुशीतले, ॐकारनादबिन्दुरूपिणि निगमागममार्गदायिनि, महिषासुरनिर्दलनि धूम्रलोचनवधपरायणे चण्डमुण्डादिशिरच्छेदिनि रक्तबीजादिरुधिरशोषणि रक्तपानप्रिये, महायोगिनि भूतवैतालभैरवादितुष्टिविधायिनि शुम्भनिशुम्भशिरच्छेदिनि, निखिलासुरबलखादिनि त्रिदशराज्यदायिनि सर्वस्त्रीरत्नरूपिणि दिव्यदेहे निर्गुणे सगुणे सदसद्रूपधारिणि सुरवरदे भक्तत्राणतत्परे, वरवरदे सहस्राक्षरे अयुताक्षरे सप्तकोटिचामुण्डारूपिणि नवकोटिकात्यायनीरूपे अनेकलक्षालक्षस्वरूपे इन्द्राग्निब्रह्माणि रुद्राणि ईशानि भ्रामरि भीमे नारसिंहि, त्रयस्त्रिंशत्कोटिदैवते अनन्तकोटिब्रह्माण्डनायिके चतुरशीतिमुनिजनसंस्तुते, सप्तकोटिमन्त्रस्वरूपे महाकाले रात्रिप्रकाशे कलाकाष्ठादिरूपिणि चतुर्दशभुवनभावाविकारिणि गरुडगामिनि । कोङ्कार होङ्कार ह्रीङ्कार श्रीङ्कार दलेङ्कार जूँकार सौङ्कार ऐङ्कार क्लेङ्कार ह्रीङ्कार ह्रौङ्कार हौङ्कार नानाबीजकूटनिर्मितशरीरे नानाबीजमन्त्ररागविराजते, सकलसुन्दरीगणसेविते करुणारसकल्लोलिनि कल्पवृक्षाधिष्ठिते चिन्तामणिद्वीपेऽवस्थिते मणिमन्दिरनिवासे, चापिनि खड्गिनि चक्रिणि गदिनि शङ्खिनि पद्मिनि निखिलभैरवाधिपतिसमस्तयोगिनीपरिवृते, कालि कङ्कालि तोरतोतले सुतारे ज्वालामुखि छिन्नमस्तके भुवनेश्वरि, त्रिपुरे लोकजननि विष्णुवक्षःस्थलालङ्कारिणि, अजिते अमिते अमराधिपे अनुपसरिते गर्भवासादिदुःखापहारिणि मुक्तिक्षेमाधिषयनि शिवे शान्तिकुमारि देवि, सूक्तदशशताक्षरे चण्डि चामुण्डे महाकालि महालक्ष्मि महासरस्वति त्रयीविग्रहे । प्रसीद प्रसीद सर्वमनोरथान् पूरय पूरय । सर्वारिष्टविघ्नं छेदय छेदय । सर्वग्रहपीडाज्वरोग्रभयं विध्वंसय विध्वंसय । सर्वत्रिभुवनजातं वशय वशय । मोक्षमार्गं दर्शय दर्शय । ज्ञानमार्गं प्रकाशय प्रकाशय । अज्ञानतमो नाशय नाशय । धनधान्यादि कुरु कुरु । सर्वकल्याणानि कल्पय कल्पय । मां रक्ष रक्ष । सर्वापद्भ्यो निस्तारय निस्तारय । मम वज्रशरीरं साधय साधय । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमोऽस्तु ते स्वाहा ॥ --- ॐ ऐं ह्रीं क्लीं नमो दैव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ १॥ ॐ ऐं ह्रीं श्रीं सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ २॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ३॥ सिद्धिचण्डीमहामन्त्रं यः पठेत् प्रयतो नरः । सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् ॥ ४॥ सङ्ग्रामेषु जयेत् शत्रून् मातङ्गमिव केसरी । वशयेत् सदा निखिलान् विशेषेण महीपतीन् ॥ ५॥ त्रिकालं यः पठेन्नित्यं सर्वैश्वर्यपुरःसरम् । तस्य नश्यन्ति विघ्नानि ग्रहपीडाश्च वारणम् ॥ ६॥ पराभिचारशमनं तीव्रदारिद्र्यनाशनम् । सर्वकल्याणनिलयं देव्याः सन्तोषकारकम् ॥ ७॥ सहस्रावृत्तितस्तु देवि मनोरथसमृद्धिदम् । द्विसहस्रावृत्तितस्तु सर्वसङ्कटनाशनम् ॥ ८॥ त्रिसहस्रावृत्तितस्तु वशयेद्राजयोषितम् । अयुतं प्रपठेद्यस्तु सर्वत्र चैवातन्द्रितः । स पश्येच्चण्डिकां साक्षाद्वरदानकृतोद्यमाम् ॥ ९॥ इदं रहस्यं परमं गोपनीयं प्रयत्नतः । वाच्यं न कस्यचित् देवि विधानमस्तु सुन्दरि ॥ १०॥ ॥ इति श्रीसिद्धिडामरे शिवदेवीसंवादे सहस्राक्षरं सिद्धिचण्डीमहाविद्योत्तमं सम्पूर्णम् ॥ Encoded and proofread by Durga Sharma
% Text title            : SiddhichandikAsahasrAkSharImahAvidyAmantraH
% File name             : siddhichaNDikAsahasrAkSharImahAvidyAmantraH.itx
% itxtitle              : siddhichaNDikAsahasrAkSharImahAvidyAmantraH
% engtitle              : siddhichaNDikAsahasrAkSharImahAvidyAmantraH
% Category              : devii, devI, durgA, mantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Indexextra            : (Info 1, 2, 3)
% Latest update         : June 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org