श्रीसिद्धिदात्र्यष्टकम्
सिद्धिदात्रीं महादेवीं ब्रह्माण्डजननीं शिवाम् ।
भक्ताभीष्टप्रदात्रीं तां वन्दे सिद्धिप्रदायिनीम् ॥ १॥
चतुर्बाहुविराजन्तीं कमलासनसंस्थिताम् ।
शङ्खचक्रगदापद्मधारिणीं प्रणमाम्यहम् ॥ २॥
सिद्धगन्धर्वयक्षाद्यैः सेवितां करुणामयीम् ।
सर्वसिद्धिप्रदात्रीं तां नमामि जगदीश्वरीम् ॥ ३॥
अणिमादिगुणैः सिद्धैः पूजितां परमेश्वरीम् ।
सर्वकामप्रदां देवीं सिद्धिदात्रीं नमाम्यहम् ॥ ४॥
शिवशक्तिस्वरूपां तां ऋद्धिसिद्धिप्रदायिनीम् ।
सर्वविघ्नहरां देवीं भक्त्या नित्यं भजाम्यहम् ॥ ५॥
ब्रह्मविष्णुशिवादीनां शक्तिरूपां सनातनीम् ।
जगत्सृष्टिस्थितिध्वंसकारिणीं प्रणमाम्यहम् ॥ ६॥
दीनदुःखार्तिहन्त्रीं च वरदां भक्तवत्सलाम् ।
ज्ञानभक्तिप्रदां देवीं सिद्धिदात्रीं नमाम्यहम् ॥ ७॥
यः पठेत् प्रयतो नित्यं सिद्धिदात्र्यष्टकं नरः ।
सर्वसिद्धिं च सम्प्राप्य देवीसायुज्यमाप्नुयात् ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीसिद्धिदात्र्यष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com