श्रीस्कन्दमातुरष्टकम्
स्कन्दस्य जननीं वन्दे पद्महस्तां मनोहराम् ।
सिंहारूढां चतुर्बाहुं स्कन्दमातरमम्बिकाम् ॥ १॥
पद्मासनस्थितां देवीं पद्मपुष्पविभूषिताम् ।
पद्मप्रियामहं वन्दे स्कन्दमातरमम्बिकाम् ॥ २॥
गौरवर्णां महादेवीं वात्सल्यामृतवर्षिणीम् ।
सर्वदेवसमाराध्यां स्कन्दमातरमम्बिकाम् ॥ ३॥
सिंहवाहां शिवां शान्तां सर्वमङ्गलदायिनीम् ।
भक्ताभीष्टप्रदां वन्दे स्कन्दमातरमम्बिकाम् ॥ ४॥
जगद्धात्रीं महागौरीं सर्वलोकहिते रताम् ।
सर्वपापहरां नौमि स्कन्दमातरमम्बिकाम् ॥ ५॥
ज्ञानशक्तिप्रदां नित्यं मोक्षमार्गप्रदर्शिनीम् ।
संसारभयसंहर्त्रीं वन्दे तां भयनाशिनीम् ॥ ६॥
आरोग्यं सम्पदं सौख्यं देहि मे परमेश्वरि ।
ज्ञानविज्ञानसिद्ध्यर्थं स्तौमि कैलासवासिनीम् ॥ ७॥
स्कन्दं पालयसे नित्यं भक्तानां भयहारिणि ।
करुणामृतसम्पूर्णे स्कन्दमातरमाश्रये ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीस्कन्दमातुरष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com