॥ सुधाधाराकाली स्तोत्रम् ॥

अचिन्त्यामिताकारशक्तिस्वरूपा प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः । गुणातीतनिर्द्वन्द्वबोधैकगम्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ १॥ अगोत्राकृतित्वादनैकान्तिकत्वात् अलक्ष्यागमत्वादशेषाकरत्वात् । प्रपञ्चालसत्वादनारम्भकत्वात् त्वमेका परब्रह्मरूपेण सिद्धा ॥ २॥ असाधारणत्वादसम्बन्धकत्वात् अभिन्नाश्रयत्वादनाकारकत्वात् । अविद्यात्मकत्वादनाद्यन्तकत्वात् त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३॥ यदा नैव धाता न विष्णुर्न रुद्रो न कालो न वा पञ्चभूतानि नाशा । तदा कारणीभूतसत्वैकमूर्तिः त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४॥ न मीमांसका नैव कालादितर्का न साङ्ख्या न योगा न वेदान्तवेदाः । न देवा विदुस्ते निराकारभावं त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५॥ न ते नामगोत्रे न ते जन्ममृत्यू न ते धामचेष्टे न ते दुःखसौख्ये । न ते मित्रशत्रू न ते बन्धमोक्षौ त्वमेका परब्रह्मरूपेण सिद्धा ॥ ६॥ न बाला न च त्वं वयस्का न वृद्धा न च स्त्री न षण्ढः पुमान्नैव च त्वम् । न च त्वं सुरो नासुरो नो नरो वा त्वमेका परब्रह्मरूपेण सिद्धा ॥ ७॥ जले शीतलत्वं शुचौ दाहकत्वं विधौ निर्मलत्वं रवौ तापकत्वम् । तवैषाम्बिके यस्य कस्यापि शक्तिः त्वमेका परब्रह्मरूपेण सिद्धा ॥ ८॥ पपौ क्ष्वेडमुग्रं पुरा यन्महेशः पुनः संहरत्यन्तकाले जगच्च । तवैव प्रसादान्न च स्वस्य शक्त्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ ९॥ करालाकृतीन्याननानि श्रयन्ती भजन्ती करास्त्रादि बाहुल्यमित्थम् । जगत्पालनायाऽसुराणां वधाय त्वमेका परब्रह्मरूपेण सिद्धा ॥ १०॥ रुचन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन् वधन्ती प्रसन्ना । नटन्ती पतन्ती चलन्ती हसन्ती त्वमेका परब्रह्मरूपेण सिद्धा ॥ ११॥ अपादाऽपि वाताधिकं धावसि त्वं श्रुतिभ्यां विहीनाऽपि शब्दं शृणोषि । अनासाऽपि जिघ्रस्यनेत्राऽपि पश्य- स्यजिह्वाऽपि नानारसास्वादविज्ञा त्वमेका परब्रह्मरूपेण सिद्धा ॥ १२॥ यथा बिम्बमेकं रवेरम्बरस्थं प्रतिच्छायया यावदेकोदकेषु । समुद्भासतेऽनेकरूपं यथावत् त्वमेका परब्रह्मरूपेण सिद्धा ॥ १३॥ यथा भ्रामयित्वा मृदं चक्रमध्ये कुलालो विधत्ते शरावे घटं च । महामोहयन्त्रेषु भूतान्यशेषान् तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ यथा रङ्गरज्वर्कदृष्टिष्वकस्मात् नॄणां रूपदर्वीकराम्बुभ्रमः स्यात् । जगत्यत्र तत्तन्मये तद्वदेव । त्वमेकैव तत् तन्निदत्ता समस्तम् ॥ १५॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ महाज्योतिरेकार सिंहासनं यत्- स्वकीयान् सुरान् वाहयस्युग्रमूर्ते अवष्टभ्य पद्भ्यां शिवं भैरवं च । स्थिता तेन मध्ये भवत्यैव मुख्या var मुग्धा त्वमेका परब्रह्मरूपेण सिद्धा ॥ १६॥ कुयोगासने योगमुद्राभ्यनीतिः कुशोभायुपोतस्य बालाननं च जगन्मातरादृक् तवाऽपूर्वलीला । कथं कारमस्मद्विधैर्देवि गम्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ १७॥ विशुद्धा परा चिन्मयी स्वप्रकाशा- मृतानन्दरूपा जगद्व्यापिका च । तवेतद्विधा या निजाकारमूर्तिः किमस्माभिरन्तर्हृदि ध्यायितव्या ॥ १८॥ var भावितव्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ महाघोरकालानलज्वलज्ज्वाला हित्यत्त्यन्तवासा महाटाट्टहासा । जटाभारकाला महामुण्डमाला विशाला त्वमीदृङ्मया ध्यायशम्ब ॥ १९॥ var ध्यायसेऽम्ब त्वमेका परब्रह्मरूपेण सिद्धा ॥ तपो नैव कुर्वन् वपुः सीदयामि व्रजन्नापि तीर्थं पदे खञ्जयामि । पठन्नापि वेदान् जनिं यापयामि त्वदङ्घ्रिद्वयं मङ्गलं साधयामि ॥ २०॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ तिरस्कुर्वतोऽन्यामरोपासनार्चे परित्यक्तधर्माध्वरस्यास्य जन्तोः । त्वदाराधनान्यस्तचित्तस्य किं मे करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ न मन्ये हरिं नो विधातारमीशं न वह्निं न ह्यर्कं न चेन्द्रादिदेवान् । शिवोदीरितानेकवाक्यप्रबन्धैः त्वदर्चाविधानं विशत्वम्ब मत्यां ॥ २२॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ नरा मां विनिन्दन्तु नाम त्यजेन्मां त्यजेद्बान्धवा ज्ञातयः सन्त्यजन्तु । var तथा बान्धवा यमीया भटा नारके पातयन्तु त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ महाकालरुद्रोदितस्तोत्रमेतत् सदा भक्तिभावेन योऽध्येति भक्तः न चापन्न न शोको न रोगो न मृत्यु- र्भवेत् सिद्धिरन्ते च कैवल्यलाभः त्वमेका परब्रह्मरूपेण सिद्धा ॥ २४॥ इदं शिवायाः कथितं सुधाधाराख्यं स्तवं । एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता ॥ एतत्स्तोत्रं च कवचं पद्यं त्रितयमप्यदः । पठनीयं प्रयत्नेन नैमित्तिकसमर्पणे ॥ var नैमित्तिकसमर्हणे सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटा लास्योन्मादनिनादमङ्गलचयैः श्रोण्यन्तदोलज्जटाः । सा काली करवालकालकलना हन्त्वश्रियं चण्डिका काली क्रोधकरालकालभयदोन्मादप्रमोदालया नेत्रोपान्तकृतान्तदैत्यनिवहाप्रोद्दान देहामया । var देहाभया पायाद्वो जयकालिका प्रवलिका हुङ्कारघोरानना भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना ॥ इति श्रीसुधाधाराकाली स्तोत्रम् समाप्तम् ॥ करालोन्मुखी कालिका भीमकान्ता कटिव्याघ्रचर्मावृता दानवन्ता । हूं हूं कड्मडी नादिनी कालिका तु प्रसन्ना सदा नः प्रसन्नान् पुनातु ॥ There is a stotra with similar refrain tvamekA parabrahmarUpeNa siddhA in Rudrayamala uttaratantra paTala 46 (ShaTchatvArIMshaH paTalaH) termed as rudrshaktilAkinIstotra or rudrANIstotram with different content, vailable in ShaTchakra group in Devi chapter.
% Text title            : sudhAdhArAkAlIstotram
% File name             : sudhAdhArAkAlIstotram.itx
% itxtitle              : sudhAdhArAkAlIstotram
% engtitle              : sudhAdhArAkAlIstotram
% Category              : devii, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA, PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (audio)
% Latest update         : January 7, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP