श्रीसुन्दर्याः अपराधक्षमापणस्तोत्रम्
ॐ न जानामि ध्यानं तव चरणयोः प्रीतिजननं
न जानामि न्यासं मननमपि मातर्न गिरिजे ।
तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ १॥
न जाने भक्तिं त्वत्पद-कमलयोः कामपि शिवे
न च क्रोधादीनां शमनमपि षण्णां क्वचिदपि ।
तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥
न कौलाचारस्य स्मरणमपि मातर्न गिरिजे
न मन्त्राणां जाप्यं शवशयनभूमौ तव निशि ।
कुपुत्राणामेषा परिहरतु चेष्टामनिमिषं
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥
न तीर्थेषु स्नानं तव चरणयोः प्रीतिजननं
न मन्त्राणां ज्ञानं निज-गुरुमुखाच्छैल-तनये ।
तदेतत् क्षन्तव्यं तदिदमपराध-द्वयमपि
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥
न च प्राणायामं जननि न च मुद्राविरचनं
सपर्या-पर्यालोचनमपि न जाने त्रिनयने ।
विपज्जाले घोरे पतितमपि मामुद्धर शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ५॥
सहस्रारे पद्मे परमशिव-पर्यङ्कनिलया
कदापि त्वं ध्याता तुहिनगिरि-कन्ये न च मया ।
शिवे मत्वा दासं परिहरतु नित्यं निजगुणात्
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ६॥
विधेरज्ञानेन द्रविण-विरहेणालसतया
विधेयान् मेऽकृत्वा जननि तव पूजा-च्युतिरभूत् ।
तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ७॥
इति श्रीरुद्रयामले तन्त्रे श्रीसुन्दर्याः अपराध-क्षमापण-स्तोत्रं सम्पूर्णम् ॥
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, Rajani Arjun Shankar