सुरगणैः कृतं देवीस्तोत्रम्
ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः ।
ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनीम् ॥ ९२॥
सुरगणा ऊचुः ।
अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश ॥ ९३॥
अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन ।
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ॥ ९४॥
त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य ।
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव ॥ ९५॥
त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव ।
इत्येव मुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्ना ।
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे ॥ ९६॥
इति ब्रह्माण्डपुराणे पूर्वभागे पञ्चविंशाध्यायान्तर्गतं
सुरगणैः कृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्माण्डपुराण । अनुषङ्ग । अध्याय २५/९३-९५॥
brahmANDapurANa . anuShanga . adhyAya 25/93-95..
Proofread by PSA Easwaran