श्रीसुरकन्दादेवीस्तवः
ॐ श्री
॥ श्रीशङ्कर ॥
(अनुष्टुप्)
सुराणां मूलभूमित्वाद् देवानां वा सुखप्रदम् ।
सुरकन्देति विख्यातं क्षेत्रं हिमवतः शुभम् ॥ १॥
तत्र देवी महादेवी पार्वती परमेश्वरी ।
राजते भक्तत्राणाय सुरकन्दनिवासिनी ॥ २॥
सर्वसौख्यप्रदे मातः चेतसः सम्प्रसादिनी ।
पाहि मां सर्वतो भद्रे सुरकन्दनिवासिनी ॥ ३॥
सान्निध्यात् तव रुद्राणि सर्वोपरि विराजते ।
उन्नत्यनुभवात् भक्तो हृदि सन्तुष्यते परम् ॥ ४॥
त्वं तु साक्षात् महामाया अवाङ्मनसगोचरा ।
प्रसादात् तव कल्याणं सुरकन्दनिवासिनी ॥ ५॥
त्वं चन्द्रवदनी कुञ्जा रेणुका भुवनेश्वरी ।
वाराही बगला काली चामुण्डा छिन्नमस्तका ॥ ६॥
क्वचित् कार्यनिमित्तेन भक्तभावनया क्वचित् ।
वा शक्तिपीठरूपेण ह्यत्र तत्र विराजसे ॥ ७॥
क्रूरा दुष्टविनाशाय भक्तानां करुणामयी ।
प्रोद्यतायुधसम्भारा वत्सला वरदायिनी ॥ ८॥
शारदारूपमास्थाय ज्ञानविद्या प्रवर्धिनी ।
लक्ष्मीः त्वं भवसि प्रेष्ठा सुखैश्वर्यसमन्विता ॥ ९॥
विद्वान् बुद्ध्यनुसारेण त्वामम्ब मनुते बहु ।
चित्शक्तिं प्रकृतिं मायां जगदम्बां परां शिवाम् ॥ १०॥
शक्तिबुद्धिस्वरूपेण सर्वभूतेषु तिष्ठसि ।
भक्तियुक्तिप्रसादैश्च मच्चित्तं समलङ्कुरु ॥ ११॥
मां दुर्गे भवसम्मोहात् शीघ्रं मोचय मोचय ।
सन्तृप्तोऽस्मि कृतार्थोऽस्मि कर्तव्यं नावशेषितम् ॥ १२॥
गङ्गातीरे देहयात्रां समाप्तिं यातु नीरुजा ।
एतावती ममाकाङ्क्षा सुरकन्दनिवासिनी ॥ १३॥
अदीनां नीरुजां याचे संन्यासे परिपूर्णताम् ।
गङ्गातीरे देहयात्रां सुरकन्दनिवासिनी ॥ १४॥
सर्वे निरामयाः प्राप्ता स्वं स्वं गेहं सुरेश्वरी ।
गिरिजे त्वत्कृपायोगात् प्रतिकूल-परिस्थितौ ॥ १५॥
पूरिता तव वात्सल्यात् शिशोर्मम मनोरथाः ।
लब्धो मे परमाह्लादः त्वत्प्रसादात् शुभा मतिः ॥ १६॥
नमस्करोति भूयः त्वां अनन्तो बालकः स्तव ।
पाहि मां पाहि मां नित्यं सुरकन्दनिवासिनी ॥ १७॥
इति स्वामी वरदानन्दभारतीविरचितः श्रीसुरकन्दादेवीस्तवः सम्पूर्णः ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar