स्वरमङ्गला-वन्दना
हे शारदे ! त्वं तमसां निहन्त्री
सद्बुद्धि-दात्री शशि-शुभ्र-गात्री ।
देवीं सुविद्या-प्रतिभामयीं त्वां
नमामि नित्यं वर-दान-हस्ताम् ॥ १॥
आयाहि मातः ! स्वर-मङ्गला त्वं
राजस्व कण्ठे ललितं मदीये ।
तनुष्व रूपं सुपरिप्रकाशं
रागं सरागं मधुरं प्रकामम् ॥ २॥
कान्तिस्त्वदीया हि समुज्ज्वलन्ती
खेदावसादं विनिवारयन्ती ।
स्वान्तारविन्दं कुरुते प्रफुल्लं
मातर्नमस्ते वितरानुकम्पाम् ॥ ३॥
विजयतां सुकृतामनुरागिणी
रुचिर-राग-रुचा स्वर-भास्वती ।
सरस-मङ्गल-वर्ण-तरङ्गिणी
सुमधुरा सुभगा भुवि भारती ॥ ४॥
विराजते विनोदिनी पवित्रतां वितन्वती ।
सुमङ्गलं ददातु नो विभास्वरा सरस्वती ॥ ५॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher