श्रीताम्रपर्णीमाहात्म्यम्

श्रीताम्रपर्णीमाहात्म्यम्

Contents विषयसूचिका 1. Foreword 2. Introduction 3. TOC of 64 Chapters ६४ अध्यायानां विषयक्रमाणि 4. tAmraparNImAhAtmyam in detail ताम्रपर्णीमाहात्म्यम् अध्याय १-६४ 5. Appendix 6. Conclusion

1. Foreword

shrI tAmraparNImAhAtmyam has been written in manuscript by vidyAratnam N.Ramasubrahmanya Sastrigal, residing at Suttamalli, a village near Tirunelveli, Tamil Nadu, with the help of palm leaf manuscript obtained from Andi Vadyar, Tirunelveli. That manuscript written by vidyaratnam, has got the blessings of Sringeri Mutt and Kanchi Kamakoti Mutt. vidyAratnam has composed shrI tAmraparNIsahasranAmAvali : with a copyright publication which is available with vidyAratnam .

2. Introduction

shrI tAmraparNImAhAtmyam is a portion of shaivapurANam. It consists of 6400 verses divided into 64 chapters. vidyAratmnam shrI rAmasubrahmaNya shAstrI obtained this work in palm leaf manuscript from Aandi vadyar of Tirunelveli. Mr.Sastri made a rough copy in paper manuscript. His desciple Mr.K.Bhoothanathan made two paper manuscripts one in Tamil and the other in Devanagari script and handed over Devanagari manuscript to his Guru and the Tamil manuscript is kept with K.Bhoothanathan. The following is the transliteration done from Tamil to Devanagari script by K.Bhoothanathan with the help of his family members which consists of his wife B.Visalakshi alias Vasanti, son Mr B.K.S.Gokul, daughter-in-law Usha Meenakshi, grand daughter Visalakshi Aashrita and grand son G.B.Aaditya Sairaj.

3. TOC of 64 Chapters ६४ अध्यायानां विषयक्रमाणि

अध्यायम् विषयाणि १. शैलेन्द्रकन्यायाः उत्पत्तिः - विवाहप्रस्तावः २. दक्षिणदिशि ताम्रपर्ण्या सह अगस्त्यस्य आगमनम् ३. मलयाचलेन अगस्त्यानीतायाः ताम्रपर्ण्याः पुत्रीत्वेन स्वीकरणम् ४. अगस्त्येन वैष्णवमतनिराकरणपूर्वकं शैवमतस्थापनम् ५. त्रिकूटाचलमाहात्म्यम् ६. चित्रानद्याः रोदिनीनद्याश्च उद्भवः ७. वज्राङ्गदशापनिवृत्तिः शिवशैले घटनोत्पत्तिनिरूपणम् ८. हयग्रीवाश्रमं प्रति अगस्त्य आगामनम् ९. वीरसेन-शङ्खयोर्संवादः १०. ताम्रपर्णी-समुद्रयोर्विवाहः - श्रीपुरम् ११. बाणतीर्थमाहात्म्यम् १२. वृषाङ्कनगरे कादम्बरीवने ताम्रायाः सागरे प्रवेशप्रस्तावः (आत्तूर्) १३. कादम्बरीवनमाहात्म्यवर्णने ब्रह्मतपस्थान वर्णनम् १४. ब्रह्मकृतो विष्णुस्तवः १५. तामसीशापविमोचनम् १६. वेणुवनमाहात्म्यम् - तिरुनेल्वेलि १७. गौतमाश्रमे अगस्त्य आगमनेन राक्षसीपैशाचयोः मोचनं सुरेन्द्रमोक्षादिकथनं अगस्त्यकृता पुटार्जुनेश्वरस्तुतिः १८. अगस्त्यकृता गोष्ठीश्वरलिङ्गप्रतिष्ठापनपूर्विका गोष्ठीश्वरस्तुतिः (ऊर्क्काडु -उहिर्क्काडु - नखारण्यम्) १९. इन्द्रकीलादिक्षेत्रागमनपूर्वकं स्वाश्रमं प्रति अगस्त्यस्य आगमनम् २०. ताम्रपर्ण्याः मुखे एनोपजनसम्बन्धकृतनीलिमा अपनोदनाय इन्द्रकीलक्षेत्रे शाम्भवव्रतानुष्ठानाय अगस्त्येन ताम्रपर्णीं प्रति उपदेशः । ताम्रपर्ण्या इन्द्रकीलनाम प्रति कृतप्रश्नोत्तरसमयेन्द्रेण वृत्रवधाय दधीचीमहर्षेः अस्थियाचनं तद्दानाय तेन देहत्यागः २१. विश्वकर्मनिर्मितवज्रायुधेन वृत्रहननम् । ताम्रपर्ण्याः शाम्भवव्रत अनुष्ठानेन पापविमोचनम् । स्वस्थानगमनम् । २२. ताम्रपर्ण्याः उत्पत्तिमारभ्य सङ्गमपर्यन्तं विद्यमानानां तीर्थानां नामधेयानि २३. २४. श्येनोपाख्यानम् - काळहस्तीश्वरः - चाट्टुप्पत्तु २५. यमगीता २६. श्येनपारावतानां पुण्यलोकगमनम्, द्विजसुतस्य च ताम्रपर्णी प्रसादात् ब्रह्मपदप्राप्तिः - शालातीर्थम् - किडारङ्गुळम् २७. वसुमना इति नाम्ना राज्ञा अगस्त्यवचनेन ताम्रपर्ण्यां - स्नानपूर्वकं काश्यपतीर्थे यागः कृतः - विक्रमसिंहपुरम् २८. देवानां रक्षणाय तपःकुर्वतोः अदितिकाश्यपयोः ताम्रपर्ण्या वरप्रदानम् । काश्यपेन लिङ्गप्रतिष्ठा - अम्बासमुद्रम् २९. काश्यपेन ईश्वरस्तुतिः । शिवशर्माख्यस्य ब्राह्मणस्य काश्यप- तीर्थादिस्नानपूर्वकं काश्यपं प्रति प्रश्नः । ३०. दीपिकेश्वरोद्भवः ३१. काश्यपस्य नारदेन सह ब्रह्मलोकगमनम् । गजेन्द्रमोक्षणकथा- प्रश्नः । ३२. गजेन्द्रमोक्षणकथावर्णनम् - वीर, करुणा, भक्ति ३३. दुर्गातीर्थवैभववर्णनम् - श‍ृङ्गार, शोक - अरियनायकीपुरम् ३४. दुर्गया राज्ञो वरप्रदानम् । मणिग्रीवपुरकथाप्रश्नः । ३५. मणिग्रीवकथा - मणिग्रीवशापविमोचनम् ३६. सोमतीर्थमाहात्म्यम् - शेर्मादेवी ३७. नादाम्बुजक्षेत्रमाहात्म्यम् - शेर्मादेवी ३८. नादाम्बुजक्षेत्रे व्यासस्य गमनम् ३९. ४०. रोमशतीर्थप्रस्तावः(शार्ङ्गः) - कोडकनल्लूर् ४१. रोमशतीर्थवैभववर्णनम् ४२. दौर्वासतीर्थमाहात्म्यम् - करिशूळन्दमङ्गलम् ४३. छायातीर्थमाहात्म्यम् ४४. ज्योतिर्वनमाहात्म्यम् ४५. ज्योतिर्वनमागत्य स्नात्वा शिवाराधनं कृत्वा भगस्य नष्ट- नयनयुगलप्राप्तिः ४६. ज्योतिर्वने कुम्भाटकनाम्नः कस्यचित् राज्ञः मातृहत्या- मोचनम् ४७. ज्योतिर्वने कचावत्याः ताम्रास्नानमहिम्ना भर्तृत्वप्राप्तिः ४८. कुम्भाटकस्य, हारीतस्य, कचालिकायाश्च तपःकरणम्- (षड्जपालः) ४९. गन्धर्वतीर्थमहिमवर्णनम् - शुद्धमल्ली ५०. गन्धर्वराजसिद्धिः ५१. श्यामनदीसङ्गमे ज्योतिर्वने श्रीवलधि नाम्ना राज्ञा लिङ्गत्रय- प्रतिष्ठा ५२. मन्त्रतीर्थमाहात्म्यम् - ओमनल्लूर् ५३. वह्नि(अग्नि)तीर्थप्रस्तावः - तरुवै ५४. वह्नितीर्थमाहात्म्यम् ५५. रामतीर्थ, जटायुतीर्थमाहात्म्यम् - अरवङ्गुळम् ५६. चित्रानदीसङ्गमे वनमहिमवर्णनम् - श्रीविलिप्पेरि ५७. विष्णुवने दोषनिलयप्रस्तावः ५८. विष्णुवने विष्णुप्रसादात् विश्वेषां देवानां पितृशापविमोचनम् ५९. विष्णुवने चक्रराजस्य विमोचनम्, जन्मनिवृत्तिः चक्रराजकृत - विष्णुस्तुतिः ६०. विशेषतो विष्णुवनमहिमानुवर्णनम् ६१. श्रीवैकुण्ठादि श्रीपुरादि क्षेत्रमाहात्म्यम् - नवतिरुप्पति ६२. श्रीपुरम् - चिञ्चातरुमूलम् - क्षेत्रतीर्थयोः तत्तरोश्च माहात्म्यम् ६३. सोमारण्यमहिमानुवर्णनम् - मानसाङ्गः ६४. ताम्रासागरसङ्गममहिमानुवर्णनम् । जयन्तीपुरे गुहस्य प्रादुर्भावः । ताम्रायाः स्तुतिः । फलश्रुतिश्च निरूपिता । श्री गुरुभ्यो नमः हरिः ॐ

अथ श्री ताम्रपर्णीमाहात्म्यम् ।

प्रथमः अध्यायः

शैलेन्द्रकन्यायाः उत्पत्तिः । विवाहप्रस्तावः । १. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ २. अखण्डपरमानन्दपरिपूर्णात्ममूर्तये । निर्गुणायगुणाविष्टकर्मणे ब्रह्मणे नमः । ३. यद्वशःकणिकावेदाः यल्लोकः कणिका जगत् । यद्प्रभारिन्दुरिन्द्वाद्याः नमस्तस्मै परात्मने ॥ ४. पुरा विधात्रा ब्रह्माण्डखरग्रहमेधिना । लीलया कलिता कापि तपस्सीमा तपस्विनाम् ॥ ५. भूरेषा भूतिजननी पुरातनकृताश्रया । जायते नैमिशाभिख्याविख्याता जगतीतले ॥ ६. पापानामूषरक्षेत्रं पुण्यानामुदयस्थलम् । आनन्दानामिवावासमाश्चर्याणामिवाकरम् ॥ ७. नैमिशं मुनिशार्दूलैः समन्तादुपसेवितम् । तत्र सर्वे मुनिगणाः मिलिताः धर्मचारिणः ॥ ८. काङ्क्षन्तः परमां सिद्धिं सत्रं द्वादशवार्षिकम् । यज्वानं शौनकं कृत्वा चक्रुरक्रोधमध्वरम् ॥ ९. तावत् अभ्यायौ श्रीमान् सूतः पौराणिकोत्तमः । ददर्श महतीं शालां तपसा निर्मितामिव ॥ १०. हूयमानैः हव्यवाहैः प्रफुल्लाशोकमल्लिकाम् । आस्तीर्णकुशसङ्घातैः कौशेयाम्बरधारिणीम् ॥ ११. श्रीमद्युत्तरवेद्यां तु यूपसीमन्त पद्धतिः । शामित्राध्वर्युणा बाहुयुगलिं कलशस्तनीम् ॥ १२. वेदिमध्यां धूमकेशां सम्भारभरणोज्ज्वलाम् । एवं भूतां चिररूपां क्रतुलक्ष्मीं इव स्थिताम् ॥ १३. शालामालोकयन् अग्रे मध्ये मुकुलिताः शिलाः । विनयात् उपसृत्यैतान् क्रमादेवाभ्यवादयत् ॥ १४. तं दृष्ट्वा मुनयः प्रीताः शौनकाद्याः समाहिताः । आसनाद्युपचारैः तैः स्वागतैर्वचनैरपि ॥ १५. अभिनन्द्य महात्मानमासीनं विष्टरे शुभे । विश्रातं स्वस्तमनसं पप्रच्छुः प्रीतिपूर्वकम् ॥ १६. ऋषयः -- स्वागतं ते महाभाग दृष्टोऽसि चिरकालतः । काः च वै सरिताः पुण्याः दृष्ट्वात्र निष्कृताः ॥ १७. कानि पुण्यानि तीर्थानि स्नातानि नियतात्मना । कुतः समागतोऽसि त्वं किं वा दृष्टैवाद्भुतम् ॥ १८. दृष्ट्वा चित्रैवाभासि सुप्रसन्नतया मुखे । अन्तःकरणजं भावं सर्वेषामपि देहिनाम् ॥ १९. प्रकाश्यते मुखेनैव स्वच्छस्वच्छातवत् स्तिथम् । इति तेषां वचः श्रुत्वा सूतस्तु विनयोज्ज्वलः ॥ २०. प्रत्यभाषत सानन्दमभिष्टूय च तान् मुनीन् । श्री सूतः -- नमो वो ब्रह्मवादिभ्यो महद्भ्यः सततं नमः ॥ २१. विनिष्क्रम्य महाक्षेत्रात् नरनारायाणलयात् । अर्थदर्शनकामेन मया सञ्चारिता मही ॥ २२. दृष्ट्वा तीर्थानि पुण्यानि क्षेत्राणि विविधानि च । गच्छता दूरमध्वानं मया विश्रान्तिमेयुषा ॥ २३. अक्षिप्रागुणिकी जाता पाण्ड्यगुप्ता महामही । तत्र श्रीसुन्दरेशः च दृष्टो वेगवती तटे ॥ २४. ततो दक्षिणतो दूरात् दृष्टो मे मलयाचलः । महामङ्गलदा यत्र वर्तते परदेवता ॥ २५. यत्र साक्षात् भगवती पराशक्तिरूपस्थिता । ताम्रपर्णीति विख्याता प्रयाति वरुणालयम् ॥ २६. स्मरणात् दर्शनात् ध्यानात् स्नानात् पानादपि ध्रुवम् । कर्मविच्छेदिनी सर्वजन्तूनां मोक्षदायिनी ॥ २७. अन्यच्च श्रूयतां विप्राः मया दृष्टं तदद्भुतम् । ब्रह्मारुद्राभिर्देवैः प्राणिनां हितकाम्यया ॥ २८. निर्मितं श्रीपुरं नाम परमायतनं श्रियः । तत् समीपे महातेजाः वर्तते कुम्भसम्भवः ॥ २९. तत् प्रसादात् मया लब्धं ऐहिकामुष्मिकं फलम् । जीवितं सफलं जातं सफलो मे परिश्रमः ॥ ३०. महाक्रतुं पारयतः श्रुत्वा युष्मान् महात्मनः । श्रेष्ठं कथयितुं पुण्यं ताम्रायाः चरितं महत् ॥ ३१. आगतोऽस्मीह भद्रं वः मुनयः तु तपोधनाः । इतः परं मया कार्यं युष्माकं प्रीतिवर्धनम् ॥ ३२. तदत्र परमायत्ताः साधु शासितुमर्हत । इति तस्य वचः श्रुत्वा मुनयो दीर्घदर्शिनः ॥ ३३. प्रशस्य बहुधा प्रोचुः व्यासशिष्यमकल्मषम् । ऋषयः -- आश्चर्यं भवता दृष्टमाश्चर्यमनुभावितुम् ॥ ३४. अहो विचित्रजननी ताम्रा परमपावनी । आदौ कदा समुद्भूता कुतो वा केन हेतुना ॥ ३५. कथं वा मलयं प्राप्ता श्रीपुरं च कथं पुनः । कथं प्रवृत्ता मलयात् अपाम्भसां निधिम् ॥ ३६. एतानि वद विस्तीर्य व्यासशिष्य महामते । इति श्रुत्वा वचः तेषां ऋषीणां सूतनन्दनः ॥ ३७. स्मृत्वा स्मृत्वा महाभागां ताम्रपर्णीं सरिद्वराम् । अञ्जलिं शिरसा धृत्वा व्यासं नत्वा निजं गुरुम् ॥ ३८. कौतुहलसमाविष्टो रोमाञ्चितकलेवरः । आनन्दबाष्पपूराभ्यां लोचनाभ्यां विलोकयन् ॥ ३९. श्री सूतः -- श्रुण्वन्तु मुनयस्सर्वे प्रभावं कुम्भजन्मनः । महादेव्यास्तु चरितं ताम्रायाः परमाद्भुतम् ॥ ४०. यः श्रुणोति सकृद्वापि सर्वपापैः प्रमुच्यते । पुरा दक्षसुता गौरी रुद्रपत्नी क्रुधान्विता ॥ ४१. निजामग्नौ तनुं हुत्वा कुत्सयन्ती तनूद्भवाम् । प्रादुरासीत् पुनः शैलराजराजस्य कन्यका ॥ ४२. तत्पत्न्यां मेनकाख्यां प्राच्यामिव रविप्रभाम् । प्रादुर्भूतां माहादेवीं तरुणादित्यपाटलाम् ॥ ४३. कुसुम्भचारुवदनां नानामणिविभूषिताम् । कनकाङ्गदकेयूरकमनीयभुजान्विताम् ॥ ४४. मणिकोटीरघटितनिशाकरकलान्विताम् । अष्टादशभोदञ्चत् अभिख्यायुतोज्ज्वलाम् ॥ ४५. स्तूयमानां मुनिगणैः वाक्यैः उपनिषद्गणैः । निजारुणप्रभापूरमज्जत्भुवनमण्डलाम् ॥ ४६. सौन्दर्यसिन्धुसम्भूतचन्द्ररेखामिवस्थिताम् । उपसृत्य महादेवीं भीतभीत इवाद्रिराट् ॥ ४७. प्रणम्य शिरसा भूमौ भूयो भूयः प्रसादयन् । तुष्टावाशेषजननीं विशेषविदुषीमिमाम् ॥ ४८. अम्ब विश्वम्भरे मातः प्रसीद परमेश्वरि । प्रसीद करुणापाङ्गसंरक्षितचराचरे ॥ ४९. ब्रह्मोपेन्द्ररुद्राद्यैः स्तूयमानमहोदये । समस्तभुवनापायव्यपोहनकृतोद्यमे ॥ ५०. नमस्तुभ्यं महादेवि मायामोहितदानवे । पापभञ्जनपाण्डित्यपादाम्बुजरजःकणे ॥ ५१. सर्गादौ जगतां साक्षात् कथ्यते प्रकृतिः परा । वैखरीति ततो भासि वाचि वाचस्पतेरपि ॥ ५२. वैखारिकार्णीन्द्राय त्वया दृष्टानि चात्मनः । त्वयादौ विहितो ब्रह्मा रजसा सर्गसिद्धये ॥ ५३. त्वां वदन्ति पुनर्वेदाः स्थित्यै नारायणात्मिकाम् । विश्वविध्वंसनविधौ महारुद्रकलात्मिकाम् ॥ ५४. कलाकाष्ठमुहूर्ताश्च राशिनक्षत्रपङ्क्तयः । त्वदंशविहिताः वेदाः तत्त्ववाक्यप्रमाणतः ॥ ५५. भोगीनां भोगजननी मुमूक्षाणां च मोक्षदा । कर्मकालगुणा मर्यादावुयक्तरूपिणी ॥ ५६. त्वयि सर्वमिदं विश्वं त्वदाज्ञागौरवाश्रयम् । यजन्ति त्वां सुरास्सर्वे ध्यायन्ति हृदि योगिनः ॥ ५७. आराधयन्ति कर्मिष्ठाः द्रव्यैः तत्त्वसमुद्भवैः । अन्विष्यमाणा निगमैः आगमैःमन्त्रगर्भितैः ॥ ५८. लब्ध्वैव भासि दुर्लभ्या लभ्या परमेशितुः । एवं त्वमधुना मादृशां दृष्टिगोचरा ॥ ५९. आश्चर्यमिव पश्यामि ह्यन्धलब्धोमणिर्यथा । अम्ब भीतोऽस्मि नितरां त्वद्रूपालाकनादहम् ॥ ६०. त्वामहं दारिकां लब्ध्वा वाञ्छामि सुखमासितुम् । तथा प्रसीद मातस्त्वं एष एव वरो मम ॥ ६१. इत्थं स्तुता महादेवी प्रार्थिता सा पुनःपुनः । सुधासामग्रया वाचा व्याजहाराचलेश्वरम् ॥ ६२. महाराज नृपश्रेष्ठ भवता सह भार्यया । अर्चिताहं पुरा भक्त्या वर्षाणामयुतायुतम् ॥ ६३. तपसा दुश्चरेणापि स्तोत्रैः श्रुत्यन्तगर्भितैः । उपहारैश्च विविधैः तोषितोऽहं निरन्तरम् ॥ ६४. तत्तपस्सदृशं भाग्यमदृष्ट्वा भुवनत्रये । जाताहमधुना राजन् युवयोः भाग्यदित्सया ॥ ६५. आकल्पं भोगिनौ भूत्वा मत्तः प्राप्तमनोरथौ । स्निह्यन्तौ पुत्रिकाबुद्ध्या ध्यायन्तौ तत्त्वचिन्तया ॥ ६६. अन्ते सुदुर्लभां सिद्धिं मत्तो विन्दत केवलम् । इत्युक्त्वा सहसा देवी दारिका प्राकृताह्यभूत् ॥ ६७. ततः परमसंहृष्टौ दम्पती देवसत्तमौ । आदाय दारिकां दिव्यां लालयामासतुर्मुदा ॥ ६८. अवर्धत महादेवी पर्वतेन्द्रस्यवेश्मनि । कालेनाल्पीयसा जाता रूपयौवनशालिनी ॥ ६९. सखीभिर्युक्ता क्रीडन्ती रत्नसानुषु । पित्रोः प्रीतिं विवृण्वाना चन्द्रिकेव महोदधेः ॥ ७०. एतमिन्नन्तरे देवाः सेनापतिमभीप्सवः । रुद्राय गिरिजां दातुं यत्नं चक्रुस्समाहिताः ॥ ७१. रुद्रेण प्रेषितास्सप्तर्षयोऽद्रिमुपेत्य ते । तमै कथयामासुः यदुक्तं शम्भुना स्वयम् ॥ ७२. तत् श्रुत्वा हर्षपूर्णाङ्गः सभार्यः सपरिच्छदः । अस्तु मङ्गलमित्युक्त्वा ऋषीन् सम्पूज्य सादरम् ॥ ७३. पुनः तान् प्रेषयामास कैलासं शङ्करालयम् । सामन्तैः मन्त्रिवृद्धैश्च बन्धुभिः च अचलेश्वरः ॥ ७४. कल्याणाय पुरं सर्वमलङ्कर्तुं अगात् प्रभुः । हिमाद्रीनगरी पुण्या शतयोजनमायता ॥ ७५. मणिप्राकारपर्यन्ता महामरकतस्थली । प्रासादशतसम्पूर्णा पताकाध्वजमालिनी ॥ ७६. महाराजगृहोपेता महावीथीपरिष्कृता । हृष्टपुष्टजनाकीर्णा नटनर्तकसङ्कुला ॥ ७७. शङ्खभेरीमृदङ्गाद्यैः वाद्यैस्सन्नाहनादिनी । अलङ्कृता बभौ तावत् गीर्वाणनगरी यथा ॥ ७८. ततः कौतुक संयुक्ता गौरी कल्याणरूपिणी । अम्बामाराधयामास देवीं श्रीपुरदेवताम् ॥ ७९. नानोपाहारबलिभिः दीपनीराञ्जनादिभिः । स्तूयमाना गिरिजया देवी प्रादुरभूत् पुरः ॥ ८०. संपुल्लपद्मनयना सान्द्रसिन्दूरपाटला । सौन्दर्यसम्पदुद्दामसौभाग्यपरमोर्मिका ॥ ८१. अनेकयोगिनीवृन्दवन्द्यमानपदाम्बुजा । मन्दस्मितप्रभाजातदुग्धधाराभिवर्षिणी ॥ ८२. मन्दं मधुरया वाचा गौरीं प्राह महेश्वरीम् । श्रीदेवी -- त्वयि प्रसन्नास्मि त्वयि भागाः सनातनाः ॥ ८३. त्वय्येव सकला लोकाः त्वदधीनं इदं जगत् । सहधर्मचरी शम्भोः पाहि विश्वं इदं भयात् ॥ ८४. इत्युक्त्वा सहसा कण्ठमालामादाय पाणिना । कण्ठे विसर्जयामास तस्यां फुल्लसरोरुहाम् ॥ ८५. मूर्ध्न्युमया पाणिपद्मं निधाय परमाद्भुतम् । पुनः प्रोवाच तां गौरीं दयया परदेवता ॥ ८६. शैलेन्द्रपुत्रीं मत् दत्तां तुभ्यमभ्यर्चितां सुरैः । अवेहि परमां मालां मामकीं हृदयङ्गमाम् ॥ ८७. अनया मालया लोकाः भवन्तु सुखिनस्सदा । जगतामुपकाराय भवेत् एषा न संशयः ॥ ८८. इत्युक्त्वान्तर्दधे देवी लोकानां पश्यतामपि । तां लब्ध्वा परमां मालां गौरी परममङ्गला ॥ ८९. स्वपित्रोः परमां प्रीतिं कुर्वाणा स्वगृहं ययौ । ९०. अथ जगदुदयाय नीलकण्ठो मुदितमनाः कृतकौतुको मुनीन्द्रैः । त्रिभुवनपरिवर्तिततजनौघं निजकुतुकाय निमन्त्रयाम्बभूव ॥ इति श्रीमत् शैवपुराणे उपरिभागे तीर्थक्षेत्रवैभवखण्डे ताम्रपर्णीमाहात्म्ये प्रथमः अध्यायः ॥ Pro.Total = 90.

द्वितीयः अध्यायः

दक्षिणदिशि ताम्रपर्ण्या सह अगस्त्यस्य आगमन म् । १. ततः चराचरं सर्वं त्रिलोकपरिवर्तितम् । आविर्बभूव सहसा कैलासनगरान्तिके ॥ २. सुनन्दनन्दप्रमुखैः असङ्ख्यातैः सपार्षदै । हरिराविरभूत् लक्ष्म्या वैनतेयो महारथः ॥ ३. सनकाद्यैः महासिद्धैः हंसारूढः चतुर्मुखः । भारत्या सहितः श्रीमान् शिवालयमुपेयिवान् ॥ ४. महेन्द्रो धनदः पाशी प्रेतराजो हुताशनः । रक्षोऽधिपो गन्धवहो वसवोऽष्टौ तथाश्विनौ ॥ ५. सिद्धाः च द्वादशादित्याः रुद्रा एकादशा परे । भूरादिसप्तलोकस्ताः नागाः पातालवासिनः ॥ ६. सर्वे समागताः तत्र देवदेवस्यपत्तने । देवर्षयो नारदाद्याः वसिष्ठाद्याः मुनीश्वराः ॥ ७. एतानभ्यागतान् सर्वान् ब्रह्मनारायणादिकान् । अनुगृह्य कृपादृष्ट्या प्रयाणाय मनो दधे ॥ ८. अलङ्कृत्वा वृषाधीशं मणिकाञ्चनभूषणैः । अल्ङ्कृतो महादेवः कल्याणोचितवेषधृत् ॥ ९. तं तुष्टुवुः नारदाद्याः सिद्धाश्च परमर्षयः । छत्रचामरसमायुक्तो लोकपाल इवापरः ॥ १०. अन्यतः पटहध्वानैः कृतोनिस्स्वान्निस्वनैः । शङ्खनादविमिश्रैः च पटहाडम्बरैः अपि ॥ ११. रथनेमिस्वनैर्घोषैः हयह्रेषितमिश्रितैः । वीणावेणुमृदङ्गैः च सिंहनादैः च गर्जितम् ॥ १२. परिपूर्णमिवाभाति समन्तात् भुवनत्रयम् । एवं प्रयाता परिषत् देवदेवस्य शूलिनः ॥ १३. एवं तुमुलसन्नादैः सङ्घुष्टो जगदीश्वरः । आससाद तुषाराद्रिं यत्र देवी व्यवस्थिता ॥ १४. प्रत्युद्ययौ महादेवं भक्त्या परमयाद्रिराट् । आनीय स्वगृहे देवं मधुपर्कार्हणादिभिः ॥ १५. पूजयामास विधिवत् पुरोहितसमन्वितः । उद्वाहमण्डपं प्राप्य ब्रह्मविष्णुमुखैस्सुरैः ॥ १६. अग्निमाधाय विधिवत् हुत्वाग्निं मन्त्रसंहितैः । तोषयामास देवांश्च हविर्भिः त्रिपुरान्तकः ॥ १७. तावत् सुतामदात् तस्मै धारापूर्वं धराधरः । तां मालां अमलां देवी भर्तुः कण्ठे व्यसर्जयत् ॥ १८. तावदाविरभूत् व्योम्नि पुष्पवृष्टिस्समन्ततः । देवदुन्दभयो नेदुः भेरीतूर्याण्यनेकशः ॥ १९. सुमङ्गलाः तथा वाचः प्राणिनः प्रीणयन्ति च । एतस्मिन्नन्तरे व्योम्नि वागभूत् अशरीरिणी ॥ २०. चराचरेषु सर्वेषु समवायेषु चैकतः । दक्षिणा भारती भूमिः लघुत्वात् ऊर्ध्वं उत्थिता ॥ २१. असमीकरणात् अल्पकालतो नाशमेष्यति । इति श्रुत्वा महादेवः ध्यानारूढः क्षणान्तरम् ॥ २२. समाहूय मुनिं प्राह स्वभक्तं कलशोद्भवम् । एहि साधय धर्मज्ञ कुम्भयोने महामते ॥ २३. त्वया मया वा कर्तव्यं कार्यमस्ति महत्तरम् । भूरेषा दक्षिणा मुक्तचरराचरमहापरा ॥ २४. भङ्गुरा वर्तते तस्मात् भयात् त्राहि भवानिति । अनया सहितः पत्न्या दक्षिणां याहि मा चिरम् ॥ २५. तत्र ते दर्शयिष्यामि वेषं कल्याणसम्भृतम् । रुद्राण्या सह सर्वेषां भक्तानां हितकाम्यया ॥ २६. एषा ते स्नानपानादि कर्मोपकरणा भवेत् । भविष्यत्यनया साक्षात् पराशक्त्या पवित्रया ॥ २७. नूनं श्रेयांसि भूयांसि स्रजा तीर्थस्वरूपया । इति गौरीकरात् लब्धां मालां दत्वा महात्मने ॥ २८. प्रेषयामास सर्वेषां देवानां पश्यतां प्रभुः । स मुनिः किञ्चित् उद्विग्नहृदयो दयितान्वितः ॥ २९. उभाभ्यामेव पाणिभ्यां जग्राहोत्फुल्लपङ्कजाम् । तावत् पुष्पमयीवृष्टिः अम्बरात् अभ्यवर्तत ॥ ३०. मुनयो मुदिता देवाः सिद्धाश्च परमर्षयः । साधु साधु इत्यभिष्टूय संहृष्टा वाचमूचिरे ॥ ३१. सा माला पश्यतां तेषां कन्याभूत् कमलेक्षणा । तप्तचामीकराकारा कनकाम्बरधारिणी ॥ ३२. महामणिगणाकीर्णां मकुटाङ्गदधारिणीम् । किञ्चित् उज्जृम्भणाभ्यां (च) कुचाभ्यामुपलक्षिताम् ॥ ३३. महदाश्चर्यनिलयां महासौन्दर्यमुद्रिकाम् । दृष्ट्वा तां कन्यकां सर्वे विस्मयं ययुः ॥ ३४. लोपामुद्रा राजपुत्री तामालक्ष्य मनोहराम् । आनन्दनिर्भरा सासीत् निधिं लब्ध्वैव निर्धनः ॥ ३५. महादेवी स्वपाणिभ्यां तस्यै मालामदात् शुभाम् । तप्तचामीकराकरां स्वयानं मधुसूदनः ॥ ३६. प्रादात् विरिञ्चो भगवान् अम्लानं काञ्चनाम्बुजम् । शङ्खरत्नं प्रदायास्यै वरुणो यादसां पतिः ॥ ३७. कोटीनां त्रितयं प्रादात् तीर्थानां परमाद्भुतम् । वीणां मणिमयीं प्रादात् देवी कमलसम्भवा ॥ ३८. भारती शारिकारत्नं सर्वशास्त्रमयं ददौ । मुक्ताहारमदात् गङ्गा यमुनोत्पलमालिकाम् ॥ ३९. सीमन्तरेखालङ्कारं सिन्दूरं तु शरावती । कावेरी कुङ्कुमं प्रादात् तुङ्गभद्राञ्जनं ददौ ॥ ४०. महामृगमदं प्रादात् पुण्या गोदावरी नदी । मुक्तावती मणिवती पूर्णा घोरा कुमुद्वती ॥ ४१. श्यामावती चन्द्रसेना घटना कपिलारुणा । एताः दशाः सुताः मेरोः सख्यः समभवन् तदा ॥ ४२. सर्वदेवशरीरेभ्यः तेजो राशिः समुत्थितः । इमां समाविशन् तत्र तदद्भुतमिवाभवत् ॥ ४३. इमामाहुः सुरगणाः तेजसारुणविग्रहाम् । ताम्रपर्णीति जगुः केचित् ताम्रां च प्रशंसिरे ॥ ४४. मणिगर्भामिति परे परां अन्ये प्रशंसिरे । इत्थं देवैः स्तूयमाना ताम्रपर्णी सरिद्वरा ॥ ४५. लोपामुद्रान्वितः श्रीमान् अगस्त्योऽपि महातपाः । प्रणम्य साम्बमीशानं मनस्याधाय शङ्करम् ॥ ताम्रपर्ण्या सह तदा प्रस्थानं अकरोत् मुदा ॥ ४६. इत्थं सुरैः मुनिगणैः अभ्रन्द्यमानां मन्दाकिनीव जगतीं भगीरथार्थे । प्रायात् प्रसन्नवदना भुवनैकधात्री कार्तान्तिकां दिशमनेन मुनीश्वरेण ॥ ४७. भूयो भूयो स्वान्तमन्तर्महेशं ध्यायन् वाचा कल्पवल्लीं भवानीम् । श्रीगन्धाद्रावाश्रमं भावयानो मन्दं मन्दं भारतीमाप ॥ इति द्वितीयः अध्यायः ॥ Pro.Total = 90 + 47 =137.

तृतीयः अध्यायः

मलयाचलेन अगस्त्यानीतायाः ताम्रपर्ण्याः पुत्रीत्वेन स्वीकरणम् । १. इत्थं निगदितां पुण्यां पापप्रणाशिनीम् । श्रुत्वा तु मुनयः सर्वे सूतं बभाषिरे ॥ २. ऋषयः -- आश्चर्यमिदमाख्यानमधुना संप्रकीर्तितम् । आनन्दयति नः चित्तं रोमाञ्चयति विग्रहम् ॥ ३. न साधनमिवाभाति नित्यं नूतनतां गतम् । ताम्रपर्ण्याः महानद्याः माहात्म्यं भूरि पुण्यतः ॥ ४. न तृप्तिमधिगच्छामः पिबन्तः तत् कथामृतम् । विस्तरात् ब्रूहि धर्मज्ञ बूयः तां सूतनन्दन ॥ ५. कथं वा प्रस्थितः श्रीमान् कथं वा वसतिं व्यधात् । श्रीपुरं च कथं दृष्टं कथं वा निस्सृता सरित् ॥ ६. आसागरमियं सूत ताम्रपर्णी व्यवस्थिता । सरित् कथं प्रवहिता इयं पौराणिकोत्तम ॥ ७. इति पृष्टो मुनिश्रेष्ठैः सूतो वक्तुं प्रचक्रमे । श्रुण्वन्तु मुनयस्सर्वे पुरा व्यासेन कीर्तितम् ॥ ८. शुकाय कथितं पुण्यमितिहासं पुरातनम् । श्रुण्वतामश्वमेधस्य फलमाहुर्मनीषिणः ॥ ९. अनुज्ञाप्य महादेवं देवान् आमन्त्र्य कुम्भभूः । सहितःसरिता तस्मात् अचलात् सन्यवर्तत ॥ १०. शरावतीमतिक्रम्य दृष्ट्वा नारायणालयम् । नमस्कृत्य च केदारं सोमेशं संप्रणम्य च । ११. हरिद्वारं प्रणम्याग्रे ब्रह्मावर्तं च शाश्वतम् । अवलोक्य कुरुक्षेत्रं अयोध्यां सरयूमपि ॥ १२. महाकालं च गोकर्णं श्रीशैलं पुरुषोत्तमम् । कृष्णां गोदावरीं स्नात्वा तुङ्गभद्रां कलम्बिनीम् ॥ १३. कुमारकाननं दृष्ट्वा महालक्ष्मीं प्रणम्य च । शेषाद्रौ हरिमभ्यर्च्य काञ्चीं कमलपीठिकाम् ॥ १४. यत्रास्ते शाम्भवी शक्तिः लोकानां हितकाम्यया । प्रणम्य तां पुनर्देवं एकांरनिलयं शिवम् ॥ १५. वेषं वरदराजाख्यं हरिं कम्पां महानदीम् । शोणां शुद्धां तुङ्गभद्रां कावेरीं सह्यसम्भवाम् ॥ १६. यत्र शेते हरिस्साक्षात् महाप्रणवमन्दिरे । यस्य मालायते नित्यं कावेरी च महानदी ॥ १७. श्रीशम्भुनृत्तसदनं आर्जुनं कमलालयम् । कादम्बकाननं प्राप्य देवीं देवं प्रणम्य च ॥ १८. अतीत्य महदध्वानं लोपामुद्रासमन्वितः । ददर्श गगनाकारं मलयं चन्दनालयम् ॥ १९. महामृगमदामोदमन्दमारुतमेदुरम् । चम्पकाशोकपुन्नागवकुलार्जुनभूर्जकैः ॥ २०. करीरकन्दवानीरनीवाराश्वत्थकेतकैः । तमालतालहिन्तालपलासपनरद्रकैः ॥ २१. अङ्कोलनवकङ्केलिपूगद्रुमकलिद्रुमैः । एवमन्यैः महावृक्षैः नीलाम्बुदनिभप्रभैः ॥ २२. सञ्छन्नसानुपर्यन्तनानाधातुपरिष्कृतम् । मुक्ताहारसमाकारैः धातुभिः समलङ्कृतम् ॥ २३. महामरकताकारैः पर्यन्तैः पर्वतैः वृतम् । हरिकूटत्रिकूटालिगुप्तिपर्वतकुन्तलैः ॥ २४. मणिकाञ्चनभूयिष्ठैः श‍ृङ्गैः पञ्चभिरावृतम् । यस्य षष्ठं प्रशंसन्ति माहेन्द्रं भार्गवालयम् ॥ २५. दक्षिणोत्तरतो दैर्घ्यात् आहुरद्वाददशयोजनम् । शिखराक्रान्तगगनं आशान्तपरिवर्तितम् ॥ २६. महामणिग्रहाकारं दीप्तौषधपरिष्कृतम् । नित्यं वसन्तनिलयं सन्ततो वृद्धिमत्गुणम् ॥ २७. कृतसान्निध्यहेमन्तं अनन्तघनसञ्चयम् । सदा फलैः कुसुमितैः उद्यानैःउपशोभितम् ॥ २८. मत्तभ्रमरसन्नादं कूजत्कोकिलसारसम् । सिद्धगन्धर्वनिलयं मुनिवृन्दनिषेवितम् ॥ २९. देवदानवयक्षैश्च रममाणैः अलङ्कृतम् । एवमाश्चर्यनिलयं मु इवृन्दनिषेवितम् ॥ ३०. दृष्ट्वा परमसंह्रुष्टः पत्न्या सह समन्वितः । संप्राप सरिता शैलं ताम्रपर्ण्या शनैःशनैः ॥ ३१. भावं धराधरेन्द्रस्तु विज्ञाय मुनिमागतम् । वल्लभाभिः अनेकाभिः परिवारैश्च सेवितः ॥ ३२. वपुषा दिव्यरूपेण मुदा प्रत्युज्जगाम ह । ब्रह्मन् स्वागतमित्युच्चैः ब्रुवाणो विनयान्वितः ॥ ३३. मूर्ध्ना ववन्दे चरणौ कुम्भयोनेः कुतूहलात् । पाद्यं अर्घ्यं यथान्यायं मधुपर्कमकल्पयत् ॥ ३४. बद्धाञ्जलिपुटो भूत्वा सम्भ्रान्तमिदमब्रवीत् । मलयः -- स्वागतं ते महाभाग प्रसीद तपसां निधे ॥ ३५. कृतार्थोऽस्मि कृतार्थोऽस्मि प्रीतोऽस्मि तव दर्शनात् । इदमागमनं मन्ये मदीयं तपसः फलम् ॥ ३६. भवादृशां प्रवसनं श्रेयसे जगतां ध्रुवम् । ज्ञातुमिच्छामि भगवन् त्वदागमनकारणम् ॥ ३७. पूर्णकामस्य ते ब्रह्मन् किं करिष्याम्यहं प्रियम् । इति पृष्टोऽद्रिवर्येण मैत्रावरुणिरात्मवित् ॥ ३८. आचचक्षे स्ववृत्तान्तमशेषं पृच्छतो मुनिः । एतस्मिन्नन्तरे सिद्धौ मुनी तुम्बुरुपर्वतौ ॥ ३९. अभिष्टूय मुनिश्रेष्ठं राजानं च महीभृताम् । ऊचतुः परमप्रीतौ वचनं शम्भुशासनम् ॥ ४०. महाराज कुलश्रेष्ठ कृतकृत्योऽस्मि केवलम् । त्वया पुरा महादेवः तोषितः तपसा भृशम् ॥ ४१. तत्फलं भवता लब्धं भाग्यमन्यत्र दुर्लभम् । एषा परमकल्याणी ताम्रपर्णी सरिद्वरा ॥ ४२. अनेन मुनिनानीता प्रसादात् शूलपाणिनः । एषा तव सुता भूयात् अनया तीर्थरूपया ॥ ४३. तव श्रेयांसि भूयांसि भविष्यन्ति न संशयः । इत्थं तयोः वचः श्रुत्वा मुनिः परमहर्षितः ॥ ४४. तस्मै सुतां अदात् ताम्रां सोऽपि जग्राह शैलराट् । तावदम्बरसम्भूता पुष्पवृष्टिः सुगन्धिनी ॥ ४५. देवदुन्दुभयो नेदुः तुष्टुवुः च सुरासुराः । तदन्तरामृतमयं शाम्भवं लिङ्गं अद्भुतम् ॥ ४६. प्रत्यदृश्यत लोकानां त्रयाणां श्रेयसे महत् । तस्मिन्नाराधयामास देवदेवं मुनीश्वरः ॥ ४७. सोऽपि चक्रे महापूजामद्रिराट् अद्भुतार्पिताम् । तस्मिन् आविरभूत् शम्भुः प्रसन्नो गिरिजान्वितः ॥ ४८. इदमाह वचः प्रीत्या तं मुनिं कलशोद्भवम् । प्रीतोऽस्मि तव कृत्येन समीभूता च भूरियम् ॥ ४९. तोषिता भवता लोकाः जनाः स्थावरजङ्गमः । इतः परं ते वक्ष्यामि जगतामुपकारकम् ॥ ५०. इतोऽविदूरे मत्स्थानं यत्र मे चित्रिका सभा । तत्र गन्तासि सहितो गिरिणानेन भूष्णुना ॥ ५१. तत्र मां अर्चयित्वैव देवीमाराध्य शाम्भवीम् । कृत्वा कर्माण्यद्भुतानि गिरिणानेन संयुतः ॥ ५२. ताम्रया तीर्थरूपिण्या गच्छ शीघ्रमितः परम् । यत्र मे परमं स्थानं शिखरे मलयस्य तु ॥ ५३. श्रुतयः पर्वताकाराः चतुर्दिक्षु व्यवस्थिताः । गुप्तिश‍ृङ्गं इति ख्यातं तन्मध्ये परमाद्भुतम् ॥ ५४. तमवेहि मुनिश्रेष्ठ मामकं प्रणवालयम् । अभ्याशे तस्य कर्तव्या भवता वसतिः स्थिरा ॥ ५५. अनेन राज्ञा निदिष्टस्थाने वसतु मालिका । तत्र श्रेयांसि पश्य त्वं दुर्लभं जगतीतले ॥ ५६. महाराज त्वया लब्धा ताम्रपर्णी कुमारिका । विधस्यति परमां प्रीतिं गच्छ स्वभवनं मुदा ॥ ५७. भवतां श्रेयसे नूनं प्राप्तोऽस्मि शुभदर्शन । देवदत्तं इदं स्थानं ख्यातं लोके भविष्यति ॥ ५८. ये मां अत्र अर्चयिष्यन्ति तेषां कामान् ददाम्यहम् । इत्थं मुनिं च राजानं ताम्रां च अनुशास्य च ॥ ५९. तस्मिन् महति वै लिङ्गे स्वमन्तरधात् शिवः । ततो मलयराजस्तु पुत्रीं स्वीकृत्य शास्त्रतः ॥ ६०. अङ्कमारोप्य चाघ्राय मूर्ध्ना नन्दमुपागमत् । तद्भार्या गन्धवत्याख्या ताम्रां लब्ध्वात्मसम्भवाम् ॥ ६१. प्रहर्षमतुलं लेभे मेने गङ्गामिवोत्तमाम् । ततस्ते मिलितास्सर्वे मुनिना कुम्भजन्मना । संप्राप मलयं शैलं महोदयमिवोत्थितम् ॥ ६२. इत्थं शिवेन भणितामभिनन्द्य वाणीं वेणीवरां मलयजामनुनीय पश्चात् । नाम्ना त्रिकूट इति शस्तमभूत जगत्यां तत्स्थानमापमणिचित्रसमाभिरामाम् ॥ इति तृतीय अध्यायः ॥ Pro.Total = 137 + 62 =199.

चतुर्थः अध्यायः

अगस्त्येन वैष्णवमतनिराकरणपूर्वकं शैवमतस्थापन म् । श्री सूतः -- १. इत्थं स्मग्रमधुरां कथां कर्ण मनोमनोहराम् । मुखेन्दुमण्डलोत्तीर्णां सरसां बादरायणेः ॥ २. आकर्ण्य परिपूर्णार्थः शुको ब्रह्मविदां वरः । अभिनन्द्य पुनः तातम्मभ्यभाषत सारवित् ॥ ३. अहो सारवती पुण्या कथेयममलाशया । इमां भूयोऽपि विस्तृत्य तात् वक्तुमिहार्हसि ॥ ४. स मुनिः ताम्रया सार्धं प्राप्य चित्रसभां शुभाम् । लोपामुद्रा महादेवी भर्तारमनुवर्तिनी ॥ श्रीवेदव्यासः -- ५. श्रुणु पुत्र प्रवक्ष्यामि पुण्यमाख्यानमुत्तमम् । पठनात् अस्य जायन्ते निर्मलज्ञानभागिनः ॥ ६. तस्मादपि विनिर्गत्य देवद्त्तां मुनीश्वरः । त्रिकूटाख्यमहाक्षेत्रं संप्राप्य मुनिपुङ्गवम् ॥ ७. समन्तात् देजसाकारं प्राप्य हर्षसमन्वितः । नृत्यन्तं परमेशानं तत्र चित्रसभान्तरे ॥ ८. ददर्श दहनाकारं दीप्यमानं स्वतेजसा । आराधयामास मुदा मन्त्रैः पञ्चाक्षरात्मकैः ॥ ९. शतरुद्रीयमन्त्रेण तुष्टाव परमेश्वरम् । तत्प्रसादात् अनुप्राप्य मुनिः कलशसम्भवः ॥ १०. तस्मात् दक्षिणतः किञ्चित् विष्णुमूर्तिं शिवात्मकम् । शिवलिङ्गं पुनः चक्रे त्रिकूटतरुमूलतः ॥ ११. आराध्य धरणीपीठं बिलद्वारस्य पूर्वतः । वेदशाखिनमाराध्य देवं त्रिपुरभैरवम् ॥ १२. ततः संप्राप शिखरं गुप्तिस्थानाभिधं महत् । इत्युक्तवति वै व्यासे शुकोऽभ्यभाषत ॥ १३. तत किं धरणीपीठं गुहा का वा समीरिता । श्रुतिवृक्ष इति ख्यातः स वृक्षः केन हेतुना ॥ १४. का वात्र चम्पकारण्ये देवी दृष्टेति कीर्तिता । एतत् सर्वमशेषेण विस्तरात् वक्तुमर्हसि ॥ १५. व्यासः -- श्रुणु वक्ष्याम्यहं तात स्थलस्यस्यास्यैव वैभवम् । पुरा पृथुर्महातेजाः चक्रवर्ती महाबलः ॥ १६. समीकृत्य महीं सर्वां धनुषा शत्रुभञ्जनः । दुदोह सम्पदा भूरि वसुधां सागराम्बराम् ॥ १७. मर्यादां स्थापयामास तपसा सचराचरे । वर्णाश्रमान् धर्मान् तथा षट्समयान् विभुः ॥ १८. तत्रालिङ्गितमर्यादाः लोकास्सर्वे व्यवस्थिताः । एतस्मिन् अन्तरे लोके सुरुचिर्नाम वै द्विजः ॥ १९. बार्हस्पत्यान्वयो भूत्वा भ्रात्रा रोचिष्मता सह । अतीत्य वेदान् सकलान् षडङ्गान् पदक्रमान् ॥ २०. चतुष्षष्टिकलाभेदमावगाह्य समन्ततः । समयाचारशास्त्राणि भक्तिमाप जनार्दने ॥ २१. अहङ्कारात् अहं चक्रे शास्त्रं समयसम्बृतम् । तेनैव खण्डान् सर्वान् अन्यात्मबुध्या मदान्वितः ॥ २२. स्वमतं स्थापयामास विजयी सर्वतः भुवम् । वैदिकाः ब्राह्मणाः सर्वे क्षत्रियाः च परे जनाः ॥ २३. स्वमाचारं परित्यज्य तस्यैव वशगा अभवन् । एवं तु भारतं वर्षं क्लिश्यमानं अनेन तु ॥ २४. दृष्ट्वाप्यसह्यमानस्सन् राजा परमदुःखितः । कैलासकटकं प्राप्य समाधिमुपस्थितः ॥ २५. आराधयामास शिवं स्तोत्रैः मन्त्रैः समर्हणैः । तत्राधिगतसान्निध्यं देवदेवेन शूलिनः ॥ २६. हृष्टोऽस्मि तव राजेन्द्र स्तोत्रैरपि नमस्यया । वृणु भूप यथाकामं पूरयिष्ये मनोरथान् ॥ २७. इति देवस्य सदयां वाणीमाकर्ण्य शूलिनः । विनयावनतो भूत्वा वाचमेवमवोचत ॥ २८. पृथुः -- भगवन् यदि मे दातुं वरं वाञ्छसि शङ्करः । वैदिकध्वंसिनः शैवसमयान् दूषितस्य च ॥ २९. शम्भोः कदापि देवेश न सिध्यन्तु मनोरथाः । इति ब्रुवाणं राजानं प्रत्युवाच महेश्वरः ॥ ३०. शिवः -- मा चिन्तां कुरु राजेन्द्र तवास्त्वभिमतो वरः । ये दूषयन्ति पापिष्ठाः शैवीं समयदीपिकाम् ॥ ३१. श्रुतिमार्गरतान् सर्वान् वैदिकान् ब्राह्मणोत्तमान् । तेषां कदापि जायन्ते नैव चित्तमनोरथाः ॥ ३२. कस्यचित् देवकार्यस्य हेतुना कुम्भसम्भवः । प्रयास्यति दक्षिणाशां तदाशा ते भविष्यति ॥ ३३. इत्युक्त्वान्तर्दधे देवो राजापि स्वपुरं ययौ । स मुनिर्देवदेवस्य विज्ञायैव तु शासनम् ॥ ३४. प्राप्य स्थानं त्रिकूटाख्यं दृष्ट्वा लास्यं च शाम्भवम् । सह पत्न्या समागत्य देवद्वारमुपागमत् ॥ ३५. तत्रत्याः पुरुषास्सर्वे तुलसीदामभूषणाः । ऊर्ध्वपुण्ड्रधराः विष्णुनामोच्चारणचुञ्चवः ॥ ३६. उद्वहन्तः तथा मुद्रे वैदिकाध्वविदूषकाः । विदूषयन्तः पदवीं शैवीमुपनिषद्गताम् ॥ ३७. ते दृष्ट्वा तं मुनिं श्रेष्ठं द्वितीयमिव शङ्करम् । रुन्धानाः पदवीं तस्य वाचं प्रोचुः क्रुधान्विताः ॥ ३८. भवादृशाः न गन्तव्यं समयेतरगामिना । इत्युक्त्वेषु निर्गत्य तादृशं रूपमास्थितः ३९. भूयः प्रविश्य सहसा दृष्ट्वा च हरिविग्रहम् । तस्मिन्नाराधयामास देवदेवं सदाशिवम् ॥ ४०. सम्पूज्य विधिना शम्भुं स्वपाणिभ्यां परामृशन् । एवं सम्भावितः तेन भगवान् हरिरीश्वरः ॥ ४१. स्वमूर्तिं सङ्कुचन्नग्रे संप्राप शिवलिङ्गताम् । तदावारणदेवाः च शिवावरणमूर्तयः ॥ ४२. प्रत्यदृश्यन्त सर्वेषां जनानां पश्यतां तदा । एतस्मिन्नन्तरे क्रुद्धाः सुरुचेः परिचारकाः ॥ ४३. शिष्याः प्रशिष्यामात्याः च चक्रिरे कलहं मुनौ । अरूपा तावदाकाशात् वागभूत् अद्भुतावहा ॥ ४४. उभयोः क्रियतां वादं यत्र व विजयो भवेत् । साक्षिणं पुरतः कृत्वा यं कञ्चित् न्यायवादिनम् ॥ ४५. इति तेषु ब्रुवाणेषु शिवस्योत्तरपार्श्वतः । पीठादाविरभूत् देवी काचित् काञ्चनपाटला ॥ ४६. तामासाद्य महादेवीं वव्रिरे वादसाक्षिणीम् । कुम्भयोनेः तदा तेषां महान् वादः प्रावर्तत ॥ ४७. दास्यं पराजितस्येति विधाय समयं मुदा । पञ्चमेऽहनि ते सर्वे निर्जिताः कुम्भजन्मना ॥ ४८. तमेव गुरुमासाद्य शिवदीक्षामुपाविशन् । तदादि परमं क्षेत्रं शिवक्षेत्रमभूत् तथा ॥ ४९. तेनैव स्कलाः लोकाः ब्राह्मणाश्च विशेषतः । स्वस्वधर्ममनुप्राप्य सुखिनः चिरजीविनः ॥ ५०. शैवं च वैदिकं धर्मं प्रतिष्ठाप्य महीतले । विगाह्य चित्रातीर्थं च देवं आराध्य पीठिकाम् ॥ ५१. भैरवं माधवं चैव वेदशाखिनमीश्वरम् । प्रणम्य विधिवत् दृष्ट्वा परमानन्दताण्डवम् ॥ लोपामुद्रापतिः श्रीमान् ताम्रपर्ण्या मुदं ययौ । इति चतुर्थः अध्यायः ॥ Pro.Total = 199 + 51 =250.

पञ्चमः अध्यायः

त्रिकूटाचलमाहात्म्य म् । १. श्री शुकः -- भगवन् सर्वधर्मज्ञ कथिता भबवदाधुना । महिमामोदभरिता कथेयं कुम्भजन्मनः ॥ २. श्रुतापि श्रवणानन्दपीयूषपुषिताधुनी । नैव तृप्तिकरी नूनं घृतधारेव पावके ॥ ३. तत्र तस्मात् महापीठात् आविर्भूताम्बुजारुणा । का वा किमर्थमुद्भूता केन वा प्रार्थिता पुनः ॥ ४. अस्याः प्रभावमस्माकं श्रोतुं कौतूहलं किल । इत्युक्तवति वै तस्मिन् व्यासः सत्यवतीसुतः ॥ ५. व्याजहार कथामेनां शुकाय ब्रह्मवादिने । व्यासः -- पुरा प्रलयसंलीने ब्रह्माण्डे सचराचरे ॥ ६. तमसा व्यावृते तस्मिन् वैखारिकविवर्जिते । नाद्योदन्त कर्माणि विषयाः च गुणोत्तराः ॥ ७. आकस्मिकमभूत् शब्दं यत् ब्रह्म परिपठ्यते । तत्र काचिदभूत् देवी त्रिवर्णा वर्णरूपिणी ॥ ८. कृष्णलोहितशुक्लाभा स्वरूपा सूक्ष्मदर्शिनी । अजा जनित्री जगतामद्भुताकार दर्शना ॥ ९. हितायैव हि लोकानामाललम्बे परां तनुम् । लोकमायानुभावेन सासूत मिथुन त्रयम् ॥ १०. विधिं सर्गाय सन्दिश्य हरिं पालनकर्मणि । अभ्ययायादिशत् रुद्रं ते च चक्रुर्यथापुनः ॥ ११. अतः त्रिकूटमित्युक्तं त्रयाणां मेलनस्थलम् । तेषामनुग्रहार्थाय सन्दृष्टं जगदम्बया ॥ १२. त्रयी तरुस्वरूपेण सान्निध्य कुरुते यतः । तेनापि हेतुना क्षेत्रं त्रिकूटमिति कथ्यते । १३. युगे युगे च मर्यादां उपाधाय शिवः स्वयम् । एकस्मिन् एव बिम्बे तु मूर्तीनां त्रितयं यतः । १४. दर्शयिष्यति तत् तस्मात् स्थलस्यास्य त्रिकूटता । अत्रेतिहासं भूयोऽपि श्रुणु पुत्र महामते ॥ १५. यस्याःश्रवणमात्रेण नरः पापैः प्रमुच्यते । पुरा दनुसुतः कश्चित् निशुम्भस्य हि मातुलः ॥ १६. उदुम्बरन्नाम महान् नासर्वा असुर शिल्पिनः । ययाचे स रहःस्थानं स्ववासाय महत्तरम् ॥ १७. ततः स वार्धकिर्धीमान् मायामस्थाय तु दुःसहाम् । पार्श्वे मलयशैलस्य गुहायां नगरां व्यधात् ॥ १८. तदादि निर्भयो भूत्वा तस्मिन् एवावसत् सुखम् । मयस्य मायावर्येण दुर्जये नगरे वरे ॥ १९. निवसन् पुत्रपौत्राद्यैः बलैश्च बलवत्तरः । बबाधे प्रत्यहं रात्रौ गूढात्मा सकलाः प्रजाः ॥ २०. अल्पेनैव तु कालेन नष्टाभूत् दक्षिणा मही । शरणं प्राप निकरं मुनीनां ब्रह्मवादिनाम् ॥ २१. पदे पदे दुःखहन्त्रीं दुरितां दुरितभञ्जनीम् । मलयचम्पक्वने मूर्तिं स्थाप्य तन्मयीम् ॥ २२. आराध्य मुनयो भक्त्या देवीं दुःखार्तिभञ्जनीम् । पूजान्ते भवभूतेशीं तुष्टुवुः स्तुतिभिश्च ताम् ॥ २३. ऋषयः -- जय देवि महादेवि महामङ्गलदायिनि । प्रसीदत सीदतां नः त्वं परित्राणाय पार्वति ॥ २४. शूलखड्वाङ्गमुसलविनिष्पिष्टारिसनिके । प्रसीद सीदतां नः त्वं परित्राणाय पार्वति ॥ २५. त्वयाम्ब सकला दैत्याः भक्षिता रणसङ्कटे । प्रसीदत सीदतां नः त्वं परित्राणाय पार्वति ॥ २६. त्वत्कराग्रलसत् शूलदलिताः दानवाः पुरा । रक्षणायैव लोकानं सा कृपा क्व गताम्बिके ॥ २७. सिंहनादविनादेन मोहिता दैत्यदानवाः । रक्षणायैव लोकानां सा कृपा क्व गताम्बिके ॥ २८. दंष्ट्राकरालवदनं दृष्ट्वा ते मूर्च्छिताः परे । रक्षणायैव लोकानां सा कृपा क्व गताम्बिके ॥ २९. अस्मान् पाहि भयात् भीतान् अनाथान् भक्तवत्सले । अविलम्बं दयापात्रं विधेहि भुवनत्रयम् ॥ ३०. लीलयैव विहन्त्री त्वं दैत्यानां कीर्तिभञ्जनी । अविलम्बं दयापात्रं विधेहि भुवनत्रयम् ॥ ३१. त्वदस्त्रवित्रस्तबलं दैत्यानां क्षणभङ्गुरम् । तान् उदस्यासि दुर्गे त्वं भक्तानां हितकाम्यया ॥ ३२. त्वया जगदिदं विश्वं समये पाल्यते भयात् । तया नः पाहि कल्याणि प्रसूः पुत्रानिव स्वयम् ॥ ३३. तुभ्यं नमः सर्वजगत्सवित्री वित्रास्य पापान् अमरारिवर्गान् । आप्तं जनं पाहि भवानि भद्रे रुद्राणि भद्रे करुणे पुराणि ॥ ३४. व्यासः -- इत्थं तैर्मुनिशार्दूलैः स्तूयमाना महेश्वरी । प्रसन्नाविरभूत्तस्मात् बिम्बात् अम्भोरुहासना ॥ ३५. सौन्दर्यसिन्धुकल्लोलकटाक्षाक्षेपसुन्दरी । मनोज्ञमन्दस्मेरांशुकलिकाकल्पवल्लरी ॥ ३६. काञ्जनाङ्गदकेयूरकटकाङ्गुलिभूषिता । अभ्यर्च्यमाना गीर्वणैः कुसुमैः कल्पकोद्भवैः ॥ ३७. वाचा मोचाफलामोदगन्धिना व्याजहार सा । श्री देवी -- मा विषादं मुनिश्रेष्ठाः किं कृत्वा भवतां हिता ॥ ३८. साधयिष्याम्यहं नूनं मायूयं भवदालसाः । एवं ब्रुवत्यां दुर्गायां भक्तिप्रवाहात्ममूर्तयः ॥ ३९. ऋषयः -- ऊचुर्जयजयेत्युक्त्वा बद्धाञ्जलिपुटोज्ज्वलाः । अम्बाकर्णय वृत्तान्तं अस्माकं विप्लवं महत् ॥ ४०. गूढात्मा हि रहःकश्चित् दैत्योदुम्बरसंज्ञकः । निर्मानुषमिमां कृत्वा महीं मुनिजनोषिताम् ॥ ४१. अस्माकमग्निहोत्राणि बलवान् बाधते बहु । तं हत्वा दुस्सहं दैत्यं अस्माकं सौख्यदा भव ॥ ४२. इत्थं संप्रार्थिता देवी ऋषिभिः भावितात्मभिः । तथेत्यभयमाभाष्य निर्जगामाम्बराध्वना ॥ ४३. हित्वा मायामयस्यापि विधार्य च महीतलम् । प्रविवेश गुहां रम्यां समन्तात् दानवावृतम् ॥ ४४. सिंहनादनिनादेन सङ्घुष्य भुवनत्रयम् । पार्ष्णिघातं पुरद्वारि चकाराशनि सन्निभम् ॥ ४५. ते किमेतत् इति भ्रान्ताः दैत्याः च परितो गुहाम् । आवव्रुः परमां देवीं शस्त्रास्त्रशतवर्षिणः ॥ ४६. एवमापततो दैत्यान् नानाबलसमन्वितान् । पाणिभ्यां गृह्णती वेगात् चिक्षेप च निजानने ॥ ४७. शतं सहस्रयुतं रथानीकं अनेकशः । रथानामपि साहस्रं तुरगाणां परश्शतम् ॥ ४८. चर्षयन्ती महाभीमं कालानलसमप्रभम् । एवं मुहूर्तमात्रेण शून्यमासीत् गुहोदरम् ॥ ४९. केचिन्नष्टाः भक्षिताश्च त्यक्त्वा दैत्यवपुः पुनः । संप्राप परमं स्थानं स्वर्गमन्यैस्सुदुर्लभम् ॥ ५०. हतानां तत्र दैत्यानां पञ्च पञ्च शतानि च । महाभूताभवन् तत्र मातृभक्ताश्च दुर्दमाः ॥ ५१. दुर्गादेव्या समादिष्टाः क्षेत्रपालाः अभवन् तथा । सा गुहा नगरी चासीत् सिद्धानां वसतिः पुरा ॥ ५२. एवं निहत्य तान् दैत्यान् सर्वान् निर्गत्य च बिलोदरात् । स्तूयमानाना मुनिगणैः व्याजहार महेश्वरी ॥ ५३. श्रीदेवी -- सन्तु भद्राणि युष्माकं मा विचारो मुनीश्वराः । नित्यमत्र वसिष्यामि भवतां हितकाम्यया ॥ ५४. यथा यथा हि धर्मस्य ग्लानिर्भवति भूतले । तथा तथानुसूपेण नाशयिष्यामि विप्लवम् ॥ ५५. अर्चिता प्रणता ध्याता संस्तुता च पुनः पुनः । काङ्क्षितानि प्रदास्यामि सर्वेषामेव देहिनाम् ॥ ५६. माहात्म्यं मम लीलायाः ये श‍ृण्वन्ति पठन्त्यपि । तेषामपि विशेषेण नित्यं कामदुहास्म्यहम् ॥ ५७. इति ब्रुवाणा सा देवी तत्रैवान्तरधीयत । संहृष्टाः सकलाः लोकाः ऋषयश्च तपोधनाः ॥ ५८. अद्यापि संस्थिता देवी क्षेत्रे परमपावने । तपश्चरन्तः संहृष्टाः स्तुवन्तः परमेश्वरीम् ॥ ५९. तदारभ्य तथा तत्र सुराज्ञा दानवाः हताः । गणभूताः पालयन्तः स्थलं महत् ॥ ६०. तदादि सिद्धनगरं सिद्धैः पूर्णं गुहातलम् । चम्पकाविपिनं तत्र ख्यातमासीत् निरन्तरम् ॥ ६१. तदादि चम्पकारण्यं देवी सा चम्पकाभिधा । पुरा ब्रह्मादिभिर्देवैः केनचित् कारणान्तरे ॥ ६२. अत्राकारि महापीठं तत्प्रसादोपलब्धये । एवं क्षेत्रस्य माहात्म्यमहो वाचामगोचरम् ॥ ६३. स्मरणात् एव जन्तूनां भोगमोक्षैकसाधनम् । इतः परं प्रवक्ष्यामि कुम्भयोनेः महात्मनः ॥ ६४. चरितं ताम्रपर्ण्यास्तु मलयस्य महागिरेः । यथावृत्तं प्रवक्ष्यामि श्रुणु पुत्र महामते ॥ ६५. एवमभ्युदयं रूपं हरेर्नारायणस्य तु । विधाय शाम्भवं लिङ्गं पूजयामास भक्तितः ॥ ५६. प्रावेशयत् तु तत्रत्यान् महापाशुपतव्रतम् । लोपामुद्रान्वितः श्रीमान् सपर्यां विदधे पराम् ॥ ६७. उपहारैः महादेव्याः निर्दिष्टेनैव कर्मणा । तत्प्रसादमनुप्राप्य सुखं तत्रावसत् चिरम् ॥ इति पञ्चमः अध्यायः । Pro.Total = 250 + 67 =317.

षष्ठः अध्यायः

चित्रानद्याः रोदिनीनद्याः च उद्भवः । १. प्रभातायां तु शर्वर्यां नियमस्नानतत्परः । ताम्रामुत्थापयामास स्तोत्रैः श्रुतिमनोहरैः ॥ २. अगस्त्य उवाच -- अम्ब ताम्रे महादेवि लोकानुग्रहकारिणि । सुप्रभाता निशा कृत्स्ना प्रबुद्धा भव शोभने ॥ ३. अनादिशाम्भवीकण्ठकनकाम्बुजमालिके । महामणिप्रसूर्मातः प्रबुद्धा भव शोभने ॥ ४. सङ्कुचत्कैरवं भृङ्गाः विहाय कृपणं यथा । उत्फुल्लां नलिनीं यान्ति प्रबुद्धा भव शोभने ॥ ५. गौरीकुचाचलोदञ्चन्निर्झरश्री विडम्बिनी । तीर्थानां तीर्थदा रूपे प्रबुद्धा भव शोभने ॥ ६. श्रुतयः सकलाः लोकहिताय शिवकल्पिताः । तस्मात् वेदद्रवा प्रोक्ता महापातकनाशिनी ॥ ७. शिवभक्तिमाये पुण्ये विष्णुभक्तिप्रवाहिनी । ब्रह्मशक्तिरसासि त्वमुत्तिष्ठामृतवाहिनी ॥ ८. अन्नदा वसुदा भूरि पुण्यदा मज्जतां नृणाम् । त्वमेव परमा शक्तिः प्रसीद मलयात्मजे ॥ ९. इति स्तुता मुनीन्द्रेण ताम्रपर्णी सरिद्वरा । समुत्तस्थौ शनैर्देवी निद्रकलुषितेक्षणा ॥ १०. सखीभिस्सह संयुक्ता मन्दं मन्दं समाययौ । तत्पादकमलासङ्गात् तप्तहाटकनूपुरात् ॥ ११. विशीर्णमणयो भूमौ वैश्वानरसमप्रभाः । तेषु स्वच्छतया दृष्टाः ताम्रायाः मूर्तयः शुभाः ॥ १२. तत्रैकां मणिबिम्बस्थां छायामूर्तिं निजां शुभाम् । आहूय व्याजहाराम्बा स्मयमाना महानदी ॥ १३. ताम्रपर्णी -- एह्येहि वत्से कल्याणि मच्छक्तिपरिभाविते । मदाज्ञया मुनेरस्य स्नानपानाय सत्वरम् ॥ १४. प्रवाहरूपा शुद्धोदा आविर्भवितुमर्हसि । इमे भवेतां सरिते वयस्ये तीर्थविग्रहे ॥ १५. इत्थं आज्ञापिता सा तु मणिच्छाया मनोहरा । सखीभ्यां सह सम्भूय नानावर्णा मणित्विषा ॥ १६. इमां प्रदक्षिणीकृत्य सर्वेषां पश्यतां मुदा । ओमित्यामन्त्र्य शिखरात् मलयस्य महागिरेः ॥ १७. प्रवाहरूपिणी पूर्णा निस्ससार झषाकुला । मत्स्यकच्छपसम्पाता शङ्खशुक्तिनिषेविता ॥ १८. तरङ्गिणी शैवलिनी महावर्तशतान्विता । शुद्धोदका स्वादुमती विचित्रा पापहारिणी ॥ १९. मध्ये त्रिकूटक्षेत्रस्य निस्ससार शनैःशनैः । क्षालयन्ती पदाम्भोजयुगलं कुम्भजन्मनः ॥ २०. लोपामुद्राङ्घ्रिसंसक्तयावकाद्रवपाटलाम् । नदीमखण्डसम्भूतां गङ्गामिव शुभोदकाम् ॥ २१. दृष्ट्वा मुनिगणास्सर्वे हृष्टाश्च परमर्षयः । सिद्धगन्धर्वयक्षाश्च पतगोरगकिन्नराः ॥ २२. इन्द्राद्याः सकलाः देवाः स्तुवन्तः कुम्भसम्भवम् । पुष्पवृष्टिमुचो व्योम्नि त्रिकूटक्षेत्रमाययुः ॥ २३. नानावर्णतया चित्रां इमां नान्ना प्रचक्रिरे । चैत्रमासि सिते पक्षे चित्रायुजि निशाकरे ॥ २४. जाता महानदी ह्येषा तस्मात् चित्रेति कीर्तिता । बाला नदीति विख्याता बालारूपतया ध्रुवम् ॥ २५. ततखीं ऊचिरे शुक्लामपरामपि मण्डिनीम् । तीर्थप्रवाहरूपायां महानद्यां महर्षयः ॥ २६. सस्नुः पवित्रमित्युक्त्वा देवाश्च पितृगुह्यकाः । तेषामनुग्रहार्थाय त्रिकूटेशो महेश्वरः ॥ २७. आविर्भूतो महालिङ्गात् ददौ तीर्थं महेश्वरः । सह पत्न्या मुनिः श्रीमान् स्नात्वास्यां शम्भुसन्निधौ ॥ २८. तर्पयित्वा ऋषीन् देवान् पितॄन् च विधिपूर्वकम् । देवं त्रिकूटमीशानं सम्पूज्य कुसुमादिभिः ॥ २९. पूज्यमानस्सिद्धगणैः ताम्रपर्ण्यासमञ्चितः । समाप्य काल्यं नियमं ब्राह्मणांश्च यथाविधि ॥ ३०. सन्तर्प्य भक्ष्यभोज्याद्यैः दक्षिणाभिर्यथोचितैः । पर्वतेन मुनीन्द्रेण तथा तुम्बुरुणान्वितः ॥ ३१. बुभुजे स बुधश्रेष्ठः देवी ताम्रा सखीवताम् । लोपमुद्रा राजपुत्री भर्तुःशेषं प्रगृह्य सा ॥ ३२. उवास सहधर्मज्ञा शुश्रुषणपरायणा । एवं निवसतां तेषां मुनीनां कुम्भसम्भवः ॥ ३३. अस्ताद्रिमगमत् श्रीमान् अंशुमाली शनैःशनैः । उपास्य पश्चिमां सन्ध्यां हुताग्निः सह भार्यया ॥ ३४. कथाभिरभिरामाभिः रञ्जयानो जनं महत् । निनाय रजनीं तत्र निमिषार्धमिव क्षणात् ॥ ३५. एवं व्युधास्य रजनीमुदिते सवितर्यथ । भगवन्तमुपस्थाय भास्करं भुवनेश्वरम् ॥ ३६. प्रतस्थे दक्षिणामाशामादाय मलयात्मजाम् । सह तुम्बुरुणा चैव पर्वतेन महात्मना ॥ ३७. चित्रा नदीं समुत्तीर्य लङ्घयित्वा वनान्यपि । अश्रुणोत् रोदनं घोरं करुणं कणपीडनम् ॥ ३८. पुनः क्षणान्तरेणैव वने तस्मिन् भयानके । काप्यदृश्यन्त तन्वङ्गी सर्वायवसुन्दरी ॥ ३९. प्रणालीव प्रमुञ्चन्ती नेत्राभ्यामश्रुनिर्भरम् । तामासाद्य दयाविष्टा ताम्रपर्णी शुचिस्मिता ॥ ४०. प्रपच्छ वाचा पीयूषपरिणामाक्षराङ्कया । देवी -- का त्वमर्थं विपिने परं रोदिषि भीषणम् ॥ ४१. श्रोतुमिच्छामि ते दुःखं श्रोतव्यं यदि मे पुनः । वक्तुमर्हस्यशेषेण मैवं शोचितुमर्हसि ॥ ४२. इति पृष्टा सा तयैवमवोचत् दुःखकारणम् । ताम्रे कल्याणि वक्ष्यामि मम शोकस्य कारणम् ॥ ४३. काश्यपस्य सुता नाम्ना कुन्तलास्मि शुचिस्मिते । सुमेधस्य प्रिया भूत्वा ऋषेः तस्य तपस्विनः ॥ ४४. चिरं भुक्तानि भोगानि विविधान्यपि । अत्र कश्चित् महद्रक्षः समागत्य विधेर्बलात् ॥ ४५. जघान मम भर्तारं मां हन्तुं पुनरागतः । केशे जग्राह पाणिभ्यां सोऽपि भस्मीकृतोऽभवत् ॥ ४६. ततः चितामारोप्य वह्निं प्रक्षिप्य सर्वतः । प्रविष्टायां मयि पुनः सोऽग्निरन्तर्दधे महान् ॥ ४७. स्वस्त्यस्तु नूनमित्यासीत् तावत् वागशरीरिणी । तस्मान्निवृत्ता मरणात् काङ्क्षन्ती श्रेय उत्तमम् ॥ ४८. किं मरोमि क्व गच्छामि हा कष्टं समुपस्थितम् । प्लावमाना महासिन्धावघाते दुःखसागरे ॥ ४९. दृष्टा मे देवि कल्याणि भाग्यशेषात् ममाग्रतः । त्वं माता त्वं सखी साक्षात् त्वामहं शर्णं गतः ॥ ५०. इत्थं विलपमानां तां सीदन्तीं च पुनःपुनः । आलिलिङ्गे जगन्माता कृपया मलयात्मजा ॥ ५१. तवन्मुनिः समुत्तस्थौ तौ सुधासंसर्गतो यथा । पपात भूरि पुष्पाणि देवमुक्तानि भूतले ॥ ५२. तत्दृष्ट्वा महदाश्चर्यं कुम्भभूः अतिविस्मितः । बहुमेने मलयजां लोपामुद्रा च हर्षिता ॥ ५३. सुमतिः सहसोत्थाय कुम्भयोनिसमन्वितः । ताम्रामाराधयामास देवीं त्रैलोक्यपावनीम् ॥ ५४. तस्याः प्रसादात् संप्राप्य वरान् श्रेयांश्च भूरिशः । तदश्रुवारिधाराभिः पूरिता काप्यभून्नदी ॥ ५५. अनुग्रहात् ताम्रपर्ण्याः संसर्गात् कुम्भजन्मनः । अद्यापि पुण्यतीर्था सा दृश्यते दक्षिणापथे ॥ ५६. तौ दम्पती प्रतिष्ठाप्य स्वाश्रमे कुम्भसम्भवः । पुनस्स ताम्रया सार्धं प्रयातो दक्षिणां दिशम् ॥ ५७. आससाद शिलावर्तं यत्रास्ते वरुणात्मजः । वज्रङ्गद इति ख्यातो ब्रह्मशापेन कर्शितः ॥ ५८. पित्रादिष्टां गुहामेत्य निर्मितां विश्वकर्मणा । चकार वसतिं तत्र मलयस्य तु पार्श्वतः ॥ ५९. वीक्ष्यमाणस्तु शापान्तं निनाय शरदां शतम् । स दृष्ट्वा कलशीसूनुं पूजयित्वा महानदीम् ॥ ६०. अनुग्रहात् ताम्रपर्ण्याः पुनर्देवत्वमाप्तवान् । वज्राङ्गदगुहास्थानं तोरणाचलसंज्ञिताम् ॥ ६१. तस्मात् दक्षिणतः किञ्चित् क्रोशमात्रमतीत्य सः । अत्रेराश्रममाश्चर्यमवाप मुनिपुङ्गवः ॥ इति षष्ठः अध्यायः । Pro.Total = 317 + 61 = 378.

सप्तमः अध्यायः

वज्राङ्गदशापनिवृत्तिः शिवशैले घटनोत्पत्तिनिरूपण म् । १. इत्थं निगदितां वाणीं पित्रा व्यासेन धीमता । हर्षमाणः पुनर्वाक्यमाबभाषे शुको मुनिः ॥ २. श्री शुकः -- किमाघः कृतवान् तात वारुणिः केन हेतुना । वेधाः तमशपत् केन तन् मे कथय विस्तरात् ॥ ३. वेदव्यासः -- अहो ते कथयिष्यामि कथां कलुषनाषिनीम् । पुरा सारङ्गकेतस्य कन्या गन्धर्वभूपतेः ॥ ४. मालतीं नाम सुभगां उपयेमे जलाधिपः । रेमे चिरं तया राजा वरुणो हरिदीश्वरः ॥ ५. सुषेवे सा वरारोहा पुत्रान् भर्तृसमान् शुभान् । वज्राङ्गदः पूर्तिदक्षो प्रभानुर्मणिवान् प्रसूः ॥ ६. पञ्चैते भ्रातरः शूराः धर्मज्ञाः लोकसम्मताः । ब्रह्मणा शङ्करेणापि हरिणा वज्रपाणिना ॥ ७. सम्मानिताः विशेषेण पित्रोः प्रीतिकराः अभवन् । तेषु ज्येष्ठो महतेजाः धीरो वज्राङ्गदो बली ॥ ८. कदाचित् वारुणीलोकात् विनिष्क्रम्य विमानवान् । वीणामादाय विमलामुद्गतः ब्रह्मणः सभाम् ॥ ९. उत्पपातातिवेगेन व्योम्ना विस्तारशालिना । आदित्यपदमुल्लङ्घ्य ग्रहनक्षत्रमण्डितम् ॥ १०. शिंशुमारमहाचक्रं तथा सप्तर्षिमण्डलम् । ध्रुवं प्रदक्षिणीकृत्य गच्छन् गगनवर्त्मना ॥ ११. ददर्श स विमानस्थं प्रयान्तं ब्रह्मणस्सभाम् । मणिकान्तमितिख्यातं गुह्यकानां गणेश्वरम् ॥ १२. तस्योत्सङ्गे वर्तमानां ददर्श स्तबकावतीम् । असम्भ्रान्त इवासाद्य निरुध्याध्वानमोजसा ॥ १३. बभाषे वचनं धीमान् वारुणिः गुह्यकेश्वरम् । वज्राङ्गदः -- साधु गुह्यक राजन् त्वं कुलिनोऽसि विशेषतः ॥ १४. अञ्जनाख्यस्य यक्षस्य सुतेयं मत्परिग्रहा । स्तबकाख्या वधूरेषा कुत्र वा नीयते त्वया ॥ १५. मुञ्च मुञ्च वधूमेनामकार्यं मा करिष्यथाः । इत्युक्तवति वै तस्मिन् पुनः प्राह स गुह्यकः ॥ १६. मा कुरु त्वमहङ्कारं धर्मप्त्नी न ते खलु । बहवोऽस्याः पतिर्भूत्वा त्वादृशा मादृशा जनाः ॥ १७. यमेषा वृणुते कान्तं सोऽस्याः पतिरसंशयः । साधारणस्त्री सर्वेषां सुराणां देवकल्पितम् ॥ १८. एवमन्योन्यवादेन कलहस्सुमहान् अभूत् । गुह्यकं तं पराजित्य तामादाय वराङ्गनाम् ॥ १९. गतो वज्राङ्गदो लोकं सोऽप्यगात् ब्रह्मणस्सभाम् । तं दृष्ट्वा दीनमनसं क्लान्तं तं गुह्याधिपम् ॥ २०. किमेतत् इति पप्रच्छ दयालुस्स पितामहः । ब्रह्मा -- किं ते स्न्तापसम्भ्रान्तस्वान्तःक्लान्तं वपुः परम् ॥ २१. दारानुसक्तमनसां कुतः सौख्यं भविष्यति । धर्मतः तस्य सा नूनं भार्या भवितुमर्हति ॥ २२. तथाप्यकृत्यं तस्यैव ध्रुवचक्रादितः परम् । रागवन्तो भविष्यन्ति ते त्याज्या मत्समीपतः ॥ २३. एतत् आरभ्य तस्यैव मास्तु देवगतिर्ध्रुवम् । इत्युक्त्वा भगवान् ब्रह्मा सान्त्वयामास गुह्यकम् ॥ २४. सोऽपि वज्राङ्गदः शापात् नष्टगतिर्ध्रुवम् । पितरं शरणं प्राप वरुणं यादसां पतिम् ॥ २५. स तु पुत्रं समाश्वस्य प्राप्य ब्रह्माणमीश्वरम् । प्रार्थयामास शापान्तं सोऽपि तं पुनरब्रवीत् ॥ २६. यदा मलयशैलस्य प्रान्तश्रुङ्गे महोदये । दृश्यसे तैजसं चित्रं तोरणं मणिभास्वरम् ॥ २७. तदा ताम्रासमायुक्तो मैत्रावरुणिरात्मवान् । आगमिष्यति लोकानां हिताय मुनिपुङ्गवः ॥ २८. तदनुग्रहमासाद्य ताम्रपर्ण्यां विगाह्य च । पुनर्देवगतिं यातु सभार्यो नात्र संशयः ॥ २९. इत्थं लब्ध्वा तु शापान्तं वारुणिः सह भार्यया । वरुणस्याज्ञया विश्वकर्मणा निर्मितां गुहाम् ॥ ३०. आसाद्य वसतिं चक्रे वीक्षमाणो महामुनेः । समागमं ताम्रपर्ण्या यातो हय इवाध्वनि ॥ ३१. गते वर्षशते पूर्णे गुहाद्वारि विजृम्भिते । तोरणं तरुणादित्यपाटलं चारुचित्रकम् ॥ ३२. आलोक्य स गुहाद्वारि धीरो वज्राङ्गदो मुदा । निर्गत्य गर्तात् विस्तीर्णे ददर्श महतीं महीम् ॥ ३३. उत्फुल्लचन्दवनामुदागरुवाटिकाम् । उत्फुल्लकदलीफलां उच्चावचविहङ्गमाम् ॥ ३४. वसन्तमदनोल्लासकूजत्कोकिलसारसाम् । आश्चर्यतोरण्च्छायां चमत्कृतमणिस्थलीम् ॥ ३५. इत्थं व्यापारयन् दृष्टिं समन्तात् वरुणात्मजः । दिशमावृत्य कौबेरीं प्रभां ज्योत्स्नामिव स्थिताम् ॥ ३६. दृष्ट्वा स विस्मयाविष्टो ददर्श मुनिमग्रतः । अक्षिसाफल्यकरणं तपःफलमिव स्थितम् ॥ ३७. अक्षिलक्ष्यं मुनिं कृत्वा परमानन्दनिर्भरः । पपात पादयोस्तस्य पाहि मां पाहि मामिति ॥ ३८. अभिवाद्य मुनिश्रेष्ठं लोपामुद्रं च तत्प्रियाम् । ताभ्यां प्रदर्शितां देवीं नदीं मुक्तमणिप्रसूम् ॥ ३९. तस्याः दर्शनमात्रेण देवभावन्मवाप्तवान् । तावत् विमानमारूढा संहृष्टा स्तबकावती ॥ ४०. आययौ वरुणः चापि भ्रातरोऽस्य समन्ततः । सह देवास्समागत्य सधु साध्वित्यघोषयन् ॥ ४१. मुनीं प्रदक्षिणीकृत्य ताम्रपर्णीं प्रणम्य च । शुद्धात्मा शापनिर्मुक्तः पूजितस्सकलैस्सुरैः ॥ ४२. वज्राङ्गदो महाबाहुः पुनर्देवगतिं गतः । अभ्यर्च्य बरुणो राजा लोपामुद्रापतिं मुनिम् ॥ ४३. अभिष्टूय मुनिं तद्वत् चन्दनाचलकन्यकाम् । ब्रह्मणानुमतः तस्याः शुश्रूषार्थं जलाधिपः ॥ ४४. तीर्थानां दिव्यरूपाणां सागरं कोटित्रयं ददौ । सा ताभिः तीर्थकन्याभिः संवृता लोकपावनी ॥ ४५. तप्तहाटकसंस्थेव बभौ मणिमतल्लिका । तां दृष्ट्वा मुनयः सिद्धाः देवाश्च सह दानवैः ॥ ४६. तुष्टुवुः परमप्रीताः पुष्पवृष्टिमुचो दिवि । समाजः सर्वसिद्धानां तीर्थानां त्रिदिवौकसाम् ॥ ४७. ज्योतिषामिव सङ्घातो विरराज महीतले । स तैः परिवृतः श्रीमान् ताम्रया मणिगर्भया ॥ ४८. कुम्भयोनिः संप्रतस्थे संहृष्टो दक्षिणां दिशम् । शंसन्तः तस्य कर्माणि कुम्भयोनेः महात्मनः ॥ ४९. महानुभावाः ताम्रायः कथयन्तः परस्परम् । अपनिन्युः तदध्वानपरिश्रमं अमी जनाः ॥ ५०. शिवसैलमुपाजग्मुः यत्रास्ते शङ्करस्स्वयम् । तपस्यतः चन्दनाद्रेः सपत्नीकस्य वै चिरम् ॥ ५१. प्रसादमकरोत् यत्र शिवः सर्वशिवङ्करः । तदादि शिवसंप्राप्य शिवशैल इतीरितः ॥ ५२. तावदत्रिर्महातेजाः मुनिस्साक्षात् हरिस्स्वयम् । अग्रे प्रादुरभूत्तस्य मुनेः कलशजन्मनः ॥ ५३. आदाय पाद्यमर्घ्यं च मधुपर्कं च मन्त्रवित् । सपर्यामकरोत्तस्मै प्रहृष्तेनान्तरात्मना ॥ ५४. अहो समागमं श्रेष्ठं तवात्र कलशीसुत । मन्ये लोकहितार्थाय महादेवेन कल्पितम् ॥ ५५. भगीरथस्य राजर्षेः गङ्गामानयतः पुरा । तपसा पालितं विश्वं पापेभ्यः सचराचरम् ॥ ५६. इदानीं भवता श्रीमान् ताम्रामानयां नदीम् । पापात् भयान् महाव्याधेः दारिद्र्यात् पालितं जगत् ॥ ५७. एनां महानदीं पुण्यां दर्शनात् पापनाशिनीम् । ये भजन्ति नराः भक्त्या तेषां नास्ति दरिद्रता ॥ ५८. यदम्बुपानतो मर्त्याः चिरं जीवन्त्यरोगिणः । यत्तीर्थाप्लुतदेहस्य मोक्षलक्ष्मी करस्थिता ॥ ५९. एनामानयता ब्रह्मन् भवता करुणात्मना । सनाथा विहिता नूनं दक्षिणाशा सुदक्षिणा ॥ ६०. इति वाचा कुम्भयोनिं बहुमान्य पुनःपुनः । नत्वैवाञ्जलिना देवीं तुष्टाव मलयात्मजाम् ॥ ६१. नमस्तुभ्यमाब्रह्मकीटं विश्वं पापात् पालयन्ती पयोभिः । तीर्थाकारा त्वं दृश्यसे त्वं प्रकृत्या सूक्ष्माकारा दृश्यसे वेदवाग्भिः ॥ ६२. त्रेधा भङ्क्त्वा स्वां तनुं द्योतयन्तीं गङ्गा कृष्णा भारतीति प्रशस्तिम् । भकानस्मान् पापतः पाहि मातः ताम्रे सम्पत्साधने समर्था ॥ ६३. आशैलाब्धिं स्रोतसाञ्चोदधारा पीयूषेण प्राज्यकूलद्व्ये ते । स्तन्यक्षीरेणैव लोकं पुनाना मातस्ताम्रे देवि नित्या भव त्वम् ॥ ६४. इत्यभिष्टूय ताम्रां देवीं अत्रिः परमधर्मवित् । अनसूयासमायुक्तो ध्यानारूढोऽभवत् पुनः ॥ ६५. तवत् शैलेन्द्रकटकात् अत्रेः सन्तोषकाम्यया । निष्क्रान्तन् तत् महातीर्थं निस्ससार महोर्मिवत् ॥ ६६. सैषा सखी ताम्रपर्ण्या घटनेति प्रकीर्तिता । स्नानात् पानात् पापहन्त्री पुण्या मन्दाकिनी यथा । ६७. तस्यां स्नात्वा सपत्नीकः सोऽत्रिस्सार्धं सुरोत्तमैः । अगस्त्येन मुनीन्द्रेण तर्पयित्वा पितॄन् सुरान् ॥ ६८. शिवशैलेश्वरं नत्वा संप्राप्य च मनोरथान् । घतयत्यखिलान् कामान् मज्जतां पिबतां नृणाम् ॥ ६९. घटनेयं नदी भविष्यति न संशयः । अत्र्यर्थं निर्गता यस्मात् आत्र्यीति प्रशस्यते ॥ ७०. शिवशैलात् विनिष्क्रान्ता शिवशैलवती ततः । ताम्रानुजेति केचित् तां अन्ये शैलोदकामिति ॥ ७१. एवं प्रशस्य बहुधा स्तुभिः घटनां नदीम्म् । सहा(मलय)द्रिणा मुनिगणैः अमरिरभिसंवृत ॥ ७२. प्रतस्थे कलशीसूनुः ताम्रया परया परम् । व्योमयानैः सिद्धगणैः गन्धर्वोरगकिन्नरैः ॥ ७३. समन्तात् वसुधाकीर्णा नक्षत्रैः द्यौरिवाबभौ । मध्ये मुनिवरः श्रीमान् मालेय्या सहितः तथा । ज्योत्स्नया सहितः व्योम्नि शशीव रुरुचे परम् ॥ ७४. एवं समाजो महतां ऋषीणां व्याघुष्य नानानिगमप्रबन्धैः । अपास्तशोकं निहता शुभौघं समासत् चन्दनशैलराजम् ॥ इति सप्तमः अध्यायः । Pro.Total = 378 + 74 = 452

अष्टमः अध्यायः

हयग्रीवाश्रमं प्रति अगस्त्यागमन म् । १. भगवन् सर्वधर्मज्ञ लोकानुग्रहकर्मकृत् । श्रुत्वापि त्वन्मुखाम्भोजकथापीयूषसन्ततिः ॥ २. नहि मे तृप्तिजननी कामिनः कामिनी यथा । आह्लादयति गात्राणि चित्तमानन्दयत्यपि ॥ ३. अन्तःकरणसन्तापं वुपोहति दुधेव नः । पारावारमिवापारं अनन्तं श्रुतिवत् पुनः ॥ ४. अपरा स्वादु पीयूषाधारापूरमिवाद्भुतम् । भूयोऽपि श्रोतुमिच्छामि ताम्रपर्णयास्तु वैभवम् ॥ ५. कथं प्राप नदी पुण्या ताम्रा गुप्ताद्रिमस्तके । कथं प्रवाहपुषिता समेता सागरेण सा ॥ ६. इति पृष्टो महातेजाः स्वपुत्रेण महामुनिः । कथां विस्तार्य महतीं प्रवक्तुमुपचक्रमे ॥ ७. व्यासः -- वत्स ते कथयिष्यामि श्रोतव्यं सावधानतः । अत्रितुम्बुरुमुख्यैः च वसुगौतमनारदैः ॥ ८. कपिलाङ्गीरसोचत्यकण्वकाणादरैवतैः । वरुणेनारुणेनापि सपुत्रबलशालिना ॥ ९. अन्यैः च सिद्धैरमरैः समन्तात् अभिसंवृतैः । मुनिः कलशभूर्भूमां पुण्यामादाय तां नदीम् ॥ १०. अत्र्याश्रमात् विनिर्गत्य किञ्चित् गत्वा क्षणादिव । उपत्यकायां शैलस्य विस्तृतायां महामुनिः ॥ ११. आससाद सरोरम्यं व्योमाख्यं मानसं यथा । अगाधममृतं स्वादु सलिलं सान्द्रशीतलम् ॥ १२. तद्रक्षणार्थं भगवान् पुरा नारायणः प्रभुः । आस्ते पर्वतरूपेण ज्योतिर्मणिकृताभिधः ॥ १३. तस्य प्रणवरूपस्य मध्ये श्रुङ्गस्य संस्थितः । सरोवरं समासाद्य निवासमकरोत् मुनिः ॥ १४. सर्वेनिविविशुर्हृष्टाः देवाश्च परमर्षयः । तत्र पञ्चसहस्राणि वर्षाणि नियतेन्द्रियः ॥ १५. तपश्चाचार भगवान् उमालाभाय शङ्करः । यस्यां पुष्करवाप्यां तु निक्षिप्यात्मधनुःशरान् ॥ १६. एकाकी तप आतिष्ठत् लोकानां हितकाम्यया । तदादिनाम्ना पैनाकसरो लोकेषु गीयते ॥ १७. हरिः पर्वतरूपेण तद्रक्षामकरोत् यतः । तदारभ्य सरो नाम्ना विष्णुगर्भमितीरितम् ॥ १८. तत्रत्याः च एव ते सर्वे तमेत्य कलशोद्भवम् । सपत्नीकं समभ्यर्च्य सम्पूज्य मलयात्मजाम् ॥ १९. आतिथ्यं विददुः तस्मै सर्वेषां च यतोचितम् । स्नात्वा पुष्करिणीतीर्थे तर्पयित्वा पितॄन् सुरान् ॥ २०. तत्रैव विहितातिथ्याः पुरस्कृत्य महानदीम् । देवगन्धर्वमुख्यैः च वरुणेनात्रिणा सह ॥ २१. ऊषुः पञ्चदिनान्यत्र तीर्थमाहात्म्यनिर्वृताः । अथोषस्युपवृत्तायामगस्त्यो मुनिभिस्सह ॥ २२. काल्यं निवृत्य नियमं कृतकृत्योऽत्रिणा समम् । तीर्थं प्रदक्षिणीकृत्य ताम्रामादाय पावनीम् । २३. ज्योतिर्मणिं लङ्घयित्वा प्रणम्य वनदेवताम् । देवदुन्दुभिनादेषु जृम्भमाणेषु सर्वतः ॥ २४. किञ्चित् दक्षिणतः तस्मात् ददर्श महदाश्रमम् । यत्रास्ते भगवान् विष्णुः हयग्रीवस्वरूपधृत् ॥ २५. तं सेवन्ते सिद्धगणाः देवाश्च परमर्षयः । ऋतवो युगपत् सर्वे न मुञ्चन्ति हि तद्वनम् ॥ २६. अपास्तवैरं वर्तन्ते सत्वानि विविधान्यपि । तत्र पुष्करिणी काचित् अगाधा निर्मलोदका ॥ २७. पिशङ्गिला नाम यस्यां गणाः पैशङ्गिलाः स्थिताः । कपिला इति विख्याता समादिष्टाः स्वयम्भुवा ॥ २८. तद्रक्षणार्थमद्यापि बहवो निवसन्ति हि । निशासु घोषा श्रूयन्ते मेघानामिव गर्जताम् ॥ २९. कृताञ्जलिः कुम्भयोनिः प्रविवेश तदाश्रमम् । अवरुह्य तु यानेभ्यः देवाः चाश्रममाययुः ॥ ३०. ताम्रपर्ण्या समायुक्तमागतं कलशीसुतम् । विज्ञाय भगवान् श्रीमान् हयग्रीवो महामुनिः ॥ ३१. अत्रिः मुनिः अगस्त्यश्च वरुणो यादसां पतिः । एतान् अन्यान् च विधिवत् तथा तुम्बुरुपर्वतौ ॥ ३२. पूजयित्वा महदेवीं ताम्रपर्णीं सरिद्वराम् । अभिनन्द्य प्रणम्याग्रे सन्ति ते शासनं क्रमात् ॥ ३३. उपविष्टेषु सर्वेषु पूजितेषु यथोचितम् । बहुमान्य हयग्रीवः कुम्भयोनिमभाषत ॥ ३४. श्री भगवानुवाच -- श्रान्तोऽसि मैत्रावरुणे त्वयैतत् साध्वनुष्ठितम् । सम्यक् आनयता देवीं ताम्रपर्णीं सरिद्वराम् ॥ ३५. कृतेयं भारर्ती भूमिः स्वर्गादपि गरीयसी । अहो कृतमिदं कार्यं सर्वप्राणिहितोदयम् ॥ ३६. भवादृशां परिश्रान्तिः अश्रान्तिकरिणीभुवः । यत्कृता भवता ब्रह्मन् शिवाज्ञादेशकारिणा ॥ ३७. तदशेषं मया ज्ञातं समाधिमुपगच्छता । सन्तुष्टोऽस्मि महाभाग कर्मणा भूरिधर्मणा ॥ ३८. श्रेयः प्राप्स्यसि भद्रं ते दुर्लभं जगतीतले । तव सन्दर्शनात् अद्य कृतकृत्योऽस्मि केवलम् ॥ ३९. एषा परमकल्याणी शाम्भवी शक्तिरूपिणी । भुक्तिदा मुक्तिदा नॄणां महापातकनाशिनी । ४०. साक्षात् प्रकृतिरव्यक्ता निर्गुणा गुणरूपिणी । ब्रह्मविष्णुमुखैर्देवैः मुहुराराध्यते किल ॥ ४१. अस्याः प्रतिष्ठितो मूर्ष्णि शङ्करो लोकशङ्करः । हृदये वर्तते ब्रह्मा ललाटे गरुडध्वजः ॥ ४२. गङ्गा सरस्वती चैव यमुना च शरावती । इमास्ते पुण्य सरितः अस्याः बाहुषु संस्थिताः ॥ ४३. ऊरू मन्थरकैलासौ चक्षुषी शशिभास्करौ । नासिकायां उमादेवी कर्णयोरश्विनावुभौ ॥ ४४. गोदावरी च कावेरी कपोलतलसंस्थिते । नाभौ च संस्थितो देवो वायुः घ्राणे च संस्थितः ॥ ४५. जिह्वायां भारती देवी लक्ष्मी वक्षसि संस्थिता । जङ्घयोः संस्थिता नागाः गावोऽस्याः चरणाम्बुजे ॥ ४६. मुनयो वसवः साध्याः रोमकूपेषु संस्थिताः । एनामाश्रित्य तीर्थानि लभन्ते तीर्थतां पुनः ॥ ४७. सर्वे देवाश्च मन्त्राश्च गायत्र्या साकमत्र हि । अनया धार्यते लोकं पाल्यते पापगह्वरात् ॥ ४८. तस्मात् इमां ये सेवन्ते तेषां न हि पराभवः । इतः परं ते गन्तव्यं न पश्ये सुकृतं महत् ॥ ४९. काश्मीरादपि केदारात् हरिगर्तात् च नैमिशात् । श्रैष्ठ्यभूता त्वया ब्रह्मन् विहिता दक्षिणा मही ॥ ५०. कृतार्थोऽस्मि कृतार्थोऽस्मि भवतां दर्शनात् अहम् । इयन्तं कालमत्रैव भवदागमनाशया ॥ ५१. वसतो मे चिरात् प्राप्तं कल्याणं महदूर्जितम् । एभिः सह मुनिश्रेष्ठैः देवैश्च वरुणात्मभिः ॥ ५२. वास्तव्यं भवता ब्रह्मन् इहैव च मयान्तिके । पूजनीया महादेवी ताम्रपर्णी महेश्वरी ॥ ५३. इति श्रुत्वा वचस्तस्य स मुनिः कुम्भसम्भवः । ॐ इत्यञ्जलिना भाष्य सहात्रिप्रवरैर्द्विजैः ॥ ५४. तस्मिन् मलयजातेजःकरम्बित महोदके । पिशङ्गिलाख्ये सरसि सस्नौ ब्रह्मानुभावयन् ॥ ५५. अनसूया समासक्ता लोपामुद्रोपलालिता । पूज्यमाना ताम्रपर्णी स्तूयमाना मुनीश्वरैः ॥ ५६. स्नाता दिव्याम्बरधरा दिव्यालङ्कारभूषिता । अनुजग्राह विहितं आतिथ्यं हरिणामुना ॥ ५७. मैत्रावरुणिना सार्धं अत्रिमुख्याः मुनीश्वराः । कृत्वा कर्माण्यशेषाणि पञ्चयज्ञादिकान्यपि ॥ ५८. सहाम्बुपतिना सार्धं हयग्रीवेण कल्पितम् । अङ्गीकृत्य यथान्यायं तेन सार्धं महात्मना ॥ ५९. संहर्षमाणाः सर्वे ते सुखमूषुः तथाश्रमे । क्षणप्रायमिवाभूवन् अहानि त्रीणि पञ्च च ॥ ६०. तदाश्रमपदं सर्वं समन्तात् योजनावृतम् । विमानशतसङ्कीर्णं नानामुनिगणावृतम् । गन्धर्वैः स्तूयमामानैश्च महोत्सवमिवाभवत् ॥ इति अष्टमोऽध्यायः । Pro.Total = 452 + 60 = 512.

नवमोऽध्यायः

वीरसेनशङ्खयोः संवादः । १. अथापरेद्युर्भगवत्युदिते कर्मसाक्षिणि । अवतीर्य महातेजाः विश्वकर्मा वियत्तलात् । २. आससाद मुनिश्रेष्ठं तमगस्त्यं कृताञ्जलिः । अभिवाद्य हयग्रीवं वरुणं संप्रणम्य च ॥ ३. अत्रिमाराधयन् मूर्ध्ना व्याजहार स वर्धकिः । विश्वकर्मा-- नमो महद्भ्यःसर्वेभ्यो मुनिभ्योऽयं इहाञ्जलिः॥ ४. विज्ञाप्यं श्रूयतामत्र महादेवानुशासितम् । वक्ष्यमाणं मया ब्रह्मन् यथावत् अवधार्यताम् ॥ ५. सन्तुष्टोऽस्मि मुनिश्रेष्ठाः कर्मणानेन केवलम् । वैशाखपौर्णिमायां तु मुहूर्ते मैत्रसंज्ञिते ॥ ६. मच्छक्तिरेषा कल्याणी ताम्रा मलयनन्दिनी । प्रवाहरूपा निर्गत्य मलयात् यातु सागरम् ॥ ७. अहमप्यागमिष्यामि भवतां हितकाम्यया । इत्थमुक्त्वा महादेवः प्रेषयामास मामिह ॥ ८. अनुज्ञातः त्वया ब्रह्मन् आश्रमं करवाण्यहम् । इति ब्रुवाणं तं दृष्ट्वा विश्वकर्माणमागतः ॥ ९. बहुमेने मुनिर्वाचा कुम्भयोनिर्मुदान्वितः । सर्वे च मुनयो देवाः साधु साध्वित्यपूजयन् ॥ १०. हयग्रीवेणानुशिष्टः विश्वकर्मा महामतिः । तीराग्रेऽगस्तिश‍ृङ्गस्य मध्ये विस्तृतशालिनी ॥ ११. निर्ममे भवनं चित्रमद्भुतं प्रियदर्शनम् । पञ्चनल्वप्रमाणेन विस्तारायामसंयुतम् ॥ १२. विष्णुस्थानं शिवस्थानं ब्रह्मणः सदनं तथा । भवनं भास्करावासं दुर्गास्थानं गणेशितुः ॥ १३. निर्मिता मुनिशार्दूल तथैवास्थानमण्डपः । महानसं भुक्तिशाला जपध्यानालयं तथा ॥ १४. एवं विधाय भवनं कुम्भयोनेर्महात्मनः । कदलीपूगपुन्नागरसालपनसादिभिः ॥ १५. नारङ्गलिकुचारम्भाकेरक्तमुखपाटलैः । उद्यानैरपि भूयिष्ठं फलपुष्पमधूर्जितैः ॥ १६. वापीकूपसमायुक्तं कूजत्कोकिलसारसम् । विधाय विविधाकारं तस्याप्युत्तरतः स्थले ॥ १७. वृषाङ्कं नाम नगरं मणिप्राकारतोरणम् । महाभवनसंयुक्तं रत्नप्रासादभास्वरम् ॥ १८. स्थानं मलयनन्दिन्याः विदधे शिल्पिनां वरः । तत्रत्यं श्रीकरं नाम गन्धर्वानां गणं महत् ॥ १९. न्ययुङ्क्त स्थलरक्षार्थं मायावृतमकल्मषम् । पुनर्मुनिमुपागम्य सकलं स व्यजिज्ञपत् ॥ २०. तमभ्यर्च्य गिरा हर्षात् स मुनिर्देवशिल्पिनम् । संप्रतस्थे महातेजाः ताम्रामादाय पावनीम् ॥ २१. हयग्रीवमुखैस्सिद्धैः देवैश्च वरुणादिभिः । शङ्खदुन्दुभिनादैश्च भेरीतूर्यरवैरपि ॥ २२. व्याघुष्य ककुभास्सर्वाः समीयायाश्रमं निजम् । उत्सवः सुमहान् आसीत् प्रविशत् आश्रमं मुनौ ॥ २३. अम्बरात् अभ्यवर्तन्त समन्तात् पुष्पवृष्टयः । मकरन्दसुधावृन्दतुन्दिलः चन्दनद्रुमान् ॥ २४. नर्तयन् इव सानन्दं मन्दं मन्दं मरुत् ववौ । शकुनाः कर्णपीयूषैः पोषयन्ती कलस्वरैः ॥ २५. अन्यान्यपि सहस्राणि शुभान्यासन् समन्ततः । हर्षसम्भ्रमसङ्घुष्टजनरोमाञ्चकञ्चुकम् ॥ २६. चकाशे कन्दलाक्रान्तं प्रावृषीव महीतलम् । इत्थं प्रविश्य मुनिभिः देवैश्च सह कुम्भजः ॥ २७. आश्रमं परमं हृष्टो बभूव ससुहृद्वृतः । लोपामुद्रापतिः श्रीमान् प्रवेश्य निजमाश्रमम् ॥ २८. ताम्रपर्णीं महादेवीं भक्तिमान् अभ्यपूजयत् । सर्वे च मानिताः तेन देवाः च ऋषयः तथा ॥ २९. ऊषुः परमसंहृष्टाः तस्मिन् एवाश्रमे सुखे । उद्यानानि विचित्राणि वाप्यः च विमलोदकाः ॥ ३०. पुष्पिताः तरवः भूरि फलवन्तो मधुस्रवाः । दृष्ट्वा ते विविधाकारमाश्रमं विस्मिताः ययुः ॥ ३१. विलोक्य विश्वकर्माणं प्रशशंसुः इतस्ततः । प्रविश्याश्रममाश्चर्यं सर्वान् सम्भावयन् क्रमात् ॥ ३२. तत्रैकादशरात्रन्तु समुशित्वा महामुनिः । नारदाद्यैः तु संयुक्तः ताम्रामादाय पावनीम् ॥ ३३. असाद्य श्रीगुहास्थानमभ्यर्च्य परदेवताम् । तत् प्रसादमनुप्राप्य देवैश्च समभिष्टुतः ॥ ३४. सागरेण महापूरां मुनिः ताम्रामयोजयत् । समाजः सर्वभूतानां तत्राद्भुतमिवाभवत् ॥ ३५. श्री शुकः -- तत कीदृक् स्थलं देव्याः गुहा वा कीदृशी पुनः । केन रूपेण सा देवी संस्थिता परमेश्वरी ॥ ३६. एतत् सर्वमशेषेण विस्तरात् वक्तुमर्हसि । श्री वेदव्यासः -- श‍ृणु पुत्र प्रवक्ष्यामि कथां कथयतो मम ॥ ३७. वीरसेनस्य शङ्खस्य संवादं परमाद्भुतम् । अस्ति मानवती नाम नगरी काञ्चनारुणा ॥ ३८. उत्तरे हिमशैलस्य पुष्पवत्याश्च दक्षिणे । तस्यामस्ति नरः कश्चित् वीरसेनः इति श्रुतः ॥ ३९. तपसा शम्भुमाराध्य लेभे त्रैलोक्यपूजितम् । देवदत्तं समारुह्य विमानं सूर्यसन्निभम् ॥ ४०. वाह्यमानं महावीरैः तुरङ्गैः कुङ्कुमारुणैः । देशान् सञ्चरता तेन प्राप पुष्पवतीतटम् ॥ ४१. पयस्तस्या क्षोभयन्तं हंसं तं यादसां गणम् । वज्रदन्तं जघानाशु गदया भीमवेगया ॥ ४२. तदुपद्रवतो मुक्ता सा नदी तुष्टमानसा । प्रादात् तस्मै नरेन्द्राय नादेयीं नाम कन्यकाम् ॥ ४३. तामुद्वाह्य वरारोहां रममाणो महीपतिः । ताज्यं पुत्र समाधाय प्रियायाः प्रियकाम्यया ॥ ४४. विमानवरमारुह्य चचार पृथिवीमिमाम् । मेरुं प्रदक्षिणीकृत्य रममाणः ततस्ततः । ४५. परीत्य द्वीपं वर्षाणि लङ्घयित्वा हिमाचलम् । बह्वमन्यत भूयिष्ठां स दृष्ट्वा भारतीं महीम् ॥ ४६. नगराणि विचित्राणि वनानि विविधान्यपि । व्योमयानात् समुल्लङ्घ्य त्वर्माणः पुनर्ययौ ॥ ४७. विमानं कामगं तस्य स्तब्धमासीत् वियत्तले । किमेतत् इति सम्भ्रान्तः चिन्तयामास बुद्धिमान् ॥ ४८. तवत् अम्बर्तः चित्रा वागभूत् अशरीरिणी । अलङ्घ्यममरैरन्यैः ब्रह्मविष्णुमुखैरपि ॥ ४९. परानन्दैकनिलयं श‍ृङ्गं मलयभूभृत । इति श्रुत्वा वचो राजा विस्मयाविष्टमानसः ॥ ५०. सन्निवृत्य विमानं तं महीमवततार ह । दृष्ट्वा तीरे महानद्याः मुनेः शङ्खस्य आश्रमम् ॥ ५१. विमानात् अवरुह्यासौ सभार्यः प्रविवेश ह । तं दृष्ट्वा मुनिशार्दूलं विनयात् अभ्यवादयत् ॥ ५२. स्वागतेनासनेनापि सम्भाष्य च महीपतिम् । अभ्यभाषत संहृष्टो वचा मधुरया मुनिः ॥ ५३. श्री शङ्खः -- स्वागतं ते महाभाग चिरात् दृष्टोऽसि मे खलु । कच्चित् ते कुशलं राज्ये कच्चित् अन्तःपुरे परे ॥ ५४. त्वयानुष्ठीयते किन्तु राजधर्मः सनातनः । कच्चित् ते मन्त्रिणः स्निग्धाः पुत्राः किं विनयोज्ज्वलाः ॥ ५५. छायानुरूपाः वर्तन्ते दाराः किं नु महीपते । किं ते प्रवसनं राज्यात् आनीतेयं कुतो वधूः ॥ ५६. आश्चर्याविष्टचित्तस्त्वं द्योतसे मुखलक्षणैः । मयि प्रवक्तुं शक्यं चेत् कथयस्व महीपते ॥ ५७. इति तस्य वचः श्रुत्वा वीरसेनो भुवः पतिः । श्लाघमानो मुनेर्वाक्यं प्रणतो वाक्यमब्रवीत् ॥ ५८. राजोवाच -- तव प्रसादात् कुशलं अस्माकं सर्वतः किल । तवानुरागपात्रस्य कुतो मे विपरीतता ॥ ५९. प्रसादात् देवदेवस्य महादेवस्य शूलिनः । विमानं कामगं दिव्यं अकुण्ठितगतागतम् ॥ ६०. अत्र स्तब्धमभूत् ब्रह्मन् ज्ञायते कारणं न मे । एषा नाम्ना तु नादेयी पुष्पत्यात्मजा सती ॥ ६१. मम प्रिया वरारोहा मामयाचत किञ्चन । एतत् भूमण्डलं सर्वं नानाद्वीपाब्धिसङ्कुलम् ॥ ६२. ज्ञातुं द्रष्टुं च तत्त्वेन काङ्क्षन्ती कौतुकाकुला । आलोकालोकमहता मयेयं दिगुपाश्रिता ॥ ६३. ज्ञातुमिच्छामि तत्त्वेन स्तम्भितं केन हेतुना । इति पृष्टवतः तस्य वीरसेनस्य भूपतेः । ६४. श्लाघयित्वा वचो भूयः व्याजहार मुनीश्वरः । श्रुणु राजन् प्रवक्ष्यामि येन स्तब्धगतिर्भवेत् ॥ ६५. यतः प्रवृत्तिर्जगतां यत्साक्षित्वे विवर्तते । वेन विश्वमिदं व्याप्तं यत् प्राप्य निवर्तते ॥ ६६. मनो वचः तथा बुद्धिः विषया न स्पृशन्ति यत् । तत् ब्रह्म परमं तेजः परमानन्दनिर्भरम् ॥ ६७. हिताय जगतां एकं द्वैधीभावमभूत् पुनः । तदत्र मिथुनीभूय रमते हि परस्परम् ॥ ६८. श्रीमत्परशिवाङ्कस्थतरुणीरूपलक्षणम् । महःकाञ्चनकल्याणसौन्दर्यामृतनिर्भरम् ॥ ६९. तत्र चन्दन्शैलेन्द्रे ज्योतिगृहमहान्तरे । विमले चक्रपर्यङ्के रमते परमात्मना ॥ ७०. सैषा परमकल्याणी सेव्यमाना सुरासुरैः । आस्ते विस्तार्य जगतीं वागुरामिव सर्वशः । ७१. पञ्चकृत्यपरान् देवान् वसमानीय सर्वशः । अत्रास्ते विश्वजननी विश्वरक्षाविनोदिनी ॥ ७२. अत्र तीर्थमयी ताम्रा सर्वपातकनाशिनी । अत्रैव मैत्रावरुणिर्लोपामुद्रासखो मुनिः ॥ ७३. ताम्रामादाय महतीं नदीमीश्वरसासनात् । आसागरं नियमिता स्रोतोरूपा प्रतिष्ठिता ॥ ७४. अत्र देवाश्च विप्राश्च मन्त्राश्च क्रतवः परे । उपास्यते ब्रह्मणैषा रुद्रेण हरिणा तथा ॥ ७५. नित्यमत्र महादेवः पुरा पर्यङ्कतां गतः । स्वशक्त्या क्रीडते साक्षात् परानन्दस्वरूपया ॥ ७६. तल्लङ्घनबलाभावात् विमानं स्तम्भितं तव । तस्मात् त्वं तीर्थवर्यायां ताम्रायां कृतमज्जनः ॥ ७७. अभिवाद्य मुनिश्रेष्ठं लोपामुद्रां च तत्प्रियाम् । तदनुग्रहमासाद्य तमम्बां द्रष्टुमर्हसि ॥ ७८. ततो वाचमिमां श्रुत्वा मुनेः शङ्खस्य धीमतः । प्रत्यभाषत तं राजा विस्मयाविष्टमानसः ॥ ७९. राजा -- कथेयं कथिता ब्रह्मन् त्वया मय्यनुकम्पया । महानदीव पापघ्नी श्रीरिवानन्ददायिनी ॥ ८०. मधुधारेव कर्णस्य कौमुदी शारदा यथा । नैव लब्ध्वा सुधापानं विना तृप्तिकरी किल ॥ ८१. सम्मानिता मुनीन्द्रेण ताम्रा कलशजन्मना । कथं दृष्ट्वा महादेवी पूजिता च विशेषतः ॥ ८२. तदाश्रमपदं अत्रैव वर्तते परमाद्भुतम् । एतत् सर्वमशेषेण विस्तरात् ब्रूहि मे प्रभो ॥ ८३. शङ्खः उवाच -- एतत्विचित्रं कलिकल्मषघ्नमाख्यानमूर्जस्वलमादिमातुः । श्रुणुष्व राजन् विनयेन सम्यक् मयाधुना संप्रति वक्ष्यमाणम् ॥ इति नवमोऽध्यायः । Pro.Total = 512 + 83 = 595

दशमोऽध्यायः

ताम्रपर्णीसमुद्रयोर्विवाहः । १. श्री शङ्खः -- श्रुणु राजन् प्रवक्ष्यामि कथां कर्णसुखावहम् । यस्यास्स्मरणमात्रेण पुरुषः पुरुषार्थभाक् ॥ २. समीकर्तुमिमां भूमिमगस्त्यः शम्भुशासनात् । ताम्रां महानदीं लब्ध्वा प्रतस्थे दक्षिणां दिशम् ॥ ३. त्रिकूटे शम्भुमभ्यर्च्य चित्रं प्रावर्तयन्नदीम् । अत्र्याश्रमे तु घटनां शिवशैलात् उदञ्चयन् ॥ ४. ज्योतिर्मणौ महाकूटे व्योमपुष्करिणीतटे । प्राप्य स्नात्वा तर्पयित्वा पितॄन् देवीन् ऋषीन् तथा ॥ ५. ततो हयग्रीवमुनेर्विश्रान्तः चाश्रमे सुखम् । स्नात्वा पिशङ्गिलातीर्थे सह देवैः सहर्षिभिः ॥ ६. न्यवसत् स्वाश्रमे पुण्ये विहिते विश्वकर्मणा । तत्रैकादशरात्रं तु समुषित्वा यथासुखम् ॥ ७. सर्वैः च मुनिशार्दूलैरमरैरभिसंवृतः । ताम्रपर्णीं पुरस्कृत्य प्रस्थानमकरोत् पुनः ॥ ८. निमित्तान्यभवन् तत्र शुभशंसीनि सर्वशः । ततोऽवतीर्य गगनात् नारदः कपिलो मुनिः ॥ ९. अभ्ययातां महात्मानौ सम्भाव्य कलशीसुतम् । तावभ्यर्च्य यथान्यायमन्योन्यमभिनन्दिताः ॥ १०. श्रीमत् चक्रगुहां सर्वे मुदिताः संप्रतस्थिरे । तत्रेषाख्यं च महातीर्थं ऊर्जाख्यं च महत्सरः ॥ ११. उभयोरपि संस्नात्वा चन्द्रादित्यौ प्रणम्य च । प्रासाद्य किङ्करान् सर्वान् अगस्त्यः ताम्रया सह ॥ १२. प्रविवेश गुहां रम्यां सर्वतो योजनावृताम् । कदम्बविपिनोदारां कल्पकोद्यानशोभिनीम् ॥ १३. कर्पूरवालुकाजुष्टां जाम्बूनदमयस्थलीम् । उत्फुल्लकेतकीषण्डामुदञ्चत्कदलीकुलाम् ॥ १४. कूजत्कोकिलसन्नादां मत्तभ्रमरसम्भ्रमाम् । सप्तकोटिमहामन्त्रैः मक्षिकापक्षिरूपैः ॥ १५. कोलाहलितदिक्चक्रां बालातपपिशङ्गिलाम् । वसन्तकामराजाभ्यां पाल्यमानां समन्ततः ॥ १६. चित्रकेतुमुखैश्शूरैः सदारैः प्रमथेश्वरैः । अप्रमादमसम्पातं रक्ष्यमाणं महीपते ॥ १७. काञ्चनैः कदलीषण्डैः महमरकतच्छदैः । सुधासदृशपक्वाढ्यैः प्रफुल्लतटशालिनीम् ॥ १८. प्रफुल्लकमलोदारां ददर्शाग्रे तु दीर्घिकाम् । नवमणिक्यसोपानां नानायदोगणावृताम् ॥ १९. सुविस्तारामघौघघ्नीं सुधासमरसोदकाम् । उपस्पृश्य महातेजाः मुनिराम्नायसंश्रिताम् ॥ २०. ततो दक्षिणतो गत्वा वापीमन्यां ददर्स सः । मनिप्रवरसोपानां काञ्चनेषु वनावृताम् ॥ २१. समुपस्पृश्य मेधावी पुणामाम्नायवापिकाम् । तप्तहाटकसङ्काशैः संवृतां चम्पकाद्रुमैः ॥ २२. कापि वाप्यक्षिपदवीमाससाद मुनेः पुरः । पश्चिमाम्नायसलिलं तत्रोपस्पृश्य कुम्भभूः ॥ २३. प्रणतः चोत्तरे भागे ददर्श अन्यत् महत्सरः । शातकुम्भमयैर्दिव्यैः हरिचन्दनपादपैः ॥ २४. सञ्छन्नतटसौरभ्यं हंससारससेवितम् । तत् तीर्थं शिरसा बिभ्रन् संप्राप श्रीपुरं महत् ॥ २५. महापीयूषपरिघां मणिप्राकारगोपुराम् । महाभैरवसम्पातां मातृकाशतसङ्कुलाम् ॥ २६. कृताञ्जलिः प्रह्वतनुः प्रविश्य श्रीपुरं महत् । ददर्श परमानन्दां शिवपर्यङ्कवर्तिनीम् ॥ २७. चतुर्भिः पञ्चमैः सूक्ष्मैः मेलनं यत्र दृश्यते । पञ्चकृत्यपरा यत्र पञ्चतामुपपेदिरे ॥ २८. यत्र शिवकामेश्वराङ्कस्था जयते शाम्भवी कला । तां दृष्ट्वा परमानन्दसन्दोहामृतरूपिणीम् ॥ २९. लोपामुद्रान्वितो धीमान् समाराध्य महेश्वरीम् । ताम्रपर्ण्या समायुक्तः तुष्टाव परमेश्वरीम् ॥ ३०. अगस्त्यः -- अम्ब जृम्भत्कृपापूरे दूरीकृतपराभवे । भवभञ्जनि रुद्राणि प्रसीस मम शाम्भवि ॥ ३१. दुरितार्णवसन्तारस्त्रिस्त्वमसि देहिनाम् । मायान्धकारविध्वंसविनोदमणिदीपिके ॥ ३२. यान्त्वामाहुः सदा मातः चिरन्तनगिरां ततिः । अक्षरामक्षराकारां आद्यामीडे पुरातनीम् ॥ ३३. प्रसन्नजनसौभाग्यसुधासमुदयार्णवे । प्रसीद मातः प्रत्यक्षमोक्षमार्गैकदीपिके ॥ ३४. महामातरसम्भाव्यकर्मकालविकल्पने । कलाकलितमर्यादे तुभ्यं देव्यै नमो नमः ॥ ३५. एकामनेकामेकस्थां शोकापायां निरामयीम् । त्वामाहुः श्रुतयो वाचां तान्त्वां अन्तरुपास्महे ॥ ३६. मायां अन्ये परां अन्ये परे शंसन्ति शाम्भवीम् । सन्तः स्वचछन्दचारित्रां तमहन्तान्नमः पराम् ॥ ३७. स्तुत्यं सत्यं परं प्राप्य ध्येयमर्च्यमहर्निशम् । यन्महस्तरुणीरूपं स्रोतामाराधये पुरः ॥ ३८. मय्यनन्यगते मातः प्रसीद वरदेवते । प्रसीद विश्वजननि प्रसीद प्रणवात्मिके ॥ ३९. विभक्तननाविधचक्रकोणे पाणिस्थलालङ्कृतपञ्चबाणे । प्रपन्नसन्तानलते प्रसीद प्रकृष्टपाशाङ्कुशपद्महस्ते ॥ ४०. मातःप्रसीद मलयाचलपद्मपीठे मायाविशेषकलया रचितप्रपञ्चे । पञ्चप्रपञ्चेश्वरमञ्चसंस्थे मह्यं महःकल्पय मातराशु ॥ ४२. श्री देवी -- अभिनन्द्य मुनिश्रेष्ठमपि तद्धर्मचारिणीम् । त्वदागमनतोऽप्येषा स्तुतिर्मे हषदायिनी ॥ ४३. आह्लादयति मे चित्तं चकोरमिव चन्द्रिका । त्वयानीता ताम्रपर्णी त्वत्कृतेयं स्तुतिस्तथा ॥ ४४. आह्लादयेतां भुवनं समन्तात् मदनुग्रहात् । एषा नदी ताम्रपर्णी जलशक्तिर्मदात्मिका ॥ ४५. मम तुष्टिकरी चैषा वाङ्मयी तीर्थदेवता । उभयत्र कृतस्नाताः पूतात्मानो भवन्ति हि ॥ ४६. वस्तव्या भवता चैव पत्न्या सह महामुने । त्वयेदं सकलं सौख्यमुपयातु जगत्त्रयम् ॥ ४७. त्वयि स्थिते ताम्रपर्ण्या सरिता मुनिपुङ्गव । सिद्धक्षेत्रं भवेत् स्थानं समन्तात् दशयोजनम् ॥ ४८. अस्मिन् देशे मत्प्रसादात् विप्लवो न भवेत् नृणाम् । दुर्भिक्षभयसन्तापाः तथारिष्टादयः परे ॥ ४९. कदाचिदपि मा सन्तु मास्तु लोके पराभवः । सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः ॥ ५०. मा विशन्तु जनं पापाः पराभवः भवादयः । स्वस्त्यस्तु सर्वजगतां चिरं जीवन्तु जन्तवः ॥ ५१. भवन्तु तव भद्राणि मत्प्रसादात् महमुने । अद्य पुण्यतमे लग्ने मुहूर्ते विजयाभिते ॥ ५२. एषा महानदी पुण्या प्रयातु वरुणालयम् । अस्याः तीरद्वये देवी श्रीर्नित्यात्वनपायिनी ॥ ५३. फलन्तु सर्वसस्यानि फलानि विविधान्यपि । समन्ततो महानद्याः पुष्णन्त्यौषधयः परे ॥ ५४. इति सन्तुष्टहृदया देवी देववरार्चिता । समाश्लिष्योरसा ताम्रां मृणालमृदुलैर्भुजैः ॥ ५५. ततो वृषाङ्कनगरे भवने मणिकुन्तले । मुक्तामणिमये पीठे निधाय मलयात्मजाम् ॥ ५६. अभ्यषिञ्जत् सुधासारैः सलिलैः कुम्भसम्भृतैः । चतुस्सहस्रतोयैश्च हेमकुम्भसमाभृतैः ॥ ५७. अभ्यषिञ्जन् मुनिगणाः सिद्धाश्च सनकादयः । अभिषिक्ता तथा ताम्रा हरिब्रह्मपुरन्दरैः ॥ ५८. बभौ परमकल्याणी साक्षादिव महेश्वरी । शुकवीणधरा शङ्खसरसिरुहधारिणी ॥ ५९. सर्वाभरणसंयुक्ता तरुणी काञ्चनारुणा । सेव्यमाना मुनिगणैः स्तूयमाना सुरासुरैः ॥ ६०. श्वेतच्छत्रसमायुक्ता चामरद्वयवीजिता । सखीजनसमायुक्ता लोकलक्ष्मीरिवाबभौ ॥ ६१. तावदभ्यायौ श्रीमान् देवो नदनदीपतिः । सेवितो नागराजैः च दैत्यदानवपुङ्गवैः ॥ ६२. यादोगणैः स्तूयमानः पूज्यमानः सुरादिभिः । तमागतं मलयराट् अभ्यर्च्य विधिपूर्वकम् ॥ ६३. उपलभ्य शिवानुज्ञां मुनिनाप्यनुमोदितः । समुद्राय सुतां प्रादात् धारापूर्वं धराधरः ॥ ६४. सैषा भर्तारमासाद्य नदी रत्नाकरं विभुम् । विशेषात् शुशुभे ताम्रा गौरीव परमेश्वरम् ॥ ६५. सर्वे मुमुदिरे लोकाः प्रसन्नाः च दिशो दश । देवदुन्दुभयो नेदुः गुह्यकाश्च कलं जगु ; ॥ ६६. कलं जगुश्च गन्धर्वाः ननृतुश्चाप्सरोगणाः । ताम्रामुद्वाह्य भगवान् तुतोष सरितां पतिः ॥ ६७. तवदादि महलक्ष्मीः प्रीयमाणा पुनःपुनः । आदिदेश कृपादृष्ट्या प्रवाहयितुमुद्यता ॥ ६८. तावन्मुनिगणाः सिद्धाः देवाश्च सहगुह्यकाः । साधु साध्विति संहृष्टाः प्रोचुः प्राप्तमनोरथाः ॥ ६९. विमानैर्निबिडं व्योम नानावर्णैरदृश्यत । ब्रह्मरुद्रहृषीकेशपुरन्दरसमास्थितैः ॥ ७०. वीणां वादयतामुच्चैः गायतां कलनिस्वनम् । कथाः कथयतां पुण्याः गर्जतां हर्षहर्षगद्गदम् ॥ ७१. सङ्घर्षनादो ववृधे पर्वणीव महार्णवात् । इत्थं सङ्घर्षमाणेषु जनेषु जगदम्बिका ॥ ७२. व्यादिदेश महादेवी प्रवहेति महानदीम् । इत्थं ब्रुवत्यामम्बायां प्रशान्ते जननिस्वने ॥ ७३. पठ्यमाणेषु सूक्तेषु पश्यत्सु सकलेष्वपि । महानादसमुद्धूतो जलौघः संप्रदृश्यते ॥ ७४. तदम्बुपूरातभिजातरूपान्नानामणिद्योदिततोरणाग्र्यः । निष्टप्तचामीकरचारुवर्णं विमानमर्कोपममाविरासीत् ॥ ७५. उच्चावाचध्वजदुकूलमुदस्तश‍ृङ्गमुद्दामकूबरमुदञ्चितकिङ्गिणीकम् । अद्युक्तधौततुरगोज्ज्वलमाप्तसूतमग्रे विमानमचलोपममाविरासीत् ॥ ७६. वाचा हरेर्विश्वधरस्य विष्णोः वातापिवैरीनिजधर्मपत्नीम् । देवीं नमस्कृत्य कृताभ्यनुज्ञः सार्धं हयग्रीवमुखैर्मुनीन्द्रैः ॥ ७७. प्रदक्षिणीकृत्य विमानमग्र्यं समारुरोहाभ्युदयप्रसादः । मन्दं ययौ स्यन्दनमस्य चैन्द्रीमतिप्रसन्नां हरितं जनौघैः ॥ ७८. तत्पृष्ठतः सान्द्रजलप्रवाहा प्रायात् नदी चन्दलशैलकन्या । वृषाङ्कतो दक्षिणतः समीपे वापीमिषामूर्जामपि प्रभिद्य ॥ ७९. तस्याश्रमात् उत्तरतः प्रवाहा तत्स्यन्दनमनुप्रयाता । मध्ये घनारण्यमतीत्य घोरं दिशं पितॄणामुपगम्य किञ्चित् ॥ ८०. चक्रोपलां प्लावयती नदीयं समृद्धपूरोत्तरवाहनीका । एषा चतुष्षष्टितनुःप्रमाणविस्तारयुक्ता विमलाम्बुपूरा ॥ ८१. ऊर्ध्वं तथा पञ्चतनुःप्रमाणामावृत्य नानाजलजन्तुयुक्ता । एवं प्रवृत्ता महती नदीयमनुप्रयाता विविधैर्जनौघैः ॥ ८२. प्रसन्नतोया प्रविवेश वेगात् कलम्बगर्तं कमपि प्रशस्तम् । तत्पूरयित्वा प्रहरैकमात्रा प्राप्तप्रणादा मलयस्य पुत्री ॥ ८३. नाराचमूर्तेर्नलिनायताक्षात् प्रशान्तसन्तापवतः प्रसन्ना । आकीर्णपुष्पप्रकरामरौगैः प्रायात् पुनः स्यन्दनचक्रमार्गम् ॥ ८४. समन्ततः शान्तसमन्ततापं समृद्धहर्षाविनवप्रणादम् । मुनीश्वरस्यन्दनमार्गयाना महार्णवं तूर्णमगात् नदीयम् ॥ इति दशमोऽध्यायः ॥ Pro.Total = 595 + 84 = 679

एकादशः अध्यायः

बाणतीर्थमाहात्म्य म् । १. राजा -- ब्रह्मन् प्रशस्तमित्युक्तं भवता गर्तमद्भुतम् । केन वा निर्मितं पूर्वं तत्र चित्रं किमद्भुतम् ॥ २. महतापि प्रवाहेन पूर्वण् यामद्वयात् गतम् । हरिः प्रसादमकरोत् ताम्रपर्णी कथं मुने ॥ ३. एतत् सर्वमशेषेण वद विस्तार्य मे गुरो । न तृप्तिमुपगच्छामि जुषन्नपि कथासुधाम् ॥ ४. ऋषिः -- श्रुणु राजन् प्रवक्ष्यामि कथामेनां विनोदिनीम् । पुरा कृतयुगे लोके पीड्यमाने च चराचरे ॥ ५. देवाः परमसन्त्रस्ताः शङ्करं शरणं ययुः । दत्वाभयं ततस्तेषां वीररुद्रः प्रतापवान् ॥ ६. रसारथो ब्रह्मसूतो रत्नसानुशरासनः । अच्युतं बाणमादाय ददाह च पुरत्रयम् ॥ ७. पुरान्तक इति ख्यातिं लोके त्रैलोक्यदुर्लभाम् । अशान्तकोपज्वलनं बाणं दृष्ट्वा पुरान्तकः ॥ ८. कुत्रचित् कुहरे घोरे निदधे मलयाचले । तत्र वर्षायुतज्वालामालातापितपर्वतः ॥ ९. तपसा तत्र भगवान् बाणरूपी जनार्दनः । तावत् प्रवाह बहुला ताम्रा मलयनन्दिनी ॥ १०. विष्णोराराधनार्थं तत् गर्तं समुपाविशत् । तस्यां महत्प्रवाहायां प्रविष्टायां बिलोदरे ॥ ११. उदभूत् अद्भुताकारझङ्कारोदारनिस्वनः । फूत्कारिव भूतोऽपि भुजङ्गेन्द्रस्य तत् बिलम् ॥ १२. बाष्पधूमचयैर्व्योम संवृतं जलदैरिव । क्वथितानीव वारीणि व्यदृश्यन्तोरुबुद्बुदैः ॥ १३. उत्पतन्ति च यादांसि सन्तप्तानि समन्ततः । घर्मवेगपरिक्षिप्तं व्योम्नि स्यन्दनमण्डलम् ॥ १४. देवदानवसिद्धानां यक्षगन्धर्वपक्षिणाम् । सम्भ्रमाविष्टचित्तानां धावतां च ततस्ततः ॥ १५. महानादः समभवत् मेघानामिव गर्जताम् । दृष्ट्वैतत् अद्भुतं सर्वे चिन्ताक्रान्ता बभूविरे ॥ १६. परिवृत्य विमानं तत् अगस्त्यो मुनिसत्तमः । कृताञ्जलिरुवाचेदं हयग्रीवं महाप्रभुम् ॥ १७. आकस्मिकमिदं चित्रं भगवन् केन हेतुना । उत्पातमिव पश्यामि कथ्यतां मे कुतूहलात् ॥ १८. श्रुणु ब्रह्मन् प्रवक्ष्यामि विचित्रस्याद्भुतस्य च । पुरा पुरहरेणैव निर्दग्धे च पुरत्रये ॥ १९. अशान्तकोपदहनं बाणं नारायणात्मकम् । मलयेऽस्मिन् महागर्ते शान्त्यै संक्षिप्तवान् शिवः ॥ २०. तत्तापशान्तिकरणी ताम्रपर्णी सुधात्मिका । शिवप्रियकरी ह्येषा महापापविनाशिनी ॥ २१. बाणरूपी हरिर्विष्णुः भगवान् लोकपावनः । आराध्यते ताम्रपर्ण्या नमस्कुरु महामते ॥ २२. विशेषादस्य देवस्य प्रभावात् वनमालिनः । महातीर्थमिति ज्ञेयं दर्शनात् दुरितापहम् ॥ २३. यस्मात् अत्रोषितं बाणरूपिणा हरिणा स्वयम् । बाणतीर्थमिति ख्यातं भूयात् भुवनमण्डले ॥ २४. अत्र स्नाताः नरास्सर्वे हरेस्सारूप्यभागिनः । प्रयागप्रमुखान्यत्र तीर्थानि विविधान्यपि ॥ २५. प्रतिमासं समाजग्मुः तीर्थे दर्शनाय वै । तत्र जप्तं हुतं दत्तं तदनन्तफलं भवेत् ॥ २६. इत्थं सम्भाषमाणेऽस्मिन् हयग्रीवमहात्मनि । तत् गर्तात् अर्कसङ्काशो बाणो निर्गत्य गह्वरात् ॥ २७. व्योमयानं संप्रतस्थे भास्यन् भुवनत्रयम् । सर्वे देवाः सर्षिसङ्घाः प्रणेमुः तुष्टुवुः तथा ॥ २८. तत्र तीर्थमुपस्पृश्य दधुर्मूर्ध्नात्मलब्धये । प्रशशंसुः सुराः सर्वेकिरन्तः कुसुमोच्चयम् ॥ २९. कलम्बतीर्थं प्रजगुः बाणतीर्थथं च केचन । महाक्वाथमिति प्रोचुः अपरे विस्मयाकुलाः ॥ ३०. शीतोदकं पठन्त्येके परमानन्दनिर्भराः । अगस्त्यप्रमुखास्सर्वे हयग्रीवेण संयुताः ॥ ३१. बिभ्राणा शिरसा तीर्थं पुनः स्यन्दनमारुहन् । भूयो दुन्दुभयो नेदुः तूर्यारावेण भूयसा ॥ ३२. सूतं सञ्चोदयामास सोऽपि चाश्वान् अचोदयत् । कम्पमानैः ध्वजपटैः विलिखन्तमिवाम्बरम् ॥ ३३. किङ्गिणीशतसन्नादं चन्द्रभास्करसन्निभम् । प्रचचाल महाचक्रं स्यन्दनं कुम्भजन्मनः ॥ ३४. ततः प्राक् उत्तरां गत्वा चलमाने महारथे । दिवि भूमौ जनौघं तु प्रसर्पन्तं महास्वनम् ॥ ३५. सैषा समस्तपापघ्नी चन्दनाचलकन्यका । तत्स्यन्दनपथा प्रायात् पूर्यमाणा प्रवाहिनी । ३६. क्वचित् उच्चैः शिलारूढा क्वचित् पतति निम्नगा । क्वचित् पूरैः प्लावयन्ती तरङ्गैः स्वकरैरिव ॥ ३७. हसन्तीव स्वफेनौघैः नृत्यन्तीव स्ववीचीभिः । जल्पन्तीव स्वनैरघोरैः निस्ससार सरिद्वरा ॥ ३८. अम्भोजवदना मीनलोचना भुजवीचिका । आवर्तनाभिगर्ताढ्या फेनफुञ्जनवाम्बरा ॥ ३९. चक्रवाकस्तनवती शैवालनवकुन्तला । प्रमदेव क्वचित् याति मन्दं मन्दं मदाकुला ॥ ४०. तरङ्गशुण्डादण्डेन फेनदन्तोज्ज्वलेन च । क्वचित् करीन्द्रवत् याति जलौघः पुष्करोज्ज्वलः ॥ ४१. फेनकञ्चुकसञ्छन्नं आवर्तश्रवणान्वितम् । तरङ्गभोगरुचिरं भोगराजमिव स्थितम् ॥ ४२. मणिविद्युत्वृता भूरि तरङ्गस्तनितेन च । महाग्राहाशनिवता पूरणेयं प्रकाशते ॥ ४३. आवर्तचक्रनिकरं आलोलध्वजफेनिलम् । यातोगणमहावंशं भासमानं विमानवत् ॥ ४४. मीननक्षत्रनिकरं फेनजालघनाविलम् । मणिज्योत्स्नालिविस्तारं पूरं गगनवत् बभौ ॥ ४५. गगने वर्तमानानां विमानानां दिवौकसः । छायामम्भसि शङ्कन्ते कौशिकिमपरां क्रियाम् ॥ ४६. आश्चर्यजननी चेयमपूर्वाणामिव प्रसूः । उत्सवनामिव निधिः महती मलयात्मजा ॥ ४७. संस्तुता पूजिता देवैः प्रार्थिता सा नमस्कृता । क्वचित् कूलं ध्वंसयन्ती बाधयन्ती क्वचित् स्थलम् ॥ ४८. क्वचित् वृक्षान् उद्गिरन्ती तरुजालानि कृत्स्नशः । सुधाप्रवाहबहुला निस्ससार तरङ्गिणी ॥ ४९. कौतूहलसमाविष्टाः देवदानवमानवाः । सह सर्वैःमुनिगणैः ममज्जुः तीर्थमुत्तमम् ॥ ५०. कुतूहलसमाविष्टाः सादरं सर्वतो जनाः । मज्जन्तश्च पिबन्तश्च विहरन्तो महाम्भसि ॥ ५१. हसन्तो हासयन्तश्च स्तुवन्तश्च महानदीम् । विस्मयं परमं जग्मुः प्रणेमुः भक्तिभाविताः ॥ ५२. विमानमनुगच्छन्ती कुम्भयोनेः मणिप्रसूः । कर्षन्ती तरुजालानि गुल्मानि विविधान्यपि ॥ ५३. क्वचित् आशीविषकुलं क्वचिन्मातङ्गयूथिकाम् । क्वचित् द्रुततरं याति मन्दं याति क्वचित् क्वचित् ॥ ५४. मत्स्यकच्छपसङ्घाता महाग्रहसमाकुला । महाप्रवाहसम्पन्ना माला मलयनन्दिनी ॥ ५५. स्तूयमाना मुनिगणैः प्लावयन्ती बहुस्थलीम् । पूरयित्व कलम्बाख्यं गर्तं परमपावनम् ॥ ५६. पुनः प्राक् उत्तरां गत्वा प्रयान्ती सानुकानने । हयग्रीवाश्रमे किञ्चित् पश्चिमेऽपि पिशङ्गिलाम् ॥ ५७. विगाह्य महतीं वापीं पूरयित्वा महाजलैः । जलोन्मिलितशैवालाः स्खलन्ती च शिलातले ॥ ५८. रुद्राटवी ब्रह्मशय्या रमाकीडमृगाननम् । एतानि पुण्यक्षेत्राणिप्रयान्ती च अन्तरान्तरे ॥ ५९. गुहोपान्ते कुमारस्य पश्चिमेनोत्तरामुखी । मुक्ताप्रस्तारमासाद्य भित्वा जोतिर्मनिं गिरिम् ॥ ६०. पैनाके शिरसि श्रेष्ठे पपात घननिर्झरा । उत्पेतुः तोयकणिकाः शतशोऽथ सहस्रशः ॥ ६१. निपेतुर्निर्झराः घोराः शङ्खचन्द्रसमप्रभाः । भूर्यभिद्यत तत्तीर्थं पतता निर्झरेण हि ॥ ६२. जलधूमसमाक्रान्तरोदस्योरन्तरं महत् । महता निर्झरसम्भूतैः सुव्यक्तैरम्भसां कणैः ॥ ६३. धाराक्रान्तमिवाकाशं दिवापि परिदृश्यते । स्फुरमाणैरम्बुकणैःबालातपकरम्बिकैः ॥ ६४. पद्मरागैरिवाभाति समन्तात् भुवनत्रयम् । महावनस्पतिच्छायासंसक्तानि पृषन्ति च ॥ ६५ अनुकुर्वन्ति गगने महता मरकतश्रियम् । क्वचित् पल्लवशोभेन क्वचित् कुसुमशोभया ॥ ६६. सङ्क्रान्ताबिन्दुनिकरैः नानारत्नैरिवाम्बरम् । युगपत् पततामासीत् निर्झराणां महागिरेः ॥ ६७. महानाद ; समभवत् मेघानामिव गर्जताम् । महावेगसमाकृष्टे प्रवाहे विस्तृते नृप ॥ ६८. आवर्त्पद्धतिर्भाति वर्णपङ्क्तिरिवाद्भुता । वृता तरङ्गौघैः यादोबिः बलसंवृता ॥ ६९. फेनैः कुसुमिता चेयं कल्पवल्ली न संशयः । स्नातुमागमनायैव रसात्लनिवासिनाम् ॥ ७०. दिशन्तीव महाद्वाराण्यावर्तैरिव सन्ततम् । आभोगपुलिना भूरि फेनचारुदुकूलिनी ॥ ७१. आवर्तनाभिविवरा नवशैवालवेणिका । चक्रवाकस्तनवती विकचत्कमलानना ॥ ७२. हंसयानाविभात्येषा विस्फुरन्मीनलोचना । आलापिनी पक्षिरुतैः यादोभिः मणिभूषणा ॥ ७३. मकरन्दैः मृगमदा सालङ्कारा वधूरिव । एवमभ्युदयाकारा देवी मलयनन्दिनी ॥ ७४. हेमपुष्करिणीं रम्यां वापीं गगनसंज्ञिताम् । पूरयित्वा महातोयैः महापातकनाशिनी ॥ ७५. ततोह्युदीचीमावृत्य पार्श्वतः चन्दनाटवीम् । दिशमैन्द्रीं पुनः प्रायात् उत्तरेण उडुपर्वतम् ॥ ७६. एवं मलयशैलस्य व्यतिक्रम्य तटाटवीम् । तपःफलसमाकारा पाण्ड्यानामुत्तमा नदी । विमानमनुयान्ती सा समियाय महार्णवम् ॥ इति एकदशोऽध्यायः । Pro.Total = 679 + 76 =775

द्वादशोऽध्यायः

वृषाङ्कनगरे कादम्बरीवने ताम्रायाः सागरे प्रवेशप्रस्तावः । १. महाराज कथां पुण्यामिमां पापप्रणशिनीम् । भूयोऽहं संप्रवक्ष्यामि श्रुणु नान्येन चेतसा ॥ २. क्षेत्रमाङ्गिरसं गत्वा मह्येनामलकाटवीम् । पुनः किञ्चित् परिक्रम्य दिशं यक्षेशपालिताम् ॥ ३. कल्याणवनमासाद्य गौतमाश्रममण्डितम् । प्राच्यामाप दिशं ताम्रा महापूरप्रवाहिनी ॥ ४. ज्योतिर्वनं चन्द्रशालामुत्तरेण प्रवर्तिता । ब्रह्मारण्यमनुप्राप्य गर्गराख्यशिलोच्चयम् ॥ ५. उत्तराभिमुखी भूयो ब्रह्मवृद्धपुरात् पुरः । लालङ्काशम्बरक्षेत्रमेत्येषा पूर्ववाहिनी ॥ ६. दिशं किञ्चित् उपावृत्य शराटव्यास्तु पश्चिमे । आग्नेयीमथ संप्राप्य पुनाः पूर्वमुखा नदी ॥ ७. वैकुण्ठात् पश्चिमे भागे श्रीनगर्याः तथोत्तरे । मध्ये वृषाटवीं पुण्यां महानन्दस्य दक्षिणे ॥ ८. जयन्तात् उत्तरे भागे प्राप्य कादम्बरीवनम् । प्रविवेश महाम्भोधिं प्रसन्नसलिलाशया ॥ ९. एवं मलयजा पुण्या ताम्रपर्णी सरिद्वरा । भर्तासमेता सा सर्व सिन्धुलोकैकबन्धुना ॥ १०. वृषाङ्के नगरे नित्यं सान्निध्याप्यात्मविद्यया । रूपेणान्येन भर्तारं रमयन्ती स्थिताऽभवत् ॥ ११. तीर्थरूपेण लोकान् त्रीन् पुनाति मलयात्मजा । राजा -- कथं वृषाङ्कनगरे सिन्धुराजगृहे कथम् ॥ १२. तीर्थरूपा कथमभूत् किं वा कादम्बरीवनम् । एतानि वद विस्तीर्य श्रोतुं कौतूहलं हि मे ॥ १३. ब्रह्मन् प्रसीद धर्मज्ञ कथयाप्यायस्व माम् । ऋषिः -- साधु पृष्टं महाराज भवता धर्मचेतसा ॥ १४. साधूनां समचित्तानां सदाशिवकृतात्मनाम् । धर्मान्न च्यवते बुद्धिः लोभता विषयैरपि ॥ १५. पिचुमन्दवने वापि रसालोदरकानने । पञ्चमं नैव मुञ्चन्ति पिकाः वासन्तमोहिनः ॥ १६. तस्माद्राजन् प्रवक्ष्यामि यथावत् अनुपूर्वशः । एकाग्रबुद्ध्या तत्सर्वं श्रोतुमर्हसि साम्प्रतम् ॥ १७. वृषाङ्कनगरे तस्य महामाणिक्यभास्वरे । भवने काञ्चनमये महासिंहासने शुभे ॥ १८. असीना नवकौसुम्भवसना चारुहासिनी । महासौन्दर्यसम्पूर्णमहासाम्राज्यदेवता ॥ १९. मणिकम्बुधरा चारु कनकाम्बुजधारिणी । वीणामन्ये धारयन्ती शारिकामपरे करे ॥ २०. शरच्चन्द्रवदना चञ्चन्मणिकाञ्चनकुण्डला । महामतल्लिका रत्नमकुटोज्ज्वलचन्द्रिका ॥ २१. मणिकेयूरवल्लयमहाकङ्कणभूषिता । मुक्तालतापरिभ्राजदुरोजकलशोज्ज्वला ॥ २२. कूजन्नूपुरमञ्जीरकाञ्चीदामपरिष्कृता । केशशैवालकलिका मणिबुद्बुदसज्जया ॥ २३. लोचनद्वयपाटीना मुक्तामालातर्ङ्गिणी । विस्तारफेनतरणिः स्तनचक्रसमुज्ज्वला ॥ २४. करपादाननाम्भोजा सौन्दर्यामृतवाहिनी । एवमाश्चर्यवेषाङ्गी साक्षात् परशिवात्मिका ॥ २५. सेवन्ते विविधाकाराः शक्तयः परमाद्भुताः । मुक्तावती मणिवती सेवेते पाश्वयोर्द्वयोः ॥ २६. मणिकाञ्चनदण्डाभ्यां चामराभ्यामनारतम् । पूर्णा पूर्णेन्दुसङ्काशं वहन्त्यातपवारणम् ॥ २७. घोराकुमुद्वतीभ्यां च व्यजनाभ्यां च सेविता । श्यामावतीकरोदञ्चत्वीटिकादानतत्परा ॥ २८. वहन्ती चन्द्रसेनापि पाणौ कलाचिताम् । अमुक्तवामभागस्थां ताम्रामेनामुपासते ॥ ३०. अरुणा वाद्यमादाय वीणायाःक्वणितध्वनिम् । श्लाघयन्ती मुहुः चञ्चत्वदनाम्भोजमण्डला ॥ ३१. सेव्यमाना मुनिगणैः देवैः सिद्धैश्च दानवैः । आस्ते परमहृष्टा सा लोकसंरक्षणोत्सुका ॥ ३२. एवं विज्ञाय तां देवीं ये सेवन्ते समाहिताः । तेषां पापानि नश्यन्ते वर्धन्ते सम्पदः तथा ॥ ३३. अन्ते मुक्तिश्च नियता नात्र कार्या विचारणा । सर्वतीर्थमयी सर्वमन्त्रतन्त्रप्रवर्तिनि ॥ ३४. एनामाहुर्मुनिणाः श्रुतयश्च पुरातनाः । गङ्गादिसर्वतीर्थनां परमायतनं महत् ॥ ३५. उपास्या सर्वजन्तूनां पुरुषार्थं च काङ्क्षताम् । एवं वृषाङ्कनगरे नित्यं सान्निध्यकारिणी ॥ ३६. जयते तीर्थरूपेण लोकानां हितकाम्यया । सैषा स्वांशेन भूयोऽपि तीर्थरूपा प्रवर्तते ॥ ३७. ब्रह्मतोयां विष्णुरसां रुद्रतेजोपबृंहिताम् । उमावेगसमायुक्तां सारस्वततरङ्गिणीम् । ३८. रमावर्तां सोमशैत्यां सूर्योदारप्रभावतीम् । सेवन्ते सकलाः देवाः मुनयश्च तपोधनाः ॥ ३९. सन्दर्शितमहापूराप्यावारिधिशिलोच्चया । अनेकनगरोद्यानग्रामारामशतावृता ॥ ४०. मुनीनामाश्रमैः पुण्यैः परिष्कृततटद्वया । पदे पदे तीर्थमयी देवायतनमालिनी ॥ ४१. रसालपनसारामकदलीकाननावृता । केरपूगाम्रनारङ्गमल्लीकुरवकोज्ज्वला ॥ ४२. प्रियालवञ्जुलवती बकुलार्जुननिर्भरा । ब्रह्मकोटिसमुद्घुष्टहोमधूमसमावृता ॥ ४३. उत्फुल्लपङ्कजवती सन्तोत्पलसौरभा । चाम्पेयकुसुमामोदी मरुता मन्दगामिनी ॥ ४४. परिश्रमापहरिणी तर्पयन्त्यम्भसा जगत् । आमोदयन्ती च कुसुमैः नादयन्ती द्विजारवैः ॥ ४५. मरन्दधारानिकरैः वर्धितेव तर्ङ्गिणी । हंससारससङ्कीर्णा कूजत्कोकिलभाषिणी ॥ ४६. इत्थं महोदयाकारा पोषय्न्ती जगत्त्रयम् । प्रविशन्ती सिन्धुराजं प्रसन्नसलिलाशया ॥ ४७. स्वांशेन तरुणीभूत्वा नदीनदगणेशितुः । वामाङ्कपीठनिलया मनोज्ञमणिभूषणा ॥ ४८. अनेकतीर्थनिकरैस्सेव्यमाना सुमध्यमा । सौन्दर्यसागरोदञ्चत्सुसुतेव वधूमयी ॥ ४९. रमयामास भर्तारं रमा नारायणं यथा । यस्याः स्मेरांशुसन्दोहैः मौक्तिकामणयोऽभवन् ॥ ५०. यद्दन्तपतसम्भूतबालातपगुलुच्छकैः । जायन्ते विद्रुमलताः सागरे मकरालये ॥ ५१. कूले कूले च जायन्ते यल्लोचनमरीचिभिः । उद्घुष्टजीवकरणैः इन्द्रनीलमतल्लिकैः ॥ ५२. यदङ्ककरणासङ्गात् वैदूर्यमणयोऽभवन् । यदङ्घ्रिलाक्षासम्पर्कात् महामाणिक्यसम्भवः ॥ ५३. अस्याः प्रभावतो राजन् रत्नानामुदयं स्मृतम् । अस्याः प्रसादलेशेन पुष्णन्त्योषधयस्समाः ॥ ५४. अस्याः चैव तरङ्गिण्याः शतशोऽथ सहस्रशः । ताम्रपर्ण्याः महानद्याः कलां नार्हन्ति षोडशीम् ॥ ५५. यः कश्चन नदीमन्यामनया तुलयिष्यति । स याति रौरवं घोरं यावदाभूतसम्प्लवम् ॥ ५६. ब्रह्माण्डोदरसंस्थानि तीर्थानि विविधान्यपि । ताम्रातीर्थत्रयैकस्य कलां नार्हन्ति षोडशीम् ॥ ५७. तीर्थान्यन्यानि जायन्ते शुद्धान्तःकरणात्मनाम् । मुक्त्यादिध्यानयोगेन अन्तर्बहिरकल्मषाः ॥ ५८. धर्मद्रवा भगवती ताम्रा मलयनन्दिनी । परापरामृतस्यन्दा तेजिष्ठा कर्मनाशिनी ॥ ५९. मुक्तिमुद्रा रुद्रकला कलिकल्मषनाशिनी । नारायणी ब्रह्मनादा मालेयी मङ्गलालया ॥ ६०. मरुत्वद्यम्बरवती मणिमाता महोदया । तापघ्नी निष्कलानन्दा त्रयी त्रिपथगात्मिका ॥ ६१. चतुर्विंशति नामानि पुण्यान्येतानि भूपते । ये पठन्ति जनाः भक्त्या तेषां मुक्तिः करे स्थिता ॥ ६२. वापिकूपतटाकेषु तीर्थेष्वन्येषु वा पुनः । जपन् नामानि चैतानि मज्जन्तो गोष्पदेऽपि वा ॥ ६३. प्रयान्ति परमां मुक्तिं निर्धूताखिलकल्मषाः । इत्थं ज्ञात्वा महाराज तर्तुकामो भवार्णवम् ॥ ६४. जन्ममध्ये सकृत् वापि ताम्रायां स्नानमाचरेत् । अपि वा कणिकामात्रं पिबेत् अस्याः पयःशुभम् ॥ ६५. तस्य नाहं पश्यामि भूयो गर्भे निपातनम् । अपारकरुणा चेयमिति निश्चित्य वै सुराः ॥ ६६. चक्रुः सन्ततसान्निध्यं तीरे तीरे निरन्तरम् । पदे पदे शिवक्षेत्रं उमाक्षेत्राण्यनेकशः ॥ ६७. विष्णुक्षेत्राणि तीर्थानि शक्तिक्षेत्राण्यनेकशः । हेरम्बभवनान्यत्र कौमाराणि पराण्यपि ॥ ६८. पुण्याश्रममुख्यानि मुनीनां भावितात्मनाम् । एषां दर्शनमात्रेण नरः पापैः विमुच्यते ॥ ६९. आरभ्य मलयं शैलं आसागरमिमं सरित् । प्रवाहबहुला देवी मुनिना संप्रवर्धिता । कादम्बरीवने पुण्या ताम्रा सागरमभ्यगात् ॥ ७०. शुद्धोदपूरा दुरितापहन्त्री मुनीश्वरस्यन्दनमार्गयाना । प्रहर्षयन्ती किल पाण्ड्यभूपमम्भोधिमेषा प्रविवेश वेगात् ॥ इति द्वादशोऽध्यायः । Pro.Total = 775 + 70 = 845.

त्रयोदशोऽध्यायः

कादम्बरीवनमाहात्म्यवर्णने ब्रह्मपदस्थानवर्णन् म् । १. श्री सूतः -- इत्थमागमनं देव्याः ताम्रायाः परमाद्भुतम् । आकर्ण्य परमानन्दनिमग्नहृदयो नृपः ॥ २. अभिष्टूयापगारत्नं मुनिं शङ्खं प्रणम्य च । वीरसेनो महातेजाः भूयो वचनमब्रवीत् ॥ ३. ब्रह्मन् अभ्युदयाकारा कथेयं कल्मषापहा । श्रुतापि भूयः तृष्णां तु जनयत्येव मे तराम् ॥ ४. इयमम्भोनिधिं प्राप्य वने कादम्बराह्वये । कादम्बरीवनमिति ख्यातं येन ज्गत्त्रये ॥ ५. कारणं श्रोतुमिच्छामि विस्तरात् श्रुणु सादरम् । शङ्खः तत्र ते राजन् प्रवक्ष्यामि कारणं श्रुणु सादरम् ॥ ६. पुरा ह्यादियुगे धाता सृष्ट्वा लोकान् चतुर्दश । मदन्यैर्दुष्करमिति चात्मानं बह्वमन्यत् ॥ ७. सावलेपान् मदाविष्टात् वेदान् आदाय दानवः । पातालं प्रययौ वेगात् सोऽपि नष्टश्रुतिर्विधिः ॥ ८. सृष्टिसामर्थ्यरहितो बभ्राम शरदां शतम् । चिन्तयामास भगवान्धाता कारणपूरुषम् ॥ ९. अविवेकधियां क्वापि न लभ्यं हि मनः सुखम् । निहताहङ्क्रिया यत्र यत्रान्त्यमपि चेतसि ॥ १०. तत्र श्रेयो न पश्यामि धान्यमूषरतो यथा । साधूनां समचित्तानां अहङ्कारास्थचेतसाम् ॥ ११. अनपाया भविष्यन्ति सिद्धयोऽष्टौ न संशयः । आत्मा मलीमसयुतः सोऽपि ब्रह्मरतां व्रजेत् ॥ १२. यावन्नोदेति सविता तावत् रात्रिर्न संशयः । यावत् न भवेत् ज्ञानं पामरतां व्रजेत् ॥ १३. उपाधिरहितं यत्र ब्रह्मज्ञानं प्रकाशते । ज्ञातव्यस्स पुमान् लोके साक्षात् परशिवः खलु ॥ १४. निर्यन्तर्यपि जन्तूनां ब्रह्मादीनां अभङ्गुरे । वर्तमाने गुरौ नित्ये अहन्ता मे विनिष्फला ॥ १५. इतः परं मे किं कार्यं मूढस्याकार्यवेदिनः । हरिराराधनीयो हि सद्भिरापदि शान्तये ॥ १६. जनितः पोषितः चाहं बोधित चानुपालितः । कथं सन्तापशान्त्यर्थं मया नाराध्यते हरिः ॥ १७. तमेव शरणं यामि नात्र कार्या विचारणा । इति निश्चित्य चित्तेऽस्मिन् विनीते चतुरानने ॥ १८. तदाननात् आविरभूत् नारी काचन सम्भ्रमात् । नानावक्राङ्गलतिका कृष्णवर्णा कुरूपिणी ॥ १९. मदनाविष्टहृदया धूयमानेव साब्रवीत् । कथं मनोरथं लप्स्ये भगवन् कथ्यतामिति ॥ २०. इत्युक्तवत्यां तस्यान्तु तामाह वनितां विधिः । अयि ते काङ्क्षितस्याप्त्यै तपस्तप्तुं त्वमर्हसि ॥ २१. मद्दण्डेन धृता माला नाम्ना कादम्बरी किल । यत्रैषा विशते माला तत्रैवास्त्वाश्रमस्तव ॥ २२. इति व्याहृत्य तां वेधाः स्वदण्डाग्रात् स्रजं शुभाम् । विमुच्य प्रेषयामास सा जगाम महीतलम् ॥ २३. मालामन्वगमत् सापि वनिता ब्रह्मचोदिता । परिभ्राम्य महीं कृत्स्नां स्रगियं यत्र संस्थिता ॥ २४. तत्रे कूले समुद्रस्य तामसी वासमातनोत् । कृत्वाश्रमपदं रम्यं नियमैः दुष्करैः परैः ॥ २५. निगृहीतेन्द्रियग्रामा तताप परमं तपः । ध्यायन्ती हृदि गौरीशं वरदं भक्तवत्सलम् ॥ २६. एवमस्याः तपस्यन्त्याः समग्रं शरदां शतम् । पुरः प्रादुरभूत् शम्भुः प्रसन्नो वरदित्सया ॥ २७. श्री परमेश्वरः -- प्रीतोऽस्मि तपसा भद्रे दुष्करैः नियमैरपि । वरं वरय भद्रं ते किं ते मनसि काङ्क्षितम् ॥ २८. इति वाचं निशम्यैषा महादेवस्य शूलिनः । बद्धाञ्जलिपुटा नारी वरमेनमयाचत ॥ २९. भगवन् यदि तुष्टोऽसि तपसा मे महेश्वर । त्रिलोकवर्तिनां पुंसां स्पृहणीया भवाम्यहम् ॥ ३०. यं यं वाञ्छामि पुरुषं स भूयात् मद्वशः पुमान् । यानि योग्यानि वाञ्छामि तान्यग्रे सन्तु मे प्रभो ॥ ३१. नित्ययौवन संयुक्ता विहरिष्ये स्वरूपिणी । एवं तयार्थितो देवः तथास्त्वित्यभिधाय च ॥ ३२. रूपमप्रतिमं कृत्वा भूयः स्वपदं ययौ । नाम्न्यैषा तामसी नारी वरं लब्ध्वा सदाशिवात् ॥ ३३. विद्यायौवनसौन्दर्यसम्पन्ना कामुकी सती । आगतान् पुरुषान्रूपसम्पन्नान् व्योमचचारिणी ॥ ३४. रमयामास संहृष्टा यथेष्टं स्वैरचारिणी । एतस्मिन् अन्तरे विधिर्व्याकुलितेन्द्रियः ॥ ३५. स्वपाश्वस्थं उवाचेदं दण्डं दमयतां वरः । ब्रह्मोवाच-- वत्स गत्वा महीं कृत्स्नां विचार्य च समन्ततः॥ ३६. तपःस्थानं समाचक्ष्वाप्यसंसृष्टचितानलम् । इत्युक्तस्तेन विधिना स दण्डो धर्मधारकः ॥ ३७. ब्रह्मचारी पुमान् भूत्वा युवा काम इवापरः । अवतीर्य ब्रह्मलोकात् आससाद महीतलम् ॥ ३८. इतस्ततस्सञ्चरता महता ब्रह्मचारिणा । दृष्टाभूत् तामसी नारी साक्षात् रतिरिवापरा ॥ ३९. वरदानबलादस्या मोहितो धर्मधारकः । किञ्चित् उद्विग्नहृदयः तामिदं वाक्यमब्रवीत् ॥ ४०. आगतोऽसि कुतो भद्रे चिकीर्षन्ती च किं पुनः । कस्य वा दुहितासि त्वं कस्य वासि परिग्रहा ॥ ४१. विकासयति मे चित्तं चकोरमिव चन्द्रिका । सर्वं कथय मे साधु याथातथ्येन शोभने ॥ ४२. इति पृष्टा तामसीयं तेनेदं पुनरब्रवीत् । साधु सुन्दर वक्ष्यामि श्रुणुष्व वचनं मम ॥ ४३. वसाम्यस्मिन् वने शुद्धे रमणीति प्रथां गता । त्वादृशानां भाग्यमिदं शरीरं विद्धि मामकम् ॥ ४४. अनेन त्वां प्रीणयिष्ये भोगैश्च विविधैरपि । एहि साधय मत्स्नेहात् महाभाग्यसमन्वितम् ॥ ४५. इत्युक्त्वा पाणिना पाणिं गृहीत्वा ब्रह्मचारिणम् । नीत्व स्वभवनं रेमे कामेनेव रतिः पुरा ॥ ४६. वसनाशनताम्बूलमज्जनलेपनादिभिः । बहुमानैः प्रीणयन्ती तेन सार्धं मुदं ययौ ॥ ४७. ततः चिरायमाणेन तु स दण्डे चतुराननः । समाधिना विनिश्चित्य विषयासक्तमानसम् ॥ ४८. शशाप कुपितो ब्रह्मा दन्तान् सङ्घर्षयन् मुहुः । विस्मृत्य स्वामिकार्याणि स्वमतं यः प्रसेवते ॥ ४९. स पापी याति नरकं कुम्भीपाकं न संशयः । तस्मात् स्वच्छन्दवृत्तस्य स्वामिकार्यविरोधिनः ॥ ५०. न भवेत् मर्त्यलोकस्य संप्राप्तिस्तस्य दुर्मतेः । महाव्याघ्री च सा भूयात् अकामिजनदूषणी ॥ ५१. तस्मिन् वने महाघोरे क्षुत्पिपासातुरा चिरम् । यदा लोकहितार्थाय शाम्भवी शक्तिरेकिका । ५२. भूत्वा मलयजाभ्येति ताम्रपर्णी सरिद्वरा । तदा तत्तोयसंस्पर्शात् प्रकृतिं यातु सा पुनः ॥ ५३. सोऽपि दण्डधरः शम्भुमभ्यर्च्य नियतेन्द्रियः । ताम्रातीर्थे कृतस्नानः पुनरेतु मदन्तिकम् ॥ ५४. एवं सानुग्रहं शप्त्वा तावुभौ चतुराननः । भूयः स्वकलशीं प्राह तपःस्थलदिदृक्षया ॥ ५५. अयि वत्से भुवं गत्वा तेजिष्ठं चितिवर्जितम् । स्थलं निश्चित्य वक्तव्यं मा कुरुष्व विलम्बनम् ॥ ५६. इत्थं नियुक्ता तेनैव कलशी ब्रह्मणोऽन्तिकात् । समन्तात् भुवमालोक्य ददर्श क्षेत्रमुत्तमम् ॥ ५७. अपापममलाकारमस्पृष्टपितृकाननम् । तेजिष्ठं समनुप्राप्य तत् क्षेत्रं रक्षयत्यगात् ॥ ५८. तत्रैव वासमकरोत् द्वादशाब्दं निरन्तरम् । अथ विज्ञाय भगवान् ब्रह्मा ब्रह्मविदां वरः ॥ ५९. स्वयमभ्यायौ तत्र हंसारूढो ज्वलन् रुचा । कलशीं बहुमान्याग्रे तत्र चक्रे तपो महत् ॥ ६०. तेजोमयं हरिं स्थाप्य महामरकतप्रभम् । श्रीवत्साङ्कसमायुक्तं कौस्तुभोत्भासिकन्धरम् ॥ ६१. प्रसन्नवदनं शान्तं कौशेयाम्बरधारिणम् । एवं मूर्तिं हरेः स्थाप्य पूजयामास भक्तितः ॥ ६२. आत्मन्याराध्य देवेशं पुनर्बिम्बे समर्चयत् । योगसिद्धैः च सम्भारैः मन्त्रैः वेदान्तगर्भितैः ॥ ६३. स्नात्वा त्रिषवणं वेधाः कलशीतीर्थवारिणि । त्रिवारं पूजयाञ्चक्रे समाधिस्थो जितेन्द्रियः ॥ ६४. पूजान्ते परमं स्तोत्रं चकारानन्दनिर्भरः । यस्यैकवारपठनात् मुच्यन्ते जन्तवो भयात् ॥ ६५. तमिदानीं प्रवक्ष्यामि स्तुतिं सर्वार्थसिद्धिदाम् । श्रुणुष्वात्र महाराज सावधानेन चेतसा ॥ इति त्रयोदशोऽध्यायः । Pro.Total = 845 + 65 = 910.

चतुर्दशोऽध्यायः

ब्रह्मकृतः विष्णुस्तवः ब्रह्मदत्त-- दण्डधरस्य शापमोचनप्रकारः च । १. ब्रह्मा -- नमस्तुभ्यं भूयसे भूरिधाम्ने भूयिष्ठायापारकरुणाय सीम्ने । व्यक्ताव्यक्तं विश्वमेदं त्वदीयं रूपं प्राहुः प्राक्तनं देववाचः ॥ २. यत्पादाब्जं स्वान्तमन्तःप्रकामं नित्यायन्तो निर्विशन्तः समर्थाः । पारं प्रापुः निर्विघातं भवाब्धेः तन्मे भूयात् धाम शान्त्यै नितान्तम् ॥ ३. येनाशेषं व्यक्तिभेदेनविश्वं वारं वारं पूर्यते भूरि धाम्ना । सोऽयं मह्यं स्वस्तये स्यादविघ्नम्भग्नापायो भागधेयः सतां हि ॥ ४. अङ्घ्रिद्वन्द्वाम्भोरुहासन्नवासं सौख्यं प्राहुर्मोक्षलाभात् अमुष्य । तं वैकुण्ठं देवमेकं प्रपद्ये विद्यावाप्त्यै वीतभीराभिमुख्यम् ॥ ५. व्याजादस्याशेषबन्धोरभिख्यामाख्यामुच्चैरप्यसन् वा स्मरन् वा । तीर्णापायाम्भोनिधिर्जन्तुरास्तेसोऽयं देवःस्वस्तिदो मे हरिः स्यात् ॥ ६. ऊर्ध्वं चाधस्तिर्यगन्तर्बहिर्वा व्याप्तं यस्यैकांशतोभाति विश्वम् । पारे दुःखं भावुकं मद्विधानामङ्घ्रिद्व्न्द्वं चिन्तयाम्यन्तरङ्गे ॥ ७. प्राप्ताः पारं प्राक्तनालाभसिन्धोः कूर्माटव्यांसञ्चरन्तश्च केचित् । नैनं पश्यन्त्यात्मसंस्थं पुमांसं तत् त्वामीडे नाथ नालीकनेत्र ॥ ८. प्राणायामात् ब्रह्मनादान्तवादात् प्रायश्चित्तात् अध्वरात् आत्मबोधात् । यन्नामैकं मोक्षमूलं पठन्ति तस्मै कुर्मः स्न्ततं चित्तरत्नम् ॥ ९. विहाय ताराण्यपि धीरधीराः सर्वान् इवात्माकरसौरभाणि । पर्णाशना काननमाश्रयन्ते यल्लाभहेतोः तमहं नतोऽस्मि ॥ १०. नतोऽस्मि मूर्ध्ना नलिनाक्ष ते पदं वदामि नामान्यपि वाग्भिरुच्चैः । स्मराम्यहन्ताकलुषास्पृशाहृदा शरण्यमेनं शरणं व्रजाम्यहम् ॥ ११. निरस्तबाह्येन्द्रियवृत्तिनिर्मले न मय्यनुस्यूतमपास्तकल्मषे । विलोकयिष्यामि विचिष्टभावनाबलेन नाथं प्रणवार्थसूचकम् ॥ १२. नमो नमः शान्तगुणाय विशेषविज्ञान गुणप्रकाशिने । नमोऽस्तु तुभ्यं पुरुषाय वै पुनः पराय पारायणधर्मशालिनाम् ॥ १३. श्री शङ्खः -- इत्थं स्तुत्वा पुरस्तस्य हरेर्नियममास्थितः । समाधिना विश्वमिदं तन्मयः स व्यलोकयत् ॥ १४. एवमर्चयतः तस्य शरदामत्यगुः शतम् । पूर्णे वर्षशते राजन् भगवान् गरुडध्वजः ॥ १५. प्रादुर्भूतः तमाहूय ब्रह्माणं वाक्यमब्रवीत् । श्री भगवान् -- प्रीतोऽस्मि तपसा ब्रह्मन् दुष्करेण तवाधुना ॥ १६. स्तुत्यानया विशेषेण प्रीतोऽस्मि नितरामहम् । वैकुण्ठादपि दुग्धाब्धेः त्वत् क्षेत्रमिदमुत्तमम् ॥ १७. रमणीयं भवेत् ब्रह्मन् अस्माकं नात्र संशयः । कलशी वापिका ह्येषा सर्वतीर्थनिषेविता ॥ १८. पापघ्नी भाग्यदा भूयात् नृणां यावत् वसुन्धरा । एषा कुम्भाटवी नाम्ना स्थली विख्यातिमृच्छतु ॥ १९. अत्रत्यानांहि जन्तूनां मुक्तिदानाय केवलम् । वसामि सततं प्रीत्यै वैकुण्ठभवने यथा ॥ २०. इतः प्रविश्य पातालं आनयिष्ये त्रयीं तव । इत्थमाश्वास्य भगवान् हरिः कमलसम्भवम् ॥ २१. पातालात् दानवान् हत्वा वेदान् आदाय वेधसे । प्रदायान्तरधात् तस्मिन् वने परमपावने ॥ २२. प्राप्तश्रुतिकुलस्रष्टा परमानन्दनिर्भरः । पुनरप्यर्चयामास भगवन्तमधोक्षजम् ॥ २३. तावदभ्यागमत् ब्रह्मचारी धर्मधरो विभुः । प्रणिपत्याब्रवीत् वाचं चिन्तासन्तापगद्गदम् ॥ २४. दण्डब्रह्मचारी -- मय्यानगसि देवेश शापः किमनुपातितः । कथम्मुक्तिर्वदास्माकमनन्तात् दुःखसागरात् ॥ २५. ब्रह्मा उवाच -- वत्स मत्पाणिमित्र त्वं भृत्यो भक्तश्च मे सुहृत् । भवितव्ये कर्मफले मैवं शोचितुमर्हसि ॥ २६. सतामशुभसंसर्गात् अशुभः संप्रभाव्यते । तत्र धीरा न शोचन्ति जडाः शोचन्त्यपण्डिताः ॥ २७. शीतोष्णसुखदुःखादीन् ये सहन्ते विपश्चितः । ते यान्ति परमं सौख्यमिति वेदान्तचोदिताः ॥ २८. इतः परं ते वक्ष्यामि क्रियां च श्रेयस्करीं शुभाम् । कालेनाल्पीयसा साक्षात् आदिशक्तिरकल्मषा ॥ २९. सदाशिवसमादिष्टा नदी मलयनन्दिनी । आगमिष्यति लोकान् त्रीन् पुनाना पुण्यवाहिनी ॥ ३०. तस्यां स्नात्वा महानद्यां मामुपैष्यसिकेवलम् । इतो योजनमात्रेण क्षेत्रमस्ति महत्तरम् ॥ ३१. शौण्डीकरं नाम दिव्यं यत्रास्ते शङ्करो विभुः । तत्राश्रमपदं पुण्यं गौतमस्य महात्मनः ॥ ३२. तत्क्षेत्रं दूषयन्त्युग्रा समन्तात् योजनायतम् । एकदस्य सुता काचित् नाम्ना कुम्भीनसी स्मृता ॥ ३३. शापात् निशाचरी शम्भोः चक्रे निर्मानुषं वनम् । विम्मोचयित्वा तां शापात् तत्राराधय शङ्करम् ॥ ३४. यावत् ताम्राभिगमनं तावत् तत्र भविष्यसि । तदानीमावयोः सङ्गो भवेत् नात्र विचारणा ॥ ३५. एषापि तामसी घोरा व्याघ्रिभूत्वाब्धिरोदसि । अभिभूय चिरं कालं ताम्रायाः स्पर्शवैभवात् ॥ ३६. निर्मुक्तपापकलुषा सखी तस्या भवेत् इयम् । कादम्बरीवनमिति प्रथितां तामुपैष्यतु ॥ ३७. व्याघ्राटवीमिति पुनः कथयन्तु समन्ततः । इत्येवं अनुशास्यार्थं ब्रह्मा ब्रह्मविदां वरः । लब्धवेदनिधिः प्रीत्या प्रायात् स्वभवनं प्रति ॥ इति चतुर्दशोऽध्यायः । Pro.Total = 910 + 37 = 947.

पञ्चदशोऽध्यायः

तामसीशापविमोचन म् । १. ऋषिः-- एतत् ते कथितं राजन् यन्मां त्वमिह पृच्छसि । कादम्बरीवनस्यास्य तामस्याश्चरितं महत् ॥ २. दण्डराजस्य चरितमानुपूर्व्येण भाषितम् । ब्रह्माश्रमस्य महिमा कीर्तितः कलुषापहम् ॥ ३. श्रुणु भूयः कुम्भयोनेः कथं पापनोदिनीम् । सागरेण समायोज्य ताम्रां मलयसम्भवाम् ॥ ४. हयग्रीवाद्रिमाण्डव्यगौतमाङ्गिरसादिभिः । वसिष्ठरोमशमुखैः दुर्वासकपिलादिभिः ॥ ५. अन्यैश्च मुनिशार्दूलैः लोपामुद्रापतिर्मुनिः । त्रिषु स्थानेषु ताम्रायाः मुखेष्वम्भोधिसङ्गमे ॥ ६. स्नात्वा दत्वा यथान्यायं तर्पयित्वा पितॄन् सुरान् । तीर्थश्राद्धं क्षेत्रपिण्डं कृत्वा विधिविदां वरः ॥ ७. हरिद्रापिष्टेन ताम्रायाः कृत्वा तु प्रतिमां शुभाम् । गन्धपुष्पाक्षतैर्लाजैः धूपनीराजनादिभिः ॥ ८. पूजयित्वा यथान्यायं नैवेद्यैर्विविधैरपि । नमस्ते देवि कल्याणि महापातकनाशिनि ॥ ९. ताम्रपर्णि त्वयि स्नास्ये त्राहि मां भवसागरात् । इति मन्त्रं समुच्चार्य प्रार्थयित्वा प्रणम्य च ॥ १०. प्रतिमां अप्सु निक्षिप्य पुनः स्नात्वा मुनीश्वरः । सह सर्वैः मुनिगणैरत्र वासमकल्पयत् ॥ ११. एतस्मिन्नन्तरे घोरः सञ्जज्ञे सुमहान् ध्वनिः । भिद्यमानस्य शैलस्य वज्रेणैव महात्मनः ॥ १२. महावातः च सञ्जज्ञे कम्पमानतरद्रुमः । चचाल वसुधा तत्र सशैलवनकानना ॥ १३. किमिति ब्रान्तहृदया जना दुद्रुविरे भयात् । भज्यमनतर्ङ्गोऽब्धिः सङ्कुचन् इव चक्रमे ॥ १४. आसीत् कलाकाल्रावैः पूर्णमासीत् जगत्त्रयम् । क्रोशन्तः शकुना व्योम्नि मण्डलानि वितेनिरे ॥ १५. व्योम्नि वैमानिका सिद्धाः न्श्चितुं नाप्यशक्नुवन् । तत्रादृश्यत शैलाभा व्याघ्री कनकपाटला ॥ १६. स्फोटयन्ती मुहुः पुच्छं क्रन्दन्ती भीषणारवम् । दारयन्तीव वसुधां लिहन्तीव नभःस्थलम् ॥ १७. व्यत्यासयन्ती ककुभं सन्धाय पुरतो मुनेः । तां दृष्ट्वा विस्मयाविष्टः कुम्भयोनिर्महामतिः ॥ १८. हुङ्कारमकरोत् क्रोधात् सा क्षिप्ता तेन दूरतः । निपपात पयःपूरे व्याकुला तूलराशिवत् ॥ १९. सैष ताम्राप्रवाहे तु पतिता गिरिकूटवत् । उत्पपात तथा व्योम्नि जलौघो मेघवृन्दवत् ॥ २०. विकीर्यमाणो वानेन समन्तात् वियदन्तरे । अचिराभा रविकरैः जलधूमैर्घनाकुला ॥ २१. पतमानैर्जलकणैः प्रावृट् आविर्भूत इव । समसर्पत् जलौघः तु विन्ध्यकूटसमप्रभम् ॥ २२. मुञ्चन्ती घर्घरारावं घोरमेघारवोपमम् । इतस्ततः संलुठन्ती जहौ व्याघ्री कलेवरम् ॥ २३. साप्यदृश्यत नालीकनवकिञ्जल्कपाटला । तरुणी तरुणादित्यकिरणाकारपिङ्गला ॥ २४. उत्फुल्लकमलोदारा वहन्ती वरुणस्रजम् । दिव्याम्बरधरा दिव्यमणिकाञ्चनभूषणा ॥ २५. मदमत्तारुणापाङ्गा मन्दस्मितमुखाम्बुजा । अन्वेषयन्ती भर्तारमाससाद घटोद्भवम् ॥ २६. ब्रह्मन् प्रसीद कारुण्यात् अनाथायां मयि प्रभो । दुस्सहोऽयं अनङ्गेषु विषज्वालासमागमः ॥ २७. महातीर्थप्लवेनापि शान्तिर्नोपैति केवलम् । यावत् विपत्तिमभ्येति शरीरं विरहाग्निना ॥ २८. तावदनुरूपं मे कान्तं देहि दयानिधे । विलपन्तीमिमामेवं दृष्ट्वा नारीमतल्लिकाम् ॥ २९. सान्त्वपूर्वमिदं वाक्यं व्याजहार घटोद्भवः । अयि सुश्रोणि भद्रं ते मैवं शोचितुमर्हसि ॥ ३०. तवानुरूपः तरुणः कामराहसमद्युतिः । समुद्रराजतनयः वीचीमालात्मसम्भवः ॥ ३१. शङ्खराज इति ख्यातः भविता तव वल्लभः । इत्युक्तवति वै तस्मिन् मुनौ वातापिवैरिणि ॥ ३२. पुरात् अम्बुनिधेः तुङ्गात् तरङ्गान् खण्डयन् इव । उत्पपात तथा श्रीमान् महामेघात् इवांशुमान् ॥ ३३. स्वकिङ्करैः नागवरैः दत्यैरपि निषेवितः । महाराजश्रियोपेतः समागत्य मुनीश्वरम् ॥ ३४. अभिवाद्य विनीतात्मा प्रीतो वचनमब्रवीत् । शङ्खराजः -- भगवन् किमिहादृत्य समाहूतोऽस्मि सत्वरम् ॥ ३५. शाधि मां प्रियकृत्येषु कर्ताहं नात्र संशयः । इति वादिनमेवैनं कुम्भभूरभ्यभाषत ॥ ३६. अगस्त्यः-आयुष्मन् शङ्खराजेन्द्र प्रीतोऽस्मि तव दर्शनात् । एषा तपस्विनी बाला कुलीना चारुरूपिणी ॥ ३७. तव प्रिया भवेत् धन्या त्वमस्याः सदृशः पतिः । श्रेय ; ते भवितानेन नात्र कार्या विचारणा ॥ ३८. एतस्मिन्नन्तरे व्योम्नि वागभूत् अशरीरिणी । एवमेवेह कर्तव्यं एतयोरस्तु मङ्गलम् ॥ ३९. इति श्रुत्वा वचस्तावत् सर्वे ते देवदानवाः । साधु साध्विति संहृष्टा सुव्यक्तां वाचमूचिरे ॥ ४०. पश्यत्सु सर्वभूतेषु मिलितेषु महात्मसु । सा तामसी समभ्येत्य शङ्खराजस्य कन्धरे ॥ ४१. मालामयीं अर्पयामास नाम्ना मधुकरीमिमाम् । तावत् दुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ४२. तामुद्वाह्य वरारोहां शङ्खराजोऽब्धिसम्भवः । शुशुभे नितरां राजन् विद्यामिव नयः कृती ॥ ४३. तावुभौ अनवद्याङ्गौ रतिकामाविवापरौ । प्रशशंसुः जनाः सर्वे मुमुदे विन्ध्यमर्दनः ॥ ४४. एतस्मिन् एव समये समाजे ब्रह्मवादिनाम् । सा माला शङ्खराजस्य कन्धरात् व्योम्नि जृम्भते ॥ ४५. किञ्चित् उच्चलितायां तु मालायां व्योम्नि मण्डले । ततस्ततः तु सञ्जाता शतशोऽथ सहस्रशः ॥ ४६. एवमाकाशपदवी मालाशतसमाकुला । प्रबभौ भोगिसङ्कीर्णा नागराजपुरी यथा ॥ ४७. तत्रैका शङ्खराजस्य तामस्याः कन्धरे तथा । पेततुः च स्रजामन्या माला सूर्यस्यवर्त्मना ॥ ४८. गत्वा धर्मधरस्यैव मूर्ध्नि सर्वा निपेततुः । दृष्ट्वा तु विस्मयाविष्टे सस्त्रीके सगरात्मजे ॥ ४९. नारदोभ्येत्य तत् सर्वं मालोपाख्यानमब्रवीत् । एषा गन्धर्वस्य पत्नी तामसी नाम नामतः ॥ ५०. पुरा ब्रह्ममुखात् जाता तत्दत्तां मालिकामिमाम् । लब्ध्वा तपश्चिरं तप्त्वा सन्तुष्टा प्राप्य शङ्करात् ॥ ५१. वरान् प्राप्य सुभुञ्जाना भोगान् विविधानपि । अनुभूय पुनः शापात् निर्मुक्ता तीर्थमज्जनात् ॥ ५२. सुकृतैः त्वामनुप्राप्ता त्वञ्चेमां वनिताश्रयाम् । घटयित्वा युवामेषा भूयोऽगात् ब्रह्मणः पदम् ॥ ५३. त्वया तीरे ताम्रपर्ण्याः कृत्वावासं यथोचितम् । पूजनीया ताम्रपर्णी सभार्येण विशेषतः ॥ ५४. एवं पूजयितो नित्यं युवयोर्मलयात्मजा । महाभोगानसङ्ख्यातान् प्रदास्यति महेश्वरी ॥ ५५. एवं देवर्षिमुख्यस्य नारदस्यानुशासनम् । वहमानः किरीटेन मालामिव समुद्रजः ॥ ५६. तं मुनिं प्रणिपत्याग्रे कूम्भयोनिमुखान्यपि । सह पत्न्या नमस्कृत्य तीर्थद्वीं मणिप्रसूम् ॥ ५७. रथोत्तमं समारुह्य विमानं काञ्चनारुणम् । दासीभिः निष्कण्ठीभिः भृत्यैः बहुभिरन्वितः ॥ ५८. स्तूयमाना पथानेन प्रायात् इन्दुवनं प्रति । अर्धयोजनमात्रेण महाम्भोधेश्तु पश्चिमे ॥ ५९. ताम्राया दक्षिणे भागे चन्द्राटव्यां महामति । नदीपुरमिति ख्यातं निर्माय नगरं महत् ॥ ६०. नित्यमभ्यर्चयन् ताम्रां शिवपूजापरायणः । मुनिनादिष्टमार्गेण वर्तयन् सकलाः क्रियाः ॥ ६१. चिरकालं तया सार्धं बुभुजे विषयान् बहून् । ततो वर्षसहस्रान्ते ताम्रपर्णी प्रसादतः ॥ ६२. भार्यया सहितो योगी ब्रह्मलोकमवाप्तवान् । पुनः श्रुत्वा कथां पुण्यां विन्ध्याहङ्कारमर्दनः ॥ ६३. समायोज्य नदीमब्धौ तमामन्त्र्य नदीपतिम् । निषेव्य सर्वतीर्थानि देवान् चाभ्यर्च्य सर्वशः ॥ ६४. हयग्रीवमुखैः सिद्धैः अभ्येत्य मलयाचलम् । प्रतिष्ठाप्य च गोष्ठीशं तत्प्रसादमवाप्य च ॥ ६५. ब्रह्मवृद्धपुरे दृष्ट्वा देवं कल्याणसम्भृतम् । तदनुग्रहमासाद्य भूयो मलयमाप सः ॥ ६६. एतत् तु परमं गृह्यमितिहासं पुरातनम् । श्रुणुयात् वा पठन् वापि सर्वपापैः प्रमुच्यते ॥ ६७. एतत् आयुष्करं श्राव्यमाख्यानमघनाशनम् । श्रुणोति यः पठेत् वापि सर्वपापैः प्रमुच्यते ॥ ६८. एतत् ते कथितं राजन् ताम्रायाश्चरितं महत् । अलङ्घनीया हेतुः मलयस्यापि वर्णितः ॥ ६९. धर्मिष्ठस्य वदान्यस्य तव सङ्गं महीपतेः । मम जातमिदं पुण्यं धर्मस्यैव प्रशंसनम् ॥ महाराजविशेषेण किं भूयः श्रोतुमिच्छसि ॥ इति पञ्चदशोऽध्यायः । Pro.Total = 947 + 69 = 1016.

षोडशोऽध्यायः

वेणुवनमाहात्म्य म् । १. भगवन् भवतः सङ्गात् पावितोऽहं न संशयः । गङ्गं प्रविश्य रथ्याम्बु त्रीन् लोकान् न पुनाति किम् ॥ २. ककोऽपि मेरुसंयोगात् नकिं काञ्चनतां व्रजेत् । कृतार्थोऽस्मि कृतार्थोऽस्मि कृतकृत्योऽस्मि केवलम् ॥ ३. यथा प्रसन्नं त्वत्पादपङ्कजं दैवयोगातः । अपि वावसरं प्राप्य सृष्टोऽस्मि त्वदनुग्रहात् ॥ ४. किमेति पञ्चतामग्नौ पीयूषादी नरः क्वचित् । विधूतबन्धुवर्गस्य ममाटव्यामपि प्रभो ॥ ५. निधिवत् लब्धमधुना तव पादाम्बुजद्वयम् । काङ्क्षितान्यपि भाग्यानि भूयः प्राप्स्ये भवन्मुखात् ॥ ६. एषा मलयजा पुण्या कल्पवल्ली न संशयः । स्नानात् सङ्कीर्तनात् पानात् मननात् अनुवर्तनात् ॥ ७. पापघ्नी भवपङ्कघ्नी भोगदा पुण्यदा नृणाम् । अस्याः प्रभावं भूयोऽपि श्रोतुमिच्छामि सत्गुरो ॥ ८. वातापिवैरी भगवान् मुनिः परमधर्मवित् । कादम्बरीवनात् अस्मात् निवर्त्य मुनिभिस्सह ॥ ९. किञ्चकार महायोगी तीरे कुत्र मणिप्रसोः । कोष्ठीश्वरे महालिङ्गं स्थाप्य पूजामकल्पयत् ॥ १०. कथं दृष्टवान् शम्भुं देवं कल्याणरूपिणम् । कानि तीर्थानि पुण्यानि क्षेत्राण्यपि तटद्वये ॥ ११. धर्माधारः कथं शापात् कुतो मुक्तिमवाप सः । एतत् सर्वमशेषेण वद विस्तार्य मे गुरो ॥ १२. एवं शङ्खो महातेजाः स फृष्टः तेन भूभुजा । सम्भाव्य वाचा राजानं भूयो वचनमब्रवीत् ॥ १३. महाराज कुलश्रेष्ठ धर्मे ते मतिरीदृशी । विचित्रं नैव पश्यामि कोकिलस्येव पञ्चमम् ॥ १४. कुलीनं श्रयते नीतिः अम्भो निम्नमयत्नतः । तन्वी च यूनं श्रयते पण्डितं धर्मचिन्तना ॥ १५. सर्वज्ञोऽसि कुलीनोऽसि धर्मिष्ठोऽसि विशेषतः । तस्मात् मनीषाते राजन् धत्मात् अन्यत्र किं व्रजेत् ॥ १६. प्रश्नेनानेन तुष्टोऽस्मि वक्ष्ये श्रुणु कथामिमाम् । अब्धिपः स मुनिश्रेष्ठो हयग्रीवादिसंयुतः ॥ १७. ताम्रामम्भोधिना योज्य तत्प्रसादमवाप्य च । चन्द्राटव्यां शङ्खराजं प्रतिष्ठाप्य नदीपुरे ॥ १८. आविर्भूतं तत्र शम्भुं हरिं चाराध्य भक्तितः । ताम्राया उत्तरे तीरे मायालास्यं च माधवम् ॥ १९. दक्षिणे बहुलाख्यां श्रीपुरे पुरुषोत्तमम् । कुम्भारण्ये हरिं पूज्य सूर्यं काशवने तथा ॥ २०. लालङ्के शम्बरक्षेत्रे कालीमभ्यर्च्य सादरम् । एकरात्रमुषित्वात्र तत्परेऽहनि कुम्भभूः ॥ २१. काल्यं कर्म समाप्यैवं ब्रह्मव्रूद्धपुरं ययौ । यत्र शम्भुर्महेशान्या नित्यं सन्निहितो विभुः ॥ २२. ताम्रायाः पश्चिमे तीरे पुण्ये वेणुवनान्तरे । ब्रह्मवृद्धपुरी नाम पुरी भुवनभूषणा । २३. अर्धयोजनविस्तारात् सर्वतोभद्रसंज्ञिता । पराञ्चैव विभूतिश्च दक्षिणोत्तरतः तटे ॥ २४. सूक्ष्माकारे पुण्यनद्यौ तयोर्मध्ये महावनम् । वेणुवंशं करीराद्यैः समाक्रान्तं वनद्रुमैः ॥ २५. योजनायामविस्तारं कान्तारं परमाद्भुतम् । तन्मध्ये नगरी पुण्या ब्रह्मवृद्धपुराभिता ॥ २६. दक्षिणे चोत्तरे यस्याः प्रवर्तते सरिद्वरा । परा शैवानुभूतिश्च सूक्ष्माकारे महत्तरे ॥ २७. परानुभूतिं शंसन्ति नामतो नगरीं सुराः । सप्ततन्तु सुधायाः तु रुद्रपत्न्याः कृते युगे ॥ २८ तपसाराधिता देवी सन्तुष्टा जगदम्बिका । अत्रैव दर्शयामास काञ्चीं कम्पापरिष्कृताम् ॥ २९. अत एव पुरीमेनां काञ्चीमाहुर्हि दक्षिणाम् । स्वयमत्र महादेवः पाण्ड्यो भूत्वा नराधिपः ॥ ३०. चकार सन्ततं दानं कुर्वन् विप्रान् महाधनान् । यत्रास्ते परमा शक्तिः द्वात्रिंशद्धर्मवर्धिनी ॥ ३१. स्वयमाविरभूत् यत्र भक्तानन्दाय शङ्करः । यत्र शेते महाविष्णुः शिवमाराधयन् व्रती ॥ ३२. महावृष्टिभयात् यत्र तारकः शालिशङ्करः । स्वयमेव वृतिर्भूत्वा पालयामास लीलया ॥ ३३. शालिवाटीपुरी चैषा विख्याता भुवनत्रये । यत्र दुर्गा भगवती देवमाराध्य वर्तते ॥ ३४. यत्र भिक्षामटत्यद्धा वीथ्यां वीथ्यां उमापतिः । महाकङ्कालरूपेण भक्तानां हितकाम्यया ॥ ३५. शार्दूलभक्षितां यत्र तरुणीं वनगह्वरे । पुनः प्रादात् शिवः प्रीत्या ब्राह्मणाय महात्मने ॥ ३६. तत् एतत् अद्भुतं क्षेत्रं ब्रह्मवृद्धपुरं महत् । संप्राप्य विन्ध्यमथनः मुनिभिः ब्रह्मवादिभिः ॥ ३७. स्नात्वैवोत्तरवाहिन्यामगस्त्यो नियमान्वितः । तर्पयित्वा पितॄन् देवान् ऋषीन् चैव यथाविधि ॥ ३८. नमस्कृत्वा ताम्रपर्णीं यथार्हं तीर्थदेवताम् । महाविष्णुवनेशानं देवीं कान्तिमतीमपि ॥ ३९. पूजयित्वोपकरणैः गन्धपुष्पाक्षतादिभिः । शयानं शेषपर्यङ्के भगवन्तं प्रणम्य च ॥ ४०. दुर्गां विनायकं चैव कङ्कालं षण्मुखं तथा । समभ्यर्च्य यथान्यायं कन्यां/कम्पां कल्याणपीठिकाम् ॥ ४१. माध्याह्निकस्नानविधिं महापुष्करिनीजले । कृत्वागस्त्यो महातेजाः लोपामुद्रासमन्वितः ॥ ४२. हयग्रीवमुखैः सार्धं चक्रे क्षेत्रोपवासकम् । स्वर्णपुष्करिणीतीरे कान्तिमत्याश्च सन्निधौ ॥ ४३. निनाय रजनीमेकां विचित्रैश्च कथारसैः । तथोषस्युपवृत्तायामुदितेसवितर्यथ ॥ ४४. कृतपूर्वाह्णिकविधिः तस्मिन् तीर्थे महामतिः । अभ्याययौ ऋषिगणैः देवदेवस्यसन्निधौ ॥ ४५. वरुणः तनयैः सार्धं तत्र तुम्बुरुणा सह । आजगाम महातेजाः सिद्धैर्बहुभिरावृतः ॥ ४६. एतस्मिन् अन्तरे राजन् दिश्युदीच्यां महास्वनः । उदभूत् उत्पटारावैः भेरीपटहनिस्स्वनैः ॥ ४७. तवदाविरभूत् शम्भुः गगने भानुमान् इव । कैलासश‍ृङ्गसङ्काशं वृषमारुह्य भास्वरम् ॥ ४८. अङ्केनादाय गिरिजां तरुणीं लोकमातरम् । गङ्गाधरः शशिधरः शङ्खमौक्तिकपाण्डुरः ॥ ४९. कोटिकन्दर्पलावण्यकल्लोलितकलेवरः । महामाणिक्यखचिततप्तहाटकभूषणैः ॥ ५०. किरीटकटकाद्यैः च वलयाङ्गदभूषणैः । कस्तूरीचर्चित इव शितिम्ना कण्ठरोचिषा ॥ ५१. शुभ्रवर्णतया किञ्चित् घनसारानुलेपनम् । चूडामणिशशाङ्कार्धपीयूषैः चन्दनैरिव ॥ ५२. भूषामणिमयूखैः च कुङ्कुमैरिव सन्ततैः । परस्परानुरूपाभ्यां रूपाप्भ्यां यौवनश्रियम् ॥ ५३. पुष्णन्तौ लोकमुभयमनादि मिथुनावुभौ । आविरास्तां वृषारूढौ तस्निन् वेणुवनान्तरे ॥ ५४. समन्ततः संप्रहृष्टैः भूतप्रमथगुह्यकैः । नन्दिभृङ्गिमुखैरन्यैः गणेशस्कन्दचण्डकैः ॥ ५५. ब्रह्मविष्णुमुखैः शैवसिद्धैश्च परमर्षिभिः । सेव्यमानं महादेवं ददर्श परितो मुनिः ॥ ५६. वैमानिकैः सिद्धगणैः देवैः इन्द्रपुरोगमैः । सङ्घषमभवत् व्योम महदेवगणैरपि ॥ ५७. देवदुन्दुभिनिर्घोषैः नानावादित्रनिस्स्वनैः । सिद्धानां स्तुतिनादैश्च तुमुलः समपद्यत ॥ ५८. गङ्गाद्याः सरितः तत्र तीर्थानि च महान्त्यपि । सरितः सागरास्सर्वे समाजग्मुरितस्तत ॥ ५९. विन्ध्यमन्थरमेर्वाद्यैः पर्वताश्च समुत्सुकाः । आजग्मुरखिलास्तत्र बिभ्राणा मानुषीं तनुम् ॥ ६०. एवमभ्यागतेष्वेषु देवेन सह शूलिना । ममज्जुः कुसुमान्यत्रविकिरन्तः सुरासुराः ॥ ६१. अस्यामुत्तरवाहिन्यां ताम्रायां शिवसन्निधौ । गङ्गाद्याः सरितः तत्र किरन्तः कुसुमोच्चयम् ॥ ६२. भावयन्तः तथात्मानं ममज्जुः तीर्थवारिणि । इतस्ततः क्षिप्यमाणैः अमरैः कुसुमोत्करैः ॥ ६३. सञ्छन्नमभवत् क्षेत्रं सर्वतो योजनावृतम् । पारिजातसमुद्भूतैः सुगन्धैः पुष्पसञ्चयैः ॥ ६४. सञ्छन्नपूरा रुरुचे चित्राम्बरधरा यथा । मकरन्दैः परागैश्च हरिचन्दनरञ्जिता ॥ ६५. एवमाश्चर्यजननीं महापातकनाशिनीम् । अभिष्टूय नदीमेनां अभिसस्नुः सुरासुराः ॥ ६६. मुकुन्देन्द्रब्रह्ममुखैः पूज्यमानः सदाशिवः । उपस्पृश्य नदीतोयं उपगूह्य स्ववल्लभम् ॥ ६७. कैलासशिखराकारं विवेश भवनं सुखम् । ततो हर्षसमायुक्तः स मुनिः कुम्भसम्भवः ॥ ६८. देवं प्रदक्षिणीकृत्य नमस्कृत्य मुहुर्मुहुः । आनन्दबाष्पपूराभ्यां नेत्राभ्यामवलोकयन् ॥ ६९. किञ्चित् प्रह्वतनुः तिष्ठन् मूर्छामुकुलिताञ्जलिः । उन्निद्ररोमनिकरैः व्यक्तीकृतमनोरथः ॥ ७०. हर्षगद्गदया वाचा स्तोतुमुपचक्रमे । अगस्त्यः -- नमः कल्याणवेषाय कलिकल्मषनाशिने ॥ ७१. नमो विहारिणे विश्वविबुधानां हृदयङ्गणे । नमः स्वान्तनिवासाय शान्तानां समचेतसाम् ॥ ७२. असाधारणकृत्याय नमस्ते कृत्तिवाससे । नीलग्रीवाय नित्याय निस्समाप्त्युदयात्मने ॥ ७३. परवामामार्धवपुषे नमः क्षेमङ्कराय ते । अर्धं मरकताकारमर्धंस्फटिकसन्निभम् ॥ ७४. अद्वैतमपि यत्तेजो द्वैतीभूतं नमो नमः । कान्तं कल्याणनिलयं कलिताशेषकौतुकम् ॥ ७५. कन्दर्पकोटिलावण्यं युवानं साम्बमीश्वरम् । मङ्गलाय महस्तोमप्रस्तुताश्चर्यरूपिणे ॥ ७६. गौरीनाथाय नाथाय नमस्सोमार्धधारिणे । शिवाय परिपूर्णाय पूर्णानन्दाय वेधसे ॥ ७७. महावृषभवाहाय महादेवाय ते नमः । शूलिने नीलकण्ठाय भालचन्द्रावतंसिने ॥ ७८. भवाय भवनाशाय पशूनां पतये नमः । जय नाथ कृपादृष्ट्या वत्सं सेचय मां प्रभो ॥ ७९. मा मुञ्च पादयुगलात् अनाथं त्वत्परिग्रहम् । एकस्मात् आगसो द्वाभ्यां त्रिभ्यो वा रक्ष मां मुहुः ॥ ८०. बहुभ्यो हि महादेव मां पाहि करुणानिधे । त्वत्सन्निधिविधानेन हृष्टोऽस्मि नितरां विभो ॥ ८१. आह्लादय कृपादृष्ट्या वृष्ट्या भुवमिवाम्बुदः । घर्मतप्तोऽध्वगोध्वानमतीत्य बहुयोजनम् ॥ ८२. अङ्घ्रिपङ्केरुहच्छायमाप्तं पाहि जगद्गुरो । नवेद्मि त्वत्पदाम्भोजात् अपरं दैवतं परम् ॥ ८३. अत एव महादेव त्वामस्मि शरणं गतः । प्रसीद गौरीनाथ त्वं प्रसीद गिरिजापते ॥ ८४. प्रसीद सततं मह्यं नाथ कान्तिमतीपते । नमो वेणुवनेशाय महाकल्याणरूपिणे ॥ ७५. हाटकाम्भोजिनीतीरवासिने शूलिने नमः । ताम्रातरङ्गसङ्क्लिन्नपादाम्भोजाय ते नमः ॥ ८६. ब्रह्मवृद्धपुरीशाय पूर्वपूर्वाय ते नमः । इत्थं स्तुत्वा महादेवं कुम्भयोनिः स्वभार्यया ॥ ८७. आनन्दमन्थरो बाष्पलोलव्याकुललोचनः । पपात पादयोर्भक्त्या पश्यतां त्रिदिवौकसाम् ॥ ८८. करुणासागरो देवः तमुत्थाप्य महामुनिम् । परिमृज्य स्वपाणिभ्यां प्रेम्णा चाभाष्य शङ्करः ॥ ८९. मेघगम्भीरया वाचा व्याजहार महेश्वरः । श्री सदाशिवः -- सन्तु भद्राणि विप्रेन्द्र शाश्वतानि तवाधुना ॥ ९०. प्रीतोऽस्मि तव कृत्येन स्तोत्रेणानेन भूयसा । तव प्रियार्थं दातुं मे नालं लोकाः चतुर्दश ॥ ९१. त्वमेवास्म्यहमव्याज त्वं चाप्यहमसि ध्रुवम् । आवयोर्नैव भेदोस्ति यथा पुष्पसुगन्धयोः ॥ ९२. इतः परं कुम्भयोने कर्तव्यं श्रुणु मत्प्रियम् । इतः पश्चिमभागे तु गत्वा योजनमात्रकम् ॥ ९३. गौतमस्याश्रमं पुण्यं क्षेत्रे शौण्डीरकाह्वये । तत्रास्ति मामकं लिङ्गं तत्राभ्यर्च्य यथाविधि ॥ ९४. धर्माधाराय दण्डाय स्थानं कृत्वा मदाज्ञया । तस्मात् पश्चिमभागे तु क्रोशमात्रे महामते ॥ ९५. महदामलाख्यं क्षेत्रं गौतमस्य महामुनेः । तत्र काचित् कुण्डनाम्नी राक्षसी घोररूपिणी ॥ ९६. कोलाकारावनं सर्वं निर्मानुषमकारयत् । तां निगृह्य दुराधर्षां राक्षसीं कामचारिणीम् ॥ ९७. तत्र लिङ्गं प्रतिष्ठाप्य लोकानां हितकाम्यया । पूजां कृत्वा यथाशास्त्रं प्राप्य सर्वं मनोगतम् ॥ ९८. ततो गुप्तगिरिं गत्वा स्वाश्रमे स्वर्गसन्निभे । मां उमां च यथाभक्त्याभ्यर्चयानो निरन्तरम् ॥ ९९. ताम्रपर्ण्या च सहितः त्रीन् लोकान् पातुमर्हसि । अयि वत्से राजपुत्रि भर्तारमनुवर्तिनी ॥ १००. श्रेयांसि लप्स्यसे नूनं दुर्लभानि पदे पदे । इत्याश्वस्य मुनिं देवो लोपामुद्रां च तत्प्रियाम् । भूयो मुनिवरं प्रीत्या प्रवक्तुमुपचक्रमे ॥ इति षोडशोऽध्यायः । Pro.Total = 1016 + 100 =1116.

सप्तदशोऽध्यायः

गौतमाश्रमे अगस्त्यागमने राक्षसीपैशाचयोः मोचनं सुरेन्द्रमोक्षादि तीर्थवैभवकथनपूर्वकं अगस्त्यकृतपुटार्जुनेश्वरस्तुतिः । १. श्री सदाशिवः -- श्रुणु ब्रह्मन् प्रवक्ष्यामि श्रेयसे जगतां पुनः । एतत् हि परमं क्षेत्रं मामकं ब्रह्मसंज्ञकम् ॥ २. दर्शनात् एव जन्तूनां भोगमोक्षैकसाधनम् । अस्यामुत्तरवाहिन्यान्ताम्रायां च विशेषतः ॥ ३. क्षिप्तपुष्पकलं नाम तीर्थं परमपावनम् । ये मज्जन्ति पिबन्त्यम्भः तेषां मोक्षो न संशयः ॥ ४. तत्तीर्थकणिका येन पीता मूर्ध्नि धृतापि वा । स मे प्रियतमो ज्ञेयो मत्सायुज्यैकभाजनम् ॥ ५. क्षिप्तपुष्पवतीतीर्थे स्नात्वा मां वरदं विभुम् । पश्यन्ति तेषां मर्त्यानां न मातुर्गर्भसंश्रयः ॥ ६. क्षिप्तपुष्पवतीतीर्थें स्वर्णपुष्करिणीपयः । ज्योतिर्लिङ्गार्चनं चैव मत् रूपस्य च दर्शनम् ॥ ७. कान्तिमत्याः पदद्वन्द्वे नमस्या पुरुषोत्तमे । एतानि मुक्तिलोकस्य साक्षात् सोपान पद्धतिः ॥ ८. पश्यन्ति मामकं क्षेत्रं मन्सा चक्षुषापि वा । तेषां नियन्ता नैव स्यात् मुने वैवस्वतो यमः ॥ ९. अत्र जप्तं हुतं दत्तं तदनन्तफलं स्मृतम् । परायाश्च विभूतेः च ताम्रायाः चोलपस्य च ॥ १०. अन्तरालं जगत् ब्रह्मक्षेत्रं ज्योतिर्मयं ध्रुवम् । म्रियन्ते जन्तवः ते तु देवि मुक्ता न संशयः ॥ ११. विनश्यन्ति हि पापानि महाभैरवशासनात् । तस्मात् नैव त्यजेत् क्षेत्रं मुक्तिकामः प्रयत्नतः ॥ १२. कुम्भयोने त्वमनयाधर्मपत्न्या समन्वितः । प्रतिवर्षं समागत्य चैत्रे मासि विशेषतः ॥ १३. सङ्क्रमे पूर्णिमास्यां तु मामर्चयितुमर्हसि । एवं तमनुशास्यात्र कुम्भयोनिं सदाशिवः ॥ १४. मालां मणिमयीं अस्मै दत्वा चूडामणिं तथा । समालिङ्ग्य भुजाभ्यां तु प्रेषयामास शङ्करः ॥ १५. महारत्नानि संप्राप्य कान्तिमत्या प्रसादतः । लोपामुद्रा धर्मपत्नी संप्राप परमां श्रियम् ॥ १६. वरान् संप्राप्य बहुलान् संप्रहृष्टः स्वभार्यया । शिवं प्रदक्षिणीकृत्य देवीं च जगदम्बिकाम् ॥ १७. हयग्रीवमुखैर्विप्रैः आरुरोह रथं पुनः । आमन्त्र्य देवान् सिद्धान् च नन्दिभृङ्गिमुखान्यपि ॥ १८. हरिं प्रनम्य प्रययौ सरथः पश्चिमां दिशम् । देवान् प्रस्थाप्य देवोऽपि तत्रैव शिवया सह ॥ १९. अद्यापि वसते नित्यं वरदः सर्वदेहिनाम् । एवं वेणुवनात् तस्मात् निर्गत्य कलशोद्भवः ॥ २०. देवदेवं महत् रूपं क्षेत्रं च परमाद्भुतम् । स्मृत्वा स्मृत्वा स्वान्तरङ्गे देवं कल्याणसम्भृतम् ॥ २१. जगाम परमामाशां वारुणीं वरुणोपमः । सिद्धैः गीतानि पुण्यानि ताम्रायाः चरितानि वै ॥ २२. स्वानि पुण्यापदानानि मुनिः श‍ृण्वन् महान्त्यपि । बद्धाञ्जलिपुटं लोकमनुगृह्याक्षिकोणतः ॥ २३. गौतमश्रमं पुण्यं प्रविवेश महामुनिः । आश्रमात् पूर्वभागे तु पतितं पर्वतोपमम् ॥ २४. कलेवरं समालोक्य लोपामुद्रातिविस्मिता । प्राञ्जलिर्मुनिशार्दूलं भर्तारमिदमब्रवीत् ॥ २५. लोपामुद्रा -- ब्रह्मन् किमेतदाश्चर्यं पर्वताकारदर्सनम् । कलेवरमिवाभाति कस्येदमि कथ्यताम् ॥ २६. अगस्त्यः -- श्रुणु पूर्वतनं भद्रे वृत्तान्तं रोमहर्षणम् । एकतस्य मुनेरासीत् सत्यायाः कापि कन्यका ॥ २७. नाम्ना कुम्भीनसी ख्याता रूपेणाप्रतिमा भुवि । सर्वज्ञा धर्मशीला च पितॄन् शुश्रूषणे रता ॥ २८. क्रीडन्ती विपिने बाला मेघे विदुल्लता यथा । चचार पुष्पोच्चयं कुर्वाणा सा ततस्ततः ॥ २९. ददर्श गौतमसुतं बालकं ब्रह्मचारिणम् । तावुभौ स्नेहसम्पन्नौ समाभाष्य परस्परम् ॥ ३०. चेरतुः विपिनोद्देशे क्रीडावैशिष्यवेदिनौ । क्वचित् पुष्पैः क्वचित् पत्रैः क्वचित् पुत्तलिकापरैः ॥ ३१. गृहारामादिकं गत्वा सैकतेषु समुत्सुकौ । शतानन्दं समाहूय कन्या वचनमब्रवीत् ॥ ३२. त्वमत्र च गृही भूयाः गृहिण्यस्मि महामते । त्वमग्नौ जुहुतीशानमभ्यर्च्य विधानतः ॥ ३३. पचाम्यन्नमहं सम्यक् नानाव्यञ्जनसंयुतम् । इत्येकाग्रधिया सर्वं चक्रतुः प्रीतिपूर्वकम् ॥ ३४. औपासनं वैश्वदेवं पञ्चयज्ञक्रियामपि । देवपूजां तथा कृत्वा तथाप्यतिथिसत्क्रियाम् ॥ ३५. शयनं भोजनं चैव योग्यं चैव मृषाक्रियौ । समुत्सुकौ प्रीतियुतौ विधाय सह कौतुकात् ॥ ३६. वने विक्रीडतोरेवं महान् कालोऽप्यवर्तत । तावन्महामुनिश्श्रीमान् गौतमः तपसां निधिः ॥ ३७. वैश्वदेवादिकं कृत्वा भोजनाय निजात्मजम् । आजुहावाश्रमद्वारि सोऽप्यगात् भयविह्वलः ॥ ३८. तं दृष्ट्वा व्रतविभ्रष्टं निस्तेजसममुं मुनिः । ज्ञात्वा सर्वं ज्ञानदृष्ट्या कोपात् तमभाषत ॥ ३९. गौतमः -- दुर्बुद्धे कुत्सितं कर्म कृतवानसि बालिश । तस्मात् पिशाचभूतस्त्वं वने वस्तुमिहार्हसि ॥ ४०. यथा ताम्रानदीतोयबिन्दुभिर्युज्यसे भवान् । तावत् विमुक्तशापस्तु माम्भ्येतुं त्वमर्हसि ॥ ४१. या सा कुम्भीनसी पापमेवं कृतवती किल । तस्मात् अस्मिन् वने घोरा राक्षसी विचरिष्यतु ॥ ४२. यथा धर्मधरो दण्डः पतत्यस्मिन् वने शुभे । तस्य स्पर्शनमात्रेण शरीरं शैलसन्निभम् ॥ ४३. पतिष्यते निशाचर्याः तत् भूयः तीर्थसङ्गमात् । स्वरूपं यातु कल्याणं तत्र श्रेयो भविष्यति ॥ ४४. इत्युक्त्वा तावुभौ क्रोधात् गौतमो मुनिसत्तमः । सभार्यः साग्निहोत्रः च हिमाद्रौ वसतिं व्यधात् ॥ ४५. इत्थं प्रवर्तमानायां गतायां तत्र कानने । आजगाम महावेगात् बालः पैशाचतां गतः ॥ ४६. कलशेन समानीय ताम्रायाः तीर्थमुत्तमम् । प्रोक्षयामास भगवान् कुम्भयोनिर्मुदान्वितः ॥ ४७. यदम्भःकणसंयोगात् ब्रह्मचारी मुनेस्सुतः । निर्मुक्तशापस्सहसा प्रकृतिं प्रत्यपद्यत ॥ ४८. ब्रह्मदण्डाहते देहे सङ्क्लिन्ने तीर्थवारिणा । विमुक्तशापा सा बालाभुदतिष्ठन्मनोरमा ॥ ४९. ब्रह्मदण्डोऽपि तां हत्वा राक्षसीं घोरदर्शनाम् । स्नात्वा मलयजातीर्थे शापमुक्तोऽभवत् तथा ॥ ५०. एकतःगौतमश्चापि साग्निहोत्रपुरस्कृतः । अभ्यायातां महात्मानौ यत्रास्ते कुम्भसम्भवः ॥ ५१. तथान्योन्यमभिष्टूय बभूवुः प्रीतमानसाः । गौतमः -- कुम्भयोने महाभाग त्वमेव जगतां गुरुः ॥ ५२. एनामानयता ताम्रां भवता भवहारिणीम् । महीयं महती जाता स्वर्गात् अपि गरीयसी ॥ ५३. त्वया विश्वमिदं पापात् परित्रातं न संशयः । देवाश्च ऋषयस्सर्वे त्वयि तुष्टाः सनातनाः ॥ ५४. शिवक्षेत्रमिदं पुण्यमाश्रमं मामकं पुरम् । एभिः आगत्य मुनिभिः त्वया निष्कण्टकिकृतम् ॥ ५५. एष माणवको वत्सः शापात् मुक्तः त्वया मुने । मत्पुत्रः पालनीयस्ते पुत्रवत् बाल्य एव सः ॥ ५६. एषापि तनया बाला ह्येकतस्य महामुनेः । तारिता शापनिर्बन्धात् त्वया सर्वहितात्मना ॥ ५७. अयं धर्मधरो नाम दण्डो पैतामहो महान् । अस्य क्षेत्रस्य रक्षार्थमागतो देवचोदितः ॥ ५८. एभिस्सर्वमुनिश्रेष्ठैः वस्तव्यं भवता मुने । इत्थमुक्त्वाभिवन्द्यैतान् मुनीन्पीतिपूर्वकम् ॥ ५९. स्वपुत्रं च परिष्वज्य मूर्ध्न्युपाघ्राय हृष्टधीः । सन्तोषं परमं प्राप शशाङ्कमिव वारिधिः ॥ ६०. एकतोऽपि स्वतनयां समाश्वास्य तया ययौ । एकतो गौतमः चैव ब्रह्मदण्डश्च धर्मधृत् ॥ ६१. कुम्भसम्भवसंयुक्तौ जग्मतुः निजमाश्रमम् । एवं तु मुनिशार्दूलैः अन्वितः कुम्भसम्भवः ॥ ६२. प्रविवेश मुदायुक्तः क्षेत्रं शौण्डीरकाह्वयम् । इन्द्रपादपगर्भस्थं शाम्भवं लिङ्गमद्भुतम् ॥ ६३. ददर्श पर्मानन्दं कन्दर्पाकारविग्रहम् । तपःफलमिवाशेषसारभूतमिवाङ्कुरम् ॥ ६४. दीप्यमानमिवादित्यं कौस्तुभात् इव कौस्तुभम् । दुग्धाब्धिमथनोद्भूतसुधापिण्डमिवोत्थितम् ॥ ६५. अशेषोपनिषद्गर्भगृहदीपाङ्कुरं परम् । महेन्द्रतरुगर्भस्थं लिङ्गमालोक्य विस्मितः ॥ ६६. तस्य पश्चिमभागे तु गजेन्द्रं नाम मोक्षदम् । तत् दृष्ट्वा तीर्थराजं च कृतकृत्योऽभवन्मुनिः ॥ ६७. तस्य दक्षिणभागे तु तीर्थं गौतमसंज्ञितम् । यत्रेश्वराज्ञया प्रापुः तीर्थानां मण्डलं रवेः ॥ ६८. तत्र स्नात्वा मुनिवरैः अबितः कुम्भसम्भवः । तर्पयित्वा पितॄन् देवान् ऋषीन् च सह भार्यया ॥ ६९. तस्मात् दक्षिणतः किञ्चित् तीर्थं पैशाचमोचनम् । यत्र स्नाता नरास्सर्वे न पश्यन्ति यमालयम् ॥ ७०. तस्य दक्षिणभागे तु तीर्थं तेजःकरम्बितम् । श्रीदण्डपावनं नाम महापातकनाशनम् ॥ अ ७१. येऽत्र मज्जन्ति नियता जन्तवो मोक्षभागिनः । सर्वान् कामानवायेह मुक्तिमन्ते व्रजन्ति हि ॥ ७२. तस्य दक्षिणभागे तु ताम्रपर्ण्या महानद् । घटना सङ्गता यत्र तत्र स्नानात् महत् फलम् ॥ ७३. घटनायमुनाताम्रागङ्गाप्यन्तःसरस्वती । अतः त्रिवेणी सङ्गे तु स्नानं यः कुरुते नरः ॥ ७४. सर्वान् कामानवाप्यैव शिवसायुज्यमाप्नुयात् । तस्य दक्षिणभागे तु माण्डव्यं तीर्थमुत्तमम् ॥ ७५. यत्र स्नाता नरा यान्ति ब्रह्मलोकं तु पावनम् । गजेन्द्रमोक्षस्योत्तरतः तीर्थं वैनायकं महत् ॥ ७६. यः करोति सकृत् स्नानं स दीर्घायुः सुखी भवेत् । तस्याप्युत्तरपार्श्वे तु कर्मतीर्थं शुभावहम् ॥ ७७. तदम्भः स्पर्शनात् नॄणां कर्मपाशविमोचनः । तस्याप्युत्तरतः किञ्चित् राक्षसीमोचनं परम् ॥ ७८. तस्य दर्शनमात्रेण नरः पापात् प्रमुच्यते । येषु तीर्थप्रधानेषु स्नात्वा दत्वा यथाविधि ॥ ७९. देवं प्रदक्षिणीकृत्य पुटार्जुनपुरेश्वरम् । गोमतीं च नमस्कृत्य सर्वलोकैकमातरम् ॥ ८०. शिवमाराधयामास विधिना मन्त्रतन्त्रवित् । दीपैः धूपैः च नैवेद्यैः गन्धपुष्पाक्षतातिभिः ॥ ८१. पूज्यान्ते परया भक्त्या तुष्टाव परमेश्वरम् । अगस्त्यः -- ॐ नमस्सर्वभूतानां सृष्टिस्थित्यन्तकारिणे ॥ ८२. सर्वकारणरूपाय तरुकोटरवासिने । हरिनेत्रार्पितं देवं हालाहलविषादकम् ॥ ८३. आश्रिताभ्युदयं नित्यं पुटार्जुनमुपास्महे । सुगन्धं सुन्दरं शुभ्रं सोमाकलितमौलिकम् ॥ ८४. परानन्दरसाभिख्यं पुटार्जुनमुपास्महे । गङ्गाधरं शशिधरं गौर्या वामार्धविग्रहम् ॥ ८५. वासुदेवप्रियं शान्तं पुटार्जुनमुपास्महे । कालकालं (शूल)कलाधरं भवं भक्तभयापहम् ॥ ८६. पार्वतीसहितं भव्यं पुटार्जुनमुपास्महे । मोक्षस्थानं मुमुक्षूणां भोगस्थानं तु भोगिनम् ॥ ८७. उमादेहार्धशम्भुं तं पुटार्जुनमुपास्महे । रवीन्दुवह्निनयनं रामारमणवन्दितम् ॥ ८८. कर्पूरगौरं पुरुषं पुतार्जुनमुपास्महे । प्रमाणं प्रणवार्थानां कान्तं कान्तार्धविग्रहम् ॥ ८९. रविकोटीप्रतीकाशं पुटार्जुनमुपास्महे । शङ्खकुन्देन्दुसङ्काशं कर्पूरोदारविग्रहम् ॥ ९०. कन्दलत्करुणामूर्तं पुटार्जुनमुपास्महे । नमश्शिवायामलविग्रहाय नताभिलाषैकसुरद्रुमाय ॥ ९१. नवेन्द्रवृषोदरवाहनाय नमो नमश्चन्द्रविभूषणाय । इति स्तुत्वा महादेवं भक्तिप्रणतया गिरा ॥ ९२. पपात पादयोः शम्भोः दण्डवत् कुम्भसम्भवः । तावल्लिङ्गात् समुत्तस्थौ अर्धनारीश्वरश्शिवः ॥ ९३. तं भुजाभ्यां समुत्थाप्य बहुमान्य सदाशिवः । स्मितपूर्वम्मुवाचेदं लोपामुद्रापतिं मुनिम् ॥ ९४. गौतमं प्रीणयित्वैव सान्त्वयित्वैकत्मेव च । ततो गन्तासि मलयं विधायाभिहितं मया ॥ ९५. इत्युक्त्वा शङ्करो भूयः लिङ्गे चान्तरधीयत । अन्तर्हिते भगवति कुम्भभूरतिविस्मितः ॥ ९६. हयग्रीवमुखैस्सार्धं परमानन्दमवाप्तवान् । एकतस्य सुतां बालां नाम्ना कुम्भीनसीं मुनिः ॥ ९७. शतानन्दाय बालाय धारापूर्वं ददौ तदा । तदादि परमं क्षेत्रं कल्याणं नगरं विदुः ॥ ९८. विमुक्तो ब्रह्महत्यायाः शच्यात्रहि शतक्रतुः । सुरेन्द्रमोक्षमित्याहुः एतत् क्षेत्रमतस्सुराः ॥ ९९. अर्जुनद्रुमगर्भस्थो यत्र शम्भुः प्रदृश्यते । पुटार्जुनपुरं नाम्ना प्रशस्तं भुवनत्रये ॥ १००. दण्डाटवीमिति प्रोचुः ब्रह्मदण्डनिवासतः । इत्थमाश्चर्यमालोक्य शिवक्षेत्रं घटोद्भवः ॥ १०१. शिवं प्रदक्षिणीकृत्य तावामन्त्र्य मुनीश्वरौ । नारदप्रमुखैस्सिद्धैः हयग्रीवमुखैर्द्विजैः ॥ १०२. समारुह्य विमानं तं लोपामुद्रासमन्वितः । संप्रतस्थे महातेजाः स्तूयमानः सुरासुरैः ॥ इति सप्तदशोऽध्यायः । Pro.Total =1116 + 102 =1218.

अष्टादशोऽध्यायः

गोष्ठीश्वरलिङ्गप्रतिष्ठापनपूर्वकं अगस्त्यकर्तृका गोष्ठीश्वरस्तुतिः । १. श्रुणु राजन् प्रवक्ष्यामि चरितं कुम्भजन्मनः । यस्याः श्रवणमात्रेण नरः पापैः प्रमुच्यते ॥ २. अत्रिः कपिञ्जलो व्यासः सुमन्थुः नारदस्तथा । तुम्बुरुः पर्वतश्चैव धर्मात्मा वरुणात्मजः ॥ ३. अगस्त्यं प्रमुखीकृत्य घटनाताम्रासङ्गमे । स्नात्वा यथान्यायं काल्यं कर्म समाप्य च ॥ ४. प्रययौ रथमास्थाय धात्रीवनमुपागमत् । तन्मेरुशिखराकारं विमानं कुम्भजन्मनः ॥ ५. नानामणिगणाकीर्णमुल्लिखन्तमिवाम्बरम् । किङ्किणीजालसन्नादं पताकाध्वजमण्डितम् ॥ ६. सूर्यवैश्वानरप्तख्यं नेमिनादसमन्वितम् । प्रचचाल महानादं मुनिवृन्दनिषेवितम् ॥ ७. प्रविवेश वनं घोरं नानाद्रुमलतायुतम् । झिल्लिकाघणसन्नादं नानापक्षिसमाकुलम् ॥ ८. आवासमिवदैत्यानामालयं रक्षसामिव । आतङ्कानामिव कुलमामयानामिवास्पदम् ॥ ९. एवमेतत् वनं घोरं प्रविशन् एव कुम्भभूः । ददर्श भीषणाकारां राक्षसीं सूकराननाम् ॥ १०. उत्क्षिपन्ती च पाषाणान् कोणाग्रेण ततस्ततः । दारयन्ती नखैस्तीक्ष्णैः भारयन्ती महीतलम् ॥ ११. चक्षूंषि पांसुवर्णेन मुष्णन्ती पश्यतां मुहुः । क्षोभयन्ती जगच्चक्रं महानादेन राक्षसी ॥ १२. द्रवयन्तीव भूतानि महावारीव संक्षये । द्रवतामेव सर्वेषां साध्वाविष्टचेतसाम् ॥ १३. महानादः समभवत् त्राहि त्राहीति भूपते । वित्रस्तान् धावमानान् च पुरस्तात् शरणागतान् ॥ १४. दृष्ट्वा कोपसमाविष्टः हुङ्कारमकरोन्मुनिः । तदानीमभवत् तस्मात् हुङ्कारादग्निसन्निभः ॥ १५. दंष्ट्राकरालवदनः महोल्काकारलोचनः । शीघ्रं गत्वा स पुरुषः तां जघान निशाचरीम् ॥ १६. तावत् तद्गदया भग्नमस्तिष्का राक्षसी तथा । निपपात वने घोरे वज्रभिन्नाद्रिसन्निभा ॥ १७. तद्विग्रहं समारुह्य पुरुषः पर्वतोपमम् । पुनः सन्तापयामास सर्वतः तत् वपुर्मुहुः ॥ १८. तद्गदाभिन्नमस्तिष्का निपपात ममार च । तस्यां हतायां राक्षस्यां सर्वे मुमुदिरे जनाः ॥ १९. अगस्त्योऽपि महातेजाः सन्तुष्टः तेन कर्मणा । तं प्रीणयित्वा पुरुषं वचनं चेदमब्रवीत् ॥ २०. त्वया कृतमिदं कार्यं सर्वलोकहितेप्सुना । त्रीन् लोकान् प्रीणयत्येव मम प्रीतिं वितन्वता ॥ २१. निरामयमिदं क्षेत्रं निष्कण्टकमिदं कृतम् । रक्षःकलेवरं भीममद्रिकूटसमप्रभम् ॥ २२. त्वद्वीर्यदर्शनायैव शिलारूपं भविष्यतु । गजारूढ इवात्रैव स्थातुमर्हसि सन्ततम् ॥ २३. अनेकपरिवारेण संयुक्तो बलशालिना । पालयन् त्वमिदं क्षेत्रं यावदाभूमिसम्प्लवम् ॥ २४. स्नात्वा त्वामर्चयिष्यन्ति सौन्दर्यारोग्यकाङ्क्षिणः । तमित्थमनुशास्यात्र सर्वैः सम्भावितो मुनिः ॥ २५. विकीर्यमाणः कुसुमैः देवैश्च सह किन्नरैः । अत्र नारदमुख्यैः च हयग्रीवेण संयुतः ॥ २६. शुचौ देशे महातेजाः लिङ्गं संस्थापयन् मुनिः । सुलग्ने सुदिने सुद्धे शुभग्रहनिरीक्षिते ॥ २७. मुहूर्ते गुरुहोरायां लोपामुद्रासमन्वितः । लिङ्गं संस्थापयामास सैकतं शाम्भवं शुभम् ॥ २८. क्रियमाणे तथा लिङ्गे शैथिल्यमुपजग्मुषु । पुनःपुनः परिश्रान्तः पुनः शैथिल्यमेयुषि ॥ २९. किमियं भवता शम्भो गोष्ठीमयी विभाव्यते । इति जल्पन् समुद्विग्नहृदयः कलशीसुतः ॥ ३०. उभाभ्यामेव पाणिभ्यामुरसा श्रद्धया सह । आलिलिङ्गे महादेवं द्रढीकुर्वन् इव स्वयम् ॥ ३१. एवमुक्ते परिश्रान्ते मुनौ तस्मिन् सदाशिवः । सिकतत्त्वेऽपि भगवान् स्थिरलिङ्गोऽभवत् क्रमात् ॥ ३२. एवं लिङ्गं प्रतिष्ठाप्य पूजयामास भक्तितः । पूजान्ते स मुनिः पत्न्या नमस्कृत्य प्रसाद्य च ॥ ३३. सङ्कुचत्कमलाकारं मौलावञ्जलिमुद्वहन् । नताङ्गयष्टिः पुरतः तिष्ठन् तुष्टाव शङ्करम् ॥ ३४. अगस्त्यः -- देवदेव महादेव भक्तानामार्तिभञ्जन । पुराणदेव देवेश गोष्ठीश्वर नमोऽस्तु ते ॥ ३५. धर्मार्थकाममोक्षाणां संप्रदानाय शङ्कर । सान्निध्यं कुरु चैवात्र गोष्ठीश्वर नमोऽस्तु ते ॥ ३६. ताम्रपर्णीनदीमध्ये सन्निधीभव सन्ततम् । तीर्थरूपी भवानीश गोष्ठीश्वर नमोऽस्तु ते ॥ ३७. नमस्त्रैलोक्यनाथाय त्रयीनाथाय शम्भवे । त्रिपुरान्तकरूपाय गोष्ठीश्वरनमोऽस्तु ते ॥ ३८. ब्रह्मोपेन्द्र्योगीन्द्रपूजिताङ्घ्रिसरोरुहे । कामारे पार्वतीकान्त गोष्ठीश्वर नमोऽस्तु ते ॥ ३९. विश्वात्मन् सर्वविश्वेश विश्वसंरक्षणक्षम । विश्वमूर्ते विरूपाक्ष गोष्ठीश्वर नमोऽस्तु ते ॥ ४०. ब्रह्मादिपञ्चरूपेण पञ्चकृत्यविधायिने । पञ्चब्रह्मस्वरूपाय गोष्ठीश्वर नमोऽस्तु ते ॥ ४१. पञ्चपातकनाशाय पार्वतीसहिताय च । सगणाय सपुत्राय गोष्ठीश्वर नमोऽस्तुते ॥ ४२. ताम्रानदीतीरसुभूषणाय समाश्रितानां च सुखप्रदाय । नित्याय शुद्धाय निरूपमाय श्रीगोष्ठिनाथाय नमःशिवाय ॥ ४३. भस्माङ्गरागाय करीन्द्रचर्मकृतोत्तरीयाय नमःशिवाय । वृषेन्द्रवाहाय वृषध्वजाय श्रीगोष्ठिनाथाय नमःशिवाय ॥ ४४. नमःशिवायामलचित्तवासप्रियाय नागेन्द्रसुभूषणाय । वामार्धगौरीपरिरम्भणाय श्री गोष्ठिनाथाय नमःशिवाय ॥ ४५. अद्य मे सफलं जन्म अद्य मे सफलं तपः । अद्य मे सफलं ज्ञानं शम्भो त्वत्पादसेवनात् ॥ ४६. कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर । अद्य ते पादपद्मस्य दर्शनात् भक्तवत्सल ॥ ४७. वयं धन्या वयं धन्या वयं धन्या जगत्त्रये । आदिदेवो महादेवः यदस्मत् कुलदैवतम् ॥ ४८. शिवश्शम्भुश्शिवशम्भुः शिवश्शम्भुश्शिवश्शिवः । इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥ ४९. शिवे भक्तिः शिवे भक्तिः शिवे शिवे । सदा भूयात् सदा भूयात् सदा भूयात् सदा मम ॥ ५०. इति स्तुत्वा महादेवं स्तोत्रैः दिव्यैः स्वसूक्तिभिः । आनन्दमग्नहृदयः तूष्णी क्षणमतिष्ठत ॥ ५१. तवदाविरभूत्तस्मात् महालिङ्गात् सदाशिवः । अर्धं मरकतश्यामर्धं चन्द्रपाण्डुरम् ॥ ५२. नरनारीमयं बिभ्रत् वपुः सौन्दर्यसद्वृतम् । उद्यद्दीप्तोत्तराकारं दीप्तानलसमप्रभम् ॥ ५३. करुणामृतकल्लोलवेल्लितापाङ्गभास्वरम् । वामाङ्गस्तनसम्सक्तहारेणेकविराजितम् ॥ ५४. गङ्गाधरं शशिधरं शूलटङ्कमृगं धरम् । एवं प्रकाशमनेन वपुषा राजसात्मना ॥ ५५. आविर्भूतो मुनिश्रेष्ठं बभाषे वचनं तदा । श्री भगवान् -- महामुने प्रसन्नोऽस्मि स्तोत्र्णानेन भूयसा ॥ ५६. अस्य स्तोत्रस्य पठनं महालिङ्गस्य दर्शनम् । मज्जनं चैव ताम्रायां त्रयं मत्प्रीतिकारणम् ॥ ५७. एभिः मुनिवरैस्सार्धमत्र स्नानमकल्मषैः । त्वया तस्मात् महातीर्थे मुनितीर्थं भविष्यति ॥ ५८. मल्लिङ्गात् दक्षिणे भागे ताम्रायामुत्तरे तटे । मुनितीर्थे च यः स्नात्वा मल्लिङ्गं प्रणमेत् मुने ॥ ५९. तस्य दास्याम्यहं नित्यं ऐहिकामुष्मिकं सुखम् । यत्रोदीचीमुखा ताम्रा वर्तते चातिपावनी ॥ ६०. आवर्तपङ्क्तयः तत्र प्रवर्तन्ते मदग्रतः । तत्र स्नात्वा तु यो मर्त्यः मामर्चयति सादरम् ॥ ६१. स भुक्त्वेव महाभोगान् अन्ते मामुपगच्छति । अत्रैव न्यवसत् लिङ्गे त्वया संस्थापिते शुभे ॥ ६२. पार्वत्या सह भक्तानां प्रीतिं दास्ये परां सदा । अस्तु सा दक्षिणावर्ते तीर्थं मच्चित्तमर्हणे ॥ ६३. स्नात्वा भैवमाराध्य कोलारिमपि पूज्य च । मल्लिङ्गं मधुनासिच्य नभूयः तनुमान् भवेत् ॥ ६४. त्वत्पाणिमुद्रां बिभ्राणो दर्शयन् भक्तवश्यताम् । वहामि नियतं प्रीत्या यावदाचन्द्रतारकम् ॥ ६५. नित्यं शशाङ्कात् बिन्दूनि पीयूषस्य पुनःपुनः । सम्पतत्न्तीह मल्लिङ्गे बिन्दुस्थानमिदं भवेत् ॥ ६६. राक्षस्या कर्शितं क्षेत्रं नखरैः विशिखैरिव । तस्मात् सर्वे प्रशंसन्तुनखारण्यमिदं मुने ॥ ६७. प्रतिवर्षमिहागत्य भवता मुनिपुङ्गव । अर्चनीयो महालिङ्गो मन्त्रैः प्रीतिवृद्धये ॥ ६८. गच्छ साधय शैलेन्द्रं धर्मपत्न्या समन्वितः । श्रेयांसि तव भूयाम्सि बवन्तु मदनुग्रहात् ॥ ६९. इत्थमुक्त्वा महाराज कुम्भयोनिमुमापतिः । अनुशास्य पुनस्तस्मिन्लिङ्गे देवः तिरोदधे ॥ ७०. तस्मिन् अन्तर्हिते देवे कुम्भयोनिर्महामनाः । वरान् लब्ध्वा महादेवात् पुनः सम्पूज्य शङ्करम् ॥ ७१. क्षेत्रं प्रदक्षिणीकृत्य सर्वा आमन्त्र्य देवताः । पुनःपुनः नम्स्कृत्य प्रीत्या प्रमायान्वितः ॥ ७२. समीयाय महाशैलं देवैश्च मुनिभिस्सह । गोष्ठीशस्य प्रसादेन क्षेत्रं काशिसमं विदुः ॥ ७३. अद्यापि दृश्यते शम्भोः तत् क्षेत्रे भक्तवश्यता । पाणिमुद्रा कुम्भयोनेः मालामिव समुद्वहन् ॥ ७४. अद्यापि भगवान् आस्ते यथा कैलासपर्वते । तत्रार्चनीयो गौरीशो जन्तुभिः मोक्षकाङ्क्षिभिः ॥ ७५. पञ्चास्यं वपुषि पदौ महतामगस्त्यः साकं सुरैः मुनिगणैः अपि सिद्धमुख्यैः । प्रीत्या त्रिवारमिह शम्भुमनन्यचेताः प्राप्यार्चयत्यपिमताभ्युपास्य सिद्धैः ॥ ७६. गोष्ठीशमत्रविधिना मुनिरर्चयित्वा स्नात्वा जपन्स सलिले मलयात्मजायाः । प्रत्यब्दमाप्तसक्लाभिहितो महात्मा भूयः स्वमाश्रममुपाविशते स्वपत्न्या ॥ ७७. तस्मात् अवश्यमभिलाषिभिरात्मसिद्ध्यै तत्रैकवारममलाम्भसि ताम्रपर्ण्याः । स्नातव्यमेव भगवान् अपि पूजनीयः गोष्ठीश्वरः खलु कुतूहलतोऽपि मर्त्यैः ॥ ७८. एवं विचित्रमहिमास्पदमेष पुण्यं क्षेत्रं विभाव्य मनसा महनीयकीर्तिः । कुम्भात्मजः सह तुरङ्गमुखादिमुख्यैः प्रायात् रथेन मलयादिमसौ जवेन ॥ इति अष्टादशोऽध्यायः । Pro.Total = 1218 + 78 =1296

एकोनविंशोऽध्यायः

गजेन्द्रकीलादिक्षेत्रागमनपूर्वकं स्वाश्रमं प्रति अगस्त्यागमन म् । १. शङ्खः -- अथातः कथयिष्यामि प्रभावं कुम्भजन्मन ; । यस्मिन् श्रवणसंस्पृष्टे प्राणायामादिकं फलम् ॥ २. श्रूणु राजन् यथावृत्तं मुनिनाचरितं पुरा । भृङ्गाश्रमे महादेवं स्थाप्य विन्ध्याद्रिमर्दनः ॥ ३. पूज्य लब्ध्वा वरान् सर्वान् हयग्रीवमुखैस्समम् । पुनः शताङ्गमारुह्य कम्पमानमाहाध्वजम् ॥ ४. संवृतः सिद्धनिकरैः अमरैः वरुणादिभिः । आससाद महाशैलं मलयं सिद्धसेवितम् ॥ ५. यत्र पूर्णाकुमुद्वत्यौ ताम्रायाः सङ्गमे शुभे । तत्र तीर्थं महापुण्यं महापातकनाशनम् ॥ ६. तत्रावतीर्य भगवान् मुनिर्वातापिनाशनः । स्नात्वा माध्याह्निकं कर्म चकार विधिपूर्वकम् ॥ ७. तावत् ऐरावतारूढो सहस्राक्षः शचीपतिः । आससादाब्धिपो प्रीत्या सर्वै स्सह मरुत्गणैः ॥ ८. तमागतमभिष्टूय पूजयामास वज्रिणम् । समासीनेषु सर्वेषु मिलितेषु कुतूहलात् ॥ ९. आदत्ते वचनं प्रीत्या बिडौजा कलशीसुतम् । अहो महोदयमिदं जगतां भवता कृतम् ॥ १०. इयं मही महाभागा स्वर्गात् अपि गरीयसी । यत्र सत्यं तपः शौचमार्जवं प्रियकर्तृता ॥ ११. समता सौमनस्यं च वर्तते नियतं सदा । तत्र देवाः च मन्त्राश्च तीर्थानि सकलान्यपि ॥ १२. तस्मात् त्वत्तो न पश्यामि परमाधारमूर्जितम् । त्वया महीयं कल्याणी विहिता साधु भारती ॥ १३. त्वयि शम्भुर्हरिर्ब्रह्मा त्वयि गौरी प्रतिष्ठिता । त्वय्येव कमला वाणी त्वयि सर्वे च संस्थिता ॥ १४. त्व्द्दर्शनैव पूजा च त्वद्ध्यानं ब्रह्मभावना । त्वद्दर्शनमहं मन्ये ब्रह्मानन्दैकदर्शनम् ॥ १५. त्वं गुरुर्जगतां ब्रह्मन् त्वमेकः पालकः प्रभुः । तस्मात् अहं महाभाग त्वां सेवितुमिहागतः ॥ १६. लोपामुद्रा धर्मपत्नी तव पापविनाशिनी । साक्षात् देवी लोकमाता पावनी नात्र संशयः ॥ १७. युवयोर्दर्शनात् अद्य कृतार्थोऽस्मि महामुने । एनामानयता ब्रह्मन् त्वया मलयनन्दिनीम् ॥ १८. मोक्षभूमिरियं जाता दक्षिणा दक्षिणा मही । यस्मात् वाञ्छन्त्यमर्त्यत्वमत्र ब्रह्ममुखा अपि ॥ १९. त्वया लोकहितायैव पुरा चुलुकितोऽर्णवः । विन्ध्यो नियमितः कोपात् वातापिः कबलीकृतः ॥ २०. दुष्कराणि त्वदन्यैस्तु जनैः ब्रह्माण्डगह्वरे । एतानि ते चरित्राणि त्रीन् लोकान् न पुनाति किम् ॥ २१. कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि च दर्शनात् । अत्र वर्षन्तु मेघाः काले काले यथोचितम् ॥ २२. न भवन्तु जनाः पापाः न भवन्तु क्षयादयः । शरीरमानसाः तापाः मार्यरिष्टादयः तथा ॥ २३. पुष्णन्तु सर्वसस्यानि तीरयोरुभयोरपि । देवाः प्रसादं कुर्वन्तु वर्धन्तां च तपांसि वः ॥ २४. चापमेयुषि वै भानौ पञ्चदश्यां महामुने । मां भजन्तु जनास्सर्वे माघे वा पुष्पसङ्गमे ॥ २५. अत्रैव हरिकीलाख्ये क्षेत्रेऽस्मिन् पावने शुभे । प्रत्यब्दमागमिष्यामि भवतां दर्शनाय वै ॥ २६. अनया धर्मपत्न्या त्वं प्राप्य निजमाश्रमम् । पितेव पालयन् लोकान् भद्रं प्राप्नुह्यविश्रमम् ॥ २७. इत्थमिन्द्रः समाभाष्य मुनिना कुम्भजन्मना । आमन्त्र्य सर्वान् ब्रह्मर्षीन् प्रस्थातुमुपचक्रमे ॥ २८. प्रदक्षिणीकृत्य मुनिमैरावतमुपस्थितम् । सह देवो महाराज ज्गाम त्रिदिवं पुनः ॥ २९. पुनः प्रतस्थेऽगस्त्योऽपि स्वाश्रमाय महामुनिः । ततः प्रचेताः प्रत्येत्य मुनिना चानुमोदितः ॥ ३०. तत्तीर्थे स्थापयामास स्वनाम्ना लिङ्गमुत्तमम् । त्रिणदीसङ्गमात् किञ्चित् आग्नेय्यां पूर्वरोदसि ॥ ३१. धाराद्रेः पश्चिमे भागे वरुणेश्वरदर्सनात् । सर्वान् कामानवाप्नोति नरः पापैः विमुच्यते ॥ ३२. तस्मात् दक्षिणतः किञ्चित् क्रमेण वरुणात्मजैः । स्थापितानि हि लिङ्गानि सद्योमुक्तिप्रदानि हि ॥ ३३. व्योमपुष्करिणीतीरे किञ्चित् ईशानभागतः । संस्थापितं नारदेन शाम्भवं लिङ्गमुत्तमम् ॥ ३४. तद्दर्शनं महापुण्यं तत्तीर्थं पापनाशनम् । ताम्रायाः पश्चिमे तीरे पैनाकात् उत्तरे तथा ॥ ३५. स्थापितं कपिलेनैव दर्शनात् कामदं नृणाम् । उत्तरेण ततः किञ्चित् कूर्माद्रेरपि पूर्वतः ॥ ३६. कूले नद्याः पश्चिमे तु लिङ्गं तुम्बुरुपुजितम् । तत् समीपे मणिमयं दर्शनात् मुक्तिदं नृणाम् ॥ ३७. पर्वतेन मुनीन्द्रेण यथावत् संप्रतिष्ठितम् । तयोर्दर्शनमात्रेण सिध्यन्ति घुटिकादयः ॥ ३८. तस्मात् उत्तर्तो भागे श्यामकूटमहामुने । त्रिणदी सङ्गमे तीरे दक्षिणे कुण्ठकूटतः ॥ ३९. इन्द्रकीलमितिख्यातं क्षेत्रमिन्द्रेण कीलितम् । तत्र ज्योतिर्मये पुण्ये सन्निदधत्ते सदाशिवः ॥ ४०. तत्र प्रसादमकरोत् ताम्रायाः शङ्करः स्वयम् । तत्र कुम्भभवः श्रीमान् इन्द्रमाराध्य सादरम् ॥ ४१. स्नात्वा हुत्वा यथान्यायं तर्पयित्वा पितॄन् विधि । पुनर्विमानमारुह्य हयग्रीवमुखैरपि ॥ ४२. रमाक्रीडे समभ्यर्च्य यथावत् कपिलेश्वरम् । प्रायात् प्रसन्नसत्वाढ्यं हयग्रीवस्याश्रमम् ॥ ४३. तत्र स्थित्वा त्रिरात्रं तु गुरुणा तेन सत्कृतः । संप्राप्य भूयः सौभाग्यनिलयं स्वाश्रमं मुनिः ॥ ४४. प्राप्तः स्वाश्रममासाद्य सभार्यं कुम्भसम्भवम् । आपृच्छ्य वरुणो राजा सपुत्रः सह बन्धुभिः ॥ ४५. स्वं लोकं सम्भ्रमाविष्टैः समियायानुयायिभिः । ततः कुम्भभुवा राजा यक्षाणामनुपूजितः ॥ ४६. पुष्पकेण विमानेन प्रययावलकापुरीम् । वायुः संयमिनी च तथैशानमुखाः सुराः ॥ ४७. बहुमान्य मुनिं सर्वे स्वानि स्वानि पदान्यगुः । अनसूयान्वितोऽद्रिः च कपिलः च महायशाः ॥ ४८. तुम्बुरुः पर्वतश्चैव नारदश्च महामुनिः । एते चान्ये च बहवः सम्भाव्य कलशीसुतम् ॥ ४९. पूजिताश्च यथान्यायं प्रययुश्च यथागतम् । एवमेतेषु यातेषु देवेषु मुनिभिस्सह ॥ ५०. प्रविवेशाश्रमं पुण्यं सर्वतः शुभदर्सनम् । कादम्बरीवने पुण्ये त्रिरात्रमुषितो मुनिः ॥ ५१. सोमारण्ये त्रिरात्रं तु दिनमेकं रमापुरे । वैकुण्ठे दिनमेकं तु शराटव्यां दिनद्वयम् ॥ ५२. लालङ्के शम्बरक्षेत्रे दिनमेकं निनाय सः । पञ्चरात्रं वेणुवने दिनं व्यासाश्रमे तथा ॥ ५३. इन्द्रपादपगर्भे तु स्थित्वा चैव दिनत्रयम् । नखारण्ये त्रिरात्रं तु हरिकीले दिनत्रयम् ॥ ५४. उवास मैत्रावरुणिः त्रिरात्रं गुरुसन्निधौ । ज्येष्ठे मासि सिते पक्षे द्वादश्यामर्कवासरे ॥ ५५. विशाखयुक्ते चन्द्रे च लग्ने शुभनिरीक्षिते । शुभ युक्ते मुहूर्ते तु भगवान् कुम्भसम्भवः ॥ ५६. तेनैव गुरुणा सार्धं प्रविवेश निजाश्रमम् । इत्थं मुनौ विशति कुम्भभवे तदानीं सकलं गणैः सकलसिद्धमुनीश्वराद्यैः ॥ ५७. अभ्रान्तरात् अजनि कल्पकपुष्पवृष्टिः आश्चर्यदुन्दुभिघनध्वनिकौतुकेन । उच्चैर्जगुः जय जयेति कलं च सिद्धाः बद्दाञ्जलिप्रसवमालिभिराप्तहर्षम् ॥ ५८. गन्धर्वयक्षकिन्नरगुह्यकाद्यैः व्याप्तं वियदविरचितस्तुतिपद्यबन्धैः । मन्दं ववौ मलयगन्धवहः समन्तात् उद्धूयमानतडिनीजलपूरताम्रः ॥ ५९. आरामचन्दनमरक्तवहो नितान्त- मश्चश्रमप्रशमनैकविपश्चित् अग्रे । सम्प्राप्तसन्ततमनोरथसम्भ्रमेण रोमाञ्चितेन वपुषा पुषितेन भूयः । चञ्चत्ध्वजप्रवर्चामरतो विमानात् कुम्भात्मजोऽवतरत् आप्तजनैर्मुनीन्द्रैः ॥ ६०. उच्चैर्ह्रेषितसैन्दवध्वजपटव्याभुष्टमेघच्चटा चञ्चत् चामरचारुनादितमणिस्तोमं विमानं मुनेः । आप्लुत्याम्बरवर्त्मना मुनिमनुज्ञाप्यप्रभातःक्षणात् भूयस्तत् सलिले विवेश नृपते पश्यत्सु सर्वेष्वपि ॥ ६१. तिरोहितेऽस्मिन् अथ तत्र वारुणिः प्रतप्तजाम्बूनदचक्रकूबरे । रथेः पुनः स्वाश्रममेत्य बन्धुभिः तुतोषसृष्ट्वैव विधिः जगत्त्रयम् ॥ इति एकोनविंशोऽध्यायः । Pro.Total = 1296 + 61 =1357.

विंशोऽध्यायः

अगस्त्येन ताम्रपर्ण्या मुखोपजनसम्बन्धकृतनीलिमापनोदनाय इन्द्रकीलक्षेत्रे शाम्भवव्रत अनुष्ठान कथनवेलायां ताम्रपर्ण्या कथं इन्द्रकीलमिति प्रश्ने कृते इन्द्रेण वृत्रवधाय दधीचीमहर्षेः अस्थ्याचनम् । तत् दानाय च तेन महर्षिणा देहत्यागः । शबराक्ष्यै नमः । १. राजा वीरसेनः -- कथेयं कथिता ब्रह्मन् भवता पापहारिणी । निर्मला ताम्रपर्णीव स्वयं चित्रमणिप्रसूः ॥ २. विन्ध्याद्रिमानमथनो मुनिः कलशसम्भवः । त्रयीमिव विधिर्लोके प्रवाहयति चापगाम् ॥ ३. सर्वेषामेव जन्तूनां माता हितकरी यथा । जग्त् पुनाति विस्तार्य विष्णुर्विष्णुपदीमिव ॥ ४. मुने नद्याश्च चरितं पीयूषमिव श्रुण्वताम् । उपयुक्तमपि श्रोतुं नैव त्रूप्तिं प्रदास्यति ॥ ५. दयानिधे महाभाग भूयः तां वक्तुमर्हसि । नैव याति नरः सौख्यं क्वापि स्त्रीवशवर्तिनः ॥ ६. इति श्रुतं गुरुमुखात् शास्त्रसञ्चोदितं मुने । अत्र प्रवसतोऽस्माकं स्त्रीहेतोरपि कामिनः ॥ ७. दैवादिह वरं लब्धं तवाङ्घ्रिकमलवयम् । इति हृष्यामि नितरां भूयो भूयोऽस्तु चेतसि ॥ ८. अपि ग्रीष्मे नन्दनस्थाः तापं पश्यन्ति न क्वचित् । वियुक्तभोगसौभाग्यो न शोचामि त्वदाश्रयात् ॥ ९. येन चैवोपदिष्टेन धर्मेणापि श्रुतेन च । श्रेयः प्राप्साम्यहं ब्रह्मन् तथैवानुगृहाण माम् ॥ १०. आविर्भूतः स्वयं शम्भुः इन्द्रकीले महास्थले । कथं प्रसादमकरोत् ताम्रायै केन हेतुना ॥ ११. तत् अत्र श्रोतुमिच्छामि परं कौतूलं हि मे । इन्द्रकीलमिति ख्यातं तत् क्षेत्रं केन हेतुना ॥ १२. विस्तरात् भगवन् सर्वं ब्रूहि सर्वज्ञे मे गुरो । इत्थं सम्पृष्टसंप्रश्नः शङ्खयोगी महातपाः ॥ १३. व्याजहार कथां पुण्यां वीरसेनाय भूभुजे । व्याजहार कथां पुण्यां सोपख्यानां पुरातनीम् ॥ १४. सावधानमना भूत्वा वक्ष्यामि श्रुणु पार्थिव । वातापिवरिर्भगवान् मुनिः कलशसम्भवः ॥ १५. सागरेण सरित्श्रेष्ठां संयोज्य मलयात्मजाम् । दृष्ट्वा कल्याणलिङ्गं च ज्योतिस्थानं प्रणम्य च ॥ १६. पुटार्जुनं प्रणम्याग्रे तथा भृग्वाश्रमे हरिम् । संप्रतिष्ठाप्य गोष्ठीशं हयग्रीवाश्रमे तथा ॥ १७. विसर्जयित्वा लोकेषु स्वेषु देवान् ऋषीनपि । भूयः स्वाश्रममासाद्य लोपामुद्रासमन्वितः ॥ १८. देवीमाराधयन् विप्रान् ताम्रामपि समर्हयन् । चकार विविधान् तत्र वाजपेयमुखान् मखान् ॥ १९. नित्यश्राद्धं भूतबलिं देवादीनां प्रवर्तयन् । अतिथ्यप्यागतान् अन्यान् बन्धून् अप्याश्रितान् सतः ॥ २०. अन्नपानादिभिर्द्रव्यैः प्रत्यहं संप्रहर्षयन् । गार्हस्त्यान् परमान् धर्मान् स चकार घटोद्भवः ॥ २१. एवं तपस्यति मुनौ स्वाश्रमे परमाद्भुते । सिद्धभूमिरभूत् तस्मात् समन्तात् दशयोजनम् ॥ २२. अवग्रहदशादोषो न जागर्ति तदाज्ञया । कालवर्षी च पर्जन्यः सुखस्पर्शी च मारुतः ॥ २३. हिमघर्मादयःकालगुणाःशासन् समाःतथा । जनाश्च सर्वे तत्रत्याः धर्मैकनिरता अभवन् ॥ २४. आश्रमात् योजनायामं परितः पर्वतो मुनेः । नित्यं कृतयुगावस्था कल्पिता कालहारिणा ॥ २५. तिर्यञ्चोऽपि न कुर्वन्ति जातिसामान्यवैरताम् । सर्वेऽपि जन्तवःतत्र सहसा सबलान् मुने ॥ २६. ध्यायन्त्यहर्निशं शम्भुं तीर्थे मज्जन्ति योगवित् । उच्चरन्ति मुहुर्वेदवाक्यान्यपिविलासतः ॥ २७. बहुना किं प्रलापेन श्रुणु राजन् महामते । तदाश्रमपदं सर्वं ब्रह्मलोकमिवाभवत् ॥ २८. यथा प्राप्य श्रुतिःशूद्रैःस्वर्गप्राप्यैःयथा जनैः । तथा तदाश्रमपदमप्राप्यमकृतात्मभिः॥ २९. तदाश्रमस्योपकण्ठे वृषाङ्कनगरे शुभे । विजहार गृहे रम्ये माला मलयनन्दिनी ॥ ३०. स्नानाभरणवसनदेवार्चनजपादिभिः । हवनाहारसंलापकथाताम्बूलकौतुकैः ॥ ३१. लीलासंलापकथनैः निनायाहनि नित्यशः । तथैव रजनीं नीत्वा प्रबुध्य प्रत्यहम् ॥ ३२. नित्यमुल्लासयामास चित्तं स्वाश्रितरक्षणे । एवं कतिपयेष्वेषु दिवसेषु यातेष्वथ ॥ ३३. नीलबिन्दुभिराक्रान्तं ताम्राया मुखपङ्कजम् । अभूतपूर्वं प्रत्यूषे विस्मयाविष्टमानसाः ॥ ३४. विस्मयं परमं जग्मुः किमेतत् इति विस्मिताः । तावत् कुमुद्वती दृष्ट्वा नीलिमानं तदानने ॥ ३५. उपसृत्य महादेवीं प्राञ्जलिर्वाक्यमब्रवीत् । अम्ब ते वदनाम्भोजे दृश्यते नीलिमा महान् ॥ ३६. कारणं नात्र पश्यामि केनवेतिमलीमसम् । इत्युक्त्वा रत्नमुकुरं कर तस्य समर्पयत् ॥ ३७. सा स्वमास्याम्बुजं दृष्ट्वा तस्मिन् दर्पणमण्डले । इत्थं कौतुकभिन्नान्तःकरणा काञ्चनारुणा ॥ ३८. पश्यन्ती क्षणमात्रेण न ददर्श मलीमसम् । निवृत्य दर्पणात् वक्त्रं चेतः चलयती ततः ॥ ३९. अतः कन्दलिताश्चर्या तटिनी मलयात्मजा । शफरीमिव सञ्चाल्य लोचने परितः क्षणात् ॥ ४०. उत्कर्षन्ती भुवात् ऊर्ध्वं तरङ्गनिकरश्रियौ । उद्धून्वालकश्रेणीं शैवालकलिकामिव ॥ ४१. सव्यानं कुचयोः कृत्वा फेनपुञ्जमिवोज्ज्वलम् । प्रवाहरूपा सम्भूयाप्युन्नयन्तीव भूपते ॥ ४२. गुरवे कुम्भजन्माय निवेदयितुमुत्सुका । उत्थाय शयनात् अस्मात् काल्यं कर्म समाप्य च ॥ ४३. सखीभिः समायुक्ता प्रययावाश्रमं मुनेः । स्तूयमाना मुनिगणैः सिद्धैः देवैरभिष्टुता ॥ ४४. किङ्करैरभिभूयिष्ठैः नानाप्रहरणोज्ज्वलैः । समन्ततोऽनुगच्छद्भिः सेव्यमाना सखीजनैः ॥ ४५. हंसारूढा चामाराभ्यां वीज्यमाना च पार्श्वयोः । छत्र्ण ध्रियमाणेन धवलेनैव मूर्धनि ॥ ४६. शोभमाना महाराज लक्ष्मीरिव तदाययौ । अवरुह्य ततो यानात् आश्रमं प्रविवेश सा ॥ ४७. तामागतां समालोक्य देवीं कलशसम्भवः । पदानि पञ्चषाण्येव भक्त्या चाभिमुखं तथा ॥ ४८. पाणिभ्यामालम्ब्य सानन्दं अनुरागेण भूयसा । अन्तरानीय भवनं आसने विनिवेश्य ताम् ॥ ४९. अभिनन्द्यार्चयित्वा तु प्रीत्या वचनमब्रवीत् । अम्ब स्वागतमानन्दकलिके मलयात्मजे ॥ ५०. कच्चित् तीर्तेन लोकान् त्रीन् पाहि पापप्रणाशिनी । कच्चित् मनोथाः पूर्णाः कच्चित् क्षेमं गृहे तव ॥ ५१. कच्चित् स्निह्यति ते भर्ता धर्मात्मा सरितां पतिः । कच्चित् परिणता भूरि मणयः त्वत्सुधा इव ॥ ५२. भक्तेषु भृत्यवर्गेषु ब्राह्मणेषु तटद्वये । योगक्षेमाभिवृद्धिस्तु कच्चित् जागर्ति गोषु च ॥ ५३. तवागमनं मन्ये स्वस्तये जगतामिति । सर्वं कथय कल्याणि त्वदागमनकारणम् ॥ ५४. इति पृष्टा तदा तेन मुनिना सादरं नदी । प्रणम्याञ्जलिना राजन् व्याजहार मुनीश्वर्म् ॥ ५५. देवी -- भगवन् भूरिकरुणावरुणालय ते गुरो । अनुग्रहान् मयि मुने सकलं कुशलं खलु ॥ ५६. सर्वे देवाश्च विप्राश्च सिद्धाश्च नियमावृताः । अनुगृह्णन्ति मां नित्यं तव संश्रयगौरवात् ॥ ५७. तथापि मुनिशार्दूल वर्तन्त्यां भवने सुखम् । इदमेव मनस्येकं व्याकुलं परिकृन्दति ॥ ५८. उत्थितायाः प्रभातायां शर्वर्यां वदने मम । नीलिमा दृश्यते नित्यं समयात् नाशमेष्यति ॥ ५९. केन वा कारणेनेति मया न ज्ञायते मुने । यथा मे न भवेत् दोषः तथा किमपि चिन्त्यताम् ॥ ६०. इति श्रुत्वा वचस्तस्याः सविमर्शं घटोद्भवः । क्षणं मौनमुपागम्य विस्मितो वाक्यमब्रवीत् ॥ ६१. माता मलयसन्तानकल्पवल्ली मणिप्रसूः । प्रसीद वाचश्श्रोतव्याः वक्ष्यमाणा मयाधुना ॥ ६२. त्वय्यम्ब किल मज्जन्तो नित्यं पात्किनो नराः । विमुक्तपापा गच्छन्ति त्वचं मुक्त्वेव पन्नगाः ॥ ६३. प्रत्यहं ब्रह्महत्यानां कोटयो मानवैः कृताः । क्षाल्यन्ते तीर्थतोयेन पुण्येन तव शाम्भवी ॥ ६४. गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः । वञ्चकः पिशुनो घोरः मध्यपो जीवगातकः ॥ ६५. एते चान्ये च पापिष्ठाः त्वदम्बुगणसेवया । प्रयान्ति निजलाकाराः ज्योतिर्मार्गेण चार्कवत् ॥ ६६. पापक्षालनकालुष्यं दृश्यतेऽम्ब तवानने । शनैः नश्यन्ति भूयोऽपि तमः सूर्यांशुभिर्यथा ॥ ६७. येनेदं न भवेत् वक्त्रे कलुषं प्रत्यहं तव । तमुपायं प्रवक्ष्यामि श्रुणु कल्याणि सादरम् ॥ ६८. इन्द्रकीलमिति ख्यातं तव तीरे महास्थलम् । तत्राभ्येत्य व्रतं दिव्यं शाम्भवं कर्तुमर्हसि ॥ ६९. व्रतेनानेन नियता येऽर्चयन्ति महेश्वरम् । तेषां दर्शनमात्रेण दूरे नश्यन्ति पातकम् ॥ ७०. देवी -- इन्द्रकीलमिति ख्यातं तत् क्षेत्रं केन हेतुना । किं वा व्रतमिति ख्यातं कर्तव्यं च कथं भवेत् ॥ ७१. केन वा विधिना ब्रह्मन् केन मन्त्रेण वा पुनः । एतत् सर्वमशेषेण वद विस्तार्य वै गुरो ॥ ७२. अगस्त्यः -- मातस्ते कथयिष्यामि क्षेत्रस्याभ्युदयं महत् । पुरा वृत्रभयादिन्द्रः देवैरग्निपुरोगमैः ॥ ७३. स्तुत्वा दधीचिमभ्येत्य ययाचेऽस्थि तदङ्गजम् । स तु देवान् समभ्यर्च्य यथार्हं मुनिपुङ्गवः ॥ ७४. मनसा चिन्तयामास किं वा युक्तमिहेति च । अहो विचित्ररूपेयं लीलादि परमेशितुः ॥ ७५. समत्वे जीवलोकेऽपि भिन्नता परिदृश्यते । अविवेकविवेकाभ्यां द्विधा सर्वत्र जन्तुषु ॥ ७६. कालभूमिबलात् तोये यथा रूपरसोदयः । तथापि योनिदोषेण शुद्धस्याप्यात्मनः परम् । ७७. अज्ञो न ज्ञायते विष्वखण्डदं तम इव श्रमम् । ज्ञानाज्ञानबलाभ्यां तु जीवात्मा बुद्धिसंस्थितः ॥ ७८. कृष्यते पापपुण्येषु कारणं कर्म तत् भवेत् । कर्मणा जायते जन्तुः कर्मणैव प्रमीयते ॥ ७९. तरन्ति कर्मणा दुःखं तेन दुःःखेतरं पुनः । मायया भाजनं जन्तुः देहस्य सुखदुःखयोः ॥ ८०. तस्मात् अविद्वान् सर्वत्र मोहं याति न चेतरः । चराचरावृते लोके सर्वः स्वार्थं समीहते ॥ ८१. नान्यस्य दुःखं जानाति साभिज्ञत्वेऽपि किञ्चन । स्थावरात् जङ्गमं श्रेष्ठं जङ्गमाच्च जरायुजम् ॥ ८२. जरायुजाच्च मर्त्यत्वं मर्त्यत्वेऽप्यधिको बुधः । विपश्चितोऽपि गीर्वाणाः श्लाघ्याः सर्वत्र जन्तुषु ॥ ८३. तेषु बुद्धिर्बलं धैर्यं ज्ञानं विज्ञानमेव च । दया सत्यं च धर्मश्च लोकसङ्ग्रहता तथा ॥ ८४. एते प्रतिष्ठा नित्यन्तु देवेषु परमात्मता । प्रवित्तिः परचित्तस्य सुवृत्तं ज्ञायतेतराम् ॥ ८५. दयाप्रभृति जागर्ति कल्पवल्लीव नन्दने । तेषां मद्विषये किन्तु करुणा बालिशा भवेत् ॥ ८६. स्वप्रयोजनमुद्दिश्य परहिंसारतः कथम् । अपि रोगगणैः क्लान्ताः दुस्त्यजा प्राणिनां तनुः ॥ ८७. विदेहस्यात्मनः क्वापि पुरुषार्थचतुष्टयम् । नैवोपक्रियते पात्रं विना क्षीरमिव स्फुटम् ॥ ८८. कथं शरीरं सन्त्यज्य सुकृतं कर्तुमुत्सहे । हा हन्त देवमाराध्य मदन्ये सुखभागिनः ॥ ८९. अहमेके जीवलोके दैवेन निहितोदयः । औषधात् रोगशमनं तीर्थात् पातकनाशनम् ॥ ९०. गवा गार्हस्थ्यसौभाग्यं दैवात् सर्वं हि लभ्यते । विपरीते विधौ किन्नु कथये केन वा पुनः ॥ ९१. तथापि सर्वधर्मेषु परोपकृतिरेव हि । गरीयान् इति शंसन्ति श्रुतयश्च सनातनाः ॥ ९२. धर्मसाधनमप्येवं देहं जन्तोः प्रकल्पिताः । देवेभ्यः संप्रदायाहं श्रेयः प्राप्स्याम्यहं ननु ॥ ९३. अर्थिनः खलु गीर्वाणान् प्रीणयित्वा शरीरतः । दुष्प्रापमपरैः पुण्यैः यास्यामि परमां गतिम् ॥ ९४. इति निश्चित्य मनसा मुनिर्धैर्यं समास्थितः । प्रीणयन् अखिलान् देवान् व्याजहार बिडौजसम् ॥ ९५. दधीचिः -- भवन्तः सर्व एवात्र भद्रं प्राप्नुत मा चिरम् । सत्पात्रेष्वेव युष्मासु दास्याम्येतत् कलेवरम् ॥ ९६. भवन्तः प्रतिगृह्णन्तु गतिं यास्ये परामहम् । इत्युक्तो योगमास्थाय संप्रहृष्टो महामुनिः ॥ ९७. अपानवायुमाकुञ्च्य सञ्चाल्याधारतोऽनिलम् । सुषुम्नाध्वानमाविश्य प्राणान् आदाय वेगतः ॥ ९८. भूतान् भूतेषु संलीय गुणेष्वपि गुणान् क्रमात् । प्रशाम्य चारिष्टवर्गं लघ्वीकृत्येन्द्रियावलिम् ॥ ९९. अवस्थामभिभूयाग्रे नीत्वा षट्चक्रमण्डलम् । भ्रूमध्ये प्राणमारोप्य परिक्रम्यामृतालयम् ॥ १००. महापद्मे तु विक्रम्य प्राप्यानन्दसुधामपि । ब्रह्मरन्ध्रं विनिर्भिद्य तेजोराशिरकल्मषः ॥ १०१. प्राप्य नादान्तमुत्तस्थौ व्योमयानं प्रसादयन् । मध्येनादित्यमुद्गम्य ब्रह्मलोकमवाप सः ॥ १०२. दृष्ट्वैव मुनिवर्यस्य महिमानं दिवैकसः । विस्मयं परमं जग्मुः ब्रह्माद्यखिलदेवताः ॥ इति विंशोऽध्यायः । Pro.Total = 1357 + 102 =1459.

एकविंशोऽध्यायः

विश्वकर्मनिर्मितवज्रायुधेन वृत्रहननम् । ताम्रपर्ण्याः शाम्भवव्रत अनुष्ठानेन पापविमोचनं स्वस्थानगमनं च । १. श्रुणु देवि प्रवक्ष्यामि देवानां चरितं महत् । यस्य स्मरण मात्रेण नरः पापैः प्रमुच्यते ॥ २. एवमेयुषि वै तस्मिन् मुनौ ब्रह्मणि निर्मले । तुष्टुवुः मुनयो देवाः साधु साध्विति वादिना ॥ ३. ततो विष्णुमुखाः देवाः संप्रलब्धमनोरथाः । विश्वकर्माणमाहूय वचनं चेदमब्रुवन् । ४. एबिः अस्थिचयैरेव वज्रं कुरु महामते । येन व्रूत्रः सुखं वध्यः भवेत् इन्द्रेण धीमता ॥ ५. अनुशिष्टः सुरैरेवं ओमित्याभाष्य वर्धकिः । प्रणम्य देवताः सर्वाः प्रसन्नेन्द्रियमानसः ॥ ६. कृताञ्जलिः प्रह्वतनुः परिक्रम्य तनुं मुनेः । इदमाह वचः तिष्ठन् श्रुण्वतां त्रिदिवौकसाम् ॥ ७. आज्ञया सर्वदेवानां ऋषेरेतत् कलेवरम् । पाणिभ्यां संस्पृशाम्यद्य देवस्यास्य विवस्वतः ॥ ८. पश्यता चक्षुषाभीक्ष्णं हिमांशोरमृतात्मनः । बलेन विष्णो रुद्रस्य चालयिष्ये महद्वपुः ॥ ९. इत्थं प्रदक्षिणीकृत्य समादातुमुपेयुषि । समजृम्भत गम्भीरो नादो मृतकलेवरात् ॥ १०. अग्निवर्णो महातेजा वचनं चेदमाददे । न निधेयमिदं भूमौ नेख्षणीयमसाधुभिः ॥ ११. अनेन्नास्मान् महाबाहो वज्रं कुरु महाप्रभम् । इत्युक्त्वाकाशामाविश्य स भूतः प्रययौ क्षणात् ॥ १२. लब्ध्वाजिनं महादेवात् तस्मिन् स्थाप्य तनुं मुदा । उद्धृत्यास्थिचयं तस्मात् चक्रे वज्रायुधं बली ॥ १३. क्रियमाणे तथा वज्रे भाराक्रान्ता वसुन्धरा । नौरिवाम्भसि निर्धूता चकम्पे चण्डवायुना ॥ १४. चराचरेषु भूतेषु क्रन्दमानेषु सर्वशः । इन्द्राविष्णू दयावन्तौ वज्रशेषैः महत्तरैः ॥ १५. कीलैः दृढतरैः उर्वीं कीलयेतां ततस्ततः । महेन्द्रे मलये विन्ध्ये हिमाद्रौ गन्धमादने । १६. कलिन्दे मणिकूटे च तथा कालाञ्जने गिरौ । कोणाचले चन्द्रकूटे मन्थरे सह्यपर्वते ॥ १७. शरत्वन्त्वम्बराद्रौ च शङ्खकूटे सुरालये । एषु षोडशशैलेषु कीलितं हरिणा पुरा ॥ १८. ततः स्वस्थाभवत् भूमिः कीलिता वज्रकोटिभिः । तदादि षोडशस्थानमिन्द्रकीलमिति क्षितौ ॥ १९. एतानि धर्मस्थानानि सद्यः पापहराणि हि । अनुग्रहान् महेन्द्रस्य लघुना चैव कर्मणा ॥ २०. सिध्यन्ति सर्वजन्तूनां सिद्धयोऽष्टौ न संशयः । एवं दृढीकृतायान्तु मेदिन्यां सकलाः प्रजाः ॥ २१. अभ्यनन्दन् भयं त्यक्त्वा देवाश्च सह गुह्यकैः । सोऽपि वज्रं विधायैव प्रादात् इन्द्राय धीमते ॥ २२. निहत्य वृत्रं तेनैव स्वर्गमापपुनर्वृषा । शच्या शतक्रतुर्देवैः प्राप्तराज्यः प्रसन्नधीः ॥ २३. वरान् बहून् अदात् एषु स्थानेषु सह विष्णुना । तस्मात् त्वमम्ब कल्याणि वयसीभिः समन्विता ॥ २४. गत्वेन्द्रकीलमस्माभिः व्रतचर्यां प्रवर्तय । तत् क्रमं खलु वक्ष्यामि तन्मे निगदतः श्रुणु ॥ २५. यदा दिवाकरो देवि चापराशिमुपैति सः । तदारभ्य व्रतं कार्यं यावन्मकरभाग्भवेत् ॥ २६. प्रातः स्नात्वा महानद्याः काल्यं कर्म निवृत्य च । आचार्यम्मग्रे वृणुयात् अभ्यर्च्य गननायकम् ॥ २७. नदीतीरे महाशैले गोष्ठे वा गुरुमन्दिरे । देवालये तथा कुर्यात् स्थण्डिलं गोमयेन तु ॥ २८. पञ्चवर्णैः विधातव्यं पद्माकारं तु मण्डलम् । तत्रार्चयेन्महादेवं गौरीं मङ्गलदेवताम् ॥ २९. आवाहनादि कर्तव्यं महारुद्राख्यविद्यया । अनादिविद्यया देवीमर्चयेत् विधिनाक्षतैः ॥ ३०. तस्य दक्षिणभागे तु स्वस्तिकाख्ये च मण्डले । धान्यपूर्णं प्रतिष्ठाप्य कलशं सूत्रवेष्टितम् ॥ ३१. तस्मिन् धात्रीं समावाह्य पूज्य गन्धाक्षतैरपि । प्रथमं सोममीशानं द्वितीयं शङ्करं हरम् ॥ ३२. तृतीयं गिरिशं भीमं शान्तं शर्वं चतुर्थकम् । गङ्गाधरं शशधरं पञ्चमं परिकीर्तितम् ॥ ३३. कामदं कामदहनं षष्ठमाहुः मनीषिणः । सप्तमं शूलिनञ्चोग्रं शम्भुं भर्गमथाष्टमम् ॥ ३४. एतानि युग्मनामानि शङ्करस्य महात्मनः । उच्चरन् अर्चयेत् तत्र बिल्वपत्रैः अखण्डकैः ॥ ३५. तथैव गौरीनामानि श्रुणु मातः सरिद्वरे । प्रथमं गिरिजामार्यां गौरीमम्बां द्वितीयकम् ॥ ३६. तृतीयं शाम्भवीं दुर्गां मायां हैमवतीं ततः । पञ्चमां पञ्चमीं कालीं षष्ठीं कात्यायनीमिलाम् ॥ ३७. सप्तमीमन्नदां सत्यां अष्टमीमरुणां श्रियम् । एवमभ्यर्च्य देवेशमक्षतैः युग्मनामभिः ॥ ३८. तथैव देवीमभ्यर्च्य शतपत्रैर्यथाविधि । धूपैर्दीपश्च नैवेद्यैः ताम्बूलाद्युपचारकैः ॥ ३९. पूजयेत् मन्त्रव्न्मन्त्रैः अर्घ्यं दद्यात् समन्त्रकम् । नमोऽस्तु नीलग्रीवाय गौर्यै देव्यै नमो नमः ॥ ४०. अर्घ्यं दास्यामि युवयोः प्रीतौ मे भवतस्सदा । इति मन्त्रं समुच्चार्य दद्यात् अर्घ्यं त्रयं बुधः ॥ ४१. ततः क्षमापयेत् देवीं स्तोत्रैः वेदान्तगर्भितैः । ततो धान्यकूटं दद्यात् सताम्बूलं सदक्षिणम् । ४२. मन्त्रमुच्चार्य गुरवे व्रतस्य परिपूर्तये । गुरो त्वमसि विप्रेन्द्र प्रतिगृह्य मदर्पितम् ॥ ४३. अभीप्सितं फलं देहि पापं नाशय मे गुरो । विधायैवं महेसस्य पूजामभ्युदयावहाम् ॥ ४४. प्रसादं प्राप्य चोद्वास्य पुनरागमनाय हि । एवमेव हविष्याशी मासमेकं निरन्तरम् ॥ ४५. मकरं गच्छति तथा देवदेवे दिवाकरे । एवं सम्पूज्य गौरीशं गौरीमपि विधानतः ॥ ४६. पूजान्ते पूजयेत् भक्त्या गुरुं देवधिया सुधीः । कल्माषवर्णां कपिलां अथवा धवलामपि ॥ ४७. धेनुं दद्यात् हिरण्येन सवत्सां मन्त्रपूर्वकम् । ब्रह्मणान् भोजयित्वा तु तदनुज्ञामवाप्य च ॥ ४८. पारणां बन्धुभिः कुर्यात् घृतक्षीरादिभिस्सह । एवं विधे तु विहिते दिनमेकमथापि वा ॥ ४९. त्रिरात्रं पञ्चरात्रं वा सर्वपापैः प्रमुच्यते । तस्मै प्रसीदति शिवः शिवया सह सन्ततम् ॥ ५०. इह लोके परत्रापि दुर्लभान्यपि बध्यते । एवं हि देवदेवस्य व्रतं कर्तुर्हि सर्वतः ॥ ५१. सद्यः पापानि नश्यन्ति दीर्घायुष्यं च विन्दति । अस्य व्रतस्य माहात्म्यं वक्तुं वर्षशतैरपि ॥ ५२. नशक्यते मया तापि संक्षेपात् कतिथं तव । ऋषिः -- इत्थं श्रुत्वा मुनेर्देवी प्रीयमाणा पुनःपुनः ॥ ५३. तेनैव गुरुणा सार्धं इन्द्रकीलमुपेत्य सा । वृश्चिके मुच्यमाने तु रवावेयुषि वै धनुः ॥ ५४. प्रविवेस तथा दीक्षां गुरुणा मलयात्मजा । चकार पूजां विधिवत् महानियममास्थिता ॥ ५५. आचरन्त्यां व्रतं देव्यां पञ्चमेऽहनि भूपते । जप्यमाणेषु मन्त्रेषु पूज्यमाने च मण्डले ॥ ५६. पश्यत्सु सर्वभूतेषु समुद्गच्छति भास्करे । तत् स्थण्डिलात् आविरभूत् लिङ्गरूपी सदाशिवः ॥ ५७. तैजसं रूपमास्थाय भित्वा पातालसप्तकम् । समजृम्भत सौभाग्यात् सर्वं व्याप्य शरीरवत् ॥ ५८. ददृशुः सर्वभूतानि लिङ्गं आनन्दकन्दवत् । अभूतभूतमाश्चर्यमभिजातं मणिप्रभम् ॥ ५९. वेदानामुदयस्थानं तेजसामिव पञ्जचम् । पुण्यानामेकभवनं लिङ्गं दृष्ट्वा तु शाम्भवम् ॥ ६०. सर्वे मुमुदिरे लोकाः पूर्णकामा इव क्षणात् । ववर्षुः पुष्पवर्षाणि देवास्सिद्धपुरोगमाः ॥ ६१. देवदुन्दुभयो नेदुः वागभूत् सुखसंश्रवा । पापनाश महादेव हरिचूडामणे विभो ॥ ६२. प्रसीद भगवन् पापात् परित्राहि जगत्त्रयम् । इत्थं देवगिरो विष्वक् अभ्यजृम्भन्त पुष्कलाः ॥ ६३. देवी मलयजा पुण्या पूजयन्ती पुरः स्थिता । ददर्श परमानन्दकन्दलाकारदर्शनम् ॥ ६४. शिवलिङ्गं मणिमयं दीप्यमानं स्वतेजसा । हर्षगद्गदया वाचा जयेति परिशंसिनी ॥ ६५. उदञ्चत्चारुरोमाञ्च समुत्थाय निजासनात् । मौलौ कमलशोभामुद्वान्ती निजाञ्जलिम् ॥ ६६. आनन्दबाष्पपूराभ्यां लोचनाभ्यामविश्रमम् । स्ववारिपूरविभ्रान्तिं दर्शयन्तीव सन्ततिम् ॥ ६७. विकिरन्ती स्मितज्योत्स्नां मुक्ताजालमिव स्वकम् । ईषत् आनन्ददेहा तु तुष्टाव परमेश्वरम् ॥ ६८. देवी -- भवाय भवनाशाय नमः पापापहारिणे । परिपूर्णाय पूर्णेन्दुवदनाय नमो नमः ॥ ६९. नमो विश्वाय पतये विश्वरक्षाविनोदिने । वेदवेदान्तवेद्याय नमस्ते विदितात्मने ॥ ७०. शर्वाय निर्विकाराय शम्भवे वेधसे नमः । गङ्गाधराय गौराय गिरीशाय नमो नमः ॥ ७१. पापघ्नाय भयघ्नाय परञ्जोतिस्वरूपिणे । विरूपाक्षाय वीराय विधात्रे ब्रह्मणे नमः ॥ ७२. अव्यक्तव्यक्तरूपाय व्यक्तिविन्याससाक्षिणे । विश्वरक्षाध्वरैकान्तदीक्षिताय नमो नमः ॥ ७३. नमः सोमावतंसाय धात्रे भस्माङ्गरागिणे । गिरीशायाखिलेशाय पापनाशाय ते नमः ॥ ७४. कर्मणे निर्मिताशेषभुवनघ्नाय हारिणे । विश्वत्राणाय वीराय कालरुद्राय ते नमः ॥ ७५. नमः पापविनाशाय पापनाशाय शम्भवे । पातकध्वान्तरवये शिवयाश्लिष्ट मूर्तये ॥ ७६. नमो नमस्तुभ्यं नमस्तुभ्यं पिनाकिने । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ७७. शिवशम्भो महादेव देवदेव सदाशिव । जगन्नाथ जगन्नाथ पापनाश नमो नमः ॥ ७८. इथं स्तुवन्त्यां ताम्रायां विस्मितेषु जनेष्वपि । तल्लिङ्गात् मूर्तिमानग्रे प्रत्यदृश्यत शङ्करः ॥ ७९. गङ्गाधरः शशिधरः शितिग्रीवः त्रिलोचनः । शूलटङ्कासमायुक्तः दरस्मेरमुखाम्बुजः ॥ ८०. मेघदुन्दुभिगम्भीरं वचनं व्याजहार सः । सदाशिवः -- अयि मङ्गलमाङ्गल्ये वत्से मलयनन्दिनि ॥ ८१. व्रतेनाचरितेनाद्य त्वया प्रीतोऽस्मि शोभने । सन्तु ते मत्प्रसादेन परिपूर्णा मनोरथाः ॥ ८२. त्वन्नाम कीर्तनात् ध्यानात् स्पर्शनादपि मज्जनात् । ब्रह्महत्यादयः पापाः भस्मीभूता भवन्तु च ॥ ८३. कोटयो ब्रह्महत्यानामसङ्ख्याकः प्रकोटयः । सद्यः प्रलयमायान्तु त्वदम्बुगणसेवनात् ॥ ८४. ये च स्नान्त्यपि मज्जन्ति धर्मद्रवेऽम्भसि । सद्यः प्रलयमायान्तु महापात्ककोटयः ॥ ८५. भस्मीभूताः भविष्यन्ति वह्निना तूलराशिवत् । ब्रह्माण्डोदरतीर्थानि महापापहराण्यपि ॥ ८६. प्रत्यब्दं त्वामुपेत्यात्र निर्मलानि भवन्तु हि । त्वां विशन्तु न पापानि त्वद्भक्तानामपिध्रुवम् ॥ ८७. प्रसन्नोऽस्मि वरारोहे कामानिष्टान् ददामि ते । वृणीष्व वरमव्यग्रे लोकानां हितकाम्यया ॥ ८८. श्रीदेवी -- भगवन् नित्यसान्निध्यं अत्र कर्तुं त्वमर्हसि । यद्यहं भाजनं शम्भो त्वत्कृपायाः पुरान्तक ॥ ८९. अत्रैव हि वसन् नित्यं लोकान् अनुगृहाण भो । तदेतत् नाम विमलं पापनाश इतीरितम् ॥ ९०. प्रसादात् तव सर्वत्र लोके विख्यातिमृच्छति । चापादित्ये तु ये केचित् स्नात्वात्राम्भसि मामके ॥ ९१. त्वां पश्यन्ति जनाः तेषां नैव भूयात् पुनर्भवः । पूर्णा कुमुद्वती चैव मयात्र सह सङ्गते ॥ ९२. अत्र मज्जन्ति ये मर्त्याः तान् स्पृशन्ति न पातकाः । व्योमपुष्करिणीतीर्थं त्रिणदीसङ्गमं तहा ॥ ९३. ये स्पृशन्त्यपि मज्जन्ति तेषां नास्ति पुनर्भवः । इत्यर्थितो महादेवः तथा शैलेन्द्रकन्यया ॥ ९४. तथेत्युक्त्वा महालिङ्गे प्रविवेश पुनः शिवः । ततः प्रहृष्टा मलयात्मजा नदी प्रसादमासाद्य सदाशिवादियम् । ९५. समन्विता कुम्भभुवा च दर्शनं यथोचितं तत्र चकार सम्भ्रमात् । उपागते पूषणि पुण्यभाजनं प्रविष्टरूपं मकरं मनोहरम् । १ शिवात् अवाप्याभ्युदयं मणिप्रसूः स्वावासभूमिं मुनिनाप्यवाप ॥ इति एकविंशोऽध्यायः । Pro.Total = 1459 + 95 = 1554.

द्वाविंशोऽध्यायः

ताम्रपर्ण्या उत्पत्तिमारभ्य सङ्गमपर्यन्तं विद्यमानानां तीर्थानां नामधेयानि । वीरसेनः उवाच - १. अहो मलयनन्दिन्याः चरितं चित्ततोषणम् । श‍ृण्वतोऽपि न मे तृप्तिं प्रयच्छति तदद्भुतम् ॥ २. पावनः पापनाशाख्यः परमात्मा सदाशिवः । सेव्य एव सदा लोकैः पुरुषार्थानुकाङ्क्षिभिः ॥ ३. श्रुताः च महिमा तस्याः ताम्रयाश्च विशेषतः । चरितं श्रोतुमिच्छामि वद मे विस्तरात् गुरो ॥ ४. कानि पुण्यानि तीर्थानि कानि चायतानि अपि । तदशेषं क्रमेणैव सोपाख्यानं महामुने ॥ ५. प्रकाशाय यथातत्त्वं लोकानिव दिवाकरः । कूलद्वये महानद्याः मध्ये सागरशैलयोः ॥ ६. कानि पुण्यानि तीर्थानि कानिक्षेत्राणि वै पुनः । मुख्यानि आचक्ष्व मे ब्रह्मन् श्रुण्वतो मे कुतूहलम् ॥ ७. ऋषिः -- राजन् कथयतो नित्यं कथां पापापहारिणीम् । सावधानेन मनसा श्रुणु श्रवण्मङ्गलम् ॥ ८. आसागरं महाराज संप्रवृत्ता महानदी । पुण्यक्षेत्रैः आश्रमैश्च देवागारैः द्विजालयैः ॥ ९. सम्पूर्णकूला कल्याणी नित्योत्सवपरिष्कृता । शिवक्षेत्राण्यसङ्ख्यानि विष्णुक्षेत्राण्यनेकशः ॥ १०. तथा हेरम्बभवनं मातृस्थानान्यनेकशः । स्कन्देन्दुभास्करावासानि आश्रमाः पुण्यकर्मणाम् ॥ ११. एषां दर्शनमात्रेण नरः पापैः प्रमुच्यते । एतानि क्रमशो वक्ष्ये तीर्थक्षेत्राणि भूपते ॥ १२. गुहाद्वारात् विनिष्क्रम्य विभक्ता पञ्चधा नदी । परुष्णी कमला चैव घृतधाराभिधा तथा ॥ १३. एताः तिस्रो महानद्यः पश्चिमाशां प्रवर्तिताः । दक्षिणाभिमुखी पुण्या प्रयाति वरुणालयम् ॥ १४. पूर्वाशां प्रवृत्ता सा पराशक्तिसमुद्भवा । ताम्रपर्णीति विख्याता प्रयाति वरुणालयम् ॥ १५. तस्यास्तु दक्षिणे तीरे तीर्थमूर्जाख्यमिष्यते । तथाप्युत्तरभागे तु इषाख्यमपरं शुभम् ॥ १६. एतयोर्मज्जनात् एव नरो विज्ञानभाग् भवेत् । तस्यापि पूर्वदिग्भागे वृषाङ्कं तीर्थमुत्तमम् ॥ १७. यत्र देवी ताम्रपर्णी सान्निध्यं कुरुते सदा । ततोऽपि दक्षिणे तीरे तीर्थ्यमागस्त्यमुच्यते ॥ १८. अगस्त्येशाभितं लिङ्गं दर्शनात् मुक्तिदं नृणाम् । तत् समीपे चक्रतीर्थं पावनाख्यं च तत्परम् ॥ १९. वामनं पश्चिमे तीरे वामनेन प्रकल्पितम् । तस्मात् उत्तरतः किञ्चित् तीर्थं हेरम्बनिर्मितम् ॥ २०. तत्परो नारसिंहाख्यं तीर्थं तेन विनिर्मितम् । भोगिराजनदीतीर्थं ताम्रायां पूर्वरोदसि ॥ २१. गुप्तिकुम्भाद्रिणोर्मध्ये प्रोक्तान्येतानि भूपते । कुम्भाद्रिश‍ृङ्गात् स्रवते सरित् उत्तरतः शुभा ॥ २२. कलम्बतीर्थमित्युक्तं बाणतीर्थं च तत् किल । पाञ्चजन्यं तत्समीपे सरित् रोदसि पश्चिमे ॥ २३. ततः चक्रशिलातीर्थमुत्तरेण समीपतः । तस्याप्युत्तरभागे तु हयग्रीवाश्रमं महत् ॥ २४. तत्रैव खलु वाराहं मुनि तीर्थं तदन्तिके । तत्र ताम्रा द्विधा भूता पूर्णा प्रवहते नदी ॥ २५. आश्रमात् पश्चिमे भागे तीर्थं पैशङ्गिलं विदुः । यत्र मुक्ताशिला नाम नित्यं मुनिजनोषिताः ॥ २६. इरावती नाम पुण्या वायुकूटात् समुत्थिता । पश्चिमाभिमुखीं ताम्रामुपयाति सरिद्वराम् ॥ २७. तत्रैव मुनि तीर्थं तु मुनिभिः परिकल्पितम् । ततोऽयुत्तरभागे तु कन्यातीर्थं प्रचक्षते ॥ २८. यत्र रुद्रः तपस्तप्प्त्वा प्राप सर्वज्ञतां पुरा । तदादि मुनयः प्राहुः पुण्यां रुद्राटवीमिमाम् ॥ २९. तत् समीपे ब्रह्मशय्या शिला कुङ्कुमसन्निभा । तत्र ताम्रा त्रिधा भूता त्रयीवोद्वहते सरित् ॥ ३०. तत्रापि वारुणी तीर्थं वरुणोऽर्चयते विधिम् । प्रसादं ब्रह्मणः प्राप्य जलेशत्वमवाप्तवान् ॥ ३१. तस्यास्तु पश्चिमे तीरे रमता तीर्थं प्रचक्षते । तत्र देवी कमलजा तपस्तप्त्वा महत्तरम् ॥ ३२. ह्ररेः वक्षस्थलं प्राप दुष्प्रापं सर्वजन्तुषु । तदन्तिके मृगमुखं पाषाणं यत्र दृश्यते ॥ ३३. तत्रैव कपिला तीर्थं धेन्वा कपिलया कृतम् । एतानि पुण्यतीर्थानि देवकॢप्तानि भूपते ॥ ३४. ज्योतिर्मणेः कुम्भगिरेः अन्तरालगतानि हि । ज्योतिर्मणिमुखे ताम्रा चन्द्रसेनां समेष्यति ॥ ३५. तदस्तु पापनाशाख्यं तीर्थं पैनाकमेव तत् । तस्यापि किञ्चित् ईशाने तीर्थं नारदसंज्ञितम् ॥ ३६. तस्मात् उदीच्यानां तीर्थानां पञ्चवारणमिष्यते । ततः प्राचेतसः तीर्थं धाराद्रेः उपकर्णतः ॥ ३७. त्रिणदी सङ्गमं तीर्थं पापनाशस्य सन्निधौ । तस्मात् उत्तरभागे तु कूर्मकूटान्तिके तटे ॥ ३८. तुम्बुरोः पर्वतस्यापि तीर्थे पुण्यतमे शुभे । पापनाशात् उत्तरतः तटे नद्यास्तु पश्चिमे ॥ ३९. निर्मितं कपिलेनैव तीर्थं सर्वार्थसाधकम् । आरभ्य पुष्करसरः धाराद्रेः अवसानकम् ॥ ४०. प्रोक्तान्येतानि तीर्थानि पुण्यानि जगतीपते । ताम्रायाः दक्षिणे तीरे देवी तीर्थं प्रशस्यते ॥ ४१. मुक्तावती मणिवती मिलित्वा यत्र सङ्गते । तत्र सान्निध्यकरणी नित्यं कात्यायनी परा ॥ ४२. क्षेत्रं मुक्तावती घोरा नद्योरभ्यन्तरं महत् । ताम्रायाः दक्षिणे तीरे चन्द्रकेतुमथोत्तरे ॥ ४३. धर्मारण्यमिति ख्यातं मुनीन्द्रनिलयं विदुः । तत्र तीर्थानि असङ्ख्यानि नालं वक्तुं मया विभो ॥ ४४. बहुत्वात् ब्रह्मत्वत्वात् च माहात्म्यात् च केवलम् । ताम्राया उत्तरे तीरे दीपतीर्थं प्रचक्षते ॥ ४५. शालातीर्थं तत् समीपे काश्यपं तु ततः परम् । कण्वाख्यं ब्रह्मदाख्यं च गोष्ठीशाख्यं च कथ्यते ॥ ४६. आनदीसङ्गममारभ्य यावद्घोरासमागमम् । एतानि पुण्यतीर्थानि कथितानि महामते ॥ ४७. अग्रेऽप्यामलकारण्यात् कण्वतीर्थात् तथोत्तरे । माण्डव्यतीर्थमित्युक्तं ताम्रायाः पश्चिमे तटे ॥ ४८. तदभ्याशे मित्रतीर्थं घटना सङ्गमं च तत् । प्राच्यां दिशि वितन्वाना मुख्या मलयनन्दिनी ॥ ४९. प्रयाति तत्रोत्तरतः तीर्थं मानवमुच्यते । मनुना निर्मितं पूर्वं स्थापयित्वा सदाशिवम् ॥ ५०. तस्मात् तु दक्षिणे तीरे पुटार्जुनपुरे शुभे । शिवलिङ्गात् पश्चिमतः तीर्थं गौतम संज्ञितम् ॥ ५१. सुरेन्द्रमोक्षणं नाम तत् प्रसिद्धमबूत् पुनः । तस्मात् दक्षिणतः तीर्थं नाम्ना पैशाचमोचनम् ॥ ५२. घटना सर्यू ताम्रा त्रिवेणी स्नानमाचरेत् । धर्मधाराख्यतीर्थं तु देवात् उत्तरतो भवेत् ॥ ५३. तस्यापि पूर्वदिग्भागे कर्मतीर्थं प्रचक्षते । पुटार्जुनात् दक्षिणतः सिद्धतीर्थमुदाहृतम् ॥ ५४. तदभ्याशे दक्षिणतः ताम्रायाः पूर्वरोदसि । गजेन्द्रमोक्षमित्युक्तं प्रसिद्धं भुवनत्रये ॥ ५५. घोरा ताम्रा सङ्गमात् तु यावत् शौण्डीरकं भवेत् । तावत् तीरद्वये चापि तीर्थायेतानि भूपते ॥ ५६. महानागालयं नाम क्षेत्रं कुरवकावृतम् । ताम्रायाः दक्षिणे तीरे तीर्थं पुष्पवनेशितुः ॥ ५७. तस्मात् उतरतः तीरे भद्रारण्यं प्रचक्षते । तत्र कामपुरं नाम पाण्ड्यराजविभूषणम् ॥ ५८. गन्धर्वकन्याशापेन देवभोगविवर्जितः । कुबेरतनयो नाम्ना मणिग्रीव इति श्रुतः ॥ ५९. तत्रैव वासमकरोत् सभार्यः सपरिच्छदः । आशापमोक्षं वसता तेनैव नियतात्मना ॥ ६०. आराधितो महेशानः प्रसादमकरोत् विभुः । अनुज्ञातः मणिग्रीवो हेरम्बेणात्मविद्यया ॥ ६१. भैरवं पूजयित्वा तु ताम्रायां मज्जनं व्यधात् । सद्यो विमुक्तशापस्तु कृतार्थः स्वपुरं ययौ ॥ ६२. तदादि भैरवतीर्थं यमतीर्थं तदन्तिके । तत् पूर्वभागे प्रथितं गोतीर्थं धर्मवर्धनम् ॥ ६३. दक्षिणाब्धिमुखे ताम्रा दृश्यते तत्र पावनी । अत्र नीलवनं नाम परितो योजनायतम् ॥ ६४. तत्र ज्योतिर्मता नाम ऋषयः ऊर्ध्वमन्थिनः । तेषामायतनं क्षेत्रं दर्शनात् मुक्तिदं नृणाम् ॥ ६५. तस्मात् दक्षिणतः किञ्चित् दश पञ्च च सप्त च । गोतीर्थात् दक्षिणे भागे ताम्रायाः दक्षिणे तटे ॥ ६६. दुर्गातीर्थमिति ख्यातं यत्र दुर्गा विराजते । तत्पूर्वभागे क्रोशार्धात् विष्णुतीर्थं महामते ॥ ६७. तदग्रे सोमतीर्थं च व्यासतीर्थं तदन्तिके । मार्कण्डेयं महातीर्थं रोमशं च ततः परम् ॥ ६८. ततो दौर्वाससं तीर्थं तदग्रे भार्गवं महत् । अर्धक्रोशात् पूर्वभागे वैनतेयाश्रमान्तिके ॥ ६९. कचालिका नाम नदी नन्दाटविसमुद्भवा । नन्दिनीमिति शंसन्ति तदरण्योद्भवेति च ॥ ७०. नन्दिनीसङ्गमं तीर्थं तदरण्योद्भवेति च । नन्दिनीसङ्गमं तीर्थं वैनतेयस्य पक्षिणः ॥ ७१. ततोप्युदीच्यां ताम्रायां कूले कुन्दाटवी तटे । छायातीर्थमितिख्यातमादेशात् परमेशितु ॥ ७२. यत्र छायां समुद्वीक्ष्य तीर्थे स्वानपि पातकी । मुच्यते सर्वपापेभ्यो निष्टप्ततपनीयवत् ॥ ७३. प्रवालमञ्जरी नाम विद्याधरवधूः पुरा । आराध्य धात्रीं तपसा लब्ध्वैतत् परमाश्रमम् ॥ ७४. दिव्यवर्षशतं तत्र तताप परमं तपः । तस्याः प्रसादं कुर्वन्त्याः भवान्या तत्र कल्पितम् ॥ ७५. तीर्थं छायाभितं नाम महापातकनाशनम् । ततोऽपि पूर्वदिग्भागे गान्धर्वं तीर्थमुत्तमम् ॥ ७६. तदग्रे भानुतीर्थं तु भानुना निर्मितं पुरा । ततः परं ब्रह्मवनं समन्तात् योजनद्वयम् । ७७. आर्द्रावतीचन्दनद्योः मध्ये ज्योतिर्वनं महत् । तत्र प्रभावती तीर्थं गौरीतीर्थं महत्तरम् ॥ ७८. तथा सारस्वतं तीर्थं वृषतीर्थं च पुण्यदम् । आर्द्रापगा सङ्गमे तु चन्द्रशालाभिते स्थले ॥ ७९. मन्त्रेश्वरात् उत्तरतो मन्त्रतीर्थं महत्तरम् । श्यामानद्याः परं राजन् तीरयोरुभयोरपि ॥ ८०. ब्रह्मारण्यमिति ख्यातं तीर्थानि शतशोऽत्र वै । दुर्गातीर्थं समारभ्य यावत् कन्धरभूधरम् ॥ ८१. कथितान्येव तीर्थानि श्रुणु राजन् ततः परम् । ताम्रायाःपश्चिमे तीरे यागतीर्थमितीरितम् ॥ ८२. किञ्चित् उत्तरतः तस्मात् रुद्राख्यं तीर्थमुत्तमम् । क्षिप्तपुष्पवतीतीर्थमुत्तरेण तदन्तिके ॥ ८३. ततोऽर्धक्रोशतो राजन् आर्षतीर्थं प्रशस्यते । तस्मात् तु दक्षिणे तीरे श्यामाशङ्गात् च पूर्वतः ॥ ८४. ब्रह्मारण्ये चतुःस्थानमग्नितीर्थमुदाहृतम् । एषा ब्रह्मवने ताम्रा क्रोशार्धं पूर्ववाहिनी ॥ ८५. उत्तराभिमुखी क्रोशत्रितयं च ततः परम् । पुनः क्रोशात्रयं पूर्ववाहिनी ब्रह्मकानने ॥ ८६. एतावत् परमं क्षेत्रं तीरयोरुभयोरपि । महातीर्थं विना राजन् दृश्यते न पदान्तरम् ॥ ८७. घर्घरात् अग्निदिग्भागे ताम्रायाः पूर्वरोदसि । स्मृति तीर्थमित्युक्तं ताम्रायाः पूर्व रोदसि ॥ ८८. भुजङ्गमोक्षणं तीर्थं तीर्थं सूचीनुखं ततः । सिंहतीर्थं केतुतीर्थं उषातीथं हलाननम् ॥ ८९. ततोयुत्तरतीर्थे तु रामतीर्थं प्रशस्यते । ऋषितीर्थं पादतीर्थं तीर्थं पापविमोचनम् ॥ ९०. अतः परं प्रवक्ष्यामि ब्रह्मारण्यात् महीपते । तत् क्षेत्रादिपरं राजन् नाम्ना भिन्नरथं वनम् ॥ ९१. तीरे च दक्षिणे यस्याः पक्षितीर्थं प्रशस्यते । अश्रुतीर्थं हासतीर्थं संसृलाख्यं ततः परम् ॥ ९२. तथैवोत्तरतीरे च नदीस्तम्भनमुच्यते । पूजापत्तनमित्युक्तं तदग्रे दुरितापहम् ॥ ९३. महालोहितसंसर्गात् श्यामातीर्थं प्रशस्यते । ततो विष्णुवनं नाम यत्र चित्रा महानदी ॥ ९४. सैषा मलयनन्दिन्याः सङ्गता पापहारिणी । नद्याः उत्तरे तीरे षट्क्रोशायामविस्तृते ॥ ९५. गोतीर्थं विष्णुतीर्थं च कुशस्तम्भायितं तथा । मृत्युञ्जयं नाम तीर्थं तीर्थं वै तैत्तरीयकम् ॥ ९६. राजसूयाभितं तीर्थं सप्तमं चन्द्रिकावृतम् । तस्यैव दक्षिणे तीरे सप्तर्षीणां महात्मनाम् ॥ ९७. तीर्थानि सप्तक्षेत्रेषु कुरङ्गः तीर्थमुच्यते । बृहद्वनात् अथ क्षेत्रं माहिष्मं नाम नामतः ॥ ९८. तत्र तीर्थानि पुण्यानि शतशोऽथ सहस्रशः । तस्यवोत्तरतीरे तु श्रीमत् चन्दनकानने ॥ ९९. श्रीवैकुण्ठाभितं तीर्थं समीपे शारधाभितम् । तस्मात् दक्षिणतः किञ्चित् स्मरालाख्यं प्रचक्षते ॥ १००. महाकुसुमवृष्टिश्च तथैव शतबुद्बुदम् । तदस्तु पूर्वदिग्भागे मायारण्यं प्रचक्षते ॥ १०१. ग्रावाख्यं कुरुतो यस्मात् नाम्ना ग्रवाङ्कुरं पुनः । कान्तीश्वराभितं तीर्थं कैवल्यं च नियम्यते ॥ १०२. तस्यास्तु दक्षिणे तीरे श्रीरमानगरं महत् । चिञ्चारूपेण यत्रास्ते विनिद्रो भुजगेस्वरः ॥ १०३. प्राप्तसारूप्यसौभाग्यः चतुर्बाहुः खगेश्वरः । न मुञ्चति शुभं क्षेत्रं हरिसेवनलालसः ॥ १०४. यत्र सिद्धखगा नित्यमुच्चरन्ति महामनुम् । यत्र स्थितानां मर्त्यानामन्ते हरिपदं ध्रुवम् ॥ १०५. जपन्ति रुद्राः तत्रैव हरिरित्यक्षरद्वयम् । यत्र देहपरित्यागं कर्मत्यागमुदाहृतम् ॥ १०६. रमां रमयता नित्यं हरिणापि न मुच्यते । तस्य क्षेत्रस्य माहात्म्यं हरिर्वेत्ति न चापरे ॥ १०७. तत्र तीर्थं प्रवक्ष्यामि गदतः श्रुणु मे विभो । भोगितीर्थं पद्मतीर्थं चक्रतीर्थमनन्तरम् ॥ १०८. शङ्खराजाभितं तीर्थं धर्मतीर्थमनन्तरम् । मेखलाख्यं महत् तीर्थं ततः पञ्चायुधं महत् ॥ १०९. शतरुद्रीयं तीर्थं वेणुतीर्थमनन्तरम् । उक्तान्येतानि तीर्थानि श्रीपुरे प्रथितानि तु ॥ ११०. निधितीर्थं कालतीर्थं दिवा/निशातीर्थमनन्तरम् । श्रुतितीर्थं कलातीर्थं यत्र साक्षात् हरिस्स्वयम् ॥ १११. ततो मङ्गलतीर्थं च पितृतीर्थमनन्तरम् । तदग्रे व्याघ्रतीर्थं स्यात् ततः सोमवनं महत् ॥ ११२. वास्तुतीर्थं सोमतीर्थं चण्डिकातीर्थमग्रतः । वल्लीतीर्थं हर्षतीर्थं गौरीतीर्थमनन्तरम् ॥ ११३. शम्भुनारायणं तीर्थं शङ्खराजाभितं तथा । एतानि सोमारण्ये तु प्रथितानि महीतले ॥ ११४. नद्याः तयोः उत्तरे तीरे गुहानालास्यदर्शने । बहुबिन्दुहरं तीर्थं त्रयीतीर्थं समन्ततः ॥ ११५. मुक्तिमुद्राभितं तीर्थं ज्ञानतीर्थमतः परम् । तथा पुनर्नवं तीर्थं तत्समीपे मदावलम् ॥ ११६. तथाप्यगस्त्यतीर्थं च तीर्थं भैरवसंज्ञकम् । तदस्तु सङ्गमं तीर्थं तत् त्रिधा परिकीर्तितम् ॥ ११७. गायत्रं चापि सावित्रं सारस्वतमतः परम् । एतानि पुण्यतीर्थानि प्रोक्तानि तव भूपते ॥ ११८. एषां दर्शनमात्रेण महाव्रतफलं भवेत् । एतानि अधुना राजन् संक्षेपात् परिकिर्तितम् ॥ ११९. अनुक्तान्यपि तीर्थानि शतशोऽथ सहस्रशः । तथापि तेषु च स्थानां तीर्थानां राजसत्तम । माहात्म्यं संप्रवक्ष्यामि श्रुणु राजन् यथातथम् ॥ इति द्वाविंशः सर्गः । Pro Total = 1554 + 119 =1673.

त्रयोविंशः सर्गः

श्येनोपाख्यान म् । १. राजन् मलयजातायाः तीरयोरुभयोरपि । अपि गोष्पदमात्रं वा न हि तीर्थं विना स्थलम् ॥ २. पदे पदे तीर्थमयी ताम्रपर्णी सरिद्वरा । देवैश्च ऋषिभिस्सिद्धैः शम्भुविश्वम्भरादिभिः ॥ ३. उपास्यामाना माहात्म्यात् तटिनीतटसंस्थितैः । नैव मुञ्चन्ति तटिनीमपि ब्रह्मपुरोगमाः ॥ ४. काङ्क्षन्तः सिद्धिमतुलां महतीं मलयात्मजाम् । उक्तेषु एतेषु तीर्थेषु ब्रह्मभूतेषि भूपते ॥ ५. एकैकसेवामात्रेण मुक्तिं याताः सहस्रशः । अपि कीटपतङ्गाद्याः तरुगुल्मादयः परे ॥ ६. सिद्धिं परामनुप्राप्य भुक्तान् भोगान् यथेप्सितान् । तदन्ते मुक्तिमापन्नाः किं पुनर्मनुजा भुवि ॥ ७. प्लवमानं भवाम्भोधौ क्लिश्यमानं जनम् । समालोक्य महादेवी प्रार्थिता परमात्मना ॥ ८. करुणासान्द्रहृदया शिवैककलया पुरा । तीर्थरूपं समादाय वर्धते मलयाचलात् ॥ ९. तस्मात् अत्रैव देवाः च ब्राह्मणाः स्मृतयस्तथा । क्रतवो मन्त्रतन्त्राख्याः नित्यमत्र वसन्ति हि ॥ १०. नैव पातकसङ्घातैः बाध्यन्ते तीरयोर्जनाः । एषु पुण्यतमेष्वस्याः मयोक्तेषु महामते ॥ ११. प्रसिद्धानि विशेषेण निबोधत नराधिप । शालातीर्थं दीपतीर्थं गजेन्द्रवरदालयम् ॥ १२. पुटार्जुनपुरस्थानं महादुर्गालयं तथा । मणिग्रीवपुरं चैव चैव सोमराजविमोक्षणम् ॥ १३. व्यासाश्रमं रोमशाख्यं महाज्योतिर्वनं तथा । छायातीर्थं मन्त्रतीर्थमग्निवायुं चतुष्टयम् ॥ १४. ब्रह्मवृद्धपुरं नाम तीर्थं विष्णुवनं तथा । वैकुण्ठं श्रीपुरं स्थानं सोमारण्यसङ्गमम् ॥ १५. एतानि खलु मुख्यानि पुराणे पठितान्यपि । ब्राह्मणा इव मर्त्येषु कपिला इव धेनुषु ॥ १६. यथोपनिषदः श्रेष्ठाः वेदेषु मनुजाधिप । विंशत्येतानि मुख्यानि तथा तीर्थेष्वमीषु च ॥ १७. सर्वोत्कृष्टा ताम्रपर्णी शिवाद्यैरपिपूजिता । अनेककोटि तीर्थानां ब्रह्माण्डोदरवर्तिनाम् । सैषा स्यात् अधिदेवता ॥ १८. क्रतूनामपि मन्त्राणां कोटिः स्यात् जगतीतले । महापात्ककोटीनामन्येषामपि भूपते ॥ १९. अवस्थानस्थलमिदं प्राहुः तीरयुगं तथा । अपायमापदामम्भः तमसामंशुमानिव ॥ २०. नीहारमिव पद्मानां अनीतिः यशसामिव । ताम्रपर्णीतटद्वन्द्वं पापानामपनोदने ।(अघानामपमार्गणम्) २१. नैवोपायान्तरं किञ्चित् अत्र ब्रह्माण्डगह्वरे । प्राणायामात् पञ्चगव्यात् सुषुम्नानुप्रवेशनात् ॥ २२. प्राजापत्यात् भगोः पादात् हव्हवाहानुवेशनात् । यत्फलं लभ्यते पुंसां तदत्र स्नानतो भवेत् ॥ २३. अत्रेतिहासं परमं पुरा गीतं महर्षिणा । श्रुणु राजन् यथावृत्तं वक्तुमाश्चर्यसंयुतम् ॥ २४. पुरा कृतयुगे कश्चित् विषये पाण्ड्यभूभृतः । निवसन् शिंशुपारण्ये कण्टको नाम लुब्धकः ॥ २५. कुटुम्बभारं धत्ते मांसेनारहरहर्नयन् । स कदाचित् धनुष्पाणिः शरी पाशादियन्त्रवान् । मृगया रसिको भूत्वा चचारारण्यवीथिकाम् ॥ २६. परितः पाशयन्त्राणि विस्तारयति वागुराम् । भ्रामयित्वा पक्षिकुलान् करुणं मृगयूथिकाम् ॥ २७. आत्मानं गोपयन् वृक्षकोटरे कुटिलाशयः । प्रत्ययाय विहङ्गानां मधुरं समगायत ॥ २८. व्याधे व्यवस्थिते तावत् एवमुत्खण्डिताशये । तरुस्कन्धात् अवप्लुत्य कपोतमिथुनद्वयम् ॥ २९. पपात वागुरायन्त्रे लोकमाशामुखे यथा । संहृष्टहृदयो दृष्ट्वा पतितान् तु पतत्रिणः ॥ ३०. गृहीत्वा तान् पेटिकायां बद्ध्वा दृढतरं परम् । स्वपुत्रहस्ते विन्यस्य प्रशमन् अगमत् पुनः ॥ ३१. अपयाते तु पितरि स पुलिन्दात्मसम्भवः । क्वापि मूले तरोः स्थित्वा जन्तुग्रहणतत्परः ॥ ३२. चकार यन्त्रमतुलं यावत् बुद्धिबलोदयम् । तावत् अन्तरमासाध्य श्येनो मानोन्नतोऽम्बरात् ॥ ३३. अभ्येत्य पेटिकामाशु स्वया चञ्च्वोज्जहार च । उपर्युपरि चारण्यात् उत्पतन् व्योमवर्त्मना ॥ ३४. सुदूरमतिवेगेन सन्निनाय पक्षिराट् । दृश्यादृश्याध्वना व्योम्नि वलमाने विहङ्गमे ॥ ३५. चण्डवातः समभवत् वात्यायुधविभीषणः । तरवोन्मूलिता भूरि शाखा गगनतोऽपतन् ॥ ३६. क्वचित् च धूलिवर्षेण क्वचित् पाषाणवृष्टिभिः । मृता नष्टा विहङ्गाश्च निपेतुः शतकोटयः ॥ ३७. घूर्णमानो विहङ्गोऽयं वातेन विवशीकृतः । पपात तोये ताम्रायाः पूर्वपुण्यफलात् ॥ ३८. उपशान्ते चण्डवाते कश्चित् द्विजवटुः पटुः । इतस्ततः परिक्रम्य दृष्ट्वा तामपि पोतकाम् ॥ ३९. प्रसन्नो मे शिव इति जग्राह धनशङ्कया । छित्वा पाशादिकं सर्वं विकटय्यावलोकिते ॥ ४०. तत्पक्षिमिथुनद्वन्द्वं उत्पपात तथाम्बरे । उत्क्रान्ते च द्विजसुते स्मयमाने पुनःपुनः ॥ ४१. पक्षिणो वृक्षमारुह्य निवसन्तोऽतिमात्रकम् । परस्परं समालोक्य रुरुदुः सुस्वरं भृशम् ॥ ४२. सोऽपि श्येनः समुत्तीर्य तीरमासाद्य कुत्रचित् । पक्षान् उद्धूय तुण्डेन कण्डूयाङ्गानि कृत्स्नशः ॥ ४३. उच्चैरुन्नम्य मूर्धानं दीर्घीकृत्य शिरोधराम् । दिवि गत्वा तथा तत्र तरुस्कन्धमुपारुहत् ॥ ४४. पारावतकुलं दृष्ट्वा वेपमानं ससाध्वसम् । निर्मुक्तवैरः करुणमुपसृत्य तदन्तिके ॥ ४५. पक्षाभ्यां परिमृज्यैतान् आश्लिष्टः तैरपि स्वयम् । सहसा क्रन्दमानः तु रुरोद भृशदुःखितः । तदन्तिके तु पक्षाभ्यां वीजयन् तैरपि स्वयम् ॥ ४६. इत्यन्योन्य संश्लिष्टश्येनपारावतावलिः । व्याजहार द्विजसुतः विस्मितान्तरमानसः । कस्त्वं श्येन महाभाग के यूयं च कपोतकाः ॥ ४७. कथं वा जातिवैरत्वे सौहार्दं परिवर्तते । हेतुना केन सञ्जातं महाशोकस्यकारणम् ॥ ४८. कथयन्तु यथातत्त्वं वक्तव्यं यदि मे खगाः । इति पृष्टः तथा तेन श्येनो वचनमब्रवीत् ॥ ४९. श्रुणु ब्रह्मन् प्रवक्ष्यामि कर्मणः फलमिदृशम् । पुरा काम्भोजविषये नगरी दर्शना ॥ ५०. रत्नाकरीति विख्याता विचित्रभवनोज्ज्वला । मणिसालावृता रम्या सर्वतो योजनायता ॥ ५१. महापरिघसंवीता सुविभक्तमहापथा । प्रासादशतसम्पाता सुप्रसन्न जलाशया ॥ ५२. उद्यानबहुलानन्दा नवमाणिक्यगोपुरा । महाजनसमाकीर्णा पताकाध्वजमालिनी ॥ ५३. परिघेणावृतेनैषा नवकाञ्चीव भासते । विशाला बहुविस्तारा अयोध्यापरिपन्थिभिः ॥ ५४. एवमभ्युदयाकारां नगरीं परिपालयन् । राजा रविकुलोत्पन्नो नाम्ना विक्रान्तकेसरी ॥ ५५. शूरो युवा धर्मपरः शान्तः समरकौतुकी । गुरुसेवी भक्तिपरो यज्वा भोक्ता दयानिधिः ॥ ५६. नित्यमभ्यर्चयन् विप्रान् गुरून् देवान् पितॄन् तथा । तस्मिन् शासति भूपाले धर्मः सन्धुक्षितो जनैः ॥ ५७. युगपत् निदधे भूमौ चरणानां चतुष्टयम् । तद्राज्ये नित्यसान्निध्यं अकुर्वन् हव्यभागिनः ॥ ५८. एवं भूतस्य राजर्षेः कालेन महिषी तथा । असूत तनयद्वन्द्वं कालिकेवाजनि द्वयम् ॥ ५९. ववृधाते सुतौ बालौ पोषितौ द्विजसम्मतौ । जातकर्मादिकं सर्वं पिता चक्रे स्वपुत्रयोः ॥ ६०. वैजयन्तं जयन्तं च नाम्ना तौ विदधे पुनः । कृतचौलोपनयनौ वेदवेदाङ्गपारगौ ॥ ६१. धनुर्वेदमधीयाग्रे ज्ञात्वा कामकलामपि । रूपयौवनसम्पन्नौ चक्रतुः हर्षणं पितुः ॥ ६२. ततो मगधराजस्य रूपेणाप्रतिमे सुते । अनङ्गमञ्जरीं नाम्ना परामिन्दुपताकिनीम् ॥ ६३. भ्रातरावुपयेमे ते क्रमेण गुरुशासनात् । अनङ्गमञ्जरीं लब्ध्वा वैजयन्तो मुदान्वितः ॥ ६४. रेमे रतिमिवासाद्य कामराजो विलासिनीम् । जयन्तं पतिमासाद्य धनदेवेन्दुपताकिनी ॥ ६५. संप्राप परमं सौख्यं पौलोमीव शतक्रतुम् । पितर्युपरते पुत्रौ प्राप्य राज्यमखण्डकम् ॥ ६६. बुभुजाते मदाविष्टौ भोगान् च विविधान् ततः । एवं निवसतोः ब्रह्मन् स्निग्धयोः दैवयोगतः ॥ ६७. विषमा समभूत् काममनीषा युगपत् तयोः । अनुजस्य प्रियां ज्येष्ठः तत्प्रियामनुजस्तथा ॥ ६८. काङ्क्षन्तौ चिन्तयाविष्टौ अभूतां यत्नमास्थितौ । तावत् वसुगणस्यासीत् ऋषेः पुत्रो युगन्धरः ॥ ६९. धर्मज्ञोऽपि युवा दैवयोगात् कापालिको भ्रमन् । घुटिकासिद्धिमासाद्य वश्याकर्षणतन्त्रवित् ॥ ७०. परीत्य विविधान् देशान् पूज्यमानश्च कामिभिः । क्रमात् रत्नाकरीं प्राप कौतूहलदिदृक्षया ॥ ७१. असंयुक्तान् योजयानः संयुक्तान् च वियोजयन् । कलिं स्निग्धेषु कुर्वाणः स्नेहमुत्पादयन् पुनः ॥ ७२. इन्द्रजालमुखाविद्याः दर्शयन् कौतुकावहाः । इत्थं वसन्तं स्वपुरे वैजयन्तो विमृश्य सः ॥ ७३. एकान्ते समुपागम्य सन्तोष्य विविधैर्धनैः । प्राहा वाचा सविनयं पादयोः प्रणिपत्य च ॥ ७४. भगवन् योगिनां वर्य शिष्यरक्षामणे गुरो । प्रणतं पादकमले भृत्यं मां त्रातुमर्हसि ॥ ७५. चिन्ताशोकार्णवे घोरे प्लवमानमविश्रमम् । त्राहि त्राहि गतिर्भूयात् त्वत्वागियमनुग्रहात् ॥ ७६. इति तेन महीपेन याचमानः स योगवित् । युगन्धरः सगम्भीरमिदं वचनमब्रवीत् ॥ ७७. युगन्धरः -- चिन्तयालं महाराज स्वस्तो भवितुमर्हसि । किं ते व्यवसितं स्वान्ते का वा ते च परिश्रमा ॥ ७८. अपकर्षामि ते तापमाशा फलवती भवेत् । कामं ते पूरयिष्यामि यदि त्रैलोक्यदुर्लभान् ॥ ७९. अविचारेण वक्तव्यमद्यैव खलु काङ्क्षितम् । स एवं सिद्धवर्येण ससान्त्वमनुशासितः ॥ ८०. भूयः समादधे ब्रह्मन् वचनं स नरेश्वरः । चिन्तामणिमिवासाद्य त्वां सचैतन्यविग्रहम् ॥ ८१. लब्धकामो भविष्यामि नात्र कार्या विचारणा । विज्ञाप्यमत्र श्रोतव्यंसानुग्रहमिदं मम ॥ ८२. भ्रातृपत्नी पुरास्माकं मनसा संवृता किल । तदर्थे वञ्चितः तत्राप्याहरिष्ये यथा मुने ॥ ८३. नारीमतल्लिकामेनां चिन्तयानोऽहमन्वहम् । न लभे शर्म सौख्यं वा दावदग्ध इव द्रुमः ॥ ८४. मालेयं अङ्गारमिव दहति मां सूचिकोपमम् । शय्यामसनिमाशङ्के हालाहलमिवाशनम् ॥ ८५. आतटङ्कलताश्लेषशून्यं भाति जगत्त्रयम् । यावात् तव प्रसादेन लप्स्ये परमनिर्वृतिम् ॥ ८७. तथैवाभ्युदयं मन्ये जन्म चेदं मयार्जितम् । बहुना किं प्रलापेन श्रुणु मे तापगौरवम् । ८८. त्वत्प्रसादमनासाद्य नाहं जीवितुमुत्सहे । इत्युक्त्वा पादयोस्तस्य पपात विरहातुरः ॥ ८९. इत्थं मोहान्धतामिस्रसागरोर्मिपरिप्लुतम् । दृष्ट्वा युगन्धरो योगी सानुकम्पेन चेतसा ॥ ९०. राजानं तं समाश्वास्य भूयो वचनमब्रवीत् । युगन्धरः -- अनभिज्ञातमन्यैस्तु स्वमनोरथमवाप्तवान् ॥ ९१. तापेनालं महाराज साधयिष्यामिते प्रियम् । इत्युक्त्वा वश्यकरिणीं तथाप्याकर्षणीमपि ॥ ९२. प्रादात् तस्मै तु घुटिकां नानाविधविनोदिनीम् । वैजयन्तो ततो लब्ध्वा स्वमनोरथसाधनम् ॥ ९३. अन्यैरप्यनभिज्ञातमासाद्य भवनं निजम् । अथैव विदधे कृत्यं संप्राप्य च मनोरथम् ॥ ९४. जयन्तोऽपि द्विजश्रेष्ठात् तं प्राप स्वमनोरथम् । अनभिज्ञातमन्यैस्तु स्वमनोरथमवाप्तवान् ॥ ९५. इत्थं कामातुरावेतौ शक्त्या कापालिकस्य तु । स्वयोः स्त्रियौ परिवृत्य आस्तां संहृष्टमानसौ ॥ ९६. तयोः पुरोहितः कश्चित् उद्दालक इति श्रुतः । अर्थैकलुब्धको भूत्वा तच्चित्ताराधकः स्वयम् ॥ ९७. कुर्वन् तदुपधां भूरि धर्मज्ञोऽपि द्विजाधमः । निनाय कालं बहुलं राजपापस्य भाजनम् ॥ ९८. एवं राजाधमौ पापौ भ्रातृपत्नीपरिग्रहौ । विमत्तौ राजमार्गाणां नारीविषयलम्पटौ ॥ ९९. धनलुब्धौ मदाविष्टौ हिंसन्तौ सकलाः प्रजाः । कापालिकेभ्य धूर्तेभ्यः सञ्जातपापपुञ्जकौ ॥ १००. अभूतामङ्गनासक्तौ कुलाचारविवर्जितौ । एवं निवसतोर्भ्रात्रोः शत्रुभिः बलवत्तरैः ॥ १०१. पुरं ग्रामादिकं राज्यं हृतं सबलवाहनम् । भ्रष्टराज्यौ निर्धनिनौ स्त्रीभ्यां साकं पुरोधसा ॥ १०२. नगरात् अपयाताः ते अरण्यानीं गताः तथा । सह्यं गिरिमुपागम्य कस्मिंश्चित् तरुकोटरे ॥ १०३. अनभिज्ञातमरिभिः अत्यूषुः ते भयातुराः । एतस्मिन्नन्तरे ब्रह्मन् स कापालिः युगन्धरः ॥ १०४. ब्रष्टराज्याविमौ श्रुत्वा तावन्विष्य ययौ द्रुतम् । ततस्ततः समन्विष्य सह्यमासाद्य पर्वतम् ॥ १०५. ददर्श परमुद्विग्नौ ब्रातरु दीनमानसौ । तं दृष्ट्वा सहसोत्थाय नेमतुः हृष्टमानसौ ॥ १०६. तौ तदरण्ये मिलितौ तत्पुरोधाः च दीनधीः । तमेव शरणं प्रापुः क्षुत्पिपासाश्रमातुराः ॥ १०७. एतान् सुदुःखितान् दृष्ट्वा स तु कापालिकः कृती । सान्वयानो मुहुर्वाचा योगक्षेममकल्प्पयत् ॥ १०८. इत्थं द्विजश्च नरपालसुतावुभौ च कापालिकश्च विषयैकपरा विमूढाः । पर्याक्रमात् रतिमवाप्य नृपालपुत्र्योः आसन् वनेऽपि सुखितः प्रमदानुवासात् ॥ इति त्रयोविंशः सर्गः । Pro.Total = 1673 + 108 = 1781.

चतुर्विंशोऽध्यायः

अग्नीश्वरेण लिखितं श्येनोपाख्यान म् । १. वीरसेनः -- कथेयं जगदानन्दजननी चन्द्रिकोपमा । ब्रह्मन् तव मुखाम्भोजात् उदिर्णा मलयात् इव ॥ २. कथं तिरश्चां वात्सल्यमन्योन्यं संप्रवर्तितम् । परं स्नेहं तथा चक्रे श्येनः तत्र दयानिधे ॥ ३. शङ्खः -- आकर्णय महाराजकथामेनां पुरातनीम् । वर्णयामि समाख्यतं पक्षिणा द्विजसूनवे ॥ ४. कथामेतावतीं कर्णविषयीकृत्य विस्मितः । स विप्रसुनुर्भूयोऽपि वचनं चेदं चादधे ॥ ५. द्विजकुमारः -- पक्षिराज महाबुद्धे त्रिकालज्ञानवारिधे । नाभ्येति भवतो बुद्ध्या समतामपि गीष्पतिः ॥ ६. शुद्धवर्णतया वाचो व्यज्यते द्विजमुख्यता । रसमार्दवगाम्भीर्यवर्णालङ्कारभूषिता ॥ ७. विभाति वागियं शुद्धा तवैव तरुणी यथा । महाभाग्यवशह्येषा मनीषा द्विजपुङ्गव ॥ ८. नान्यत्र रमते चित्तं अनुरक्ता सती यथा । भूयोऽपि श्रोतुमिच्छामि कत्जामेनां पुरातनीम् ॥ ९. सह्याद्रि गिरिं प्राप्य सस्त्रीकौ राजनन्दनौ । किञ्चक्रतुर्वञ्चकिनौ युक्तदृष्टपुरोहितौ ॥ १०. प्राप्य कापालिकं बन्धुं तदशेषं तु वर्ण्यताम् । श्येनः -- श्रुणु ब्रह्मन् प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥ ११. राजभोगपरिभ्रष्टोवैजयन्तः सहानुजः । वन्यमूले फलाहारः परिवृत्यततस्ततः ॥ १२. प्रियादर्शनसौभाग्यसुधामात्रेण जीवितः । प्राप्य कापालिकं दैवात् आश्वस्तः तमिदं जगौ ॥ १३. वैजयन्तः -- भगवन् करुणामूर्ते भक्ताभीष्ट सुरद्रुम । मद्रक्षणाय देवेन दर्शितोऽनि दयानिधिः ॥ १४. दुःखातपानुतप्तस्य छायादस्त्वं सुरद्रुमः । कुत आयासि भगवन् केन वासि प्रबोधितः ॥ १५. अहो दयात्र च मुने विफलेषु जनेष्वपि । लोकोपकारशीलानां प्रवृत्तिस्तु भवादृशाम् ॥ १६. न बिभेमि न खिन्नोऽस्मिनैव भ्रान्तोऽस्मि सर्वतः । तवागमनसौभाग्यसंप्राप्तया करुणानिधे ॥ १७. इत्थं भ्रमन्मुहुर्वाचा परितो बाष्पलोचनः । पतित्वा पादयोस्तस्य प्रणम्य तमवोचत ॥ १८. तं भुजाभ्यामवस्थाप्य परिमृज्यास्यलोचने । स्मितपूर्वमुवाचेदं कापालिकमतानुगः ॥ १९. कापालिकः -वत्स मा शोकमोहाभ्यां धैर्यमालम्ब्य सत्वरम् । विजहीहि भयं तीव्रं सन्तापं मुञ्च मानसम् ॥ २०. अवस्थितसुहृत्यस्मिन् त्वया कालो वनक्षमः । यावज्जीवं विधास्यामि साहाय्यं सौख्यहेतवे ॥ २१. काचित् अस्ति महाविद्या अरिवर्गवशङ्करी । तयाहं पालयिष्यामि मा विचारोऽस्तु मामकैः ॥ २२. इतः परं इहास्माभिः गन्तव्यो मलयाचलः । तत्र प्रवर्तिता महापुण्या मुनिना कुम्भजन्मना ॥ २३. ताम्रपर्णीति विख्याता सर्वतीर्थनिशेविता । भुक्तिदा मुक्तिदा नॄणां स्नानदानानुवर्तनैः ॥ २४. यत्र पाटवराटीषु मल्लिकावेल्लितासु च । रमन्ते रमणोपेताः स्वैरं सुरसुमध्यमाः ॥ २५. ताम्रपर्णी सुधासारा विविधासारविभ्रमा । माकन्दस्कन्धविहरन् कोकिलालापचारुषु ॥ २६. यत्र सानुषु सानन्दं गायन्ति खलु किन्नराः । मकरन्दप्रवर्षेण नित्यदुर्दिनशङ्कया ॥ २७. पुलिन्दशबरीवर्गैः आमुक्तमणिकर्बुरम् । अद्रिराजमुपासन्ते मन्दं गन्धवहाः पुनः ॥ २८. नित्यपुष्पफलिनो वृक्षा नैव मुञ्चन्ति तत्र तु । अकालफलिनो वृक्षाः नित्यपुष्पाः मधुस्वराः ॥ २९. इक्षुच्छायावॄते गुल्मे निषादिन्यः चरन्ति हि । ताम्रायाः मलयनन्दिन्याः स्रोतोभागे ततस्ततः ॥ ३०. जनाः विन्दन्ति रत्नानि नानारूपाणि भूरिशः । द्रोणमात्रप्रमाणानि मधूनि प्रतिभूरुहम् ॥ ३१. यल्लतासदनस्थानात् नैराश्यं मणिभूमिके । अपरे माधवीं भूरि मधुधारां घनाटवीम् ॥ ३२. वयं तु सर्वशास्त्रज्ञा परिशीलितभूरिति । विना मलयसौभाग्यं स्तोतुमन्यं कथं क्षमम् ॥ ३३. त्रैलोक्यभाग्यपूर्णस्य मलयस्य कुतस्स्वयम् । सारवित् सर्वलोकस्य लोपामुद्रापतिर्मुनिः ॥ ३४. नैव मुञ्चन्ति गन्धाद्रिकटकं पावनं महत् । अथ सुखार्थिभिः मर्त्यैः उपास्योऽयं महीधरः ॥ ३५. इत्थमाश्वास्य कापाली भ्रातरु नृपनन्दनौ । सभ्रातृभ्यां सभार्याभ्यां ब्राह्मणेन पुरोधसा ॥ ३६. सह निष्क्रम्य सह्याद्रेः मलयं प्रत्यपद्यत । सर्वतः शोभमानं च सानन्दमिव योगिनाम् ॥ ३७. शारदाभ्रसमाकारैः शिखरैः साधुसेवितैः । उल्लिखन्तमिवाकाशं नानाधातुविचित्रितम् ॥ ३८. अविच्छिन्नैः हारवर्णैः निर्झरैः समलङ्कृतम् । केरनारङ्गपाटीरपाटलाङ्कोलदाडिमैः ॥ ३९. मालूरामलकैलैश्च कुन्दमन्दारतिन्दुकैः । तमालकलिवानीरनागकेसरचम्पकैः ॥ ४०. मधुमाकन्दकङ्केलिवकुलासनसायकैः । माधवीबन्धुबन्धूकरम्भेन्द्राणीन्द्रपादपैः ॥ ४१. पुष्पितैरपरैर्वृक्षैः फलितैः पल्लवोज्ज्वलैः । अलङ्कृतं महावृक्षैः अन्यैरप्यचलोपमम् ॥ ४२. वसन्तस्यापि वसन्तः महोदयतरो गुरुः । ग्रीष्मस्याप्युष्णतो योगी महागरलवाहिनी ॥ ४३. मकरन्दकणैः भूरि वर्षतो मलयाचलः । पुण्योदककरणैः स्वच्छवापीभिः शरदागमः ॥ ४४. नवनिर्झरिणीशीतमरुताहिमतुन्दिलः । शिशिराचन्दनारण्ये सञ्चरत्गन्धवाहिना ॥ ४५. समर्तु सुखसम्पन्ना समस्तजनसेविता । मलयो मालयामास बन्धून् इव समागतान् ॥ ४६. तेऽपि तं गिरिमासाद्य कस्मिंश्चित् प्रौढगह्वरे । चक्रुर्निवासमासन्नदीपूरादिसौष्ठवम् ॥ ४७. तौ च दृष्ट्वा नृपसुतौ ते च राजकुमारिके । पुरोहितश्च कापाली ननन्दुः स्थलसौष्ठवात् ॥ ४८. स्नात्वा तीर्थे महापुण्ये ताम्रायाः परमाद्भुते । भुञ्जान वन्यमाहारमूषुः तत्र यथासुखम् ॥ ४९. एवं निवसतां तेषां कापाली स युगन्धरः । सान्त्त्वयित्वा पुनर्वाक्यमुवाच नृपनन्दनौ ॥ ५०. युगन्धरः -- श्रुण्वन्तु मे वचः पथ्यं सर्वेषां जीवनप्रदम् । रात्रौ नारीं समाहूय तस्यामावाह्य यक्षिणीम् ॥ ५१. पूजयित्वा यथान्यायं तया कार्या रतिक्रिया । एवमाचरतां यक्षी प्रत्यहं वरदा सती ॥ ५२. ददाति कनकं शुद्धं निष्कमात्रं न संशयः । इति ब्रुवति वै तस्मिन् सर्वे सन्तुष्टमानसाः ॥ ५३. तथैवास्त्विति सम्भाष्य तुष्टुवुश्च पुनःपुनः । इत्थं संवर्तमानानामुत्थितानामुषस्यपि ॥ ५४. लब्धमासीत् निष्कमात्रं तपनीयं महामते । ततः कमपि तत्रस्थं व्याधमाहूय भूपते ॥ ५५. वचनं प्राह कापाली सर्वान् आमन्त्र्य मन्त्रवित् । पुलिन्दवर्य कार्येषु चतुरः प्रतिभाति मे ॥ ५६. अतोऽस्मासु सुहृत् भूत्वा सप्तमः सुखभाग्जनः । यावज्जीवं निवसितुं त्वमर्हस्यप्रमादतः ॥ ५७. प्रत्यहं निष्कमात्रेण जीवामः समभागतः । अहोरात्रस्य चैकस्य यावता परिवर्तये ॥ ५८. तावता निवनिष्केण वस्तुजातं सुवर्णतः । यत्र जीवनसामग्री यत्र सम्पूर्णकाञ्चनम् ॥ ५९. दत्वा तस्य करे स्वर्णं तदादातुं त्वमर्हसि । दत्तमेतेन कनकमादाय स वनेचरः ॥ ६०. बाणशूकापिदानस्य शबरेन्द्रस्य कस्यचित् । प्रदाय काञ्चनं वाचमिदमाह कृताञ्जलिः ॥ ६१. वनेचरः -- देवाकर्णय विज्ञाप्यं स्वामिकार्यप्रयोजनम् । ममापि जीवनं तस्मादागतोऽस्मि तवान्तिकम् ॥ ६२. निष्कमात्रं हेमखण्डं दशवर्णादिकं खलु । कस्यचित् सिद्धनाथस्य देह्यहोरात्रभोजनम् ॥ ६३. अहं तु सप्तमः तस्य पुरुषः परिचारकः । यावता सुखिनस्ते तु मृष्टान्ना मृष्टभोगिनः ॥ ६४. तावद्धि देहि वस्तूनि तण्डुलादीनि भूरिशः । इति दत्वा हेमखण्डं समादाय पुलिन्दरात् ॥ ६५. तस्मै प्रादात् प्रादात् प्रहृष्टात्मा सम्भारान् सकृदादिकान् । मुद्गसर्षपगोधूमशालितण्डुलसंयुतान् ॥ ६६. कन्दमूलफलोपेतान् मधुमाध्वीकपूर्वकान् । पूगनागकदल्यादीन् गन्धद्रव्यसमन्वितान् ॥ ६७. महाभोगान् प्रदायैव प्रोवाच वचनं पुनः । बाणशूकः -- नित्यमेवं प्रदास्यामि यद्यानेतासि काञ्चनम् ॥ ६८. नान्यत्र देयं कनकं सिद्धदत्तमिदं खलु । मामकोऽसि भवान् भृत्य तस्मात् आज्ञापयाम्यहम् ॥ ६९. तव दास्यामि परममनर्घ्यं पारितोषिकम् । इत्युक्त्वा प्रेषयित्वा तं तत्काञ्चनमनुत्तमम् ॥ ७०. रहस्ताम्रघटे क्षिप्त्वा स कोशभवने न्यधात् । स भृत्योऽपि समादाय सम्भारान् अपि भाजनैः ॥ ७१. कापालिकस्य पुरतः याथातथ्यं न्यवेदयत् । तत् सर्वं सप्तधा कृत्वा स संप्रीतो युगन्धरः ॥ ७२. अंशमेकमदात्तस्मै सोऽपि लब्ध्वा गृहं ययौ । अपरेद्युरुपेत्यैनं योगिनं तमतन्द्रितः ॥ ७३. तस्मात् काञ्चनमादाय स दूतः तुष्टमानसः । दत्वा पुलिन्दनाथाय तस्मात् सम्भारमात्मवान् ॥ ७४. सोऽपि सर्वं समावेद्य वस्तुजातं प्रसन्नधीः । तत् दत्तं काञ्चनं भूयो घटे निक्षिप्तवान् प्रभुः ॥ ७५. दूतानीतं विभज्यैकमंशं दत्वा व्यसर्जयत् । युगन्धरः बहुविधैः मृष्टान्नैः घृतसम्प्लुतैः ॥ ७६. भोजयित्वा स्वयं भुञ्जन् अवात्सीत् गिरिगह्वरे । प्रातः स्नाताः ताम्रपर्ण्यां मालिन्यक्षयहेतवे ॥ ७७. सालङ्काराः प्रतिदिनं स्रक्चन्दनविभूषणैः । भक्ष्यभोज्यविशेषैश्च मांसमैरेयसंस्कृतैः ॥ ७८. तर्पयन्तः स्वगात्राणि संहृष्टाश्चपरस्परम् । हसन्तो हासयन्तश्च गायन्तश्च कलनिस्स्वनम् ॥ ७९. अनङ्गतन्त्रसारज्ञाः क्रीडन्तः प्रमदायुताः । चन्दनद्रुमवाटीषु कदम्बविपिनेशु च ॥ ८०. सरित्रोदस्सु रम्येषु पुष्पितोद्यानभूमिषु । गुहासु मणिदीप्तासु माधवीमण्डपेष्वपि ॥ ८१. माध्वीपानमदाविष्टाः विजह्रुः तत्र तत्र ते । इत्थमब्दत्रयं तेषां निमिषार्धमिवाभवत् ॥ ८२. सोऽपि राजा पुलिन्दानां आश्चर्याविष्टमानसः । कदाचित् कनकं सर्वं सह मन्त्रिभिः ॥ ८३. घटमालोकयामास धनलुब्धो निशामुखे । न ददर्श घटे तस्मिन् सञ्चितं नवकाञ्चनम् ॥ ८४. कुतो गतमिदं सर्वं चोरैरपिहृतं तु वा । पुत्रदाराभिः किन्तु वञ्चितोऽहमथापि वा ॥ ८५. नीयन्ते वा महाभूतैः सञ्चितं किं न दृश्यते । मया विना न गन्तव्यमन्यैः कोशगृहं खलु ॥ ८६. न वञ्चयन्ति मे दाराः नैव द्रुह्यन्ति मे सुताः । कुतो गतमिदं सर्वं किं न गृह्णामि दुर्दमम् ॥ ८७. अथवा काञ्चनस्यापि किन्नु शक्तिः पलायने । सिद्धदत्तमिदं स्वर्णं सिद्धेनापिहृतं ध्रुवम् ॥ ८८. अन्यथा मम गेहेऽस्मिन् कः समर्थः प्रवेशने । अप्रमादं हि रक्षन्ति परितो नगरं भटाः ॥ ८९. अदृश्यदृश्यसञ्चाराः योगिनो हि न संशयः । तस्मात् विचारणीयं मे कार्यमस्ति महत्तरम् ॥ ९०. इति निश्चित्य मनसा वनेचरकुलेश्वरः । अन्य्र्द्युरागतं भूयः भृत्यं कनकसंयुतम् ॥ ९१. आहूय मानयित्वा तु रहस्याह विशाम्पते । बाणशूक -- अये वनचर कथं केन जीवसि कर्मणा ॥ ९२. अविचार्य ममैव त्वं जीवस्यन्यत्र सञ्चरन् । त्वत्तोऽन्यस्य सुहृदस्माकं नास्त्येव भुवनत्रये ॥ ९३. त्वत् सहायात् बहुधनं लब्धमन्यत्र दुर्लभम् । इतः परं करिष्यामि प्रादान्यत्वे दुरावहम् ॥ ९४. सिद्धः स तु महायोगी क्व गतस्ते परिच्छदः । गूं प्रणौमि तंयेन विधिना स्पृष्टमायिना ॥ ९५. सज्जनाश्रयतः सर्वे भवन्ति सुखिनो नृपाः । सत्सङ्गात् एव जायन्ते सम्पदस्तु पदे पदे ॥ ९६. सर्वं कथय मे भृत्य यथावृत्तं यथास्थिति । अपि देवसहायस्य काङ्क्षणीयो नृपश्रियः ॥ ९७. राजानुकूलहीनस्य देवोऽपि न सुखप्रदः । देववत् गुरुवत् पश्यन् राजानं पर्युपासते ॥ ९८. तस्योभयत्र जायन्ते फलानि सुखहेतवे । अतस्त्वामनुशास्येऽहं तथा साहाय्यकृत्भवः ॥ ९९. तं च तत्त्वसतिं चैव संप्रदर्शय मा चिरम् । मत् व्रूत्तान्तं न वक्तव्यं तस्मै सिद्धाय योगिने ॥ १००. श्वः प्रातरत्र गन्तव्यं ततो वक्ष्यामि ते हितम् । दत्वोपकरणान्यस्मै यथापूर्वं स भूपतिः ॥ १०१. प्रेषयामास तं भृत्यं अनभिज्ञानमन्यतः । तत् दत्तं कनकं प्रास्य तत्र निक्षिप्य भाजने ॥ १०२. स्थाप्य संरक्षयामास यावदभ्युदयं रवेः । व्युष्टायामथ रात्र्यां तु न ददर्श पुनर्घटे ॥ १०३. विस्मयाविष्टहृदयो लुब्धकानामनीश्वरः । स्वभटान् आनयामास बाणकार्मुकधारिणः ॥ १०४. सन्नद्धाः सर्व एवैते भर्तुराज्ञानुशासनम् । राजद्वारे समाववृः शतशोऽथ सहस्रशः ॥ १०५. चक्रचापधराः केचित् असिधेनुकधारिणः । अपरे शूलशक्त्यृष्टिभिण्डिभालवरायुधाः ॥ १०६. शूराः समरसन्नद्धाः नीलकुञ्चितमूर्धजाः । आजग्मुर्भयसम्भ्रान्ताः मेघा इव घनागमे ॥ १०७. एतस्मिन्नन्तरे दूतः समायातः सकाञ्चनः । तेन सार्धमसौ राजा सैन्येन महतावृतः ॥ १०८. यत्र कापालिको दुष्टः तौ च राजेन्द्रनन्दनौ । स तमावृत्य तं देशं करे जग्राह तं शठम् ॥ १०९. तौ च राजसुतौ भीतौ सपत्नीकौ द्विजान्वितौ । निरुध्य तान् उवाचेदं राजा कापालिकं वचः ॥ ११०. योगीन्द्र सर्वशास्त्रज्ञ त्वां सेवितुमिहागतम् । मामवेहि दयामूर्ते समचित्ता भवादृशाः ॥ १११. अप्रयुयुद्धाभिमुख्यस्य शत्रुं प्रति मम प्रभो । अर्थसाधनचक्रस्य भव भव्यकरो गुरुः ॥ ११२. इत्युक्तवति वै तस्मिन् वनेचरकुलेश्वरे । धीरः प्रोवाच कापाली तं भूयः कैतवात्मकः ॥ ११३. राजन् क्रमेण दास्यामि कोटिनिष्कं न संशयः । पूरयिष्यामि ते गेहं मणिकाञ्चनभूषणैः ॥ ११४. तत् वशोऽनर्थकं मत्वा सूक्ष्मबुद्ध्या पुलिन्दराट् । अद्यैव खलु दातव्यं कोटिनिष्कमथापि वा ॥ ११५. लब्धारोग्यस्य किं भूयः भैषज्यविधिना मुने । अनर्थकमधीयानो स्पष्टाक्षरपद्धतिम् ॥ ११६. अप्रमाण्यं विनिश्चित्य मेधावी स महीपतिः । खड्गमादाय कोपेन कालरात्रसमप्रभम् ॥ ११७. चिच्छेद तरसा तेषां शिरांसि गतचेतसाम् । तौ राजपुत्रान् विप्रं च देशभार्ये युगन्धरम् ॥ ११८. एवं च वञ्च्यतां तेषां विश्वस्तेषु जनेष्वपि । निग्रहो नैव दोषाय व्याघ्राणामिव कानने ॥ ११९. इत्युक्त्वा स पुलिन्देन स्वभटैः संवृतो ययौ । ते तु दुर्मतिमासाद्य स्वकृतेनैव कर्मणा ॥ १२०. बध्यमाना यमभटैः प्रापुः संयमनीपुरीम् । तुल्यदृष्टोपमाः सर्वे तुल्यदुष्कृतकारिणः ॥ १२१. तुल्यकालहता भूयः बभ्रमुर्यमसन्निधौ । महानदीतीर्थनिषेवणेन न यातनामप्यभयानुविद्धाः । दृष्ट्वैव बाधामपि नारकाणां कालं महान्तं खलु तत्र संस्थाः ॥ १२२. यमाज्ञया भूमिमनुप्रविष्टाः तिर्यक्त्वभावेऽपि पुनस्समेताः पुण्योदकस्पर्शनभाग्यलाभात् त्रिकालविज्ञानमिदं च लब्धम् । पारावतौ राजसुताविमौ तौ शोकाभितप्तौ प्रमदासहायौ युगन्धरोऽहं द्विजपुङ्गवस्त्वं पुरोहितः पूर्वभवे विचित्रम् ॥ इति चतुर्विंशोऽध्यायः । Pro.Total = 1781 + 122 =1901.

पञ्चविंशोऽध्यायः

यमगीता । १. द्विजकुमारः -- पक्षिराज महाबुद्धे सर्वज्ञानकलानिधे । अपि तिर्यक्त्वमासाद्य जानन्ते योगिनामिव ॥ २. वयं पूर्वभवे पापात् प्राप्ता दुर्मरणं पुनः । कीदृशी गतिरस्माकमनुभूता यमालये ॥ ३. श्येनत्वं केन वा प्राप्तं कर्मणास्मिन्भवे नः च । पारावतत्त्वमेतेषां गतमासीत् सुदुस्सहः ॥ ४. तुल्यपापसमाचारे ब्राह्मणत्वं कथं मयि । सभायां धर्मराजस्य कः प्रसङ्गः समीरितः ॥ ५. इतः परमिहास्माकं कागतिर्देवचोदिता । एतत् सर्वमशेषेण श्रोतुमिच्छामि हे सखे ॥ ६. शङ्खः -- इति पृष्टः तदा श्येनः सादरं द्विजसूनुना । विहाय मानसं दुःखं धैर्यमालम्ब्य चेतसि ॥ ७. किञ्चित् विश्राम्य सोच्छ्वासं प्राहेदं पक्षिराट् द्विजम् । हन्त ते कथयिष्यामि विचित्रं विस्मयावहम् ॥ ८. श्रुतं दृष्टं यमपुरे यदस्माभिरनुष्ठितम् । यथानुशासितं राज्ञा सभायां सूर्यसूनुना ॥ ९. यदा व्याधाधिराजेन निहताः तीव्रमन्युना । तथैव प्राप्तमस्माभिः वपुरत्यन्तनिन्दितम् ॥ १०. परितो मेघसङ्काशाः सायुधा यमकिङ्कराः । आवृत्य भर्त्सयन्तोऽस्माविनिन्युर्यमसंसदम् ॥ ११. प्रणम्य यमराजानं ऊचुर्विनयसंस्थिताः । प्रसीद नाथ भृत्येषु भक्तेष्वस्मासुसाम्प्रतम् ॥ १२. समाकर्णय विज्ञाप्यं अस्माभिः समुदीरितम् । राजशासनमादाय मूर्ध्ना चूडामणिं यथा ॥ १३. मलयाद्रिं समासाद्य नीत्वा म्लेच्छहतानिमान् । यातनां कर्तुमारोप्य समानीताः तवान्तिकम् ॥ १४. नालं पन्थाय पापानामेतेषां रचना विभो । अस्मदायुधजालानि नालं खण्डयितुं पुनः ॥ १५. क्षिप्तमुल्कासहस्रं च पुष्पायन्ते हि पापिषु । न जलूका न वा सर्पा नखगा नैव दंशकाः ॥ १६. एतां शिक्षयितुं राजन् न व्याघ्रा नव्याधयोऽपि वा । न वयं शिक्षितारस्तु किं कुर्मः कर्म वै परम् ॥ १७. इति तेषां वचः श्रुत्वा राजा वैवस्वतो यमः । स्मयमानः सान्तमन्तः कुपितो वाक्यमब्रवीत् ॥ १८. आगच्छन्तु भटाः शीघ्रं नानाशस्त्रास्रपाणयः । छिन्दन्तु खड्गैः गात्राणि छेदयन्तु शरैस्तनूः ॥ १९. तदस्त्र ज्वलितोल्काभिः पोथयन्तु च मुद्गरैः । भर्जन्तु कटाहेषु तैल सन्धुक्ष्तेषु च ॥ २०. बध्नन्तु पाशैर्विविधैः कषन्वङ्गारराशिषु । उत्पाटयन्तु रसनां कृष्यन्त्वन्त्राणि जम्बुकैः ॥ २१. क्रकचैर्दरियन्त्वेतान् चूर्णयन्तु पुनः पुनः । इतिसम्पन्नगम्भीरम्मुच्चैर्ब्रुवति चान्तके ॥ २२. सर्वोद्योगेन ते दूताः ताडयामासुरोजसा । मुसलैः पाट्यमानैश्च शूलशक्तिपरश्वथैः ॥ २३. उल्काशतैरङ्कुरैर्वा दुःखं ते न प्रतिपेदिरे । पूष्पवृष्टिभिराविष्टाः गन्धालिप्ता इवाभवन् ॥ २४. परिश्रान्ता भटास्सर्वे तूष्णीमासन् समन्ततः । न व्यध न क्षुधा तेषां पापिष्ठानां यमान्तिके ॥ २५. किमेतत् इति जल्पन्तो दूरे तस्थुर्वृथोद्यमाः । विस्मयाकुलचितानां किमेतत् इति जल्पताम् ॥ २६. सभ्यानामभवत् घोषं मेघानामिव गर्जताम् । चिन्तयाने पितृपतौ चित्रगुप्ते च विस्मिते ॥ २७. काले कलनसम्भग्ने भृत्ये ध्यानमुपेयुषि । हीणेषु किङ्करेष्वेवं प्रशान्ते जननिस्स्वने ॥ २८. अम्बरादशरीराभूत् क्वापि वागम्बुदस्वना । अशक्या शिक्षितुं ह्येते महातीर्थनिषेवणात् ॥ २९. अवज्ञयापि ताम्रायाः मज्जन्त्तः तीर्थवारिणा । हन्यन्ते पातकैस्सर्वैः न वृष्ट्या पर्वता इव ॥ ३०. इति श्रुत्वा यमो राजा भयसंविग्नमानसः । कृताञ्जलिर्वेपमानः सगद्गदमिदं जगौ ॥ ३१. यमः -- अहो महोदयमिदं श्रुतं मे चिरकालतः । कृतानि सुकृतान्यत्र फलितानि न संशयः ॥ ३२. यस्याः श्रवणमात्रेण मुच्यन्ते जन्तवो भयात् । तामिदं त्वत्प्रसङ्गेन श्रुणोमि श्रुतिलालिताम् ॥ ३३. यामाहुः श्रुतयो नित्यं पापघ्नीं मलयात्मजाम् । स्तुवन्ति मुनयो नित्यं निष्पापाः पावनीं च ताम् ॥ ३४. यत्र वेदाश्च मन्त्राश्च क्रतवो ब्रह्मचोदिताः । यत्पयःकणिकामात्र पवित्रीकृतमूर्तयः ॥ ३५. यत्प्रवाहेन या पूताः मूर्तयःखलु कीर्तयः । यत्तोयममृतं प्राहुः ब्रह्मात्मकमकल्मषम् ॥ ३६. यत्र नारायणः साक्षात् वटुरूपेण वर्तते । इरावती धेनुमती परुष्णी भवनी सुधा ॥ ३७. अरुणा चेति वेदान्तवचोभिः परिगीयते । यत्तीर्थपरिणामेन जायन्ते मणयो भुवि ॥ ३८. सदाशिवेन नियता कण्ठाभरणमालिका । विष्णुचूडामणिरियं हृल्लेखा भारतीपतेः ॥ ३९. अदृश्या सर्वभूतानामादिशक्तिरनामया । प्रार्थिता शङ्करेणादौ तीर्थाकारा प्रदृश्यते ॥ ४०. तां नुमः परमानन्दजननीं मलयात्मजाम् । पुरतःपातु मां नित्यं पापघ्नी ललितेश्वरी ॥ ४१. पृष्ठतः सततं पातु पाटीराचलकन्यका । दक्षिणे चाक्षुषी नित्या वामा माणिक्यगर्भिणी ॥ ४२. अधस्तात् उपरिष्टात् च पातु मां पद्मगर्भिणी । दिवानिशं महादेवीं ताम्रपर्णीं स्मराम्यहम् ॥ ४३. स्मरामि सायं प्रातः तां सावित्रीं तीर्थदेवताम् । इति स्तुवन् यमो राजा मूर्ध्ना मुकुलित्ञ्जलिः ॥ ४४. आनन्दबाष्पपूराभ्यां लोचनाभ्यां विलोकयन् । धायन् स्तुवन् नमस्यंश्च क्षणं मौनमुपागमत् ॥ ४४. इति स्तुवन्तं राजानं सर्वे तस्य सभासदः । प्रणिपत्य महाभागाः मिलित्वा वाचमूचिरे ॥ ४६. सभ्याः ऊचुः -- भगवन् सर्वधर्मज्ञ धर्मराज दयानिधे । अस्याः प्रभावं ताम्रायाः श्रोतुमिच्छामहे वयम् ॥ ४७. यदम्बुलेशसम्पर्कात् यातना नैव जन्तुषु । आश्चर्यादिव ताम्रायाः पश्यामो विभो ॥ ४८. हन्त वः कथयिष्यामि कथां कलिनिवारणीम् । दृष्टा मया काचित् कथा कौतूहलावहा ॥ ४९. तामिदानीं प्रवक्ष्यामि श‍ृण्वन्तु विनयोज्ज्वलाः । पुरा कृतयुगे कश्चित् हरिस्वामीति विश्रुतः ॥ ५०. वेदवेदान्तवित् दान्तः शान्तः सर्वसमः सुधीः । भार्यां पुत्रेषु निक्षिप्य समारोप्य हुताशनम् ॥ ५१. तृतीयमाश्रमं प्राप्य योगी नियत मानसः । तपश्चचार सुचिरं ताम्रायाः उत्तरे तटे ॥ ५२. याज्ञवल्क्याश्रमे पुण्ये ब्रह्मज्ञानविधित्सया । प्राप्य प्रसन्नात् वरुणात् बीजमौर्वारुकं शुभम् ॥ ५३. वापयित्वाश्रमाभ्याशे ररक्षोपवनपादपैः । सैषा प्रधानिनी वीरुत् आवृता बाहुमात्रकः ॥ ५४. फलत्यरहरहः पक्वमेकमेकं सुधारसम् । तत्र त्रिवर्गमाराध्य चकाराहारमात्मवान् ॥ ५५. एतस्मिन्नन्तरे कश्चित् विप्रो वासिष्ठगोत्रजः । कुटुम्बभरणासक्तः श्रोत्रियः च विशेषतः ॥ ५६. भानुचित्त इति ख्यातः कृत्याकृत्यविचारवित् । अविरक्तदयाचित्तमाशापरवशं वहन् ॥ ५७. मलिम्लुचानां शूराणां वदान्यानां स भूसुरः । पौरोहित्यधुरं चक्रे तत् दत्तैर्वृत्तिमाचरन् ॥ ५८. हरिस्वामिननमासाद्य सखित्वात् अभ्यवादयत् । तमागतं प्रीणयित्वा हरिस्वामी महामुनिः ॥ ५९. बभाषे वचनं चेदौपविष्टं सुहृत्तमम् । सखे तव गृहे कश्चित् कुशलं परिवर्तते ॥ ६०. किमर्थमागतोऽसि त्वं कस्ते चित्तमनोरथः । सर्वं कथय मे तथ्यं श्रोतव्यं मे सुहृत्तया ॥ ६१. भानुचित्तः -- भगवन् कुशलं सर्वं ख्रुपया तव मे गृहे । त्वदङ्घ्रिवन्दनासक्तः सङ्क्रमस्नानवाञ्छया ॥ ६२. अतस्सिंहस्समारूढे भास्करे लोकलोचने । ताम्रपर्णीजलस्नानं अश्वमेधफलाधिकम् ॥ ६३. इति गर्जति सर्वत्र गाथा पौराणिकी किल । स्नातुमिच्छामि भगवन् त्वदनुज्ञापुरस्सरम् ॥ ६४. श्रुत्वैवं वचनं तस्य हर्षमाणः पुनःपुनः । पुन्रेवापरं वाक्यं सुहृदं प्रत्यभाषत ॥ ६५. सुहृत् तवैवागमनात् सन्तुष्टोऽस्मि महामते । स्नात्वा तीर्थं यथान्यायमत्रादित्यं विधाय च ॥ ६६. उषित्वा रजनीमद्य ते गन्तासि गृहं प्रति । इत्थं सम्मानितस्तेन मुनिना स महीसुरः ॥ ६७. स्नात्वा तीर्थे महापुण्ये तर्पयित्वा पितॄन् सुरान् । पुनः तदाश्रमं प्राप्य नियमान्त् यथाविधि ॥ ६८. और्वारुकफलेनैव सुधासारातिशायिना । मुनिदत्तेन निर्वृत्य प्राणाहुतिविधिं क्रमात् ॥ ६९. उषित्वा रजनीमेकां तेन सार्धं महर्षिणा । तमापृच्छ्य प्रभातायां प्रस्थातुमुपचक्रमे ॥ ७०. दृष्ट्वा तदाश्रमाभ्याशे उर्वारुकलतां शुभाम् । कुतूहलेन मनसा फलमाहृत्य सत्वरम् ॥ ७१. जगाम स्वगृहं विप्रः सकुटुम्बोभ्यभक्षयत् । हरिस्वामी समुत्थाय स्नात्वा सूर्यमुपास्य च ॥ ७२. निवृत्य काल्यं नियमं हुताग्निः कृतकृत्यवित् । फलाहाराय मध्याह्ने सोर्वारुकमुपागमत् ॥ ७३. न ददर्श फलं तत्र क्षुधार्त इदमब्रवीत् । येन वापहृतं पक्वं त्रिवर्गोदयहेतुकम् ॥ ७४. स पापी भवितात्रैव जम्बुको नात्र संशयः । इति शप्त्वा मुनिः कोपात् प्राप्य चोपाषितो गृहम् ॥ ७५. भानुदत्तस्स विप्रोऽपि शतस्तेन महात्मना । गोमायुत्वमवाप्यैव निर्गतस्स्वगृहादसौ ॥ ७६. दुःखेन महताविष्टो मुनेस्तस्याश्रमं ययौ । चुक्रोश बहुधा तत्र वेपमानः परिभ्रमन् ॥ ७७. हरिस्वामी तदाज्ञाय दिवा गोमायुनिस्स्वनम् । विनिर्गत्याश्रमद्वारे ददर्शाग्रे तु जम्बुकम् । ७८. सोऽपि तीव्रं समागत्य पादयोः प्रणिपत्य च । लुठमानः तदा दुःखात् समाक्रन्दत् मुनिं प्रति ॥ ७९. किमेतत् इति सञ्चिन्त्य दृष्ट्वा दिव्येन चक्षुषा । गोमायुमवदत् धीमान् सखित्वात् करुणानिधिः ॥ ८०. सखे मयानभिज्ञेन शप्तोऽसि धृतमन्युना । भवितव्ये न शोचन्ते पण्डिताः शान्तबुद्धयः ॥ ८१. तवाविकतः प्राप्तं नवमेतत पराभवम् । अनुभूयाल्पकालेन श्रेयो विन्दति शाश्वतम् ॥ ८२. भक्तिः परशिवे भूयात् वागस्तु तव वैखरी । बुद्धिस्तु सततं सम्यक् सततं मदनुग्रहात् ॥ ८३. यावदभ्येति सविताचापराशिमितः परम् । तदत्र मज्जनायैव ताम्रपर्ण्यामितः परम् ॥ ८४. निर्मुक्तसापो भविता मेघमुक्त इवांशुमान् । मदाश्रस्योपखण्डे शिलागर्ते वसिष्यसि ॥ ८५. तावत् मदाज्ञया सर्वे नैव हिंसन्ति संस्थितम् । इत्थमाश्वासितः शापात् कथितो मुनिनामुना ॥ ८६. उवासान्यनेकानि गणयन्नेष जम्बुकः । तावत् तद्देशभूपालः पाण्ड्यः परपुरञ्जयः ॥ ८७. श्रुत्वा जनपदं सर्वं चोरैरप्याहृतं मुहुः । कुपितः सेनया सार्धमावृत्य गिरिकाननम् ॥ ८८. जग्राह निखिलान् सर्वान् तस्करान् सपरिच्छदान् । सर्वान् आनीय सैन्येन शूलप्रोतान् अकारयत् ॥ ८९. दूरतो वायुनाकृष्टं शवगन्धं स जम्बुकः । आघ्राय कौतुकी वेगात् निस्ससार बिलोदरात् ॥ ९०. शिलागर्तात् विनिष्क्रान्तः प्रययौ यत्र ते हताः । ददर्श चोरान् शूलप्रोतान् भक्ष्यमाणान् तु वायसैः ॥ ९१. लुण्ठितान् च खगैः तीव्रैः श‍ृगालैः चोपखण्डितान् । तुण्डेनोत्पाट्यमानान् च गृध्रसङ्घैः बिलोद्धतैः ॥ ९२. इतस्ततो भक्ष्यमाणान् भषकैः श्वापदैरपि । क्षणेनोद्गम्य तत्प्रान्तं चिन्तयामास स जम्बुकः ॥ ९३. किमारब्धमिदं पापं मया सर्वत्र कुत्सितम् । जात्या न जम्बुकोऽहं छन्दोगान्वयसम्भवः ॥ ९४. अविवेकतया पापं कृत्वा जम्बुकतां गतः । पतितं तारयेत् विद्वान् आत्मानमास्थितः ॥ ९५. हतं निघ्नन्ति कुत्रापि पतितं कः प्रपातयेत् । दृष्ट्वा स्पृष्ट्वापि मज्जन्ति शवं तीर्थेषु मानवाः ॥ ९६. कथं रमे शवाहारे जानन्नपि यथोचितम् । पुरा कुन्तलराजस्तु नागकेतुरिति श्रुतः ॥ ९७. पर्णादस्य च शापेन व्याघ्रो भूत्वा महावने । धेनुं हत्वा ऋचीकस्य ज्ञात्वा भक्षितवान् पुनः ॥ ९८. अपि शापान्तमासाद्य ततो गोहत्तिमाप्तवान् । वसिष्ठशापात् रक्षोऽभूत् कल्माषाङ्घ्री महीपतिः ॥ ९९. ब्राह्मणीशापजं दोषं मुक्तशापोऽप्यवाप्तवान् । इत्थं विचार्य सुचिरं निवृत्तः शवभक्षणात् ॥ १००. पुनर्मनीषामाश्रित्य निस्सृत्य मतिमानसौ । सविमर्शं पुनःकार्यं कमप्येवमचिन्तयत् ॥ १०१. एतेषामेव चोराणामहं सिद्धः पुरोहितः । तत्तैरेषां धनैरेव पोषितोऽहं चिरं खलु ॥ १०२. एतेषां सद्गतिं दत्वा ऋणान्मुक्तो भवाम्यहम् । इति निश्चित्य मृगधूर्तः कुतूहलात् ॥ १०३. तेषामस्थीनि सर्वाणि पतितानि महीतले । विकृष्य तीर्थे चिक्षेप तम्रायाः पर्माद्भुते ॥ १०४. स्वयं स्नातो महानद्यां शिलागर्तं पुनर्ययौ । सर्वे सभ्याः परं चित्रं श‍ृणुध्वं मामका जनाः ॥ १०५. तेषामाजन्मपापानां ताम्रायामस्थिसञ्चये । पतिते जम्बुकक्षिप्ते ताम्रोदा हतपापिनः ॥ १०६. पश्यमानः ततो घोरे नरके दुस्सहे पुनः । निर्जग्मुः सूर्यसङ्काशाः कन्दर्पसमविग्रहाः ॥ १०७. अप्सरोगुणमान्येन वपुषा मणिचारुणा । विमानमारुह्य शुभं सर्वे स्वर्गमुपागमन् ॥ १०८. एवं दृष्टं मया सभ्याः ताम्रायाः परमाद्भुतम् । य तदादिनित्यं मलयेन्द्रकन्यां आराधयन् वाग्भिरनुत्तमाभिः । एवं नयिह्यामि यथानुकूलं तत्दर्शनं दूरत एव कुर्वन् ॥ १०९. वैमानिकास्ते नु समेत्य ताम्रां विशोध्य पापादपि भानुदत्तम् । प्रसाद्य भूयोऽपि गुरुं प्रपन्नाः तेनानुशिष्टाः प्रययौ स्वलोकान् ॥ इति पञ्चविंशोऽध्यायः । Pro.Total = 1901 + 109 = 2010.

षड्विंशोऽध्यायः

श्येनपारावतानां पुण्यलोकगमनम् - द्विजसुतस्य ताम्रपर्णीप्रसादात् ब्रह्मपदप्राप्तिः । १. यमः -- विचित्रेयं कथा ख्याता तीर्थमाहात्म्यरूपिणी । श्रवणात् कीर्तनात् वापि पापघ्नी नात्र संशयः ॥ २. अस्याः प्रभावं वक्तुं वा श्रोतुं वा वर्षकोटिभिः । नालमादिपराशक्तेः मालायाः शोभनोदयम् ॥ ३. प्रत्यहं मामकास्सर्वे नमस्कृत्य सरिद्वराम् । जपन् तन्नामधेयानि पुण्यान्यात्मशुद्धये ॥ ४. एतावत् उक्त्वा वचनं राजा वैवस्वान्तकः । भटान् आहूय भूयोऽपि सभायामभ्यभाषत ॥ ५. षडेते तीर्थसंसर्गात् शुद्धा यातनाभयवर्जिताः । तथापि कर्मसुद्ध्यर्थं पश्यन्तु नरकान् बहून् ॥ ६. इत्याज्ञप्ता भटास्तेन नीत्वास्मान् यमशासनात् । नरकान् दर्शयामासुः शतशोऽथ सहस्रशः ॥ ७. रौरवं कास्वरं चैव कुम्भीपाकं शरारुकम् । महारौरवमातङ्गं कृमिशं कृमिभक्षकम् ॥ ८. बालाभक्षं वीचिकं च तप्तवालुकमंशुकम् । रेतःकुण्डं पूतिगन्धं कश्मलं शमलं मलम् ॥ ९. एतान् अन्यान् च भूयिष्ठान् नारकैर्विविधैर्जनै ; । शूलप्रोतान् भक्ष्यमाणान् क्रकचैर्दारितानपि ॥ १०. कुठारैर्भेद्यमानान् च भक्ष्यमाणान च वायसैः । सञ्छिन्नान् क्षारसङ्क्लिन्नान् अङ्गरे तैललेपितान् ॥ ११. एवमन्यान् च बहुलान् पीड्यमानान् समन्ततः । दृष्ट्वा दृष्ट्वा वयं सर्वे वेपमाना भयातुराः ॥ १२. चतुराशीतिसाहस्रवर्षाण्येवोषिताः किल । पुनर्यमान्तिकं नीताः सन्दिष्टा तेन सौरिणा ॥ १३. श्लाघ्यवंशसम्भूतः धर्मज्ञः श्रुतिपारगः । दुस्सम्पर्केऽपि भुञ्जानः गायत्र्या चाभियन्त्रितः ॥ १४. अत एव पुनर्विप्रो भविता नात्र संशयः । वर्णान्तरगतः पापी कापाली सर्ववञ्चकः ॥ १५. श्येनोऽयं भविता नूनं निजकर्मनियन्त्रितः । एते पारावता भूत्चा वसन्तु रुचिरं वने ॥ १६. यदा ताम्रा नदी तोये मज्जन्तः शुभदायके । तदास्तु भूयसी शुद्धिः पूर्वजन्मस्मृतिर्भवेत् ॥ १७. षण्णां समागमो यावत् ताव्त् स्नात्वा नदीजले । कर्मानुरूपं गच्छन्तु स्वर्गतिं दिव्यभोगिनः ॥ १८. द्विजोऽयं ज्ञानसम्पन्नः कर्मिष्ठः च विशेषतः । इष्ट्वा बहुविधैर्यज्ञैः अपि देवान् पितॄन् ऋषीन् ॥ १९. अक्षयं शाम्भवं लोकं प्रयातु प्रार्थितं यथा । इत्थं यमेन सन्दिष्टाः प्राप्ता वयमिह द्विज ॥ २०. स पुरोधास्त्वस्माकं अहं कापालिको मतः । राजपुत्राविमौ ज्ञेयौ सभार्यौ पक्षिवेषकौ ॥ २१. इतः परं सदा भूयात् अस्माकं परमा गतिः । देवो गुरुश्च बन्धुश्च सखा माता पिता भवान् ॥ २२. पालनीया वयं सर्वे भवता द्विजबन्धुना । वयं त्वां शरणं प्राप्ताः सवित्रीमिव पालकाः ॥ २३. शङ्खः -- इत्थं ब्रुवाणं भीतास्ते पक्षिणश्शोककर्शिताः । निपेतुः पादयोस्तस्य ब्राह्मणस्य महात्मनः ॥ २४. समाश्वास्य गिरा राजन् सम्भाव्य च महामतिः । स्मयमानोऽश्रुपूर्णाक्षः तूष्णीं क्षणमतिष्ठत ॥ २५. प्रसन्नात्मा ततस्ते तु साकमेत्य महानदीम् । पक्शिणः स्नापयामास अहामन्त्रं समुच्चरन् ॥ २६. सर्वे ममज्जुर्विहगाः संप्राप्य मलयात्मजाम् । तीरमासाद्य सद्यैव तत्यजुः तनुमात्मनः ॥ २७. कोटिकन्दर्पलावण्यं बिभ्राणा भास्वरं वपुः । द्विजं प्रदक्षिणीकृत्य नमस्कृत्य पुनःपुनः ॥ २८. वैमानिकावैमानिकास्ततो जग्मुर्महाभागास्सुरालयम् । इत्थं विचित्रमालोक्य लब्धपूर्वभवस्मृतिः ॥ २९. निर्विण्णचित्तो दुःखेन तपसे कृतनिश्चयः । अवगाह्य महातिर्थं संस्तुवन् मलयात्मजाम् ॥ ३०. स्वपित्रोः कथयामास वृत्तान्तमिदमद्भुतम् । कथञ्चित् उपलभ्यासौ अनुज्ञामभिवाद्य च ॥ ३१. प्राप्येन्द्रकीलं परमं क्षेत्रं क्षेमकरं नृणाम् । हृदि ध्यात्वा महादेवीं मालां मलयनन्दिनीम् ॥ ३२. तताप परमं बालोऽप्यमरैरनुभावितम् । अभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा ॥ ३३. चकरोग्रं तपःश्रीमान् त्रिलोकीविस्मयावहम् । एवं वर्षत्रये पूर्णे सन्तुष्टा तीर्थदेवता ॥ ३४. आविर्बभूव तस्याग्रे सेव्यमाना सुरासुरैः । द्योतयन्ती दिशस्सर्वाः स्वभासा कुङ्कुमैरिव ॥ ३५. वत्स तातेत्युदारार्थैः वचनैः प्रीणयत्यमुम् । श्रीदेवी -- वत्स तात प्रसन्नोऽस्मि तपसानेन भूयसा । दास्यामि कामान् अखिलान् दुर्लभानपि भूतले ॥ ३६. अलं परिश्रमेणात्र वरान् वरय सुव्रत । इति श्रुत्वा वचो मातुः स बालः प्रीतमानसः ॥ ३७. समाधिमुपसंहृत्य समुन्मील्य विलोचने । ददर्शाग्रे महादेवीं बालातपसमप्रभाम् ॥ ३८. नानामणिगणाकीर्णैः भूषणैरपि भूषिताम् । मन्दस्मितामिन्दुभूषनां भुवनेश्वरीम् ॥ ३९. मुनिवृन्दैस्सेव्यमानां तीर्थशक्तिगणावृताम् । इत्थं चराचरमयीं देवीमालोक्य सम्भ्रमात् ॥ ४०. प्रणम्य पुरतो मूर्ध्नि तुष्टाव मलयात्मजाम् । ब्रह्मचारी -- प्रसीद मातर्माहेशि मलयाद्रिसमुद्भवे ॥ ४१. महापातकजम्भालपरिशोषणभास्करे । पापान्धकारसङ्घातभञ्जनैकार्कमण्डले ॥ ४२. परितापापहे भास्वन्महामणिमहोदये । कल्याणि कमलावासे महामलयनन्दिनि ॥ ४३. मायाजालमहाध्वान्तपरिपन्थिपयःकणे । धर्मद्रवे भगवति भवज्वालापहारिणि ॥ ४४. प्रसीद प्रणवाकारे प्राक्तने तारकोदये । ताम्रपर्णि जगन्मातः प्रसीद मयि सन्ततम् । ४५. जन्महारिणि जन्तूनां पापहारिणि मज्जताम् । भयहारिणि भक्तानां भोगदे पुण्यकर्मणाम् ॥ ४६. कुम्भसम्भवसौभाग्यसाधने कामदोहिनि । पापघ्नि भवपङ्कग्नि परमानन्ददायिनि ॥ ४७. पाटीरशैलतनये पवित्रे ते नमो नमः । सम्स्ततीर्थजननि समानाधिकवर्जिते ॥ ४८. अनादिशक्तिसम्भूते पूवे पूर्वे नमो नमः । स्वर्गसोपानसुभगैः तरङ्गैरुपशोभिते ॥ ४९. आवर्तरूपैः प्रणवैरभिरामे नमो नमः । त्रिलोकजननीशानहृदयाब्जविहारिणि ॥ ५०. विधातृविष्णुसम्भाव्ये तीर्थमातर्नमोऽस्तु ते । त्वदङ्घ्रिभक्तिरच्छिन्ना मयि भूयान्निरन्तरा ॥ ५१. त्वदन्यत्र मनो मे स्यान्न कदाचित् दयात्मिके । त्वत्तीरे वसतिर्भूयात् त्वत्पादजलसेवया ॥ ५२. आनन्दबाष्पपूर्णाभ्यामक्षिभ्यां त्वां विलोकये । त्वत्कथामृतपूरेण पूरये श्रवणद्वयम् ॥ ५३. मनसा भावयिष्यामि मातस्त्वामेव सन्ततम् । ममेन्द्रियाणि सर्वाणि सदा सेवनपूजने ॥ ५४. मामनन्यगतिं भक्तं मा मुञ्च मलयात्मजे । महामङ्गलदे देवि मातर्मयि दयां कुरु ॥ ५५. त्वां विश्वस्य वसाम्यम्ब त्वन्नस्त्राणकरी परा । अन्यां गतिं न पश्यामि त्वयैव मम जीवनम् ॥ ५६. इत्थं स संस्तुवन् राजन् रोमाञ्चितकलेवरः । भूयः पपात पादाब्जे भगवत्यास्भूसुरः ॥ ५७. एवं मलयजा देवी संस्तुता ब्रह्मचारिणा । प्रार्थिता च पुनर्भक्त्या तमुत्थाप्य चतुर्भुजैः ॥ ५८. परिमृज्यामृताकारैः प्रेम्णा स्वकरपङ्कजैः । विकिरन्तीव पीयूषैः मन्दस्मेरांशुसञ्चयैः ॥ ५९. वीणानादामृताचार्यैः वचनैर्व्याजहार तम् । यथाभिलषितं तात तथास्तु तव सन्ततम् ॥ ६०. तव सन्तु चतुष्षष्टिकला कौतूहलावहा । छन्दांस्ययातयामानि भवन्तु मदनुग्रहात् ॥ ६१. कुर्वन्त्वनुग्रहे सर्वे ब्रह्मरुद्रमुखास्सुराः । कौतूहलावहा लक्ष्मीर्भूयात् त्वय्यनपायिनी ॥ ६२. जीवन् वर्षसहस्राणि महाभाग्यसमन्वितः । पुत्रपौत्रैः परिवृतः भुक्त्वा भोगान् यथेप्सितान् ॥ ६३. इष्ट्वा यज्ञैस्सुरान् सर्वान् विपुलैराप्तदक्षिणैः । ततस्ते भविता कीर्तिः प्रार्थिता सकलैस्सुराः ॥ ६४. सर्वे वदन्तु त्वामुग्रतपसं मम चाज्ञया । नित्यमाराधयन् शम्भुं भक्त्या मामपि मातरम् ॥ ६५. गृहं गच्छ यथासौख्यं सर्वतो भद्रमस्तु ते । इत्थं तं बालमाश्वास्य देवी तीर्थैकदेवता ॥ ६६. भूयः प्रवाहमध्ये तु प्रविवेश महानदी । तमुग्रतपसं प्राहुः सर्वे सिद्धाः सुरासुराः ॥ ६७. पूज्यमानो मुनिगणैः भूतैश्च विविधैरपि । प्राप्य स्वाश्रमं पित्रोः पादयोरभ्यवादयत् ॥ ६८. मूर्ध्न्याघ्राय नन्द्यैनं पितरावाप्यनन्दताम् । ततो भ्रद्वाजमुखात् वेदानभ्यस्य बुद्धिमान् ॥ ६९. वेदान् च विविधान् चान्याः कलाः कौतूहलावहाः । गुरुदक्षिणयाचार्यं सम्पूज्य तदनुग्रहात् ॥ ७०. मेधातिथेः सुतां तन्वीं नाम्ना शालावतीं शुभाम् । उपयेमे विधानेन सर्वेषां प्रीतिवर्धनम् ॥ ७१. तयैव भार्यया सार्धं गार्हस्थ्यमनुवर्तयन् । चकार वाजपेयादीन् क्रतून् विपुलदक्षिणान् ॥ ७२. मणिग्रीवपुरे नित्यं निवसन् स्वगृहे सुधीः । प्रत्यब्दं तीर्थयात्रां तु तीरयोरुभयोरपि ॥ ७३. आरभ्य मलयं शैलमासागरमतन्द्रितः । पुत्रदारसमायुक्तं शिष्यैश्च सहितो वशी ॥ ७४. स्नानं चकार विधिवत् तीर्थश्राद्धसमन्वितम् । ताम्रपर्णीं समभ्यर्च्य प्रतिमायां समन्त्रकम् ॥ ७६. अभ्यर्च्य नामभिर्दिव्यैः भोजयित्वा द्विजोत्तमान् । दक्षिणाभिर्यथान्यायं आशानुगुणमर्चयन् ॥ ७७. नित्यं त्रिषवणस्नायी निनाय समयं क्रमात् । त्रिशताधिकसाहस्रपञ्चकं शरदां ययौ ॥ ७८. जीवन् पुत्रेषु विन्यस्य गृहधर्मान् सनातनान् । मलये तप आतिष्ठन् संप्राप ब्रह्मणःपदम् ॥ ७९. पुनःकल्पान्तरे राजन् महातीर्थस्यवैभवात् । जन्मलब्धं विधेरासीत् सनको योगिनां वरः ॥ ८०. अद्यापि तीर्थमाहात्म्यात् तीर्थवत् भुवनत्रयम् । पुनाति दर्शनेनैव महसा सूर्यसन्निभः ॥ ८१. अस्य सञ्चरमाणस्य समन्तात् आदियोगिनः । वायोरिति गतिः क्वापि नैव समृध्यते खलु ॥ ८२. अप्यन्ये पापिनो मर्त्याः शतशोऽथ सहस्रशः । यत्तीर्थकणिका मात्रस्पर्शनात् एव भूपते ॥ ८३. निधूतपापा गच्छन्ति पदं ब्रह्म सनातनम् । यदम्बुकणिकाशक्तिमहिमा सागरोपमः ॥ ८४. तस्मात् अस्यास्तु माहात्म्यं वक्तुं वाचामगोचरम् । नालं वर्षशतेनापि विस्तरेण गिरां पतेः ॥ ८५. प्रवक्तुर्वागनेकार्था युक्तिसाधनसंश्रुता । अपि देशान्तरगताः पापात्मनो यदृच्छया ॥ ८६. गृणन्तः परिमुच्यन्ते नामान्यस्य तु भूरिशः । तस्मात् त्वमपि न्राजेन्द्र दैवयोगादिहागतः ॥ ८७. स्नात्वा तीर्थेषु सर्वेषु ताम्रपर्ण्यां समाहितः । दत्वा दानानि भूरीणि ताम्रामभ्यर्च्य पावनीम् ॥ ८८. अनुग्रहान् महादेव्याः प्राप्य कामान् अनुत्तमान् । भूयो गन्तासि स्वर्लोकं सुखभोगसमृद्धिमत् ॥ ८९. इति तस्य मुनेर्वाक्यं आकर्ण्य स महीपतिः । परमानन्दनिर्मग्नहृदयो दयितान्वितः ॥ ९०. संस्तुवन् मुनिशार्दूलं हर्षगद्गदया गिरा । भूयो धर्मान् च शुश्रूषुः प्राञ्जलिर्वाक्यमब्रवीत् ॥ इति षड्विशोऽध्यायः । Pro.Total = 2010 + 90 = 2100.

सप्तविंशोऽध्यायः

वसुमना इति नाम्ना राज्ञा अगस्त्यवचनेन ताम्रपर्ण्यास्नानपूर्वकं काश्यपतीर्थे यागः कृतः । १. राजा -- न हि स्थिरतया मेरोः पुरुषः सदृशः किल । पारावारस्य गाम्भीर्यं परत्र न हि विद्यते ॥ २. ब्रह्मणस्सर्गसामर्थ्यं ब्रह्मण्ये न चान्यतः । तथैव ताम्रपर्ण्यास्तु तीर्थशक्तेस्त्वतुल्यता ॥ ३. न हि जागर्ति कुत्रापि परत्र भुवनत्रये । सुधासारस्थितं स्वादुलहरी किमु चान्यतः ॥ ४. तथा माहात्म्यं महिमा ताम्रायामेव दृश्यते । अस्याः प्रभावं भूयोऽपि श्रोतव्यं मे महामुने ॥ ५. पुण्ड्रेक्षुदुग्धोल्लसितं स्वादुता लोकरञ्जनी । प्रतिपद्य विशिष्टा हि रसनाग्रे प्रकाशते ॥ ६. तथैवासागरं ताम्रा महापातकनाशिनी । कथिता विंशतिस्थाने विशिष्टेति त्वया गुरो ॥ ७. तस्मात् तेषां तु तीर्थानां माहात्म्यं महदद्भुतम् । सोपाख्यानं तु विस्तार्य कथयस्व यथातथम् ॥ ८. शङ्खः -- महाराजाधिसम्भूतं कथां कलिमलापहाम् । श‍ृणुष्व सावधानेन वक्ष्यमाणामिमां मया ॥ ९. पुरा वसुमना नाम राजासीत् द्वापरे युगे । ययातिनः तु दौहित्रः सगरिष्ठः प्रतापवान् ॥ १०. विजित्य सकलामुर्वीं धनमादाय पुष्कलाम् । गच्छन् एव महाराज ददर्शाध्वान्तरे स्वयम् ॥ ११. परीतं तपसां राशिं मुनि साक्षात् इवेश्वरम् । त्रिकालवेदिनं गर्गमाचार्यं सर्वदेहिनाम् ॥ १२. उपगम्याभिवाद्यैनं प्रश्रितो वाक्यमब्रवीत् । स्वागतं ते महाभाग प्रसीद करुणानिधे ॥ १३. दूराभ्यागमनश्रान्त्या तनुस्ते तनुतां गता । विश्रान्तिर्यावता तावत् भूयात् आसीदमासनम् ॥ १४. अपूर्वदर्शनं ब्रह्मन् तव पादाम्बुजं मम । पुरा कृतानां धर्माणामिष्टापूर्तकृतात्मनाम् ॥ १५. फलानि पर्प्पक्वानि मन्ये त्वद्दर्शनात् अहम् । चिरकाङ्क्षितमेतत् हि श्रीमत् आगमनात् अयम् ॥ १६. इतः परं यतिष्येऽहं त्वदभीप्सितसाधने । नियुङ्क्ष्व मां महायोगिन् कृत्येष्वभिमते ॥ १७. सन्तं भवन्तमाराध्य कृतकृत्यो भवाम्यहम् । इत्यभिष्टूय वचनैरर्हणैरपि सादरम् ॥ १८. पूजयित्वानुयाचन् तं कृताञ्जलिरुपस्थितः । जहास किञ्चित् उद्विग्नो नोत्तरं प्रत्यपद्यत ॥ १९. पुनः प्रसादयन् वाचा मुनिमाह महीपतिः । हेयमस्ति किमस्मासु भगवन् कथ्यतामिह ॥ २०. नाङ्गीकरोषि मद्वाक्यं किं वा हासस्य कारणम् । त्वद्वचः श्रवणोत्कण्ठा वाञ्छा किन्न पूर्यते ॥ २१. दर्शनात् आप्तहर्षस्य मनो डोलायते मम । चन्द्रः चकोरं पुष्णाति चातकं च घनाघनः ॥ २२. तथा सन्तः विनीतं हि भूषयन्ति भवादृशाः । इत्थं व्याकुलचित्तस्य वैमनस्यं महीपतेः ॥ २३. दृष्ट्वातिकरुणं प्रेम्णा गर्गो मुनिरभाषत । राजन् त्वयि न पश्यामि हेयमद्यापि शत्रुहन् ॥ २४. कलङ्कता चन्द्रमसि वैषम्यं क्षीरसागरे । गौरीगुरौ तु जडता कौटिल्यं हि शरासने ॥ २५. तीक्ष्णता भास्करे नित्या दोषता रजनीमुखे । चिन्तामणौ च काठिन्यं पशुत्वं कामधेनुषु ॥ २६. एवं दोषैकभूयिष्ठे विस्तीर्णे विश्वगह्वरे । त्वय्येकस्मिन् न पश्यामि दोषं क्षीरे यथा विभो ॥ २७. तथापि दोषं दृष्ट्वाहं त्वय्यर्केऽपुपरागवत् । आगतोऽस्मि हि तद्वक्तुमधुना सत्वरं त्वयि ॥ २८. त्वया सागरपर्यन्ता वसुधा दिग्जिगीषया । परं पर्यटता भूरि तुरङ्गरथकुञ्जरैः ॥ २९. सार्धमक्षौणीलक्षैः व्यक्तमुद्वेजिता मही । भिन्नानि देवतागाराणि दूषितानि स्थलान्यपि ॥ ३०. ब्रह्मक्षेत्राणि शतशो नाशितानि ततस्ततः । भिन्नारामाणि पुण्यानि ग्रामाण्यात्मवतामपि ॥ ३१. संक्षुब्धजनसम्पातमर्यादप्रचारकम् । अस्वच्छन्दाश्रमाचारमपविद्धफलोदयम् ॥ ३२. हाहाकारावृतं राज्यं सञ्जातं भवता खलु । तद्दोषादेव राजेन्द्र क्षीणमायुः क्षणादिव ॥ ३३. इतः परं द्वादशाहात् मृत्युः त्वामुपगच्छति । तस्मात् तद्दोषशमनं प्रायश्चित्तं समाचर ॥ ३४. दाशार्हेणमाहूतो यज्ञार्थं यत्र भूभुजा । त्वरितं गन्तुमिच्छामि राजाधानी महात्मानः ॥ ३५. मथुरां माधवो यत्र सान्निध्यं कुरुते सदा । यामासाद्यावमुच्यन्ते जन्तवः कर्मबन्धनात् ॥ ३६. अतस्त्वमत्र निकटे मलये मङ्गलालये । लोपामुद्रापतिश्श्रीमान् वसते तपसां निधिः ॥ ३७. तं गच्छ शरणं शीघ्रं माविलम्बोऽस्तु भूपते । स त्वां पालयति श्रीमान् अपि संयमनीं गतम् ॥ ३८. पुरा गण्डूलनगरे राक्षसेनापि भक्षितम् । पदातिकुलसम्मर्दपताकाध्वजमालिनीम् ॥ ३९. ध्वजिनीं स्वां महानाथामुप्वेश्य नदीतटे । स राजा विनयोपेतः संप्राप कलशोद्भवम् ॥ ४०. उपसृत्यागस्त्यस्य कृताञ्जलिरुदारधीः । अभ्यवादयदात्मानं प्रब्रुवन् एव भूपते ॥ ४१. तं दृष्ट्वा मुनिशार्दूलः राजानं सूर्यवंशजम् । अभिनन्द्योपचाराद्यैः यथावत् अभिपूज्य च ॥ ४२. स्मयमनो मुनिः प्रीत्या राजानमिदमब्रवीत् । अगस्त्यः -- स्वागतं ते महाराज परिश्रान्तोऽसि केन च ॥ ४३. किं ते व्यवसितं चित्ते किं चिकीर्षुस्समागतः । चिन्ताकुल इवाभासि कारणं वक्तुमर्हसि ॥ ४४. राजन् तवाभ्यगमनात् संहृष्टोऽस्मि महामते । सर्वं कथय तत्त्वेन मास्तु चिन्ता परिश्रमः ॥ ४५. अपनेष्यामि शोकं ते नात्र कार्या विचारणा । आसागरमिमामुर्वीं जितवानसि लाघवात् ॥ ४६. असङ्ख्यातानि रत्नानि नानावर्णानि भूतले । आर्जितानि सहेमानि देवभोज्यानि सर्वतः ॥ ४७. ज्ञातं मे सकलं वृत्तं समाधिमुपजग्मुषा । इत्याकर्ण्य मुनेर्वाक्यं पीयूषमिव कर्णयोः ॥ ४८. चिन्तामन्तर्गतां त्यक्त्वा प्राञ्जलिः प्रत्यभाषत । वसुः -- ब्रह्मन् भक्तजनानन्दपारिजातपदाम्बुज ॥ ४९. शरणं त्वां प्रपन्नोऽस्मि श्रूयतां वचनं मम । मया सञ्चरतां भूमिं दिगन्तविजिगीषया ॥ ५०. यदृच्छया गर्गमुनिः पूजनीयोऽभिपूजितः । लोकसन्तापसञ्जातपापात् आयुः क्षयं मम ॥ ५१. मह्यं सङ्कथयन् प्रायात् स मुनिर्मथुरापुरीम् । दीर्घायुर्योगसिद्ध्यर्थं त्वामस्मिशरणं गतः ॥ ५२. ततस्तमाश्वास्य गिरा भगवान् कलशोद्भवः । विचार्य सर्वशास्त्राणि विमृश्य निगमान्यपि ॥ ५३. निश्चितार्थो मुनिः प्रीत्या प्राह गम्भीरया गिरा । अगस्त्यः -- श्रुणु राजन् प्रवक्ष्यामि प्रायश्चित्तं तु पाप्मनाम् ॥ ५४. एषा महानदी पुण्या घृतमाला मधुद्रवा । ताम्रपर्णीति विख्याता निगमान्तविलासिनी ॥ ५५. पण्डितैः पठ्यते नित्यं पुराणेषु पुनःपुनः । परुष्णीति सुपर्णेति ताम्रेति श्रुतयो जगुः ॥ ५६. धर्मद्र्वेति सर्वत्र कथ्यते हि सुरासुरैः । यत्तीर्थमहिमां नित्यं वदन्ति वचसामराः ॥ ५७. हरिरत्रैव भगवान् आस्ते सिद्धजनेडितः । शम्भुरत्रैव दीवी च जगतां जननी परा ॥ ५८. अत्र मन्त्राश्च वेदाश्च क्रतवोऽग्निमुखास्सुराः । यदम्बुकणिकापानात् ब्रह्महत्यापि नश्यति ॥ ५९. गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः । यदम्बुमज्जनान्मुक्ता मज्जन्तो ब्रह्मभाविताः ॥ ६०. अतः अस्याम्बुलाभेन विन्दन्ति मनुजा भुवि । सुलभादेव राजेन्द्र पुरुषार्थचतुष्टयम् ॥ ६१. तमात् मदुपदेसेनस्नानं कुरु यथाविधि । निर्मुक्तपापो भविता दीर्घमायुश्च विन्दसि ॥ ६२. इति तद्वचनादेव तं पुरोधाय कुम्भजम् । स्नानं चकार ताम्रायां तथा वसुमना नृपः ॥ ६३. यदा तदम्बुपूरे तु सन्निमग्नकलेवरः । तावत् कलाकलाकारैः बुद्बुदैस्तिमिरोपमैः ॥ ६४. व्याप्तं बभूव तत्सर्वं समन्तात् क्रोशमात्रकम् । नीलामलसमाकारं ताम्राजलमदृश्यत ॥ ६५. स्नात्वा तीरं समासाद्य दृष्ट्वा कलुषितां नदीम् । मुनिमाह स भूपालो विस्मितेनान्तरात्मना ॥ ६६. राजा -- भगवन् किमिदं तीर्थं नीलीजलसमप्रभम् । मेघैरिव नभो व्याप्तं सुव्यक्तं कथ्यतां मम ॥ ६७. अगस्त्यः -- राजन् त्वयि गताः पापाः निर्गताः तीर्थवैभवात् । निर्मुक्तपापोऽसि भवान् मेघापाये अंशुमानिव ॥ ६८. इति ब्रुवति राजानं मुनौ वातापिवरिणि । निश्वासमलिनीभूतमादर्शं तत्क्षणादिव ॥ ६९. मणिवर्णमभूत्तोयं ताम्रायाः परमाद्भुतम् । तावत् गीर्वाणनिर्मुक्ता पुष्पवृष्टिस्तु पुष्करात् ॥ ७०. पपात परितः तत्र परमानन्दनिर्भरा । समन्तात् अभवत् वाणी देवसिद्धसमीरिता ॥ ७१. दीर्हायुष्मन् महाराज श्रेयः प्राप्नुहि सर्वतः । इति वै मङ्गलवाचः पुरः श‍ृण्वन् सुरेरिता ॥ ७२. प्राञ्जलि अ; तान् अभिष्तूय मुनिप्रोक्तेनवर्त्मना । पुनः स्नात्वा महानद्यां कृतकृत्यऽभवत् तदा ॥ ७३. तत्रोषित्वा त्रिरात्रं तु मुनिनानेन मानितः । आसागरं तीर्थयात्रां तीरयोरुभयोरपि ॥ ७४. यथान्यायं विधायासौ पुनरामलकाटवीम् । प्राप्य काश्यप्तीर्थे तु चक्रे बलनिवेशनम् ॥ ७५. उषित्वा कतिचित् मासान् उपास्य मलयात्मजाम् । यियक्षुः चिन्तयामास कुत्र वेति महामतिः ॥ ७६. सर्वोत्कृष्टा जन्हुकन्या सैषा मन्दाकिनी किल । यत्र जप्तं हुतं दत्तमनन्तफलमुच्यते ॥ ७७. तत्रैव हयमेधेन यक्ष्ये देवान् यथाविधि । आत्मानं भावयिष्यामि कुतकृत्यो भवाम्यहम् ॥ ७८. इति निश्चित्य मनसा सैन्येन महता वृतः । प्राप्य भागीरथीतीरं तत्र दीक्षामुपाविशत् ॥ ७९. मणिस्तम्भशतोपेता तप्तकाञ्चनवेदिका । शाला परमकल्याणी श्रीमती रुरुचेतराम् ॥ ८०. यत्र सभ्याः समभवन् यज्वानो दीर्घदर्शिनः । हूयमाने हव्यवाहे सम्भूते सामनिस्स्वने ॥ ८१. मन्त्रेषु जप्यमानेषु प्रहृष्टेषु द्विजादिषु । गङ्गा परमसम्पूर्णा महातोयोर्मिफेनिला ॥ ८२. आवर्तशतसङ्घाता सुधाम्भोनिधिसन्निभा । आवृत्य तीरयुगलीमुत्पपातातिवेगवत् ॥ ८३. सह सभ्यैस्समाधाय शालामुज्ज्वलितानलाम् । एवं नष्टेषु सर्वेषु राजा दुःखपरिप्लुतः ॥ ८४. आकृष्य सह सौभाग्यां नाशयामास वै क्षणात् । दैवात् विमुक्तः तत् पूरात् आयुःशेषेण भूपते ॥ ८५. तपसा तोषयामास गङ्गाधरमुदारधीः । मासमात्रेण भगवान् आशुतोषः सदाशिवः ॥ ८६. वरेण छन्दयामास तं देवं प्राञ्जलिर्जगौ । राजा -- भगवन् करुणामूर्ते प्रसीद मयि शङ्कर ॥ ८७. यदि मे तपसा तुष्टः यद्यहं त्वत्कृपास्पदः । शाला मे सहपत्नीको सद्विजा सहुताशना ॥ ८८. ससम्भाराग्रतो मेऽस्तु वरमेनं वृणे प्रभो । इत्युक्तस्तं पुनः प्राह भगवान् प्रमथेश्वरः ॥ ८९. सदाशिवः -- राजन् मत्प्राणकलिका तडिनी मलयात्मजा । अनभिज्ञेन भवता दूषिता पापचेतसा ॥ ९०. यस्यानुग्रहलाभेन दीर्घायुष्यमवाप्तवान् । पापपञ्जरनिर्मुक्तः स त्वं दूषितवानसि ॥ ९१. जननीमवमत्यैव एवतान्तरमिच्छसि । अपहाय च गायत्रीं मन्त्रान्तरमभीप्ससि ॥ ९२. यत्र गङ्गा च यमुना च यत्र गोदावरी नदी । तीर्थानां हृदयं ह्येषा देवानां बलमुच्यते ॥ ९३. मन्त्राणां मन्त्रशक्तिस्तु कर्मशक्तिस्ति कर्मिणाम् । वेदद्रवा विश्वमाता ब्रह्मविष्ण्वाद्युपासिता । ९४. तामिमामद्रिसम्भूतां त्वमुपेक्षितवानसि । तामेव भूयस्संप्राप्य प्रणवार्थप्रदीपिकाम् ॥ ९५. तपसा मन्त्रतन्त्राभ्यां तां तोषयितुमर्हसि । तदनुग्रहलाभेन तत्र शालां पुनर्भवाम् ॥ ९६. ससम्भाराग्निपत्नीकां लप्स्यसे नात्र संशयः । इत्युक्त्वान्तर्हिते शम्भौ सोऽपि राजा भयातुरः ॥ ९७. इत्थमान्तर्हिते देवे स राजा माधवीसुतः । तदतिक्रमणाघौघसम्ब्रान्तस्वान्तसन्ततिः ॥ ९८. भयादिरेकरोमाञ्चकञ्चुकीकृतविग्रहः । समभ्येत्य पुनः पुण्यां घृतधारां पयस्विनीम् ॥ ९९. काश्यपाश्रममासाद्य तपः चक्रे सुदारुणम् । अङ्गुष्ठाग्रेण वसुधां संस्पृशन् पश्चिमोमुखम् ॥ १००. ऊर्ध्वबाहुर्निराहारो हृदि ध्यायन् जगत्प्रसूम् । तपनीयाम्बुजारूढां बालाम्बुजसमप्रभाम् ॥ १०१. चतुर्भुजां त्रिणयनां कौसुम्भाम्बरधारिणीम् । नवमाणिक्यकोटीरकिरणारुणिताम्बराम् ॥ १०२. तप्तचामीकराकारपयोधरधराधराम् । चारुग्रैवेयकेयूरवलयावलिभासुराम् ॥ १०३. आपातकेशघटितैः भूषणां मणिभूषणैः । मन्दस्मेरांशुसम्भिन्नसमस्ततिमिरच्छटाम् ॥ १०४. करुणापाङ्गपीयूषसन्दर्भितचराचराम् । समस्ततीर्थजननीं चन्दनाचलकन्यकाम् ॥ १०५. ध्यायन् स्वहृदयाम्भोजे निश्चलः समतिष्ठत । तेनैव तप्सा देवी सन्तुष्टा मासमात्रतः ॥ १०६. सान्निध्यं पुरतः तस्य चकार करुणार्द्रधीः । वत्स ते तपसनेन सन्तुष्टहृदयास्म्यहम् ॥ १०७. तवेप्सितानि सर्वाणि प्राप्तानि मदनुग्रहात् । पश्य भद्राणि दास्यामि काम?ओग्ध्रीव काङ्क्षितम् ॥ १०८. इति श्रुतिसुखाकारां सुखाकारां समाकर्ण्य तु भारतीम् । समाधिं सङ्कुचन्नग्रे ददर्श परमेश्वरीम् ॥ १०९. यथान्तः स्वान्तमद्राक्षीत् तथैव पुरतो नृपः । आनन्द्मग्नहृदयो मूर्ध्ना मुकुलिताञ्जलिः ॥ ११०. हर्षगद्गदया वाचा व्याचष्टे स्वेष्टदेवताम् । राजा -- देवि प्रसीद कल्याणि प्रसीद मलयात्मजे ॥ १११. आगः क्षमस्व देवेशि मूढस्याकार्यवेदिनः । त्वदङ्घ्रिपङ्कजे भक्तिः अनपायास्तु मे सदा ॥ ११२. मनोरथा मे सुलभास्त्वत्पादाम्बुजलाभतः । यथा मय्यनभिज्ञत्वं न भूयात् अपि जन्मसु ॥ ११३. तथा प्रसीद सर्वेशि त्वामहं शरणं गतः । इति ब्रुवति राजेन्द्रे गङ्गाद्यास्सरितस्सदा ॥ ११४. आजग्मुरखिला राजन् पश्यत्सु सकलेष्वपि । सर्वास्तमेनं राजानमनुशास्य सरिद्वराम् ॥ ११५. तस्यैव पुरतस्सर्वाः ताम्रायास्तनमण्डले । अभिजग्मुर्महाराज तदद्भुतमिवाभवत् ॥ ११६. सा तस्याभीप्सितान् कामान् प्रदायान्यत्र सुदुर्लभान् । सर्वतीर्थमयी भूयः ताम्राभ्यन्तरधीयत ॥ ११७. स भूमिपालो मलयात्मजायाः लब्ध्वा पराण्यभुदयानि तस्याः । संप्राप्य शालां सह भार्ययासौ चकार विप्रैः क्रतुमार्यगृह्यम् ॥ सप्तविंशोध्यायः । Pro.Total = 2100 + 117 =2217.

अष्टाविंशोऽध्यायः

देवानां कार्यार्थं तपः कुर्वतोः काश्यपादित्योः ताम्रपर्ण्याः वरदानं काश्यपेन लिङ्गप्रतिष्ठा । १. श्री सूतः -- इत्याकर्ण्य कथां पुण्यां विचित्रोपकथान्विताम् । वीरसेनः पुनर्वाक्यमुवाच मुनिपुङ्गवम् ॥ २. वीरसेनः -- अहो भगवता प्रोक्ता कथेयं कलुषापहा । श्रुतापि भूयः श्रोतव्या संशयस्य व्यपोहने ॥ ३. तपसाराधिता देवी राज्ञा मलयनन्दिनी । कथं तस्मै वरान् प्रादात् महीभर्तुश्च काङ्क्षितान् ॥ ४. कथं सा प्रादुरभूत् कथं नद्यसमाययुः । अनुशास्य कथन्त्वेनां विविशुः ददृशान्तरे ॥ ५. एतत् सर्वमशेषेण वद विस्तरतो मम । शङ्खः -- श्रुणु राजन् प्रवक्ष्यामि कथां कलुषनाशिनीम् ॥ ६. ताम्रपर्णी महादेवी तपसा प्रीतमानसा । तदा नद्यास्तटे शाला पताकाध्वजमालिनी ॥ ७. ससभ्या सहपत्नीका सम्भाराग्निमण्डला । यथापूर्वं समभवत् पुरतस्तस्य भूपतेः ॥ ८. तावत् ताम्राप्रवाहस्तु ननावर्णेव दृश्यते । तत्तीरपूरात् तु उत्तस्थुः गङ्गाद्याः सरितः तदा ॥ ९. गोक्षीरवर्णा तरुणी नानाभरणभूषिता । गङ्गा समाययु देवी भासा भुवनपावनी ॥ १०. ताम्रे त्वया बालतया प्राप्तं परिभवं महत् । एषा त्वत्प्राणशक्तिस्तु पराशक्तिसमुद्भवा ॥ ११. इन्द्रनीलमणिच्छाया यमुना पापहारिणी । अभ्यागमत् अशेषस्य लोकस्य क्षेमदायिनी ॥ १२. पद्मरागमणिच्छाया भारती गजसेविता । समायाता समस्तस्य सर्वमङ्गलदायिनी ॥ १३. गोदावरी गौरवर्णा पीताम्बरसमावृता । कङ्केलीकुसुमोत्तंसा संप्राभाभरणोज्ज्वला ॥ १४. नर्मदा शङ्खधवला कर्पूराभा कुमुद्वती । शोणभद्रा काञ्चनाभा फल्गुनी कुङ्कुमारुणा ॥ १५. कर्पूरवर्णा कावेरी वेगवत्यम्बुजारुणा । एताः चान्याः तहा नद्यः बह्व्यः नारीवपुर्धराः ॥ १६. सालङ्काराः सानुलेपाः सवाहनपरिच्छदाः । समागत्य महादेवीमुपतस्थुः समाहिताः ॥ १७. तत्र राजानमाहूय गङ्गा वचनमब्रवीत् । श्री गङ्गा -- राजन् बालतया प्राप्तं त्वया परिभवं महत् ॥ १८. एषा मत्प्राणशक्तिस्तु तामवैहि ममात्मिकाम् । अहं मलयजातास्मि पराशक्तिसमुद्भवा ॥ १९. आवयोर्नैव भेदोऽस्ति भेदबुद्धिर्विनश्यति । एषा रुद्रप्रभा नाम वेदेषु परिपठ्यते ॥ २०. मरुद्वृधेति मालेति परुष्णीति परेति च । संप्रशंसन्ति ताम्रेति श्रुतयो मलयात्मजाम् ॥ २१. गुहाचरी गुह्यरूपा पवित्री पापनाशिनी । माला मलयपुत्रीति मानयन्ति सुरासुराः ॥ २२. अत्र सर्वमिदं जातमस्यामेव प्रतिष्ठितम् । एनामाश्रित्य विन्दन्ति ह्यमृतत्त्वं तु जन्तवः ॥ २३. सामान्या तटिनीयन्तु वदत्येनां स पातकी । पश्यते नरके घोरे यावत् आभूतसम्प्लवम् ॥ २४. इतः परं महाराज मावमंस्थाः कदाचन । इत्थं गङ्गानुशास्यैनं लोकानामेव पश्यताम् ॥ २५. संविवेश तथा गङ्गा ताम्रायाः स्तनमण्डले । तथैव यमुनाद्याश्च नानारूपाः सरिद्वराः ॥ २६. क्रमात् उपाविशन् सर्वाः पञ्जरे शारिका इव । एतत् विचित्रं पश्यन्तो ब्रह्मनारायणादयः ॥ २७. पुष्पवृष्टिमुचस्सर्वे अस्तुवन् मलयात्मजाम् । स्तुवत्सु सर्वदेवेषु पतहाडम्बरेषु च ॥ २८. आश्चर्याविष्टचित्तेषु सर्वेषु भुवनेष्वपि । स्तूयमाना महादेवी ताम्रा वचनमब्रवीत् ॥ २९. श्री देवी -- राजन् मनोरथास्सन्तु ममानुग्रहास्तव । यज्ञशेषं सपत्नीकः कर्तुमर्हसि भूसुरैः ॥ ३०. कीर्तिस्ते चन्द्रिकाकारा लोके विस्तारमृच्छतु । एतत् तीर्थं प्रशंसन्तु शालातीर्थमिति ध्रुवम् ॥ ३१. अत्र स्नाता नरास्सर्वे भवन्तु सुखभागिनः । भुक्तिर्मुक्तिश्च सर्वेषां मज्जतां पिबतामपि ॥ ३२. अभूतामेव शाश्वत्यौ नात्र कार्या विचारणा । एवं देवी वचः प्रोक्त्वा राजानं माधवीसुतम् ॥ ३३. शालातीर्थे तदा तस्मिन् ताम्राभ्यन्तरधीयत । ततो वसुमना प्राप्य वरान् अभिमतान् बहून् ॥ ३४. संप्रहृष्टमनाः भूयः स्वयज्ञं समपादयत् । सर्वे देवाश्च सिद्धाश्च स्तुवन्तः तीर्थवैभवम् ॥ ३५. राजानमपि सम्भाव्य स्वानि स्वानि पदान्यगुः । तत्र चावभृथस्नानं विधाय विधिपूर्वकम् ॥ ३६. काश्यपेशं समभ्यर्च्य दाहकेशं प्रणम्य च । मुनीन् आमन्त्र्य तत्रस्थान् सभार्यः सपुरोहितः ॥ ३७. स्वराजधानीं संहृष्टः प्रायात् प्रासादमालिकाम् । ततस्तत्र स्थितास्सर्वे दृष्ट्वा क्षेत्रस्य वैभवम् ॥ ३८. सन्तोषं परमं प्राप्तः काश्यपश्च महामुनिः । तस्मात् राजन् महातीर्थे तत्र स्नानं स्माचर ॥ ३९. क्रोशार्धविस्तृतं क्षेत्रं तेजःस्थानं प्रकीर्तितम् । पुरा कृतयुगे राजन् मनौ सावर्णिकेऽन्तरे ॥ ४०. अदितिर्देवजननी काङ्क्षन्ती विजयं हरेः । भर्तारं काश्यपं प्राप्य पप्रच्छ प्रणता सती ॥ ४१. केनोपायेन वै ब्रह्मन् जयमेष्यन्ति मे सुताः । तमुपायं समुपाचक्ष्व देवेषु करुणां गुरुः ॥ ४२. इत्थं तया प्रार्थितोऽसौ काश्यपः तपसां निधिः । श्रुणु प्रिये वचः पथ्यं तत् तथा कर्तुमर्हसि ॥ ४३. अनादिमिथुनोद्भूता या सरिन्मलयातजा । सैषा सर्वस्य लोकस्य विज्ञेया कामदोहिनी ॥ ४४. अतस्त्वमुपगम्येनामाराधय विधानतः । तदनुग्रहलाभेन भवन्तु जयिनस्सुराः ॥ ४५. अहमपि आगमिष्यामि त्वमग्रे गच्छ सत्वरम् । इत्थं भर्त्रा नियुक्ता सा देवी देवप्रसूर्मुदा ॥ ४६. ताम्रामासाद्य नियमात् स्नात्वा तत्रैव संस्थिता । तपश्चकार सुचिरं दुश्चरं भुवनत्रये ॥ ४७. स्ववधाय तप्स्यन्तीं ज्ञात्वा सर्वेऽपि दानवाः । तपो विघातं कुर्वाणाः समाववृरलक्षिताः ॥ ४८. सापि चन्दनशैलेन्द्रतनया सर्वदर्शिनी । निवार्य विघ्नजालानि दानवाचरितान्यपि ॥ ४९. तत्र क्षणाय विदधे प्राकारं ज्वलनात्मकम् । ज्वालामालासमायुक्तं प्राकारं परमाद्भुतम् ॥ ५०. विलोक्य भयसम्भ्रान्ता दैत्याः जग्मुर्यथागतम् । अदितिर्देवजननी वह्निमण्डलमध्यगा ॥ ५१. ध्यानारूढा निश्चलाङ्गी ध्यायन्ती परमेश्वरीम् । अन्तर्बहिरविच्छिन्नमवसत् तन्मयं जगत् ॥ ५२. ततःप्रसन्ना वरदा तस्याः प्रादुरभूत् पुरः । सहस्रादित्यसङ्काशां सान्द्रसिन्दूरपाटलाम् ॥ ५३. चतुर्भुजां त्रिणयनां तप्तहाटकभूषिताम् । तीर्थकन्याशतोपेतां दृष्ट्वा परमहर्षिता ॥ ५४. सभ्रूभङ्गं समुत्थाय बद्धाञ्जलिपुटा सती । तुष्टावादितिरव्यग्रा गिरा गद्गदया मुदा ॥ ५५. अदितिः -- या शक्तिरन्तर्जागर्ति लोकानां प्राणरूपिणी । या पुनर्जीवनाख्या स्यात् तां त्वाहं शरणं गता ॥ ५६. गायन्ति श्रुतयो नित्यं तीर्थरूपां मरुद्वृधाम् । तां त्वामखिलतत्त्वार्थां माहेयीमाश्रये श्रियम् ॥ ५७. हेतुरादावशेषस्य जीवनत्वे व्यवस्थिता । मृत्युः प्राणभृतां भूयो यदंशेन प्रवर्तितः ॥ ५८. अनादिशक्तिरव्यग्रा निग्रहानुग्रहक्षमा । सा त्वं लोकहितायैव जाता हि मलयात्मजा ॥ ५९. मन्त्रसक्तिं प्रशंसन्ति सन्तः कर्मकलां पुनः । त्वमेव फलदा लोके तीर्थमातर्नमोऽस्तु ते ॥ ६०. शिवः शिवान्वितो भूरि तपसाराध्य माधवि । त्वामेव लब्धवान् आदौ तस्मात् त्वां शरणं व्रजे ॥ ६१. मालेयी मलया नन्दा गङ्गा भागीरथीति च । घृतधारा परुष्णीति पठ्यसे त्वं पुरातनैः ॥ ६२. प्रसीद मलयानन्दे ताम्रे मातः प्रसीद मे । अब्धिपत्नि नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ६३. इति स्तुवन्त्याः पुरतो देवमातुर्महीपते । प्रसन्ना प्राह कल्याणी तामाहूय गिरा पुनः ॥ ६४. देवमातर्महाभागे प्रीतास्मि तपसा तव । इत आरभ्य वै देवा अवध्या दानवैः परैः ॥ ६५. मच्छक्त्या वर्धितात्मानो जेष्यन्तु दनुजादिकान् । जयलक्ष्मीर्भविष्यामि नित्या देवेष्वहं सदा ॥ ६६. मत्प्रसादात् भविष्यन्ति सफलास्ते मनोरथाः । त्वया कृतमिदं स्तोत्रं ये पठन्त्यरुणोदये ॥ ६७. तेषां दर्शनमात्रेण दूरे नश्यति पातकम् । त्रिसन्ध्यं पठतां नृणां ध्यात्वा मां शुद्धचेतसाम् ॥ ६८. हयमेधावभृथस्य फलं भवति शाश्वतम् । ये च त्वां अत्र नियता सर्वे गीर्वाणमातरम् ॥ ६९. नमस्कृत्य यथान्यायं तीर्थे मज्जन्ति मामके । तेषां मनोरथाः पुण्याः भविष्यन्त्यनपायिनः ॥ ७०. अन्ते कैवल्यसौभाग्यं तेषां दास्याम्यसंशयम् । इति ब्रुवत्यामम्बायां अम्बरात् अद्भुतावहा ॥ ७१. देवतानां घनारावा जगर्जे देवचोदिता । पुष्पवृष्टिस्सुमहती पपातामोदनिर्भरा ॥ ७२. विमानैः काञ्चनाकारैः अभ्याजग्मुर्दिवौकसः । मुनयो नारदाद्याः च सनकाद्याः च योगिनः ॥ ७३. स्तुवन्तः श्रुतिसम्भाव्यैः वचनैर्मलयात्मजाम् । काश्यपश्च महातेजाः प्रजापतिरकल्मषः ॥ ७४. देवीं ताम्रामभिष्टूय समाश्वास्यादितिं प्रियाम् । देवीमाराधयामास यथावत् विजितेन्द्रियः ॥ ७५. ततो देवगिरा राजन् वह्निप्राकारमण्डलात् । उत्तस्थुर्दीपिका व्योम्ना शतशोऽथ सहस्रशः ॥ ७६. शतक्रतुमुखेष्वेषु प्राविशन् क्रमशोऽम्बरे । तमात् दुरासदा दैत्यैः अभवन् ते दिवौकसः ॥ ७७. प्राप्तपौरुषवीर्येषु तेजिष्ठेष्वमरेष्वपि । अदितिं काश्यपञ्चैवं अनुगृह्य मरुद्वृधा ॥ ७८. पुनरन्तरधात् तीर्थे माला मलयनन्दिनी । देवाः काश्यपमामन्त्र्य मातरं चाभिवाद्य च ॥ ७९. जग्मुर्यथागतं सर्वे प्रशंसन्तो महानदीम् । ततस्सहर्षं मुनिभिः काश्यपः तपसां निधिः ॥ ८०. तत्र लिङ्गं प्रतिष्ठाप्य समभ्यर्च्य विधानतः । सपत्नीकः तपश्चक्रे सुचिरं शम्भुसन्निधौ ॥ ८१. विधाय शालां विबुलां सप्ततन्तून् सदक्षिणान् । विधाय परमां सिद्धिं संप्रापेतरदुर्लभाम् ॥ ८२. शिवशर्माभिधः कश्चित् भूसुरो भूरिपुण्यभूः । गङ्गातीरात् समभ्येत्य वाजपेयमपारयत् ॥ ८३. गुरुणा काश्यपेनैव तेन सिद्धिं परां गतः । कस्यचित् द्विजवर्यस्य जलात् उन्मज्जतः पुरा ॥ ८४. दीपहस्तस्य भगवान् अनुग्रहविधित्सया । आविर्बभूव भगवान् दाहकेश्वरसंज्ञितः ॥ ८५. एतत् वृत्तान्तंआकर्ण्य राजा वसुमना विभुः । लब्धवान् अत्राभ्येत्य शालां गङ्गाम्भसावृताम् ॥ ८६. तीर्थस्यास्य प्रभावेन राजानो मुनयः परे । लेभिरे परमां सिद्धिमिह चामुत्र चाद्भुताम् ॥ ८७. ये चेमां परमां पुण्यां कथां पापप्रणाशिनीम् । श्रुण्वन्तो वा पठन्तो वा न शोचन्ति पुनश्च ते ॥ इति अष्टाविंशोऽध्यायः । Pro.Total = 2217 + 87 = 2304.

एकोनत्रिंशोऽध्यायः

काश्यपेन ईश्वरस्तुतिः । शिवशर्माख्यस्य ब्राह्मणस्य काश्यप्तीर्थादिप्रश्नपूर्वकं काश्यपं प्रति प्रश्नः । १. श्री सूतः -- श्रुत्वेदं वीरसेनश्च कथां राजा कुतूहलात् । प्रशस्य शङ्खं प्राहेदं वचनं विनयोज्ज्वलम् ॥ २. राजा -- यथा पुरा वसुमनाः श्रुतवान् मुनिपुङ्गव । तथाहं श्रोतुमिच्छामि कथां काश्यपसंश्रयाम् ॥ ३. कथं संस्थापयामास महादेवं स काश्यपः । तत्र स्वयं चाविरभूत् दाहकेश्वरसंज्ञकः ॥ ४. एतत् विस्तार्य भगवन् शंस मे करुणानिधे । इत्थं राज्ञा प्रोच्यमानः शङ्खयोगी महातपाः ॥ ५. प्रशस्य भूयो राजानं प्रत्यभाषत हर्षवत् । श्री शङ्खः -- राजन् धर्मभृतां श्रेष्ठ तव प्रियमभीप्सता ॥ ६. मयाधुना कथ्यमाना श्रोतव्या भवदाधुना । पुरा प्रजापतिर्धीमान् काश्यपिः सह भार्यया ॥ ७. अदित्या समभिष्टूय नदीं मलयसम्भवाम् । तत्प्रसादोपलाभाय भूपो निश्चित्य बुद्धिमान् ॥ ८. सह देवैर्मुनिगणैः तत्र दीक्षामुपागमत् । सत्रमाङ्गीरसं नाम परं सर्वात्मसाधनम् ॥ ९. अपारयात् अमेयात्मा प्रीणयन् गुरुमीश्वरम् । ऋत्विजो दक्षिणाभिः तोषयन् सप्रसर्पकान् ॥ १० कृत्वाबभृथं स ताम्रायां स्नानं सन्तुष्टमानसः । तावत् उत्तरवेद्यां तु स्थाप्य लिङ्गमनुत्तमम् ॥ ११. शिवमाराधयामास स्वमनोरथसिद्धये । समाधिसिद्धैर्द्रव्यैश्च मन्त्रैः निगमसम्भृतैः ॥ १२. एवमर्चयतस्तस्य काश्यपस्य महामतेः । वर्षाणां त्रिशतं राजन् अत्यगात् निमिषोपमः ॥ १३. एवमाराधितस्तेन भगवान् प्रमथेश्वरः । तल्लिङ्गान्मूर्तिमानासीत् स्वभासा भासयन् नभः ॥ १४. अङ्केनादाय गिरिजामशेषभुवनप्रसूम् । साक्षात् चर्ममयं श्वेतं वृषमारुह्य वाहनम् ॥ १५. शूलटङ्कमृगाभीतिवरदानपरश्वथैः । भुजैरुद्दामवलयैरहिराजाङ्गगदोज्ज्वलैः ॥ १६. भासमानः स्वकोटीरघटितेन्दुकलोज्ज्वलैः । स्तूयमानः सुरगणैः सिद्धगुह्यकचारणैः ॥ १७. प्रीणयन् मधुरैर्वाक्यैः काश्यपं समभाषत । श्री भगवान् -- त्वयाहं पूजितो भक्त्या मन्त्रेण विधिपूर्वकम् ॥ १८. प्रीतोऽस्म्यभीप्सितान् कामान् वृणीष्व तपसां निधे । इत्युक्तो देवदेवेन महादेवेन काश्यपः ॥ १९. पुनःपुनः तु संस्पृश्य स मूर्ध्ना तत्पदाम्बुजम् । बद्धाञ्जलिपुटः तिष्टन् भक्तिनम्रात्मविग्रहः ॥ २०. तुष्टाव परमेशानं स्तोत्रैः श्रुत्यन्तसंस्कृतैः । नतोऽस्म्यहं नाथ नवेन्दुभूषणं सदाशिवं त्वां सकलस्य हेतुकम् ॥ २१. यदङ्घ्रिपङ्केरुहसंस्मृतिर्जयत्यशेषमोक्षैकनिधान दीपिका । शिखापिरन्तश्रुतिकल्पशाखिनामविश्रमोच्चावचमन्त्रपल्लवैः ॥ २२. प्रसाद्यते त्वत्पदपद्ममीश यत् त्वदन्यतः क्वापि न यातु मे मनः । महेश माया तव विश्वमोहिनी न लङ्घ्यते ब्रह्मपुरन्दराभिः ॥ २३. तथापि मा त्वत्करुणैकभाजनं पराभविष्यत्वभवाय न क्वचित् । तवेश निष्यन्दमिदं त्वया जगद्ध्वजस्त्वमङ्गीकुरुते चराचरैः ॥ २४. तथापि सैषा मयि भूयसी भवेत् चकोरसङ्गे शसिनो यथा रुचिः । अशक्तमप्यन्तरलीलया जगत् यथैव शक्त्या विमलीकरोषि यत् ॥ २५. दयैव मे चेतसि सन्ततं श्रिया कुरुष्व लीलां भव पार्वतीपते । बिभेमि भीमात् विषयान् महाविषान् महेश विश्वादिविषापहन् विभो ॥ २६. मदीयमित्येवमनुस्मरन् जनं त्रिधापथः त्रातुमिहार्हसीश्वर । अलं परिश्राम्य भवार्णवोदरे दुराशया ह भ्रमते पुनःपुनः ॥ २७. इतः परञ्चाहवभीतभञ्जनं निरञ्जनं यामि विभो भवत्पदम् । विभक्तनानागुणकर्मरूपिणा न जन्मना प्राणिसुखा कृतापि मे ॥ २८. अपत्यदारादिभयादुपागतं विभोऽनुगृह्णीष्व महेश मामितः । दयानिधे देव दिवानिशं भयादयातयामः तव भृत्यमेव माम् ॥ २९. अतर्कितापातदयाविलोकनैः परं परित्राहि सुतानिव प्रसूः । उमापते विश्वपते सतां पते पते पशूनामपि रुद्र वाक्पते ॥ ३०. प्रसीद सान्द्राभ्युदयप्रसन्नया दृशा यया विश्वमिदं हि मङ्गलम् । न कर्मणा न प्रजया न सम्पदा नयोगसिध्या न मनः समाधिभिः ॥ ३१. परं न पश्यन्ति पदं तव दर्शनां विनापि भक्तिं भगवन् प्रसीद ताम् । परःशतैः जन्मभिरन्वहं भयात् पुनःपुनः श्रान्तिमुपेयुषा मया ॥ ३२. अभङ्गुरानन्दसुतो दयोदयां तवाङ्घ्रिपङ्केरुहमाप्तमद्य हि । कथञ्चिदापन्नमनुग्रहेण मे नमोक्तुमर्हस्यविलम्बमेव भो ॥ ३३. स्तनन्धयं स्वं विषमस्थमप्यहो जनन्यनाश्रयात्मजं यथा । अखण्डकर्पूरवलक्षमेकतः परस्थकस्तूरिकया समप्रभम् ॥ ३४. वपुस्तवेदं वृषभध्वजावृतं न यातु चित्तातपरत्र मामकात् । नमः पुराणाय पुराणमूर्तये नमोस्त्वनान्न्तवधूकुटुम्बिने ॥ ३५. अनामगोत्राय जगत्रयोदयस्थितिक्षयोल्लासकटाक्षवर्चसे । प्रसीद गौरीश निशाविटार्भक प्रगल्भकोटीरकुटुम्बिभोगिने ॥ ३६. द्युसिन्धुसन्धुक्षितकैशिकाय ते सदाशिवायामृतमूर्तये नमः । शङ्खः -- इत्थं वाचा सुधासारसौभाग्यैकसमग्रया ॥ ३७. संस्तुवन् परमेशानं काश्यपो हर्षगद्गदः । भूयः तदङ्घ्रिमूले तु साष्टाङ्गं प्रणनाम ह ॥ ३८. उत्थाप्य चैनं बाहुभ्यां परिमृज्य दयानिधिः । प्राह गम्भीरया वाचा भूयो भूयः प्रहर्षयन् ॥ ३९. श्री सदाशिवः -- ब्रह्मन् त्वया पूजितोऽहं संस्तुतश्च विधानतः । प्रीतोऽस्मि नितरां भक्त्या सुधयैव दिवैकसः ॥ ४०. तव प्रीतिमिहापारां कुर्वन् निर्वाणहेतुकीम् । वसामि नित्यमिच्छन्त्या हैमवत्या समन्वितः ॥ ४१. सर्वेषामेव जन्तूनां दास्ये निर्वाणसम्पदम् । ये वात्र तीर्थे ताम्रायां त्वदीये विधिपूर्वकम् ॥ ४२. मां पश्यन्ति सकृद्वापि स्नात्वा तेषां न बन्धनम् । त्वया कृतमिदं स्तोत्रं सायं प्रातर्ममाग्रतः ॥ ४३. ये पठन्ति लभन्ते ते पुरुषार्थचतुष्टयम् । तथैवाभिमतं ब्रह्मन् दास्याम्यत्याविलम्बितः ॥ ४४. इतो भाविनि कल्पे तु ब्रह्मन् राथन्तरे भवान् । भविता कपिलो नाम्ना मदंशपरिभावितः ॥ ४५. तदा तापाभिभूतानां प्रजानां शरणं जुषाम् । तत्पापहत्यै दयया साङ्क्ययोगं प्रदाय तु ॥ ४६. ततो मां केवलं नित्यं प्राप्तुमर्हस्यंशयम् । तत्रैव निवसन् नित्यमविमुक्तिं प्रदर्शयन् ॥ ४७. मोक्षश्रियं प्रदास्यामि सर्वेषामेव देहिनाम् । अत्रानीता मया काशी मुक्तिमुद्रप्यभङ्गुरा ॥ ४८. क्रोशपञ्चकविस्तारं दुर्ज्ञेयो पापचेतसाम् । अदित्यासहितोत्रैव सुखमास्स्व महामते ॥ ४९. इत्युक्त्वा भगवान् शम्भुः तस्मिन् लिङ्गे सुधात्मिके । प्राविशत् गौर्यया सार्धं पश्यतां महतामपि ॥ ५०. शङ्खः -- इत्थं ते काश्यपेशस्य महिमा वर्णितो मया । स एष सर्वे शम्भुं परां मूर्तिं लिङ्गमयीं पुनः ॥ ५१. भक्तस्य कस्तचित् हेतोः उज्जहार विलासवत् । तमस्तुवन् व्योम्नि सिद्धाः दाहकेश्वरमित्युत ॥ ५२. तत्र देवाश्च सिद्धाश्च ऋषयो नारदादयः । स्तुवन्तो विकिरन्तश्च पुष्पाण्याजग्मुरम्बरात् ॥ ५३. समागतेष्वेवं शिवशर्मा महेश्वरः । आगत्य काश्यपात् तस्मात् श्रुत्वा माहात्म्यमीशितुः ॥ ५४. तमेव गुरुमासाद्य सौत्रामणिमकारयत् । इति श्रुत्वा महीपालो विस्मयाविष्टमानसः ॥ ५५. पुनःप्रणम्य योगीन्द्रं विन्यात् वाक्यमब्रवीत् । वीरसेनः -- कस्य भगवान् शम्भुः भक्तस्य प्रीतिमावहन् ॥ ५६. कथमाविरभूत् ईशो महालिङ्गस्वरूपधृत् । स भक्तः किञ्चकारासौ कथं प्रापन्मनोरथम् ॥ ५७. काश्यपात् अश्रुणोतेनां शिवशर्मा कथां कथम् । एतत् मे विस्तरात् ब्रह्मन् वक्तुमर्हसि साम्प्रतम् ॥ ५८. इत्थमभ्यर्थितः शङ्खः संप्रशस्य महीपतिम् । पुनः प्राह कथां पुण्यां कथामीशान सङ्गिनीम् ॥ ५९. श्री शङ्खयोगी -- श्रुणु राजन् प्रवक्ष्यामि कथां श्रेयस्करीमिमाम् । पुरा कश्चिन्मुनेः पुत्रः साङ्कृतस्य दयानिधेः ॥ ६०. शिवशर्मेति विख्यातो वेदवेदाङ्गपारगः । विरक्तः सर्व भोगेभ्यः परां गतिं यियासिषुः ॥ ६१. तीर्थयात्रां समुद्दिश्य चकार पृथिवीमिमाम् । परिक्रम्य बहूं देशान् स्नात्वा तीर्थोदकेष्वपि ॥ ६२. आससादाद्भुताकारां मलयं चन्दनालयम् । तत्र स्नात्वा महान्द्यां तर्पयित्वा पितॄन् सुरान् ॥ ६३. नानामणिप्रसूं पुण्यां नलिनोत्पलगन्धिनीम् । आश्रमैर्मुनिमुख्यानां देवानामालयैरपि ॥ ६४. अग्रहारैराप्तकामैः अधिष्ठिततटद्वयाम् । क्वचित् सामानि गायद्भिः अधीयानैः ऋचः क्वचित् ॥ ६५. अथर्वाण्युच्चरद्भिश्च प्रगिरद्भिर्यजूंषि च । पुराणानि प्रशंसद्भिः च तटतीरे सङ्घशः ॥ ६६. समन्तात् निबिडीभूततटारामोपशोभितम् । होमधूमसमाक्रान्तैः घनासक्तैरिवद्रुमैः ॥ ६७. समृद्धोद्यानसम्पन्नां हंससारसलालिताम् । गायद्भिरुच्चैर्गन्धर्वैः नृत्यद्भिः चाप्सरोगणैः ॥ ६८. नानोद्यानसभागेहसम्पन्नतटशालिनीम् । नित्यकल्याणनिलयां निरन्तरसुखप्रदाम् ॥ ६९. नानाधान्यधनोपेतां नानाजनपदोज्ज्वलाम् । महानदीमभिष्टूय शिवशर्मा महामतिः ॥ ७०. अगस्त्यमुनिमानम्य लोपामुद्रां यशस्विनीम् । तत्प्रसादमनुप्राप्य तमापृच्छ्यसहानुगैः ॥ ७१. इन्द्रकीले महादेवं पापानाशेश्वरं विभुम् । पूजयित्वोषितः तत्र निशामेकामसौ व्रती ॥ ७२. ततोषस्युपवृत्तायामुत्थितः स्नातुमुद्यतः । किञ्चित् दूरं परिक्रम्य शुश्राव श्रौतसौभगम् ॥ ७३. पुरस्तात् जनसम्मर्दसन्नादं सान्द्रसौभगम् । भासमानो भुवो व्योमस्वभासानुसारथेः ॥ ७४. विस्मयानः तदाश्चर्यं द्रष्टुकामः त्वरान्वितः । स्नात्वा सन्ध्यामुपास्यैव समुपस्थाय च भास्करम् ॥ ७५. सशिष्यः साग्निहोत्रः च प्रायात् प्राचीं दिशं मुनिः । अतीत्य दूरमध्वानं खमारूढे दिवाकरे ॥ ७६. आससाद वनं पुण्यं नानाद्रुमलतायुतम् । विमुक्तमत्सरैः शान्तैः मृगपक्षिगणैर्वृतम् ॥ ७७. सिद्धैर्मुनिगणैः पुण्यैः सेव्यमानमितस्ततः । तद्वनं प्रविशन्नग्रे चाद्राक्षीत् काश्यपाश्रमम् ॥ ७८. विकीर्यमाणः भूभागं मन्दारकुसुमोत्करैः । यूथैर्जनानां सङ्घातैः मिथः कथयतां कथाः ॥ ७९. आनन्दनिर्भरैः सिद्धैः मुनिशिष्यैः समावृताम् । संप्रविश्याश्रमं श्रीमत् शिवशर्मा कृताञ्जलिः ॥ ८०. तमग्निहोत्रमालिनं दृष्ट्वादित्या समन्वितम् । स्वशर्म प्रब्रुवन् उच्चैः शिवशर्माभ्यवादयत् ॥ ८१. अर्हयित्वा तमासीनं बृस्यामेव प्रजापतिः । काश्यपः -- स्वागतं ते सर्वधर्मज्ञ शिवशर्मन् प्रसन्नधीः ॥ ८२. प्रीतोऽस्म्यागमनादेव सुहृदः तव साम्प्रतम् । विजित्य चारिषड्वर्गमिन्द्रियग्राममात्मनः ॥ ८३. अमुञ्चतः च कर्माणि निर्मुक्तफलबन्धनः । लोकसङ्ग्रहमिच्छन्तो विश्रान्त्यकुतो भयाः ॥ ८४. त्वमतः पूजनीयः श्लाघनीयश्च केवलम् । अत्रातिथ्यं विधास्यामि सानुगस्य विशेषतः ॥ ८५. पुण्ये मलयनन्दिन्याः तीर्थे पाटीरगन्धिनि । स्नात्वाविलम्बं सन्तर्प्य पितॄन् देवान् ऋषीनपि ॥ ८६. अवगाह्य दीपतीर्थमादित्यं कुण्डमेव च । पुरुषोत्तमं काश्यपेशं दाहकेशं प्रणम्य च ॥ ८७. शीघ्रमागच्छ सुमते दिवामध्यङ्गतो रविः । इति तस्य वचः श्रुत्वा काश्यपस्य प्रजापतेः ॥ ८८. शिवशर्मा महातेजाः तं प्राञ्जलिरभाषत । शिवशर्मा -- भगवन् करुणामूर्ते भवत्पादाब्जसेवया ॥ ८९. स्नातानि सर्वतीर्थानि पूजिताश्चैव मे सुराः । मन्ये च सफलं जन्म सफलो मे परिश्रमः ॥ ९०. तथापि तत् तथा कर्तुमुत्सहे गुरुशासनात् । स्नात्वा समागमिष्यामि देवं दृष्ट्वा सदाशिवम् ॥ ९१. इत्युक्त्वा पुनरानम्य तीर्थस्नानाय निर्ययौ । स्नात्वा काश्यपतीर्थे च दीपतीर्थे च मन्त्रवत् ॥ ९२. तथाप्यादित्यकुण्डे च तीर्थश्राद्धसमन्वितम् । देवमाराध्य विधिना पुनः काश्यपमासदत् ॥ ९३. प्रतिगृह्य तथा तीर्थं सानुगः तुष्टमानसः । भुक्तवन्तं च विश्रान्तमुपगम्य महामुनिम् ॥ ९४. प्रणम्य परिपप्रच्छ शिवशर्मादिविस्मितः । शिवशर्मा -- प्रसीद भगवन् मह्यं प्रसीद करुणानिधे ॥ ९५. त्वदनुग्रहतः श्रोतुं वाञ्छामि च मनोगतम् । इन्द्रकीलादहं प्राप्तः प्राप्तः स्नातुमुद्यतः ॥ ९६. तदा कौतूहलाकाराः समदृश्यन्त पूर्वतः । जनाः गन्धर्वसङ्काशाः महामाणिक्यपाटलाः ॥ ९७. स्रग्विणः चारुवसनाः मणिकाञ्चनभूषणाः । गच्छन्तश्च विमानैः स्वैः मेरुश्रूङ्गसमप्रभैः ॥ ९८. स्त्रियो विद्युल्लताकाराः गायन्त्यो मधुरस्वरम् । तेषां तासां च सङ्गीतैः दिशो मुखरिताभवन् ॥ ९९. तथारुणभुवा तेन सन्धुक्षितमितस्तत । जनयन्तो भानुशङ्कां जन्तूनां भूमिचारिणाम् ॥ १००. अस्माकमक्षिपदवीं मण्डयन्तो ययुश्शुभाः । तानहं श्रुतुमिच्छामि के ते कुत्र समागताः ॥ १०१. व्यक्तं मे ब्रूहि भगवन् कथां कौतूहलात्मनः । शङ्खः -- इत्थं वचः समाकर्ण्य प्राज्ञस्य शिवशर्मणः । अभिनन्द्य महातेजाः काश्यपो वाक्यमब्रवीत् ॥ इति एकोनत्रिंशोऽध्यायः । Pro.Total = 2304 + 101 =2405.

त्रिंशोऽध्यायः

दीपिकेश्वरोद्भवः । १. श्रुणु ब्रह्मन् प्रवक्ष्यामि तदेव परमाद्भुतम् । सर्वपापक्षयकरं श‍ृण्वतां हर्षवर्धनम् ॥ २. अत्र देवो महादेवः कृपया कस्यचिन्मूलेः । प्रसादाय महालिङ्गरूपी प्रादुरभूत् विभुः ॥ ३. तदुत्सवदिदॄक्षूणां महतां त्रिदिवैकसाम् । समाजस्सर्वसिद्धानां गन्द्दर्वाप्सरसामपि ॥ ४. आगताः पूर्वदिवसे शिवानुग्रहकाङ्क्षया । एते ते भवता दृष्टाः स्त्रियश्च पुरुषा अपि ॥ ५. भवन्तं पुण्यतीर्थेषु सेवया समुपागतम् । इतोऽविदूरे द्रष्टव्यं लिङ्गं शम्बोर्मणिप्रभम् ॥ ६. मन्ये भवन्तं पुण्यानां भाजनं पुण्ययोगतः । इति ब्रुवति धर्मज्ञे काश्यपे कलुषापहे ॥ ७. संप्रहृष्टमना राजन् प्रत्यभाषत भूसुरः । शिवसर्मा -- कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्म्यहं ध्रुवम् ॥ ८. पुरा कृतानां पुण्यानां परिपाकात् इहागतः । को वा द्विजो महाभागः शिवानुग्रहभागभुक् ॥ ९. लिङ्गाकारः कथं भूमेः उत्थितः परमेश्वरः । कथमाविरभूत् सङ्घो देवानां व्योमवर्त्मनाम् ॥ १०. कथां यथावत् विस्तृत्य वक्तुमर्हसि मे गुरो । काश्यपः -- श्रुणु ब्रह्मन् कथां पुण्यां माहात्म्यं त्रिपुरद्विषः ॥ ११. अतृप्तिजननी चेयं श‍ृण्वतां परमां गताम् । विषये पाण्ड्यभूपानामुत्तरेण महामते ॥ १२. वेणुवत्याः तटे रम्ये नानाद्रुमलतायिते । अग्रहारो महानासीत् कलम्ब इति विश्रुतः ॥ १३. धनिनः तत्र भूयिष्ठाः ब्राह्मणा वेदपारगाः । यज्वानो भक्तिमन्तश्च महादेवे विशेषतः ॥ १४. तेषां मध्ये तु मेधावी प्रोक्तस्य तनयान्वयः । प्रमोदो नाम धर्मात्मा वेदवेदाङ्गपारगः ॥ १५. दाताग्निहोत्री धर्मिष्ठः कुटुम्बी पुत्रपौत्रवन् । गार्हस्थ्यं वर्तयामास कर्मकालविभागवित् ॥ १६. पितर्युपरते भ्रात्रा कलहीकृत्य हेतुतः । दायं विभज्य तस्मै तु स्वयमन्यत्र संस्थितः ॥ १७. एवं वर्तयतः तस्य कालेनाल्पीयसा सुतः । ममार भार्या पौत्राः च पुत्री च पौत्री च पालिका ॥ १८. एवं मासान्तरे प्राप्य द्विजो दुःखं सुदुस्सहम् । चिन्तयानः कर्मफलं अन्तस्तापाकुलोऽभवत् ॥ १९. अचिन्तितं किमेतन्मे प्राप्तं परिभवं महत् । अनुकूलां धर्मपत्नीं विहाय गृहमेधिनः ॥ २०. कथं भवति गार्हस्थ्यं विकर्णस्येव कुण्डलम् । कथं जीवाम्यहं हित्वा पुत्रं विनयोज्ज्वलम् ॥ २१. आगतोऽस्मि गतः पुत्रगतोऽसिस्नेहमुत्सृजन् । किं करिष्याम्यहं केन जीवामि विधुरो जडः ॥ २२. वृद्धस्य बन्धुहीनस्य का गतिः कथ्यतां प्रिये । अधर्माचरतान्नित्यं धनलाभेन मूढवत् ॥ २३. वञ्चितः सहजो भ्रात्रा पुत्रादपि हितप्रदः । तद्दोषात् प्राप्तमधुना व्यसनं दुस्सहं मया ॥ २४. इतः परं धनं दत्वा भ्रात्रे पित्रानुसञ्चितम् । तीर्थयात्रां करिष्यामि नान्यथा गतिरस्ति मे ॥ २५. इति प्रमोदो निश्चित्य ब्राह्मणो दुःखकर्शितः । घटपूर्णं धनं तस्मै सान्त्वयित्वा ददौ पुनः ॥ २६. वेणुदण्डं समापूर्य रत्नाद्यैर्वसुभिर्दृढम् । विधाय तन्मुखं लोहैः तदादाय स्वपाणिना ॥ २७. निवार्यमाणो बहुधा भ्रात्रा बहुभिरप्यसौ । वृद्धोऽपि निर्विघ्नतया निर्जगाम गृहात् व्रती ॥ २८. उत्तराभिमुखो गत्वा क्रोशमात्रं श्रमातुरः । यष्टिमात्रसहायस्तु तरुषण्ड उपाविशत् ॥ २९. तत्र कश्चित् यतिः दृष्ट्वा वृद्धं साहसिकप्रियम् । उपगम्यान्तिकं तस्य विस्मितो वाक्यमब्रवीत् ॥ ३०. यतिः -- किन्ते व्यवसितं वृद्ध कथ्यतां यदि मन्यसे । इयानेद्य परिश्रान्तः कियत् गन्तास्यतः परम् ॥ ३१. इति पृष्टवतः तस्य बहुमान्य वचो यतेः । यथावत् कथयामास प्रमोदो वै स्वमीहितम् ॥ ३२. इत्थं वदन्तं समृध्य पुनराह यतीश्वरः । अकार्यमिदं प्राप्यं स्थविरेण त्वया द्विज ॥ ३३. एतत् बालवतां साध्यं चिन्तितं भवताधुना । विहायेमां मतिं साधो गन्तासि स्वगृहं प्रति ॥ ३४. यदि ते सुदृढा बुद्धिः अविमुक्तदिदृक्षया । तत्रोपायं प्रवक्ष्यामि ऋजुमार्गेण साधितुम् । स्नाता मुनिना येन विधिना दक्षिणा हरित् ॥ ३५. यदङ्घ्रिपङ्गजासक्तसौभाग्यसुदृढामही । दुर्वारदर्पो विन्ध्योऽपि येन बद्ध(वन्द्य)मनोरथः ॥ ३६. निःशेषाब्धिजलं येन पाणौ चुलुकितं पुरा । निरामयमिदं येन कृतं वातापिवरिणा ॥ ३७. गावो विप्राश्च मन्त्राश्च क्रतुः धर्मश्च पालिताः । तं याहि शरणं शीघ्रं स ते श्रेयो विधास्यति ॥ ३८. इत्युक्त्वा मन्त्रराजं तु तस्मै सन्दिश्य मस्करी । तं द्विजं प्रेषयामास ताम्रायाः किल रोदसि ॥ ३९. सोऽपि प्रमोदः सुप्रीतः प्राप्य मन्त्रं यतिवरात् । तमामन्त्र्य गुरून् नत्वा संप्राप मलयात्मजाम् ॥ ४०. तत्र काश्यपतीर्थे तु स्नात्वा जप्त्वा महामनुम् । महादेवं ददर्शाग्रे लिङ्गरूपिणमात्मवान् ॥ ४१. तत्र भक्तं समाहूय द्विजं कञ्चन संस्थितम् । सखीकृत्य वचः प्राह प्रमोदः शिवसन्निधौ ॥ ४२. प्रमोदः -- सखे त्वां वरयाम्यद्य सुहृत्वे धर्मचारिणम् । यावत् कुम्भभवं दृष्ट्वा पुनरेष्याम्यहं ध्रुवम् ॥ ४३. तावत् यष्टिमिमां ब्रह्मन् मत्प्राणसदृशीमिह । पालयित्वा यथायुक्तं पुनर्मे दातुमर्हसि ॥ ४४. एवमाकर्ण्य तत् वाक्यं स विप्रः प्रीतिपूर्वकम् । तस्मात् आदाय तां यष्टिं स्ववेश्मन्यभ्यपालयत् ॥ ४५. सोऽपि विन्यास्य विश्वस्ते ब्राह्मणे यष्टिमात्मनः । प्रायान्महीधरश्रेष्ठमगस्त्य यत्र वर्तते ॥ ४६. पिनाकसरसः तीरे स्थित्वा नियतमानसः । जजाप मन्त्रराजानं ध्यायन् मुनिमतन्द्रितः ॥ ४७. निराहारत्रिरात्रं तु विनिद्रोऽनन्यमानसः । निश्चलोभूत् व्रती तत्र परं निर्वातदीपवत् ॥ ४८. एवं निवसतः तस्य पुरतः कुम्भसम्भवः । प्रादुर्बभूव भूयिष्ठं धर्मनिष्ठस्य सादरम् ॥ ४९. अगस्त्यः -- त्वयाहं तोषितो ब्रह्मन् स्तोत्रेणानेन साम्प्रतम् । सर्वान् कामान् प्रदास्यामि साक्षादिव वसुद्रुमः ॥ ५०. एतत् रहस्य स्तोत्रं मे गोपनीयमिदं त्वया । पापिष्ठानां न दातव्यं दूषकानां विशेषतः ॥ ५१. ब्राह्मणेषु च भक्तेषु धर्मनिष्ठेषु साधुषु । दीनेषु देयमेतत् तु स्तोत्रं नान्यत्र सत्तम ॥ ५२. ये पठन्ति स्तुतिमिमां मद्भक्ताः च दिने दिने । तेषामिष्टान् प्रदास्यामि नात्र कार्या विचारणा ॥ ५३. ते भवन्त्यविघातेन चिन्तितास्तु मनोरथाः । इति ब्रुवाणं तं दृष्ट्वा प्रमोदः कुम्भसम्भवम् ॥ ५४. प्रणिपत्य पदाम्भोजां संस्पृशन् स्वमौलिना । हर्षगद्गदया वाचा व्याजहार मुनीश्वरम् ॥ ५५. भगवन् करुणामूर्ते प्रसीद मम सन्ततम् । त्वत्पाददर्शनात् अद्य पूर्ण्कामोऽस्म्यहं मुने ॥ ५६. त्वयि भक्तिरविच्छिन्ना भूयान्मे पुष्कलोदया । कूले मलयनन्दिन्याः वासोस्तु सततं पुनः ॥ ५७. विशेषेण मनीषा मे काशिदर्शनलालसा । बन्धुहीनस्य वृद्धस्य ममत्वं परमागतम् ॥ ५८. इति श्रुत्वा वचस्तस्य भगवान् कुम्भसम्भवः । अस्ति काङ्क्षितमित्युक्त्वा करे दत्वा च दीपिकाम् ॥ ५९. पैनाके मज्जयामास तं विप्रं सरसि स्मयन् । उन्ममज्ज क्षणात् एव कुम्भयोनेरनुग्रहात् ॥ ६०. गङ्गानदीमयात् काशिपुर्यां सह दीपिकया द्विजः । स्नात्वा द्विजोऽसौ मणिकर्णिकायां डुण्डीश्वरं दण्डधरं च नत्वा ॥ ६१. विश्वेशमभ्यर्च्य तथान्नपूर्णां श्रीभैरवं च प्रणनाम मूर्ध्ना । स नित्ययात्रां विधिवत्विधाय भूयः प्रयाणाभिमुखः प्रमोदः ॥ ६२. संप्राप्य तीरं मणिकर्णिकायां ददर्श तन्वीसहितं युवानम् । स युवा तं दृष्ट्वा भ्रममाणमितस्ततः ॥ ६३. व्याजहार समाहूय मेघगम्भीरया गिरा । किं ते व्यवसितं ब्रह्मन् का ते चिन्ता सुदुस्सहा ॥ ६४. वक्तव्यं यदि मे व्यक्तं साधयाम्यहं ध्रुवम् । प्रमोदः -- सखे बन्धुविहीनस्य स्थविरस्य विशेषतः ॥ ६५. मुनेरनुग्रहाल्लब्धं अगस्त्यस्य महात्मनः । मनीषितं महाभाग्यं नानारूपमहोदयम् ॥ ६६. इतः परं मे गन्तव्यं मालेय्याकूलमद्भुतम् । इति ब्रुवाणं तं विप्रं हृष्टवन्तौ हि दम्पती ॥ ६७. सदीपिकाकरं भूयो मज्जयामास तज्जले । उन्ममज्ज क्षणादेव सह दीपिकया तदा ॥ ६८. षोडशाब्दवयाः ब्रह्मन् कामराजसमद्युतिः । पश्यतां सर्वजन्तूनां ताम्रपर्ण्या प्रवाहतः ॥ ६९. समाससाद तत् तीरं स्वभासा भासयन् इव । तं दृष्ट्वा विस्मयं जग्मुः सर्वे तीरनिवासिनः ॥ ७०. सम्पृछ्यमानो बहुधा बभाषे शाम्भवीं कथाम् । स्नात्वा कृत्वाह्निकां कर्म दृष्ट्वाभ्यर्च्य सदाशिवम् ॥ ७१. स्वमित्रं समुत्थापयामासौ यष्टिं स्वामभ्ययाचत । ससान्त्वं याचमानोऽपि साभिज्ञातं यथोचितम् ॥ ७२. तिरस्कृत्य वचस्सद्यः कुपितः प्राह वञ्चकी । कस्त्वं कुतस्समायातः किं मां पृच्छसि बन्धुवत् ॥ ७३. कस्य वा त्वं प्रियो बन्धुः का ते यष्टिः च कीदृशी । विश्वबञ्चकिनं मन्ये त्वामहं साहसप्रियम् ॥ ७४. दिवापि तिमिरं कर्तुं शक्यते मायविद्यया । अखण्डप्रलयं कर्तुमिन्द्रजालपरिश्रमी ॥ ७५. त्वया सख्यं न पश्यामि तमस्तोमातपोमम् । एवं ब्रुवाणं भूयोऽपि प्रमोदः प्रत्यभाषत ॥ ७६. सखे मम वचस्सत्यं श्रुणु कारुण्यपूर्वकम् । अनुग्रहात् महेशस्य वृद्धोऽपि तरुणोऽभवम् ॥ ७७. रत्नकाञ्चनसम्पूर्णं वेणुदण्डं मयार्पितम् । भूयः प्रदेहि मित्र त्वं तेन श्रेयो भविष्यति ॥ ७८. नाहं मुञ्चामि चाटूक्त्या त्वामहं कैतवात्मकम् । प्रायश्चित्तानि पापानामशेषाणां महात्मना ॥ ७९. श्रुतिस्मृतिप्रसिद्धानि न मित्रद्रोहिणं क्वचित् । वञ्चकस्यापि लुब्धस्य महापापस्य घातिनः ॥ ८०. मित्रद्रोहस्य लोकेऽस्मिन् नैव गन्तासि पात्रताम् । न शक्यं शुद्धानां साधो नष्टायुनापि भूमिपैः ॥ ८१. हालाहलात् असि मुखात् न बिभ्यति न बाडवात् । तेषामपि महाघोरात् दुस्सहं मद्धनं ध्रुवम् ॥ ८२. इत्थं ब्रुवति वै तस्मिन् स खलः कठिनाशयः । श्रुण्वतामेव सर्वेषां भूयो वचनमब्रवीत् ॥ ८३. मया न दृष्टपूर्वोऽयं कुतस्सम्भाषणं मिथः । शिव एव परस्साक्षी सर्वगः सर्वदर्शनः ॥ ८४. श्वः प्रमाणं करिष्यामि तं विधायात्र साक्षिणम् । स एव वक्ता सर्वस्य प्रमाणं तत्त्वनिर्णये ॥ ८५. इति सर्वे समाकर्ण्य साधु साध्विति संस्थिताः । अवोचत् अभिनन्द्यैतत् श्रुण्वन्तोऽभिसभासदः ॥ ८६. न शक्ता निश्चितुं तत्त्वं धर्मस्यादि तनीयसः । प्रमोदोऽपि परं खिन्नः कस्यचित् वेश्मनि क्षपाम् ॥ ८७. निनाय च शनैःचिन्तामन्दीभूतस्वनिद्रया । वञ्चकोऽपि च तं प्राप्य काश्यपेशं निशामुखे ॥ ८८. पूजयामास मन्त्रेण तत्तोषणविधानवित् । सन्तुष्टः तं तत्तदा शम्भुः प्रादुर्भूतोभ्यभाषत ॥ ८९. शिवः -- किं ते प्रियं मया कार्यं उच्यतां साधयाम्यहम् । इति देवेरितः क्षुद्रः पुनः प्राह सदाशिवम् ॥ ९०. यावत् प्रमाणं क्रियते मया तावत् दयानिधे । एतस्मिन् अम्बुसम्पूर्णे घटे सान्निध्यकृत् भव ॥ ९१. एवं संप्रार्थितः तेन तथेत्युक्त्वा तथाहृते । घटे समाविशत् तस्य प्रीतिं कुर्वन् सदाशिवः ॥ ९२. तस्मात् समीपे सहसा नीत्वा चिञ्चातरोरधः । स दयालुरसौ शम्भुः स्वप्ने संप्राप्य विस्मितम् ॥ ९३. प्रमोदं प्राह भगवन् दर्शयन् भक्तवश्यताम् । स्थापयामास कापट्यं कुर्वाणः तं द्विजं प्रति ॥ ९४. ततः स्वभवनं प्राप्य सुखं सुष्वाप वञ्चकिः । पश्यन् एव समं विश्वं यः पाति दुरितार्णवात् ॥ ९५. शिवः -- उत्तिष्ठ साधो मा खेदैः त्वदर्थं त्वामुपैष्यति । प्रत्ययं नैव कर्तव्यं त्वया च शिवसन्निधौ ॥ ९६. चिञ्चामूले तु कर्तव्यं द्रषव्यं महामते । तत्रैव वसाम्यद्धा तव साधयितुं धनम् ॥ ९७. इत्युक्त्वान्तर्दधे शम्भुः प्रबुद्धः सोऽपि सम्भ्रमात् । शिवो मे रक्षिता भूयात् इति संप्रार्थयन् मुदा ॥ ९८. प्रातः स्नात्वा दीपतीर्थे काल्यं कर्म समाप्य च । देवागारस्य संप्राप्तः द्वारं सर्वजनावृतम् ॥ ९९. स वञ्चकी समागत्य पश्यतां इत्युवाच तम् । स गत्वा देवदेवस्य पुरः प्रत्ययकृत् द्विजः ॥ १००. मृषा तदनुमन्ता च सर्वे रौरवयायिनः । अतस्त्वया च कर्तव्यं मया वा पापभीरुणा ॥ १०१. द्रष्टव्यं निकटे च शम्भोः मूले चिञ्चामहीरुहम् । सर्वतः परिपूर्णस्य देवेशस्य दयानिधेः ॥ १०२. नास्ति किं महस्तत्र भक्तरक्षणक्षम ; । इत्युक्तवति वै तस्मिन् सर्वे सन्तः समाहिताः ॥ १०३. साधु साध्विति तं वाक्यं प्रशंसुः समन्ततः । स सर्वजनसम्भाव्यमन्यथा कर्तुमक्षमः ॥ १०४. तथा स तरुमूलेऽस्मिन् प्रत्ययं दुर्मना इव । यथा मयास्य नादत्ता यष्टिः काञ्चनगर्भिणी ॥ १०५. न विन्यस्ता मय्यनेन साक्षी देवः सदाशिवः । इत्थं जल्पति च व्याजात् अनारब्धे द्विजाधमे ॥ १०६. तत्तरोः कोटरात् अग्रे ज्वालामालासमन्वितः । प्राजजृम्भे महाह्निः बडवानलसन्निभः ॥ १०७. तेन दग्धमभूत् वृक्षं नानास्कन्धप्रकाशकम् । सोऽपि भस्मीकृतः पापी सर्वेषां पश्यतां तदा ॥ १०८. तदग्निमध्ये निर्भिद्य महामाणिक्यसन्निभः । तावत् कलाकलारावहाहाकाराननादिभिः ॥ १०९. लिङ्गरूपी महादेवो ददृशे लोकविस्मितः । पपात पुष्पवृष्टिः च भद्रश्रीगन्धबन्धुरा ॥ ११०. द्यावा पृथिव्योरुदरं पूर्यमाणमभूत् द्विज । तावत् दुन्दुभयो नेदुः अम्बरात् अमराहताः ॥ १११. विमानैर्निबिडं व्योम देवानामिव भास्वरैः । तुष्टुवुर्मुनयस्सिद्धाः देवाश्च सहचारणाः ॥ ११२. सोऽपि बद्धाञ्जलिर्मूर्ध्ना प्रमोदो हर्षपूरितः । तं दृष्ट्वा देवदेवस्य प्रसादं लिङ्गरूपिणः ॥ ११३. वेपमानः इवासाद्य विस्मितेनान्तरात्मना । तुष्टाव जगदीशानं वाग्भिरग्र्याभिरग्रतः ॥ ११४. प्रमोदः -- प्रायः प्रपन्नार्तिहरोऽसि नाथ प्रपन्नसर्वेन्द्रियवृत्तिभाजाम् । अमुक्तसान्निध्यकरो बुधानां अतः त्वमन्यं शरणं न पश्ये ॥ ११५. प्रवातशीलः प्रहतेषु नित्यं प्रसिद्धमेतत् वचनं त्रयीषु । अनर्चतो मे कृपणस्य शम्भो कृपाकरोऽयं तदहो विचित्रम् ॥ ११६. उपेयुषामेव तनोति कामं सुरद्रुमश्रोत्र कथं न दृष्टम् । पादारविन्दोऽनुस्मरणोनुतापी दूरे ममानुग्रहकृत् विचित्रम् ॥ ११७. पवित्रितं जन्मजगत्त्रयो यत् त्वया कृपालोचनपातितस्य । ममाधुना मङ्गलपुण्यपूर्णा स्वयं समानन्दसुसम्पदो यत् ॥ ११८. नमःशिवाय च शुभहेतुहेतवे सुधांशुचूडामणये नमो नमः । नगात्मजालिङ्गितचारुमूर्तये सहस्रकृत्वः प्रणतोऽस्मि नित्यम् ॥ ११९. गिरीश विश्वेशाधुना पुनीहि पुण्येन कृपाक्षिवर्चसा । पुरत्रयध्वंसनपुञ्जितश्रीः किमद्भुतं भूरुहमात्रतक्षणम् ॥ १२०. वृषाङ्क विश्वाधिक भर्ग ते पादाम्बुजाराधानभाग्यदायिना । विलोकनेनाशु विलोकयाधुना प्रपन्नमेनं जनमार्तिभञ्जन ॥ १२१. शम्भो तवालं जनितानिलभागधेयमन्ते विचिन्तयति विश्वमिदं समस्तम् । त्वय्यद्भुतामधुना तरुमात्रदाहलीला कोपभरात् दयालो ॥ १२२. प्रसीद मयि सन्ततं प्रमथनाथगाथेतर प्रवाह करुणाम्बुधे प्रणतिभाति पापाहन् । अकालविलयागमव्यसनशङ्कुशङ्कावतामपाकुरु भयामयं स्वपदसेविनां मा चिरम् ॥ १२३. काश्यपः -- इत्थं स्तुतस्तथा तेन प्रमोदेन महात्मना । महालिङ्गात् समुत्तस्थौ वामार्धवनिताकृतिः ॥ १२४. प्रभामण्डलमध्यस्थोभवन्निव नभस्थलात् । प्रणतं प्रीणयन् वाचा मेघनादगम्भीरया ॥ १२५. सदाशिवः -- ब्रह्मन् प्रीतोऽस्म्यहं स्तुत्या भक्त्या चानन्यपूर्वया । दास्यामि ते वरान् सर्वान् लोकद्वयसमेधितान् ॥ १२६. आयुरारोग्यमैश्वर्यं रूपयौवनसम्पदाम् । भवन्तु मत्प्रसादेन मयि भक्तिश्च शाश्वती ॥ १२७. पुत्रमित्रकलत्राद्यैः अनुकूलैः समन्वितः । अत्र स्थित्वा चिरं भुक्त्वा मामुपैष्यसि केवलम् ॥ १२८. त्वत्कीर्तिलक्ष्मीरव्यग्रा दीपिकातीर्थलक्षणा । अत्र स्नाता नरास्सर्वे मत्कृपापात्रतां गताः ॥ १२९. प्रीत्यर्थं तव विप्रेन्द्र नित्यमत्र वसाम्यहम् । किमन्यत् काङ्क्षितं मत्तो वृणीष्वाव्यग्रया गिरा ॥ १३०. दास्याम्यसंशयं लोके न देयं किञ्चिदस्ति मे । इत्थं विज्ञाय देवस्य प्रमोदो भक्तवश्यताम् ॥ १३१. पुनर्विज्ञापयामास प्राञ्जलिः स्वमनोरथम् । प्रमोदः -- देवदेवदयासिन्धो यदि देयो वरो मम ॥ १३२. निर्दग्धोऽयं स्वपापेन ब्राह्मणो दुर्मनस्तथा । पुनर्जीवतु देवेश मत्प्रियार्थमनुग्रहात् ॥ १३३. एवमभ्यर्थितस्तेन भगवान् परमेश्वरः । स विप्रः प्राप्त सौभाग्यः समुद्वाह्य पुनर्वधूम् ॥ १३४. अत्रैव वासं विदधे प्राप्तयष्टिधनादिकः । एतत् दृष्ट्वा महेशस्य लीलाकर्म सुरासुराः १३५. प्रसाद्य देवदेवेशं सर्वे जग्मुर्यथागतम् । एतत् विचित्रं कलशोद्भवस्य महानुभूतेः चरितं हि दृष्टम् । यन्मन्त्रजापी परमेश्वरस्य कृपैकपात्रत्वमगात् प्रमोदः ॥ इति त्रिंशोध्यायः । Pro.Total = 2405 + 135 =2540.

एकत्रिंशोऽध्यायः

काश्यपस्य नारदेन सह ब्रह्मलोकगमनम् । गजेन्द्रमोक्षण कथाप्रश्नः । १. शिवशर्मा -- अहो विस्तारिता ब्रह्मन् कथेयं भवताधुना । चन्द्रमण्डलनिष्क्रान्ता मयूखाभिरिव ध्रुवम् ॥ २. अत्राहं श्रोतुमिच्छामि रहस्यं त्वदनुग्रहात् । कोऽसौमन्त्रवरो लब्धः प्रमोदेन यतीवरात् ॥ ३. तमिदानीं गुरुमुखात् प्राप्स्यामि भवतः प्रियम् । इति संप्रार्थितस्तेन काश्यपः प्राह तं पुनः ॥ ४. काश्यपः -- शिवशर्मन् महाभाग श्रुणु ते कथयाम्यहम् । यस्य विज्ञानमात्रेण स्वयमायान्ति सम्पदः ॥ ५. अश्रोत्रियेषु पापेषु वेदमार्गविरोधिषु । न दातव्यमिदं स्तोत्रं मन्त्रराजं महामते ॥ ६. ऋषिरिन्द्रः तथानुष्टुभ् छन्दो देवो घटोद्भवः । सर्वाभीष्टस्य सिध्यर्थे जपोऽयं विनियोजितः ॥ ७. पाटीरशैलकोटीरमणिपीठाय वेधसे । मुनये कुम्भजायोद्यदनुकम्पाब्धये नमः ॥ ८. लोपामुद्रासमायुक्तं महायोगासनस्थितम् । प्रसन्नं तपसां राशिं प्रणुमः कुम्भसम्भवम् ॥ ९. इति ध्यात्वा नमस्कृत्य जपेन्नामावलिं मनुम् । अगस्त्यः कुम्भसम्भूतो मैतावरुणिरब्धिपः ॥ १०. लोपामुद्रापतिश्श्रीमान् वातापील्वलभक्षणः । विन्ध्याद्रिमथनो योगी महामलयकेतनः ॥ ११. सर्वतीर्थात्मकपदो भक्ताभीष्टफलप्रदः । लोपामुद्राभुजाश्लेषहर्षरोमाञ्चमूर्तिमान् ॥ १२. नाम्नां द्वादशकं पुण्यमगस्त्यस्य महात्मनः । पठन्त्यपि श‍ृण्वन्ति ते वै सुकृतिनः परम् ॥ १३. तेषामभीष्टदानाय भगवान् कुम्भसम्भवः । अद्याभ्युद्यत्कराम्भोजो नात्र कार्या विचारणा ॥ १४. यशस्यं धन्यमायुष्यं ज्ञानदं भुक्तिमुक्तिदम् । नाम्नां स्तोत्रं पठेत् विद्वान् पुरुषार्थाः करे स्थिताः ॥ १५. विमलहृदयमुच्चैर्वेदवेदान्तवेद्यं विधिमुखसुरपूज्यं भूतिरुद्राक्षभाजम् । मुनिवरममलाङ्ग्या धर्मपत्न्याप्तभागं कलशजमभिरामं नौमि कारुण्यमूर्तिम् ॥ १६. इत्येतत् परमं गुह्यं मन्त्रं सर्वार्थसाधकम् । यतीश्वरादनुप्राप्य प्राप्तवान् परमं सुखम् ॥ १७. नित्यप्रमोदभूयिष्ठं प्रमोदः प्राप्तसौभगः । उपर्युपरि धर्मस्य प्राप्तभूतो न संशयः ॥ १८. चन्दनाद्रिसमुद्भूते सत्ये शङ्करलालिते । त्वयि स्नास्ये सुप्रसन्ने पाहि मां भवसागरात् ॥ १९. इति मन्त्रं समुच्चार्य स्नात्वा ताम्रानदीजले । पितॄन् देवान् ऋषीन् तर्प्य नाभिदघ्नजले स्थितः ॥ २०. जपेन्मन्त्रमिदं मन्त्री त्रिवारं विजितेन्द्रियः । षाण्मासादेव सुप्रीतः तस्य भूयात् घटोद्भवः ॥ २१. शिवशर्मन् त्वया जप्यं प्रत्यहं प्रीतिमिच्छता । इति तेन समाख्यातां कथां कलिमलापहाम् ॥ २२. विषयीकृत्य कर्णस्य विस्मितो द्विजपुङ्गवः । शिवशर्मा पुनःप्राह काश्यपं स्वमनोरथम् ॥ २३. अत्र पुण्यतमे देशे ताम्रप्रण्यास्तटे शुभे । भवतस्सन्निधावेव क्रतुमाहर्तुमुत्सहे ॥ २४. अतः साधयितास्माकं भवानेव गुरुर्मतः । इत्थं संप्रार्थितस्तेन काश्यपो हृष्टमानसः ॥ २५. शिष्यैरानाय्य सम्भारान् मुनीनानाय्य सत्तमान् । दीक्षां प्रवेशयामास शिवशर्माणमात्मवान् ॥ २६. क्रतुः क्रमात् समाप्तोऽभूदद्भुतो भूरिदक्षिणः । आवभृथ्यं विधायैव सन्तुष्टाः सर्व एव ते ॥ २७. काश्यपं पुरतः कृत्वा यज्वानः चाग्निसन्निधौ । कथयन्तः कथाः पुण्याः दीपतीर्थकसंश्रयाः ॥ २८. एतस्मिन्नन्त्रे श्रीमान्नारदः तपसां निधिः । आययौ काश्यपं द्रष्टुमम्बरात् ब्रह्मलोकतः ॥ २९,तं दृष्ट्वा मुनिभिस्सार्धं सहितः शिवशर्मणा । काश्यपः पूजयाञ्चक्रे नारदं विधिपूर्वकम् ॥ ३०. आह चैनं सुविश्रान्तं पृष्ट्वानामयमव्ययम् । कुतः समागतोऽसि त्वं विवक्षुरिव भाव्यसे ॥ ३१. सर्वं कथय मे सम्यक् अगस्त्यमिह चागतम् । श्री नारदः -- अत्र ब्रह्मात्मके क्षेत्रे वसन्तं त्वां महामते ॥ ३२. द्रष्टुमिच्छन्निहायातः पितामहनियोगतः । तवैव दर्शनात् ब्रह्मन् पूर्णकामोऽस्मि सत्तम ॥ ३३. शालातीर्थं दीपतीर्थं तीर्थं च पुरुषोत्तमम् । काश्यपेशं दाहकेशं पश्चिमाभिमुखं विभुम् ॥ ३४. तदग्रतः स्थितं विष्णुं शिवकोपापशान्तिदम् । पितामहस्याग्निहोत्रात् जातं श्रीमूलसंज्ञकम् ॥ ३५. द्रूष्ट्वा स्नात्वापि पूज्यापि भूयो भूयो विलोकयन् । कृतार्थोऽस्मि कृतार्थोऽस्मि विशिष्य तव दर्शनात् ॥ ३६. ये चात्र निवसन्त्यद्धा जीवन्मुक्ता हि ते ध्रुवम् । तेषां दर्शनमात्रेण कृतकृत्योऽस्मि सत्तम ॥ ३७. त्वां काङ्क्षति परं स्नेहात् द्रष्टुमिच्छन्पितामहः । अगस्त्यः सह पत्नीको भवनं परमेष्ठिनः ॥ ३८. गन्तव्यं हि मया सार्धं मा विलम्बोऽस्तु कार्यतः । इति श्रुत्वा वचस्तस्मात् प्रीयमाणः पुनःपुनः ॥ ३९. शिवशर्माणमामन्त्र्य तत्रस्थान् च विशेषतः । काश्यपेशं दाषहकेशं हरिं च पुरुषोत्तमम् ॥ ४०. ताम्रपर्णीं नमस्कृत्य पूजयित्वा घटोद्भवम् । व्योमयानः संप्रतस्थे नारदेन सहामुना ॥ ४१. पुनःपुनः क्षेत्रराजं देवी च मलयात्मजाम् । मलयं चन्दनावासं सम्भाव्य मुनिपुङ्गवः ॥ ४२. देवैस्सिद्धगणैस्सार्धं गन्धर्वपतगोरगैः । पूज्यमानः समस्तैश्च अर्च्यमानः पदे पदे ॥ ४३. उपर्युपरि मेघानामुत्पतन् भास्करोपमः । सिद्धलोकमतिक्रम्य यक्षलोकमतीत्य च ॥ ४४. महावायुपदादूर्ध्वं वैश्वानपदं महत् । अतिक्रम्यार्कपदवीं सिद्धचारणसेविताम् ॥ ४५. नक्षत्राणां ग्रहाणां च तथा सप्तर्षिमण्डलम् । ध्रुवं प्रदक्षिणीकृत्य स्मयमानो मुहुर्मुहुः ॥ ४६. अतीत्य दूरमध्वानं महर्जनतपोर्जितम् । नारायणकरोन्मुक्त चक्रराज इवापरः ॥ ४७. आससाद शनैर्व्योम ब्रह्मलोकं सनातनम् । अद्यापि तस्य महिमा दृश्यते तीर्थविग्रहः ॥ ४८. पञ्चकोशप्रमाणेन क्षेत्रमेतत् विनिर्मितम् । अत्राविष्कृत्य देवोऽपि मोक्षलक्ष्मी सुदुर्लभाम् ॥ ४९. तदादि सर्वजन्तूनां राजन् अद्यापि दृश्यते । एतत् ते पुण्यमाख्यानं कथितं सारसङ्ग्रहम् ॥ ५०. विस्तरात् वक्तुमस्माभिः श्रोतुं वाप्यग्रयायिना । नालं वर्षशतेनापि बहुत्वात् अवनीपते ॥ ५१. इतः परं वक्ष्यामि करिराजस्य मोक्षणम् । यत् आकर्णयतो मर्त्यो न भूयः तनुमान् भवेत् ॥ ५२. शिवशर्मापि विप्रेन्द्रः तत्र स्थित्वा कियच्चिरम् । तत्रत्यान् एव आमन्त्र्य साग्निहोत्रसमेधितः ॥ ५३. गजेन्द्रवरदं दृष्ट्वा स्नात्वा च विधिपूर्वकम् । गङ्गाद्वारमगात् तस्मात् यत्रास्ते भगवान् हरिः ॥ ५४. इतः परं प्रवक्ष्यामि करिराजस्य मोक्षणम् । यस्य श्रवणमात्रेण कर्मबन्धात् प्रमुच्यते ॥ ५५. अगस्त्यशापात् आपन्नमातङ्गत्वं दयानिधिः । मोचयित्वा पाण्ड्यभूपं चक्रे निजपदाश्रयम् ॥ ५६. अद्यापि दृश्यते यत्र वरदः सर्वदेहिनाम् । इत्थं ब्रुवति योगीन्द्रे शङ्खे संशयभेत्तरि ॥ ५७. पुनः प्रसादयन् वाचा परिपप्रच्छ भूपतिः । राजा -- भगवन् योगिनां श्रेष्ठ धर्माख्यानसुधानिधे ॥ ५८. तं मे विस्तरतो ब्रूहि वृत्तान्तं च सविस्तरम् । को वा महीपतिः पाण्ड्यः किमाघः कृतवान् मुने ॥ ५९. संप्राप्य तिर्यक् योनित्वे शापोपहतचेतसि । अनुग्रहं मुनिः चक्रे केन वा पुण्यकर्मणा ॥ ६०. कथ्यतां विस्तरात् ब्रह्मन् श्रोतुं कौतूहलं हि मे । इत्थं सादरमर्थितःक्षितिभुजा भूम्ना मुनीन्द्रो मुदा चारुस्वादु कथाधुनीमकथयत् कर्णामृतस्यन्दिनीम् । श्रीविश्वं परमूर्तिकलितालङ्कारसम्भावितां कारुण्यैकनिधिः विधित्सुरखिलापायव्ययं श‍ृण्वताम् ॥ इति एकत्रिंशोऽध्यायः । Pro.Total = 2540 + 60 = 2600.

द्वात्रिंशोऽध्यायः

गजेन्द्रमोक्षकथावर्णन म् । १. शङ्खः -- श्रुणु राजन् पुरा वृत्तमितिहासं सविस्तरम् । हरेर्भगवतो भूरिकरुणागैरवाश्रितम् ॥ २. वर्णयामि कलिक्लेशशमनैकान्तभेषजम् । पुरा व्यासेन कथितं शुकाय ब्रह्मवादिनम् ॥ ३. पुरा कश्चित् अभूत् राजा पाण्ड्येषु बलिनां वरः । इन्द्रद्युम्न इति ख्यातः यक्षराज इवापरः ॥ ४. चतुर्मुखमुखामोदमेदुरा यस्य भारती । कलाविशेषकल्लोलरसनारङ्गसाक्षिणी ॥ ५. निद्राविशालशीलेन पत्या सासूयमिन्दिरा । अविमुक्तोदया यस्य न जहौ वदनाम्बुजम् ॥ ६. यत्सौन्दर्यसुधासारसोचिताक्षिसरोरुहः । कवयो नैव शंसन्ति निर्दग्धानङ्गविग्रहम् ॥ ७. यस्मिन् शासति भूपाले राजनीतिविशारदे । अस्थात् अङ्गमभूत् धर्मो भूमौ पदचतुष्टयम् ॥ ८. यस्य प्रतापलेशेन सन्तप्ता इव शत्रवः । समुद्रं शरणं प्रापुः केचित् कान्तारगह्वरम् ॥ ९. एवं स राजधर्मेण पालयन् सकलां महीम् । अयजत् वाजपेयेन राजसूयेन चासकृत् ॥ १०. आत्मानं पावयामास हयमेधैः पुनःपुनः । यज्ञेन देवान् सन्तोष्य प्रजया पितॄन् नृपः ॥ ११. गुरून् विप्रान् धनेनैव भोगैरात्मानमेव च । एवं नीत्वा सहस्राणां द्वादशं शरदं क्रमात् ॥ १२. विरक्तः सर्वभोगेभ्यः विनीतः प्रवयाः स्वयम् । मणिवर्णं ज्येष्ठपुत्रं गुण्श्रेष्ठं विशेषतः ॥ १३. राज्येभिषिच्य मेधावी तीर्थयात्रापरः स्वयम् । पुरोहितं समामन्त्र्य बन्धून् च प्रेमविह्वलान् ॥ १४. कैश्चित् समन्वितो विप्रैः अनुरक्तैः महात्मभिः । मणलूरात् विनिर्गत्य नगरात् स महीपतिः ॥ १५. क्रमान्निषेव्य तीर्थानि ताम्रायाः कूलयोः द्वयोः । आससाद स भूदेवैः पद्मतीर्थं हरिप्रियम् ॥ १६. तत्र स्नात्वा तर्पयित्वा पितॄन् देवान् ऋषीनपि । तीर्थश्राद्धं क्षेत्रपिण्डं विधाय विधिपूर्वकम् ॥ १७. पुरोधाय गुरुं दान्तो धनानि बहुशो ददौ । सर्वेषु परितृप्तेषु ब्राह्मणेषु समर्हणैः ॥ १८. माध्यन्दिनविधिं कृत्वा चकाराराधनं हरेः । गन्धैः पुष्पैः तथा धूपैः नीराञ्जनादिभिः ॥ १९. नानाविधैश्च नैवेद्यैः स्तोत्रैः श्रुतिसमीरितैः । इत्थमभ्यर्च्यमाने तु देवे देवीसमन्विते ॥ २०. अभ्याययौ महातेजा मुनिः कलशसम्भवः । तत्रत्याम्रवणे रम्ये गजेन्द्रवरदप्रभोः ॥ २१. यं वदन्ति महात्मानः साक्षात् भगवतः तनुम् । यस्यानुग्रहमासाद्य सर्वे जीवन्ति जन्तवः ॥ २२. यस्मिन् देवाश्च मन्त्राश्च क्रतवो देवतास्तथा । अविश्रान्तमुपासन्ते लोकानां हितकाम्यया ॥ २३. रुद्राक्षमालाबहुलो जटामण्डलमण्डितः । श्रौतभस्माङ्गरागेण चन्द्रमा इव पाण्डरः ॥ २४. मुक्तामतल्लिकामिश्रमहामाणिक्यसम्भृताम् । व्यावर्तयन् अक्षमालामङ्गुष्ठेन मुहुर्मुहुः ॥ २५. निरन्तरविनिर्गच्छन् महामन्त्राक्षरोर्मिभिः । ईषत्विस्फुरमाणेन लक्षितो दन्तवाससा ॥ २६. रुरुचर्मोत्तरीयेण किञ्चित् आच्छिन्नकन्धरः । अनुगच्छद्भिः अव्यग्रैः शिष्यैः परिवृतो महान् ॥ २७. स्वभासा भासयन् विष्वक् भास्वान् बालातपैरिव । द्रष्टुकामः पाण्ड्यभूपमनुग्रहविधित्सया ॥ २८. तं दृष्ट्वा सहसोत्तस्थुः तत्रत्याः सर्व एव ते । नमस्कृत्य ऋषिं विद्वान् राजपुरोहितः ॥ २९. कृताञ्जलिरुवाचेदं तमगस्त्यं महामुनिम् । पुरोहितः -- ब्रह्मन् प्रसीद सर्वज्ञ प्रसीद करुणानिधे ॥ ३०. त्वदङ्घ्रिपद्मसेवायै राजाभ्येति क्षणादिह । शिवमाराधयन्नास्ते तावत् आस्वेदमासनम् ॥ ३१. एवं ब्रुवाणे वै तस्मिन् दान्ते राजपुरोहिते । तमनादृत्य भगवान् मैत्रावरुणिरीश्वरः ॥ ३२. तावता समयेनैव राजान्तिकमुपागमत् । स भूपालोऽपि तत्काले हरिपादाब्जलीनधीः ॥ ३३. नोत्थानमकरोत्तस्य पूजाभङ्गभयात् क्षणम् । तावता कुपितः श्रीमान् समुद्र इव पर्वणि ॥ ३४. तवैव हितकामेन क्षुद्रबन्धो मयाधुना । इयतीयमरण्यानी लङ्घिता विषमस्थली ॥ ३५. अभ्यागतं परिश्रान्तं मामनादृत्य मूढवत् । स्थितोऽसि यस्मात् दुर्बुद्धे भविता त्वं वनद्विपः ॥ ३६. इति वादिनि वै तस्मिन् कुपिते कुम्भसम्भवे । स राजा निमिषात् एव समर्प्याभ्यर्हणं हरेः ॥ ३७. वेपमान इवोत्थाय भीतभीतः परिभ्रमत् । प्रणम्य पादयोर्मूर्ध्ना प्रश्रितः प्राह तं मुनिम् ॥ ३८. राजा -- किमिदं भगवन् भृत्ये त्व्य्यनाथे मय्यनागसि । आकस्मिकमहं मन्ये शापाशनिविमोचनम् ॥ ३९. सविमर्शं त्वदादिष्टपदवीपरिशीलिना । मया न दृश्यते ब्रह्मन् अपराधाण्डता विभो ॥ ४०. अस्तु भाव्यमिदं मह्यमनुरूपं हि कर्मिणाम् । भाविनः स्वयमायान्ति मेघा इव नभस्थले ॥ ४१. अभाव्यं च न भवत्येव वन्ध्यागर्भमिव ध्रुवम् । तथाप्यहं न शोचामि भुञ्जन् आत्मानुसञ्चितम् ॥ ४२. एतावत् पालयन् सम्यक् अनुरागात् इमं जनम् । अत्यर्थं क्षिपसि ब्रह्मन् अपारे वृजिनार्णवे ॥ ४३. अर्भकः परिगृह्णाति कुपितामपि मातरम् । अनभिज्ञेन मूढेन मया पापं कृतं मया ॥ ४४. कृतान्यकृत्य कर्मणि क्षन्तुमर्हसि धर्मतः । उपेक्षिता मे विषया धनदारासुतादयः ॥ ४५. त्वदङ्घ्रिपङ्कजासक्त्या मामवेहि समागतम् । अवसानं तु शापस्य कथं प्राप्स्ये सुदुस्सहम् ॥ ४६. पारम्पर्यक्रमात् सर्वे वयं त्वत्पादसेविनः । अहमेकः परिभ्रष्टः कुवृत्त इव गोत्रतः ॥ ४७. इत्थं दुःखपरीतात्मा विलपन् एव भूपतिः । पपात पादयोस्तस्य पाहि मां पाहि मामिति ॥ ४८. एवं दुःखपरिक्रान्तं वेष्टमानं महीतले । विलोक्य कुम्भजो भूयं दयालुः पुनरब्रवीत् ॥ ४९. अगस्त्यः -- दुःखेनालं महाराज जहीहीह परिभ्रमम् । मयि मन्युर्न कर्तव्यो भवितव्ये विजानता ॥ ५०. त्रिकालज्ञानचतुरा बुद्धिस्ते निरपायिनी । नित्याभवतु दुःखघ्नी मत्प्रसादात् भविष्यति ॥ ५१. अखण्डज्ञानजननी हरिभक्तिरनामया । मदनुग्रहात् अभिनवा भूयात् तव सुखाप्तये ॥ ५२. अकुतश्चित्भयो धीरो बलवान् अत्र भूधरे । निवसन् हरिपादाब्जं मा विस्मर महीपते ॥ ५३. मलत्रयविनिर्मुक्तो विहरस्व यथासुखम् । अनेहसा ह्रसिष्ठेन भगवान् हरिरीश्वरः ॥ ५४. मोचयिष्यति शापात् त्वां नात्र कार्या विचारणा । इत्युक्त्वा मुनिभिस्सार्धं अगस्त्योऽतिदयापरः ॥ ५५. तत्रैवान्तरधात् राजन् सर्वेषां पश्यतां तदा । सोऽपि राजा शापबलात् महानासीत् मतङ्गजः ॥ ५६. नागायुतबलो वीरो महाकायो मदोत्कटः । वनद्विपानां सर्वेषां सार्वभौमः चचार सः ॥ ५७. करिणः करिण्यश्च शतशोऽथ सहस्रशः । तमेनमनुतिष्ठन्ते देवा इव बिडौजसम् ॥ ५८. प्रत्यहं तीर्थमुख्येषु भक्त्या स्नात्वा गजेश्वरः । हरिमाराधयामास नामभिः कमलोत्पलैः । ५९. शरीरयात्रां कुर्वाणः सत्येन सर्वसम्मतः । निनाय शरदां पञ्चशतं युगशतोपमम् ॥ ६०. एतस्मिन्नेव समये तत्राष्ट्रे राजदोषतः । अनावृष्टिरभूत् राजन् सर्वप्राणिभयावहा ॥ ६१. समशिष्यन्त सर्वत्र वापीकूपां तु सिन्धवः । दुर्भिक्षपीडिता सर्वे(सर्वाः) प्रजाः प्राणपरीप्सया ॥ ६२. अपहाय च तत् राज्यं देशान्तरमुपाविशन् । तदा प्रतिदिनं पद्मान्यादायाभिसुदूरतः ॥ ६३. हरिमभ्यर्चयन् भक्त्या करीन्द्रः कालमभ्यगात् । अटमानो वनतटीमन्विष्यन् कुसुमाकरम् ॥ ६४. आसायं सञ्चरित्वोष्मक्षुत्क्षान्तश्च श्रमान्वितः । बहुदूरमतिक्रम्य लम्बमाने दिवाकरे ॥ ६५. आससाद महानद्याः ह्रदं कमलमण्डितम् । अगाधमम्बुसम्पूर्णं यादोगणनिषेवितम् ॥ ६६. नानाविहगसङ्घुष्टं कमलामोदमेदुरम् । यत्रोदीचीमुखा ताम्रा नदी परमपावनी ॥ ६७. तत्र स्नात्वा गजेन्द्रोऽपि तीर्थे सर्वश्रमापहे । उज्जहार स फुल्लानि पद्मान्यर्चयितुं हरिम् ॥ ६८. तावत् तत्र महातोये विशाले गाधवर्जिते । कश्चित् ग्राहः समुत्पत्य जग्राह च गजेश्वरम् ॥ ६९. बली बलिनमागत्य चरणे विचकर्ष ह । आतीरं करिराजोऽपि तं विकृष्य द्रुतं ययौ ॥ ७०. आपत्य ह्रदमाकृष्य महान् नक्रोऽपि जग्मिवान् । एवमन्योन्यबलिनौ परस्परविकर्षिणौ ॥ ७१. अविश्रान्तं द्वादशाहमासेदतुरविक्लबौ । निराहारतया दूरवनगह्वरलङ्घनात् ॥ ७२. क्षीयमाणबलो दुःखी करिराजस्तु बृम्हयन् । संसारे स्मरतामाधिशमनं पुरुषोत्तमम् ॥ ७३. पुष्कराग्रोद्धृताम्भोजः क्षान्तश्च क्षुत्पीडितः । हृदि ध्यायन् हृषीकेशं तुष्टाव दुरितापहम् ॥ ७४. गजेन्द्रः -- नाथा नारायणाशेषलोकापायव्यपोहन । आदिमूल हृषीकेश दीने मयि दयां कुरु ॥ ७५. दीनबन्धो दयासिन्धो सिन्धुकन्यानिवास भो । आदिमूलार्चनीयाङ्घ्रे दीने मयि दयां कुरु ॥ ७६. घनश्याभिरामाङ्ग गङ्गाधरमुखार्चित । आदिमूलार्चनीयाङ्घ्रे दीने मयि दयां कुरु ॥ ७७. अलब्धशरणोऽन्यत्र त्रस्यमानः स्वकर्मभिः । घर्मतप्त इव छायां काङ्क्षे कमललोचनम् ॥ ७८. जन्ममृत्युजराध्वान्तपरिभूतः पुनःपुनः । लोको यथा दिनकरं काङ्क्षे कमललोचनम् ॥ ७९. भूयो भूयो परिक्रम्य कर्कशे कर्मवर्त्मनि । अहमासितुमेकान्ते काङ्क्षे कमललोचनम् ॥ ८०. त्वामेव शरणं प्राप्तं त्वयि दत्ताखिलेन्द्रियम् । उपेक्षसे कथं नाथ मामनाथं जनार्तिहन् ॥ ८१. मन्दीभूतानि इन्द्रियाणि प्राणाः कण्ठगता इमे । रक्ष मां रक्ष मां नाथ त्वन्नाथं त्वत्परिग्रहम् ॥ ८२. भो नाथ किमिदं भृत्ये पतितं शोकसागरे । मय्युपेक्षा तवेदानीं ऊष्मेव शिशिरद्विषः ॥ ८३. त्राहि त्राहि महामृत्युबडवावह्निपातनात् । त्राहि मां त्राहि मां आदिमूल मूलाक्षर प्रभो ॥ ८४. इत्थमाक्रन्दतस्तस्य करिराजस्य सीदतः । शुश्राव रिदितं घोरं भगवान् गरुडध्वजः ॥ ८५. क्षीराब्धिमध्ये भोगीन्द्रे शयानः चन्द्रपाण्डुरे । अङ्गात् उत्थाय पद्मायाः सम्भ्रान्त इव तत् क्षणात् ॥ ८६. अनपेक्षितनैवेद्यं अनङ्गीकृतपादुकम् । व्याकुलान्तःपुरजनं किमर्थमिति सर्वतः ॥ ८७. अवाहनपरिष्कारं आरुह्य पतगेश्वरम् । व्योमयानः संप्रतस्थे स्तूयमानः सुरासुरैः ॥ ८८. आधावमानैरमरैः अनायुधकरैः भटैः । अनुगम्यमानसिद्धैश्च स्तुवद्भिर्नारदादिभिः ॥ ८९. किरीटकोटिघटितैः मणिभिः चापितल्लजैः । कटिसूत्रब्रह्मसूत्रकनकाङ्गदकुण्डलैः ॥ ९०. भ्राजमानं कौस्तुभेन सामोदवनमालया । स्फुटन् मरकतश्यामचारुपीताम्बरावृतः ॥ ९१. शङ्खचक्रगदापद्मैः अलङ्कृतचतुर्भुजैः । सुनन्दनन्दप्रमुखैःपार्षदैरनुसेवितः ९२. अविलम्बं क्षणादेव करिराजमुपागमत् । माभैष्टेत्यभयारावैः परिपूर्य दिगन्तरम् ॥ ९३. तप्तचामीकराकारे वैनतेये महाद्युतौ । भासमानः श्रियो जुष्टो भगवान् मधुसूदनः ॥ ९४. मुमोच सहसा चक्रं नक्रराजवधाय हि । स तु नारायणकरान्मुक्तः चक्रः कोट्यर्कसन्निभः ॥ ९५. निहत्य ग्राहमम्भस्थमाससाद पुनर्हरिम् । स करीन्द्रो विनिर्मुक्तमृत्युरत्यन्तविस्मितः ॥ ९६. अद्राक्षीत् अद्भुताकारं हरिमार्तार्तिभञ्जनम् । ऊर्ध्वमुद्यत्पुष्करेण मकरन्दसुगन्धिना ॥ ९७. नमो नारायणायेति पादयोर्हरिमर्चयत् । कन्दलत्करुणापाङ्गसुधासाराभिवर्षिणा ॥ ९८. आलोकनेनालिकुलं श्रेणीपदेन चारुणा । सानुरागेण सम्भाव्य करिराजानमच्युतः ॥ ९९. संप्रमृज्य क्षेमकरैः चतुर्भिः स्वकराम्बुजैः । व्याजहार समाभाष्य स्मयमानमुखाम्बुजः ॥ १००. वत्स मा शोकमोहाभ्यां व्याजहीहि मनोव्यथाम् । वरान् वरय दुर्लभ्यान् अपि ब्रह्माण्डमण्डले ॥ १०१. शङ्खः -- इत्थं प्रसन्नं विज्ञाय भगवन्तं गजेश्वरः । अमन्दमुच्छ्वसन् मूर्ध्ना कम्पमानेन भूयसा ॥ १०२. प्रोद्यन्शुण्डातलामृष्टपयोदपटलीतटः । नत्वा जय जयेत्युक्त्वा वचनं चेदमब्रवीत् ॥ १०३. गजेन्द्रः -- भगवन् करुणामूर्ते प्रसीद पुरुषोत्तम । नानायोनिसहस्रेषु भ्रममाणः पुनःपुनः ॥ १०४. भागधेयवचाल्लब्धं भवत्पादाम्बुजं विभो । नाहं अर्होऽस्मि तुच्छेषु विषयावर्तकोटिषु ॥ १०५. अपारेष्वर्थसारेषु बन्धुसंसारसिन्धुषु । मां मा मुञ्च जगन्नाथ मा मुञ्च पुरुषोत्तम ॥ १०६. मा निपातय भीतं मां कर्मपातालगह्वरे । इति वाचं गजेन्द्रस्य विषयीकृत्यकर्णयोः ॥ १०७. सहर्षं वचनं चेदं व्याजहार जनार्दनः । तथास्तु करिराजेन्द्र काङ्क्षितस्ते मनोरथः ॥ १०८. अत्र मज्जन्ति ये मर्त्याः तीर्थे त्वन्मोक्षदायिनि । तेषां दास्यामि निर्वाणपदवीं नात्र संशयः ॥ १०९. चन्द्रे मत्तारसहिते सिंहेयुषि पूषणि । स्नात्वात्र मां ये पश्यन्ति ये श‍ृण्वन्त्यावयोः कथाम् ॥ ११०. तेषां दास्यामि सौभाग्यं सम्पदो नात्र संशयः । अत्रैव निवसन् नित्यमहं क्षीरार्णवे यथा ॥ १११. भक्तानां संप्रदास्यामि सत्यमेव मनोरथान् । परे पुंसि वदत्येवं पश्यत्सु भुवनेष्वपि ॥ ११२. गजराजस्य निर्भिद्य मूर्धानं सूर्यसन्निभः । स भूमिपालः सहसा समुत्तस्थौ श्रिया ज्वलन् ॥ ११३. उपर्युपरि रोदस्योरन्तरं संप्रकाशयन् । आविवेश हरेर्वक्षः स्फुरत्श्रीवत्स्कौस्तुभम् ॥ ११४. पुष्पवृष्टिः विष्वगभूत् अस्तुवन् सिद्धचारणाः । ब्रह्मरुद्रमुखाः देवाः स्तुवन्तो हरिमीडिरे ॥ ११५. दिवि भूमौ तदा वाचः बभूवुः हरिसंश्रयाः । तदन्तरा ब्रह्मशापात् यक्षराट् नक्ररूपतः ॥ ११६. विमोचितो भगवता स्वरूपमगमत् पुनः । देवदेवं प्रणम्यादौ अनुज्ञातोऽगमत् पदम् ॥ ११७. इत्थं सुरैर्मुनिगणैरभिपूज्यमानः सिद्धैस्सनन्दसनकप्रमुखैः स्तुवद्भिः । साकं गणेन भगवान् अरविन्दनाभः सान्निध्यमत्र विदधे जगतां विभूत्यै ॥ ११८. गजेन्द्रमेवं परिपालयित्वा दुःखात् दुरन्तात् मधुकैटभारिः । सह श्रिया चोर्वरया गजेन्द्रमुख्यैः स्वभक्तैः निवासम् ॥ ११९. एवं विमोक्ष्य करिराजमशेषबन्धुः इन्दीवरोदरतलाभिनवस्वमूर्तिः । अद्यापि सर्वजगतां वरदः समास्ते नद्यास्तटे सुघटयन् स्वकृतैः स्वभक्तान् ॥ १२०. अखिलतिमिरहन्त्रीमर्कशोभामिवोच्चैः गजपतिपरिमोक्षप्रस्तुतामादिपुंसः । पठति य इह भक्त्या सत्कथां श्रावयित्वा श्रुतिपदमनुगृह्णन् याति विष्णोः पदं तत् ॥ इति द्वात्रिंशोऽध्यायः । Pro.Total = 2600 + 120 = 2720.

त्रयश्त्रिंशोऽध्यायः

दुर्गातीर्थवैभववर्णन म् । १. श्री सूतः -- एवं गजेन्द्रमोक्षां कथामाकर्ण्य भूपतिः । वीरसेनो महीपालो विस्मयं परमं ययौ ॥ २. भूयो भूयो स्वान्तमन्तः कथामुल्लासयन् इमाम् । आनन्दबाष्पपूर्णाभ्यां लोचनाभ्यां विलोकयन् ॥ ३. अभिष्टूय मुनिश्रेष्ठमभ्यभाषत साञ्जलिः । राजा -- भगवन् मुनिशार्दूल कथेयं कथिता मया ॥ ४. कर्णयोरिव पीयूषधारा कल्मषनाशिनी । अज्ञानध्वान्तशमनी हरेः कारुण्यसूचनी ॥ ५. कृतार्थयति मामेषा यथा तत्पादसम्भवा । इतः परं मे श्रोतव्यं दुर्गातीर्थस्य वैभवम् ॥ ६. हरेरियं भगवती सहजा कथिता किल । तस्मात् तथैव विस्तार्य दुर्गायाः श्राव्यमेव मे ॥ ७. केन वा कारणेनैव दुर्गातीर्थमितीरितम् । सान्निध्यं तत्र सा देवी चकाराराधिता जनैः ॥ ८. अनेन पुण्योपाख्यानकथनेन हि मां गुरो । पुनीहि पुरुषार्थानां येन स्याम्यहमाश्रयः ॥ ९. शङ्खयोगी -- राजन् कलिमलध्वान्तविध्वंसनविनोदिनीम् । कथामशेषलोकैकसवित्र्याः कथयाम्यहम् ॥ १०. अवधानानुबन्धेन चेतसाकर्णय प्रभो । पुरा देवयुगे राजन् मनौ स्वायम्भुवे सति ॥ ११. कश्चित् आसीन् महीपाल ; काञ्च्यां कन्दर्पसन्निभः । अग्निवर्ण इति ख्यातो मेधावी वृद्धसम्मतः ॥ १२. जुगोप वसुधां सर्वां जितामित्रः प्रतापवान् । एतस्मिन्नन्तरे कोऽपि युवा वैश्यः समाययौ ॥ १३. आदाय वनितारत्नं स्पृहणीयां सुरासुरैः । मणिवीथीमुपागम्य परामृश्य मुहुर्मुहुः ॥ १४. कस्यचित् वैश्यमुख्यस्य धर्मज्ञस्य विशेषतः । प्रविवेश गृहं रम्यं राजराजगृहोपमम् ॥ १५. स गृहस्थो महाबुद्धिः वृद्धश्रीकर संज्ञकः । वैश्यः समागतं दृष्ट्वा सस्त्रीरत्नं सुविस्मितः ॥ १६. यथार्हं पूजयामास पृष्ट्वानामयमव्ययम् । उपविष्टे सुविश्रान्ते युवानं प्राह तं गृही ॥ १७. कस्त्वं कुतस्समायासि केन वा किं चिकीर्षया । का वेयं तरुणी भद्रा त्वयानीता वरानना ॥ १८. निश्चितुं त्वां न शक्तोऽस्मि तेजो वै शिष्यसम्पदा । देवो वा मनुजो वा त्वं सिद्धो वेह समागतः ॥ १९. सर्वं मे कथय तात वक्तव्यं यदि चेत् ध्रुवम् । इत्थं युवा तेन पृष्टः प्रीतो वक्तुं प्रचक्रमे ॥ २०. तात वैश्योस्म्यहं जात्या स्वसेयं तरुणी मम । धेनुदत्ताभिधानस्य चण्डीनगरवासिनः ॥ २१. तनयं विद्धि मां भद्र कन्धरं नाम नामतः । पितर्युपरते मातर्शेषविपर्ययात् ॥ २२. अहं बलोऽपि सौहार्दात् मातेवैनामपोषयम् । अस्यां तु वर्धमानायां बालायां रूपसम्पदा ॥ २३. अयाचन्त समागत्य सर्वे कामातुरा नराः । एवं याचत्सु सर्वेषु सासूयेषु ततस्ततः ॥ २४. अस्मत्पितृष्वसुः पुत्रो धनी प्राप्य मां सुहृत् । पत्न्यर्थे वरयामास तस्मै दत्ता मया स्वसा ॥ २५. उद्वाह्य विधिनैवेनामुवास सदने मम । पञ्चषट्स्वपयातेषु ततो मासेषु सूक्ष्मधीः ॥ २६. मामाहूय जगदेदं मद्भगिन्याः पतिर्वचः । मातुलेये सखे पथ्यमावयोः श्रूयतां वचः ॥ २७. सर्वे कुर्वन्ति कर्माणि नित्यं वर्णोचितान्यपि । ऊरुजानामिवास्माकं वृद्धिर्नियमिता पुरा ॥ २८. कृषिवाणिज्यगोरक्षा कुसीदैरुपलक्षिता । तां वृद्धिं दैव विहितामपहायैव वर्तिनोः ॥ २९. आवयोर्जीवनोपायो न भूयात् अन्यथा क्वचित् । अतः त्वयात्र वस्तव्यं भगिनीं रक्षतानिशम् ॥ ३०. गृहात् नान्यत्र गन्तव्यक्तमव्यग्रया गिरा(धिया) । अहं समुद्रयानेन गत्वा द्वीपान्तरं सखे ॥ ३१. आनयिष्ये धनं भूरि वणिक्सामर्थ्यविद्यया । षण्मासात् आगमिष्यामि नात्र कार्या विचारणा ॥ ३२. इत्युक्त्वा तं(तां) समादिश्य प्रियामाश्वास्य सुव्रताम् । समन्वितः सार्थवाहैः प्रययौ धैर्यसम्पदा ॥ ३३. अतीतसमये तस्मिन् स्वसा मे पतिदेवता । भर्तर्यनागते चेयं न भुङ्क्ते न स्वपित्यसौ ॥ ३४. शोकमोहपरिभ्रान्ता प्राणान् त्यक्तुं समुद्यता । स्नेहात् एनां समानीय त्वत्समिपे निधाय च ॥ ३५. अपि द्वीपान्तरं गत्वा तमानेतुमिहोत्सहे । दुष्टाः मम पुरे सर्वे बद्धवैराश्च पापिनः ॥ ३६. तेभ्यो भीतः कामुकेभ्यः गोपयन् दारिकामिमाम् । आगतोऽस्मि महाभाग भवन्तं पितरं यथा ॥ ३७. त्वामहं शरणं प्राप्तः सवित्रीमिव बालकः । इत्थमुच्चावचैर्वाक्यैः प्रीतिं धर्मं च वर्धयन् ॥ ३८. जग्राह वृद्धदम्पत्योः पदद्वन्द्वे रुदन्निव । व्याकुलीकृतचित्तस्य स्वपादे पतितस्य च ॥ ३९. सानुकम्पं शिरः स्पृष्ट्वा समुत्थाप्य प्रमोदयन् । पाणिना पाणिमालम्ब्य निवेश्य स्वासने सुखम् ॥ ४०. प्रमृज्याश्रुकुले नेत्रे स्थविरः प्रत्युवाच तम् । तात मा शोकमोहाभ्यां जहीहि भयमुल्बणम् ॥ ४१. एतावत् अनपत्योऽहं मग्नशोकमहार्णवे । तारितोऽहं त्वया नूनं अनपत्यत्वपातकाम् ॥ ४२. त्वं मे पुत्रः पुत्रिकेयं दायादौ मम सम्पदात् । इति तावङ्कमारोप्य मूर्ध्नुपाघ्राय दम्पती ॥ ४३. अग्निसाक्षिकमाभाष्य सुखं ऊषतुरावृतौ । कतिचित् दिवसान् उष्य संस्थितो वैश्यननदनः ॥ ४४. श्रीकरं वृद्धमाहूय सनयं वाक्यमब्रवीत् । वैश्यनन्दनः -- अम्ब तात युवाभ्यां तु मदभ्यागमनावधि ॥ ४५. अनपायं पालनीया दारिकेयं सुदुःखिता । अहं दूरतरं गत्वा तं दृष्ट्वा मित्रसत्तमम् ॥ ४६. सधनः पुनरायास्ये मातुलेयेन संयुतः । इति वृत्तं समापृच्छय नमस्कृत्य पुनःपुनः ॥ ४७. आश्लिष्य च समाश्वास्य भगिनीं स्नेहविक्लबः । कथञ्चित् समनुज्ञाप्य संप्रतस्थे हृष्टवत् ॥ ४८. या सा भगवती सर्वजननी परदेवता । कामाक्षीति पुराणेषु पठ्यते ब्रह्मवादिभिः ॥ ४९. तां देवतां प्रणम्याग्रे प्रार्थयामास भक्तिमान् । प्रणतापायशमनीमनुकम्पातरङ्गिणीम् ॥ ५०. त्वामहं शरणं यामि त्राहि मां दुरितार्णवात् । अम्ब मद्भगिनीं दीनां भर्तारमनुशोचतीम् ॥ ५१. त्वामेव शरणं प्राप्तां बालां पालय शाम्भवीम् । इति देवीं नमस्कृत्य ययौ द्वीपान्तरं सुधीः ॥ ५२. ततस्सा वैश्यभगिनी लालिताश्वासिता परम् । शुश्रूषन्ती च तौ वृद्धौ दुर्गामाराधयन्त्यपि ॥ ५३. चिन्तयन्ती च भर्तारं निनायाहर्गणान् क्रमात् । गतेष्वहस्सु गण्येषु चारा दृष्ट्वा नृपस्य ताम् ॥ ५४. त्रिलोकीवनितामौलिमालामायतलोचनाम् । राज्ञो निवेदयाञ्चक्रुः कौतूहलसमन्विताः ॥ ५५. महाराज पुरे चास्मिन् अस्माभिर्दृष्टमद्भुतम् । तदेकान्ततरं तुभ्यं विज्ञापयितुमागताः ॥ ५६. अनुकम्पावलोकस्य यद्यस्मिन् मन्यसे पदम् । इत्थं ब्रुवत्सु चारेषु सभ्रूभङ्गावलोकनैः ॥ ५७. स विभुः चोदयामास प्रवक्तुं तत्कुतूहलम् । ततः प्राञ्जलिरभ्येत्य चारो वाचमवोचत ॥ ५८. वैश्यस्य कस्यवित् गेहे वर्तते वनितामणिः । तप्तकाञ्चनसङ्काशासंप्राप्तनवयौवना ॥ ५९. आपातकेशसौन्दर्यसिन्धुचन्द्रकला किल । लक्ष्मीनिर्माणकौशल्यं पुनर्दर्शयता भुवि ॥ ६०. महायत्नो विरिञ्चेन कथञ्चिदपि निर्मिता । बहुनात्र किमुक्तेन संक्षेपात् श्रूयतां विभो ॥ ६१. सेयं स्वर्गात् आगता वा देवी नागाङ्गनापि वा । राजराजैकभोग्या सा न योग्यान्यस्य कस्यचित् ॥ ६२. निशा योजयता चन्द्रं रमया पुरुषोत्तमम् । देवेन सापि भवता योजनीयेति चिन्त्यते ॥ ६३. इति तस्य वचः श्रुत्वा राजा कामवशं गतः । भटैरनेकसाहस्रैः गत्वा वैश्यनिकेतनम् ॥ ६४. जग्राहातीव रुदतीं नारीमणिमतल्लिकाम् । नीत्वा स्वभवनं बालामेकान्ते सान्त्वयन् नृपः ॥ ६५. लोभयामास विविधैः मणिकाञ्चनभूषणैः । दिव्याम्बरैः दिव्यगन्धैः भक्ष्यभोज्यरसायनैः ॥ ६६. एवं राज्ञा समालब्धपाणिना वराङ्गना । शोकमोहभयाविष्टा सद्यः प्राणान् जहौ तदा ॥ ६७. क्षणात् पञ्चत्वमापन्नां बालामुद्वीक्ष्य भूपतिः । विललाप सुदुःखार्तो वार्यमाणोऽपि बन्धुभिः ॥ ६८. चित्यां चन्दनकाष्ठेन संस्कर्तुमुपचक्रमे । शिबिकामतिरोप्यैनां नीत्वा पितृवनं महत् ॥ ६९. अग्नौ प्रज्वाल्यमाने तु क्रोशमाने मुहुर्जने । अवतीर्याम्बरात् कोऽपि भूतः शार्दूलविक्रमः ॥ ७०. विद्राव्य गदया दूरं शूरान् राजभटानपि । चितामुद्धूय तद्देहमादाय निमिषादिव ॥ ७१. उत्पपात घनच्छन्नमाकाशं पश्यतां नृणाम् । विस्मयं परमं जग्मुः सर्वे तत्र समागताः ॥ ७२. तौ वैश्यवृद्धौ दुःखार्तौ चिन्तयानौ मुहुर्मुहुः । पुराकृतैरसङ्ख्यातैः आवां तु सुकृतेतरैः ॥ ७३. अनपत्यौ हि सञ्जातौ हा कष्टं समुपस्थितम् । कथं तु वक्ष्ये भगिनीं पृच्छते वैश्यसूनवे ॥ ७४. जीवितुं पापिनावावां दारुणौ नोत्सहावहे । इत्युक्त्वा परितो गेहं क्षिप्त्वाग्निं जहृतुः तनुम् ॥ ७५. स वैश्यसूनुः सहितो मातुलेयेन वित्तवान् । आययौ वैश्य सदनं भगिन्याः प्रियकृत् सुधीः ॥ ७६. श्रुत्वा प्रियेतरं वाक्यं हालाहलमिव स्थितम् । भगिनीं च मृतां श्रुत्वा वृद्धावग्निमुपेयुषौ ॥ ७७. निराशौ जीविते तस्मिन् साकं मातुलसुनुना । ज्वलत्यग्नौ विचिक्षेप स्वतनुं तरुणवत् युवा ॥ ७८. इत्थं सर्वेषु नष्टेषु प्रेते चाकाशमेयुषि । संविवेशाथ राजानं स्त्रीहत्तिर्दारुणाकृतिः ॥ ७९. भर्त्सयन्ती मुहुर्वाचा भीषयन्ती पदे पदे । क्षुधार्तोऽपि निराहारो विनिद्रश्रान्तिमानपि ॥ ८०. संप्राप शरणं राजा कण्वाख्यं स्वगुरुं ऋषिम् । अजानता मया ब्रह्मन् मदाविष्टेन चेतसा ॥ ८१. प्राप्तोऽस्मि दुर्दशामेनामपरां यातानामिव । त्राहि घोरतमात् पापात् त्वं हि नः परमागतिः ॥ ८२. एवं पदाम्बुजोपान्ते दृष्ट्वा निपतितं मुनिः । सानुकम्पं समाश्वस्य तच्छान्तिं विदधे मुनिः ॥ ८३. मुनिना तेन विधिना हूयमानात् हुताशनात् । दुर्गामूर्तिमुपादाय विचित्रामुपलामयीम् ॥ ८४. समुत्तस्थौ महाभूतः कोऽप्यद्भुतवपुर्महान् । स तं मुनिं समाहूय जगाद घननिस्स्वनः ॥ ८५,भूतः -- इमामूर्तिमुपादाय तीर्थयात्रां करोत्वसौ । उद्वहन्तमिमां मूर्तिं हत्तिरेषा न बाधते ॥ ८६. यत्र द्रवति पुण्या ते मूर्तिरेषा शिलामयी । तत्रोपशान्तिः पापस्य नात्र कार्या विचारणा ॥ ८७. इत्युक्त्वान्तर्हिते भूते तद्दत्तां मुनिपुङ्गवः । करे ददौ महीपस्य सोऽपि जग्राह तां मुदा ॥ ८८. पाणिभ्यामुद्वहन् मूर्तिं राज्यं पुत्र निधाय च । गुरुमामन्त्र्य सन्नम्य निश्चक्राम पुरात् बहिः ॥ ८९. प्रतिप्रयाते भूपाले स्त्रीहत्तिरपिदारुणा । अन्वधावत् अनासन्ना वाचा भर्त्स्यती मुहुः ॥ ९०. स मूर्तिहस्तः तीर्थानि स्नात्वा स्नात्वा ययौ व्रती । निषेव्य गङ्गां यमुनां सरयूं च शरावतीम् ॥ ९१. फ्ल्गुनीं गौतमीं नन्दां कपिलां च मलापहाम् । गोदावरीं तुङ्गभद्रां शोणामिन्दुमतीमपि ॥ ९२. कावेरीं घनकान्तारां कम्पां वेगवतीमपि । क्रमादवाप्य भूपालः ताम्रपर्णीं सरिद्वराम् ॥ ९३. पदे पदे तीर्थमयीं तीरयोरुभयोरपि । सुरेन्द्रमोक्षात् प्राग्भागे सोमतीर्थात् तु पश्चिमे ॥ ९४. नद्यास्तु दक्षिणे तीरे महजननिषेविते । चकार विधिवत् स्नानं राजा तत् बिम्बमुद्वहन् ॥ ९५. यदा ममज्ज सलिले संस्तुवन् मलयात्मजाम् । तदा तत्पाणिपद्मस्था मूर्तिरेषा शिलामयी ॥ ९६. द्रवीभूताभवत् राजन् सर्वेषां पश्यतां नृणाम् । तदद्भुतमसौ दृष्ट्वा तीरमारुह्य सत्वरम् ॥ ९७. तदा शापास्तमलिनं स्वं वपुः पूर्ववत् शुभम् । पृष्ठतः परिधावन्तीं न ददर्श पिशाचिकाम् ॥ ९८. परमानन्दसन्दोहमानन्दाश्रुपरिप्लुतः । रोमाञ्चमञ्जुलाकारं महीपालमुपेत्य तु ॥ ९९. वामदेवो मुनिः प्राह सान्त्वपूर्वमिदं वचः । वामदेवः -- किं त्वया राजशार्दूल दृष्टमद्भुतदर्शनम् ॥ १००. यदि वक्तव्यमस्माकं वद शुश्रूषवे मम । पृच्छत्येवं मुनिश्रेष्ठे बद्दाञ्जलिपुटो नृपः ॥ १०१. जगाद वचनं श्लक्ष्णं विस्मितेनान्तरात्मना । राजा -- कृत्वा पापात्मना येन मया पापमजानता ॥ १०२. दुःखेन पृथिवीं कृत्स्नां परं पर्यटता चिरम् । स्मृत्वा स्मृत्वा प्रहृष्यामि दृष्ट्वा चन्द्रमिवाम्बुधिः ॥ १०३. इति भूपवचः श्रुत्वा वामदेवोऽब्रवीत् वचः । वामदेवः -- अत्राश्चर्यं न पश्यामि तव पापव्यपोहने ॥ १०४. कृत्वेदन्नयनादित्यतीर्थं परमपावनम् । अपि ब्रह्महणो मुक्ताः प्रयान्ति परमां गतिम् ॥ १०५. पुरा परामृताकारा जगती जननी शिवा । आविर्भूताम्बरात् आदितरुणी भीमदर्शना ॥ १०६. नानायुधधरा भूरि शक्तिसेनासमावृता । दैत्यदानवसङ्घातान् महिषादीन् सुदारुणान् ॥ १०७. असङ्ख्यातान् निहत्याजौ विधाय जगतां हितम् । आसुरास्त्रसमालीढं सन्तप्तं स्वकलेवरम् ॥ १०८. अत्र स्नात्वा महातीर्थे सुखयामास विश्वसूः । तदादिपरमादुर्गा सर्वदुर्गार्तिहारिणी ॥ १०९. कुरुते नित्यसान्निध्यं भक्तानां हितकाम्यया । त्वमभ्यर्च्य तां देवीं राजन् कामदुघामिमाम् ॥ ११०. इति तत् वचनात् राजा तत्र मूर्तिं विहाय सः । पूजयित्वा विधानेन स्तुत्वा स्तोत्रैरनेकशः ॥ १११. तत्प्रसादमनुप्राप्य वरान् भुवनदुर्लभान् । भस्मीभूतान् ततो वैश्यान् पुनरुज्जीव्य तां वधूम् । तैस्सार्धं बन्धुभिः स्निग्धैः संप्राप नगरीं निजाम् ॥ इति त्रयस्त्रिंशोऽध्यायः । Pro.Total = 2720 + 111 = 2831.

चतुस्त्रिंशोऽध्यायः

दुर्गाप्रतिष्ठा -- राज्ञा वरप्रदानम् -- मणिग्रीवपुरकथाप्रश्नः । १. वीरसेनः -- ब्रह्मन् श्रुतेयं कथिता कथा कलिमलापहा । माहात्म्यदर्शनी मातुः दुर्गायाः परमाद्भुता ॥ २. अत्र श्रोतव्यमस्माकं महायोगीन्द्र मद्गुरो । कथामाराधयामास कया स्तुत्याप्यतोषयत् ॥ ३. कथमग्नौ मृता वैश्या सा चतन्वी वराङ्गना । पुनर्जीवन्ति तत् सर्वं यथावत् कथयस्व मे ॥ ४. शङ्खः -- राजन् कथयतो मत्तः कथां श्रुणु यथातथम् । पठनात् श्रवणात् यस्मात् नरः पापैः प्रमुच्यते ॥ ५. सोऽग्निवर्णो नरपतिः वामदेवेन बोधितः । तत्र देवीं प्रतिष्ठाप्य ताम्रायाः दक्षिणे तटे ॥ ६. नानोपहारबलिभिः पूजयामास मन्त्रवित् । धूपैः दीपैः च नैवेद्यैः मन्त्रपुष्पोपहारकैः ॥ ७. पूगनागदलैः पुण्यैः कर्पूरारार्तिकैरपि । महायागक्रमैः कृत्वा ब्रह्मज्ञैः ब्राह्मणैस्सह ॥ ८. प्रदक्षिणनमस्कारैः कालीं सन्तोष्य चण्डिकाम् । तुष्टाव प्राञ्जलिः तिष्ठन् स्तोत्रेणानेन भूपतिः ॥ ९. अग्निवर्णः -- जगद्देवि जगद्धात्रि दैत्यदानवहारिणि । जय जम्भान्तकनुते विशीर्णविमदोदये ॥ १०. मातः प्रसीद चामुण्डे दण्डिताशेषदानवे । दुर्गे दुर्गार्तिमथने मातर्मयि दयां कुरु ॥ ११. हरनारायणमुखैरमरैरभिवादिते । मयि प्रसीद विश्वेशि विश्वरक्षाविचक्षणे ॥ १२. माये मायावहे मातः मङ्गलानां च मङ्गले । त्राहि त्राहि भयत्रस्तं संसारार्णवसम्प्लवात् ॥ १३. स्वभावकरुणापूरतरङ्गितविलोचने । वञ्चितासुरसङ्घाते वरदा मे भवाम्बिके ॥ १४. त्वदपाङ्गलोकां च कलया ये परिष्कृताः । उभयत्रापि ते धन्याः त्वमतो मे गतिर्भव ॥ १५. त्वामाहुः कमलां दुर्गां श्रुतयो भारतीमुमाम् । प्रभामर्केन्दुवह्नीनां त्वमतो मे गतिर्भव ॥ १६. त्वया ततमितं सर्वं हेतुशक्तिः त्वमेकिका । त्वया सञ्जीवितं मातः त्वमतो मे गतिर्भव ॥ १७. त्वं त्रयी त्रिपदी त्वं हि हविर्हव्यवहः क्रतुः । इज्या त्वं यजमान त्वं त्वमतो मे गतिर्भव ॥ १८. अम्ब प्रसीद परमेश्चरिपारिजातवल्लीमुशन्ति वचनानि मुहुः श्रुतीनाम् । पादाम्बुजद्वयपरागपरायणानां तां त्वां व्रजामि शरणं भव सुप्रसन्ना ॥ १९. इत्थं स्तुता स्वपादाब्जसंसक्ताशेषवृत्तिनः । राज्ञः प्रादुरभूदग्रे तद्बिम्बादम्बुजारुणा ॥ २०. चतुर्भुजा चन्द्रचूडा मणिकाञ्चनभूषणा । शङ्खचक्रगदाभीतिकरा कौसुम्भशारिका ॥ २१. स्तूयमाना मुनिगणै ; देवदानवगुह्यकैः । वत्सेति वाचा राजानं हर्षयन्ती मुहुर्मुहुः ॥ २२. मेघदुन्दुभिराविण्या गिरामुं व्याजहार सा । अनया पूजया स्तुत्या प्रीतास्म्यागमसारया ॥ २३. कामानिष्टान् प्रदास्यामि वृणु मत्तो मनीषितम् । राजा -- अम्ब पापसमाचारे मयि ते करुणेदृशी ॥ २४. श्रुतिमृग्यापि मे चर्मलोचनस्यापि गोचरा । यदि ये तस्मात् वरो भूयात् किमस्ति भुवनत्रये ॥ २५. तथापि काङ्क्षणीया मे त्वयि भक्तिः सनातनी । किञ्चानीतिमत्तोऽस्मत्तो बहवो विपदं गताः ॥ २६. तानहं द्रष्टुमिच्छामि प्रसादात् अम्ब ते पुनः । अत्रापि मज्जतां तीर्थे मर्त्यानामनुगृह्णधी ॥ २७. सान्निध्यं कुरु सन्तुष्टा तृतीयोऽयं वरो मम । इति संप्रार्थिता तेन प्रसन्ना परमेश्वरी ॥ २८. स्मितज्योत्स्नामुद्गिरन्ती मुक्रावृष्टिमिवोज्ज्वलाम् । अपाङ्गरोचिषोत्फुल्लनीलोत्पलततिं यथा ॥ २९. दयासिन्धुतरङ्गाभे सुधामुद्भाव्य चोपरि । मन्दमान्दोलितोत्तंसचन्द्रं कलयती करैः ॥ ३०. व्याजहार गिरा भूयो राजानं प्रीतिपूर्वकम् । देवी -- यथात्थ वचनं तात त्वं तथा भविता च तत् ॥ ३१. स्तुतिपूजानमस्कारतीर्थप्राशनभक्तिभिः । सन्तुष्टाहं तवाभीष्टान् ऐच्छिकी वोपपादये ॥ ३२. मा विस्मर महीपाल नित्यं मदनुशासनम् । नित्यं सान्निध्यकरिणीमनुकम्पातटस्थिताम् ॥ ३३. काञ्च्यां मामर्चयन् भद्राण्यश्नुह्यब्दान् परश्शतान् । अन्ते तव प्रदास्यामि सायुज्यमतिदुर्लभाम् ॥ ३४. अग्नौ मृताः च सा तन्वी समागच्छत्यनामया । सन्तु भद्राणि सर्वेषां इत्युक्त्वा तत्र चण्डिका ॥ ३५. स्वपाणिपल्लवसखीं शक्तिं घणटाशतोज्ज्वलाम् । क्षिप्त्वा नद्यास्तटे तावत् क्षणात् अन्तरधीयत ॥ ३६. तच्चक्तिकोटिनिर्भिन्नात् महीभागात् महीपते । समुत्तस्थौ वैश्यसुता भोगिराजवधूरिव ॥ ३७. तत्गर्तात् कन्दराख्यश्च मातुलेयेन संयुतः । उत्पेततुः वैश्यवृद्धौ शान्तिधर्माविव स्वयम् ॥ ३८. राज्ञा सम्भाविताः सर्वे मुक्तशोकाः तदाभवन् । सोग्निवर्णः महीपालः तानाश्वास्य मुहुर्मुहुः ॥ ३९. तैः साकमनुप्राप्य तत्रत्यांश्च महामुनीन् । पुनःपुनश्च तत्तीर्थमतिथीकृत्य नेत्रयोः ॥ ४०. प्रणम्य शिरसा राजा मलयं मल्यात्मजाम् । नमोऽस्तु कुम्भजायेति भूयो भूयश्च संस्तुवन् ॥ ४१. प्रतस्थे स्वपुरीं रम्यां काञ्चीं कनकमण्डिताम् । प्रत्युद्यता पौरजनैः मन्त्रिसेनाधिनायकैः ॥ ४२. प्रविश्य नगरीं रम्यामभिवाद्य गुरुं निजम् । आससाद गृहं भूरि मणिकाञ्चनभूषितम् ॥ ४३. प्रणतं सम्परिष्वज्य स्वसुतं राजसत्तमः । स्वराज्यं पालयामास धर्मेण मघवा यथा ॥ ४४. ते च वैश्यवरा राजन् राज्ञानेनाभिपूजिताः । सुखमूषुः सुसंहृष्टाः तस्मिन्नेव पुरोत्तमे ॥ ४५. तत्र दुर्गा भगवती भक्तदुर्गार्तिहारिणी । अद्यापि कृतसान्निध्या ताम्रपर्ण्यास्तटे शुभे ॥ ४६. पालयत्यनुरागेण भुवनानि चतुर्दश । आज्ञया जगदम्बायाः तीर्थानामपि कोटयः ॥ ४७. चक्रिरे नित्यसान्निध्यं लोकानामघशान्तये । प्राणत्यागात् वरं मन्ये तीर्थं सङ्ग्राममूर्धनि ॥ ४८. अस्त्रशस्त्रभयं नास्ति गतिश्चाप्यनिवर्तनी । विस्तरात् तस्य तीर्थस्य माहात्म्यं वत्सरायुतैः ॥ ४९. वागीशोऽपि न शक्तः स्यात् किं पुनर्भुविमानवैः । तस्मात् उत्तरतो राजन् मणिग्रीवपुराभितम् ॥ ५०. स्थलं मया पुरा प्रोक्तं स्मरणात् मुक्तिदं नृणाम् । तस्य माहात्म्यमधुना विस्तरात् श्रोतुमर्हसि ॥ ५१. भद्रारण्ये कामपुरं प्रशस्तं भुवनत्रये । दर्शनात् कीर्तनात् अस्य नरः पापैः प्रमुच्यते ॥ ५२. पुरा कुबेरतनयो मणिग्रीव इति श्रुतः । धरावत्याः सुतो राजन् कुसुमायुधसुन्दरः ॥ ५३. गन्धर्वः श्रान्तः शापेन देवभोगविवर्जितः । प्राप्य कामपुरं पुण्यं स्नात्वा तीर्थे सभार्यया ॥ ५४. निर्मुक्तशापः संप्राप्तः सर्वसौभाग्यसौभगः । पूज्यमानः सिद्धगणैः अलकामभ्यगात् पुनः ॥ ५५. सूतः -- इत्थमाकर्ण्य माहात्म्यं कथितं शङ्खयोगिना । वीरसेनो महातेजाः पुनः पप्रच्छ विस्मितः ॥ ५६. भगवन् योगिनां श्रेष्ठ सर्वागमनिधे गुरो । किञ्चकार कुबेरस्य तनयः पापमुल्बणम् ॥ ५७. कथं शशाप गन्धर्वः तनयं केन हेतुना । कथं भद्राटवीं प्राप स्नानं चक्रे यथा जले । एतत् सर्वमशेषेण विस्तरात् वक्तुमर्हसि ॥ ५८. इत्थं सादरमर्थितोऽवनिभुजा शङ्खः सतामग्रणीः- आनन्दाश्रुशराविलावपि दृशाचावामृज्य पाण्यञ्जलात् । मन्दं गद्गदया गिरा समधुरं पीयूषधारायिकां- गाथामाह मुनीरितां कलिमलप्रध्वंसनप्रस्तुताम् ॥ इति चतुस्त्रिंशोऽध्यायः । Pro.Total = 2831 + 58 =2889.

पञ्चत्रिंशोऽध्यायः

मणिग्रीवकथा -- मणिग्रीवशापविमोचन म् । १. श्रीसूतः -- ततः शङ्खो महायोगी राजानं संप्रहर्षयन् । कथां विस्तारयामास ज्योत्स्नामिव निशाकरः ॥ २. शङ्खयोगी -- वीरसेन महाबाहो श्रुणु पुण्यामिमां कथाम् । श्रवणानन्दिनी सर्वजनतापापहारिणी ॥ ३. सावर्णिके मनौ भूमिमनुशासति पुष्कलाम् । पुत्रो वैश्रवणस्यासीत् मणिग्रीव इति श्रुतः ॥ ४. द्वितीयः सर्वधर्मज्ञः सम्पदः तत्त्वदर्शिनाम् । करुणाभाजनं शम्भोः हेरम्बस्कन्दयोः सुहृत् ॥ ५. स एकदा मुदायुक्तः सानुजीवि जनावलिः । उपत्यकाटवीमाप धाराद्रेः अक्षिकौतुकम् ॥ ६. वसन्तलक्ष्मीः सान्निध्यं विनिद्रस्तबकद्रुमाम् । स्यन्दमानमरन्दौघचमत्कारितदुर्दिनाम् ॥ ७. उत्फुल्लकमलामोदवातपोतविहारिणीम् । फलभारसमाक्रान्तरसालकदलीकुलाम् ॥ ८. मत्तभ्रमरसन्नादां मञ्जुकोकिलकूजिताम् । नानातरुलताकीर्णां नवकासारशीतलाम् ॥ ९. इत्थमभ्युदयाकारामरण्यानीमुपागतः । ददर्श शरदुत्फुल्लराजीवरमणीयकाम् ॥ १०. स्वच्छन्दनीलसश्रीकसलिलापूरितोदराम् । हंससारससङ्घुष्टामगाधामम्बुराशिवत् ॥ ११. वापीं कनकपर्यन्तामनन्तमणिमौक्तिकाम् । शङ्खशुक्तिशताकीर्णां शरच्चन्द्रांशुशीतलाम् ॥ १२. तां दृष्ट्वा सम्भ्रमाविष्टो मणिग्रीवः सकिङ्करैः । उपस्पृश्य जलं शुद्धमपनीय श्रमं पुनः ॥ १३. विजहार तदभ्याशे विपिनानि विलोकयन् । तत्र गन्धर्वराजस्य चित्रसेनस्य कन्यका ॥ १४. लीलवतीति विख्याता कामास्त्रकलिका यथा । सखीजनसमायुक्ता मज्जनाय समाययौ ॥ १५. कापि तस्याः पुरः कम्बुकण्ठी कनकपाटला । सख्यादिष्टा समाहर्तुं कुसुमानि वनान्तरे ॥ १६. यदृच्छया पुष्पवने सञ्चरन्ती ततस्ततः । ददर्शाचाम्भोजनयनं मणिग्रीवं घने वने ॥ १७. नवकन्दर्पलावण्यं युवानं धनदात्मजम् । अक्षिलक्ष्यं इमं कृत्वा विद्धाभूत् कुसुमायुधैः ॥ १८. अशक्ता सोढुमस्त्रस्य निपातं पुष्पधन्वनः । तत्समीपमुपावृत्य विनीता वाक्यमब्रवीत् ॥ १९. कन्या वीरसुन्दर दास्यस्मि विज्ञाप्यं श्रूयतां मम । अहं गन्धर्वराजस्य कुम्भनादस्य कन्यका ॥ २०. चित्रलेखेति विख्याता गानविद्याविनोदिनी । लीलावत्याः प्रियसखी त्वां दृष्ट्वा लोकसुन्दरम् ॥ २१. पराधीनास्मि कामेन त्वयि नाथे समेयुषि । इयन्तं कालमन्यस्य कस्यापि न परिग्रहा ॥ २२. नाङ्गीकरोषि मां यत् त्वं प्राणान् त्यक्ष्याम्यसंशयम् । इति ब्रुवाणां तां कन्यां कन्दर्पस्यापि मोहिनीम् ॥ २३. सानुरागमुवाचेदं मणिग्रीवः प्रसादयन् । मणिग्रीवः -- अस्तु भद्रमहो सुभ्रु काङ्क्षणीयं प्रियं मम ॥ २४. बाल्ये पितृवशा नारी प्रौढा भर्तृवशे स्मृता । पुत्राधीना हि वार्धक्ये न स्त्री स्वातन्त्र्यमर्हति ॥ २५. पितृदत्ता ततो भूयः वल्लभा ते न संशयः । इति श्रुत्वा वचस्तस्य चित्रलेखा मुदान्विता ॥ २६. पुनः प्रीतिकरं चास्य वचनं धनदात्मजम् । युक्तं धर्मज्ञ भवता कथितं तत् तथा भवेत् ॥ २७. यावत् पित्रा गमिष्यामि सुहृदाहं सुहृत्जनैः । तावत् अत्रैव भवता वस्तव्यं धर्मवेदिना ॥ २८. इत्यामन्त्र्य मणिग्रीवं सा ययौ अमरावतीम् । सकुम्भनादो गन्धर्वराजा विज्ञाय काङ्क्षितम् ॥ २९. स्वपुत्र्याः प्रतिनन्द्यात्मवल्लभाभिस्समन्वितः । बन्धुभिश्च महातेजाः सुतामादाय सत्वरम् ॥ ३०. आससाद हरावासशिखरीसानुकाननम् । तावत् स्वपुत्राभ्युदयं पारयिष्णुः धनेश्वरः ॥ ३१. सानन्दं बन्धुसम्पन्नः तदुद्यानमुपागमत् । एवं ते मिलिताः तत्र यक्षगन्धर्वगुह्यकाः ॥ ३२. चक्रुः महोत्सवं हृष्टाः पुरस्कृत्य पुरोहितम् । उद्वाहोचितनेपथ्यविद्योदिततवपुःश्रिया ॥ ३३. मणिग्रीवो हवीम्ष्यग्नौ जुहाव गुरुणेरितः । कुम्भनादः स्वतनयामलङ्कृत्य सकौतुकाम् ॥ ३४. दातुमस्मै सदस्यस्मिन्वरान्तिकमुपागमत् । एतत् श्रुत्वा चित्रसेनसुता लीलावती तदा ॥ ३५. अभ्यभाषत संप्राप्य मणिग्रीवमिदं वचः । लीलावती -- अये सर्वज्ञ सौन्दर्यसुधासिन्धो धनेश्वर ॥ ३६. अनया सह मां पाणौ अनुरक्तां गृहाण भो । यदि नाङ्गीकरोषि त्वामनुरक्तां गुणश्रियम् ॥ ३७. न हि तारयितुं शक्तास्म्यसूनत्र परानिव । गुणशीलकुलाभिख्या विद्यद्रविणसम्पदा ॥ ३८. तुल्यं जानीहि मां भद्र मा कृथाः मङ्गलच्छिदम् । इति सञ्जल्पितं तस्याः बहुमान्य पुनःपुनः ॥ ३९. भूयः सानुनयं प्राह सुस्मितो धनदात्मजः । भद्रे भद्रमिदं वाक्यं भवत्या यत् उदीरितम् ॥ ४०. श्रूयतां वचनं धर्म्यं बन्धुनामपि सम्मतम् । गुह्यकस्य च यक्षस्य बलिनो यक्षभूपतेः ॥ ४१. पुत्रः पुरञ्जयो नाम्ना निधिः सौन्दर्यसम्पदाम् । सुहृदस्माकमधिकः प्राणादपि धनादपि ॥ ४२. तदर्थे सम्भृता त्वं हि बन्धुभिश्चानुमोदिता । अतो न युक्तमस्माकं तव भद्रे परिग्रहम् ॥ ४३. त्वत्पित्रोरपि सम्भाव्यं नान्यथा कर्तुमर्हसि । या कन्या पितृगेगस्था तदाज्ञापरिलङ्घिनी ॥ ४४. कुलादी कथ्यते सद्भिः नापवादोऽस्तु ते ध्रुवम् । सुहृद्भार्यापहारीति मां न शंसन्तु बान्धवाः ॥ ४५. इत्थं नैराश्यजननीं वाणीमाकर्ण्य सा वधूः । चिन्ताजालपरिभ्रान्ता भूयो वचनमाददे ॥ ४६. भवान् न गृह्णन् मत्पाणिं वोढुमेनां पटुर्नहि । यदि मामपहायात्र चित्रलेखां वहस्यसे ॥ ४७. शापोऽत्र भविता नूनं मा कृथाः साहसं भवान् । प्रथमा चित्रलेखेयं द्वितीयाहं प्रिया तव ॥ ४८. इति पाठमसञ्जातस्फुलिङ्गाक्षरभीषणाम् । वाणीमसहमानाभ्यां कर्णाभ्यां कम्पयन् शिरः ॥ ४९. मणिग्रीवः पुनः प्राह कोपारुणितविलोचनः । किमिदं साहसं पापे कर्तुमिच्छसि कर्कशे ॥ ५०. न करिष्याम्यहं पापे मित्रद्रोहमिदं खलु । भूयो यद्यनयं वाक्यं वक्तुमिच्छसि गर्विते ॥ ५१. उत्सारये संसदोऽस्मात् त्वं शुनीमिव चाध्वरे । लीलावती -- अनुरक्तां कामुकीं मामनन्यगतमानसाम् ॥ ५२. नाङ्गीकरोषि दुर्बुद्धे विड्वराह इवासृजम् । तस्मात् त्वमनया सार्धं कुरूपो भव सत्वरम् ॥ ५३. देवभोगविहीनः च तीर्थबाह्यः चिरं भवान् । मणिग्रीवः -- बन्धुदूषणि दुर्दान्ते गन्धर्वकुलपांसनि ॥ ५४. अचिरात् आश्वघग्रस्ता कुरूपा च भविष्यसि । इत्थमन्योन्य शापेन प्राप्ताघस्मररूपिणौ ॥ ५५. निश्रीकौ निष्प्रभौ जातौ सर्वेषामेव पश्यताम् । तत् बान्धवाश्च सख्यश्च शोकाक्रान्ता तदाभवन् ॥ ५६. अपश्यन्तौ च शापान्तं भ्रममाणौ विहङ्गवत् । हेरम्बः कृपयाभ्येत्य सान्त्वयित्वा सुहृत्तया ॥ ५७. इदमाह मणिग्रीवं प्लवमानमिवार्णवे । सखे मा शोकमोहाभ्यां भवितव्ये स्वकर्मभिः ॥ ५८. निष्कृतिं कथयिष्यामि शापस्यास्य महामते । समं लोक हितार्थाय देवी शैलेन्द्रकन्यका ॥ ५९. स्वयं तीर्थस्वरूपेण ताम्रपर्णीति विश्रुता । प्रवाहत्यभिनवा सुधासारा पयस्विनी ॥ ६०. यदम्बुकणिकापानात् जन्तुः कैवल्यभाग् भवेत् । तत्राभ्यां सहितो याहि ध्यायन् मां भैरवं शिवम् ॥ ६१. प्राप्यानुज्ञां भैरवात् त्वं स्नानं कुरु महामते । तावता मुक्तशापस्त्वं भूयः प्रकृतिमेष्यसि ॥ ६२. एते तरुण्यौ गन्धर्वकन्ये तत्तीर्थमज्जनात् । शापात् विमुक्ते त्वद्भार्ये भवेतां नात्र संशयः ॥ ६३. इत्थमाश्वास्य भगवान् हेरम्बो धनदात्मजम् । स्वशुण्डतलयोद्धृत्य ताभ्यां सह सुहृत्तमम् ॥ ६४. पुष्पवत् निदधे ताम्रारोदस्यखिलपावने । उपदिश्य रहस्यं च तस्य सख्युर्गणाधिपः ॥ ६५. अन्तर्दधे क्षणादेव भास्वान् इव घनच्छदे । ताभ्यां शापाभिभूताभ्यां वधूभ्यामुपसंश्रितः ॥ ६६. यक्षराजसुतो धीमान् शोकमन्ते निगृह्य सः । अनुग्रहात् गणेशस्य ताम्रपर्ण्याः नदीतटे ॥ ६७. विधाय वसतिं तत्र निराहारो जितेन्द्रियः । उपदिष्टेन मार्गेण तताप परमं तपः ॥ ६८. शुश्रूषया ते पितरि(?) दम्पती विनयान्वितौ । निन्यतुः समयं यावत् भविष्यति मनोरथः ॥ ६९. इत्थं तपस्यतः तस्य पञ्ज पञ्च दिनान्यगुः । ७०. अथ हैमवतीमाशां प्रस्थिते तीव्ररोचिषि । प्रत्यहं वर्धमानेन्दुं बिम्बपक्षे प्रवर्धिते ॥ ७१. सप्तम्यामुत्थिते भानौ उदयाचलमस्तकात् । आविरासीत् नदीपूरात् अंशुमान् इव रोचिषा ॥ ७२. मणिग्रीवस्य पुरतः शिवो भैरवमूर्तिमान् । शूलखड्वाङ्गमुसलकपालासिपरश्वथैः ॥ ७३. वरदेनाभयेनापि परिष्कृतकराम्बुजः । शशाङ्कशुक्लोल्लासिजटमण्डलमण्डितः ॥ ७४. भस्माङ्गरागधवलफणिराजोपवीतिकः । बद्धवेत्रकरोटीभिः अभिजातभुजान्तरः ॥ ७५. स्वभासा भासयन् विष्वक् अंशुमान् इव पुष्करात् । आविर्भूतं महःपुञ्जं पुरस्तात् तपसःफलम् ॥ ७६. आलोक्यहर्षसान्तारन्तः समुत्थाय कृताञ्जलिः । किञ्चित् अन्तिकमागम्य प्रणम्य भुवि दण्डवत् ॥ ७७. ज्यालतान्तकोदण्ड नम्रसम्भ्रमविग्रहः । तुष्टाव परमेशानं वरदं पारिजातवत् ॥ ७८. मणिग्रीवः -- नमः सर्वजगत्कर्त्रे पित्रे प्रकृतिसाक्षिणे । भैरवाय परानन्दनिधये वेधसे नमः ॥ ७९. नियन्त्रे सर्वलोकानां निगमागममूर्तये । भैरवाय परानन्दनिधये वेधसे नमः ॥ ८०. रोगशोकभयक्लेशमोहतामिस्रभास्वते । भैरवाय परानन्दनिधये वेधसे नमः ॥ ८१. प्रसीद मन्त्रागमतीर्थदेवताक्रतुक्रियाक्षेत्रविशेषरूपिणे । भवाय पापक्षयहेतवे सतां नमो नमो भैरवभद्रमूर्तये ॥ ८२. इति स्तुवन् नयनयुगाञ्जलद्रवं जलौघतः पदयुगमस्य सेचयन् । पपात तत्सविधमसौ महीतले भवार्णवात् अव शिव मां इतीरयन् ॥ ८३. इत्थं स्वपादनालीक षट्पदायितमैलिनम् । मणिग्रीवं समुत्थाप्य दयालुः स्वकराम्बुजैः ॥ ८४. प्रसन्नगम्भीरया वाचा चन्द्रचन्द्रिकया यथा । श्री भगवान् -- तात प्रीतोऽस्मि तपसा तव सर्वमनोज्ञया ॥ ८५. मत्प्रसादात् भविष्यन्तु तव भोगाः सनातनाः । त्वयि प्रसादं कुर्वन्तु ब्रह्मविष्णुमुखास्सुराः ॥ ८६. सर्वनिर्वाणजनिता ताम्रा मलयनन्दिनी । त्वयि प्रसन्ना जागर्ति त्वन्मनोरथपूरणे ॥ ८७. आभ्यां वधूभ्यां सहितः स्नानं कृत्वा महाम्भसि । सूतः -- अनुशिष्टः भैरवेण देवेनेत्थं दयालुना ॥ ८८. सवधूकः तं प्रणम्य सस्नौ मन्त्रमुदीरयन् । देवि दीनजनापायदलनैककुठारिके ॥ ८९. पाटीरशैलतनये पापहारिणि पाहि माम् । इति स्तुत्वा तीर्थराज्ञीं ध्यायन् हृदि गणेश्वरम् ॥ ९०. चक्रे स्नानं महाराज पुण्ये परमपावने । तावदाविरभूदग्रे हेरम्बः करुणानिधिः ॥ ९१. ब्रह्मविष्णुमहेशानपुरन्दरपुरस्सराः । आजग्मुः तत्र गीर्वाणाः कुबेरवरुणाग्नयः ॥ ९२. विकिरन्तः च पुष्पाणि प्रशंसन्तो महानदीम् । समायातेषु सर्वेषु सिद्धगन्धर्वयोगिषु ॥ ९३. उन्ममज्ज तदा तोये ताभ्यां सह कुबेरभूः । महामरकतश्यामकामराजसमद्युतिः ॥ ९४. मा विचारोऽस्तु चात्मानमाश्वास्य मनीषया । त्वय्यनुग्रहमादातुमागतान् पश्य भूरिशः ॥ ९५. ब्रह्मविष्णुमुखान् एतान् नमस्कुरु सुरोत्तमान् । प्रीत्यर्थमत्र देवानां बन्धूनां च विशेषतः ॥ ९६. पाणिं गृहाण वै वध्वोः गन्धर्वाधीशकन्ययोः । तव कल्याणयोगेन क्षेत्रमेतत् जगत्त्रये ॥ ९७. कल्याणभवनं नाम्ना लोके विख्यातिमृच्छतु । सान्निध्यात् भैरवं तीर्थं भैरवस्य महात्मनः ॥ ९८. अत्र मज्जन्ति ये तीर्थे तव पापप्रणाशने । तेषां कामान् प्रदास्यामि तस्मात् कामपुरं भवेत् ॥ ९९. इति संप्रीणयन् वाचा मणिग्रीवं गणेश्वरः । गुरुं पुरोहितं कृत्वा तस्मिन् एव नदीतटे ॥ १००. पाणिं सङ्ग्राहयामास विधिना शङ्करात्मजः । ताभ्यां सहैव पत्नीभ्यां शुशुभे धनदात्मजः ॥ १०१. स्वाहास्वधाभ्यां सहितो हव्यवाह इवोज्ज्वलः । संप्राप्तोचितदारस्य पुत्रस्याभ्युदयं महत् ॥ १०२. दृष्ट्वा तुतोष नितरां राजराजः स्वबन्धुभिः । तौ च गन्धर्वराजानौ दुहित्रोः परमोत्सवम् ॥ १०३. ननन्दतुः श्रियं भूम्या पश्यन्तौ मधुमाधवौ । इत्थं महोत्सवं दृष्ट्वा सर्वे देवाः सहेश्वराः ॥ १०४. स्वावासाय पुनर्जग्मुः कथयन्तः शुभाः कथाः । पुनःपुनः तीर्थराज्ञीं नमस्कृत्य कृताञ्जलिः ॥ १०५. पित्रानुमोदितः प्रायात् अलकां धनदात्मजः । तदारभ्य गणेशस्तु कालभैरवसंयुतः ॥ १०६. अद्यापि निजसान्निध्यं कुरुते पुण्यदो नृणाम् । अधिभूः सर्वतीर्थानां भैरवः शम्भुशासनात् ॥ १०७. सन्निधत्ते यतो नित्यं तस्मात् सर्वोत्तमं विदुः । येऽत्र मज्जन्न्ति नियताः मन्त्रेणानेन मानवाः ॥ १०८. तेषामक्षय्यमैश्वर्यं भवत्यायुः शिवे रतिः । य इदमनुश्रुणोति श्रावयेच्चानुवेलं नियमितविषयेहावृत्तिराख्यानमग्र्यम् । अभिमतपुरुषार्थान् आप्नुयात् आदिशम्भोः पदमविकलमन्ते यत्र भोगाः ह्यवन्ध्याः ॥ इति पञ्चत्रिंशोऽध्यायः । Pro. Total = 2889 + 108 = 2997.

षट्त्रिंशोऽध्यायः

सोमतीर्थमाहात्म्य म् । १. राजा -- अहो मणिग्रीवकथा विचित्रा विस्मयावहा । कथिता भवता ब्रह्मन् कल्मषान्तकरी नृणाम् ॥ २. अनया परितुष्टोऽहं कथया सुधया यथा । उभयोः तीरयोः तीर्थमाहात्म्यारामवीथिषु ॥ ३. उपाख्यानमहाकल्पशाखिनो यान्ति बन्धुराः । सुगन्धिनः सुमनसां तीर्थैः मधुमुचां कुलैः ॥ ४. फलन्ति परिपक्वानि सदा पुण्यफलानि हि । धुन्वन्ति कलिसन्तापं छायाभिरिव सेवताम् ॥ ५. फलैरिव क्षुधां घ्नन्ति किमेभ्यः कल्पकोऽपरः । लब्धः शङ्खनिधिर्मे त्वं गुरुरूपेण चाक्षयः ॥ ६. इतः परं मे श्रोतव्यं सोमतीर्थस्यवैभवम् । तत्तीर्थस्य कथाजातं सोमाख्यत्वं महामुने ॥ ७. तथैव व्यासतीर्थस्य कथां विस्तार्य शंस मे । इति राज्ञो वचः श्रुत्वा शङ्खयोगी महातपाः ॥ ८. स्मयमानः तमाभाष्य कथां वक्तुं प्रचक्रमे । शङ्खः -- महाराज महानाद्याः कीर्तिमौक्तिकलालिताम् ॥ ९. कथां कथयतःकर्णविषयीकुरु मे विभो । पुरा दक्षस्य शापेन क्षुभितो राजयक्ष्मणा ॥ १०. शीतांशुः शरणं प्राप भ्ररद्वाजमहामुनिम् । असह्यात् यक्ष्मणः पाहि दक्षशापसमुद्भवात् ॥ ११. शरणं त्वां प्रपन्नोऽस्मि दैवतं हि भवान् मम । इत्थमभ्यर्थितः तेन भरद्वाजः सुधांशुना ॥ १२. सविमर्शं समालोच्य शास्त्रं दृष्ट्वा पुनःपुनः । इदमाह औषधीशानं भरद्वाजः प्रसन्नधीः ॥ १३. द्विजराज नमस्तुभ्यं चिन्ताशोकानुतापिने । वदाम्युपायमारोग्यहेतवे तव साम्प्रतम् ॥ १४. विद्या काचन कल्याणी सर्वपापविमोचनी । सेविता यदि जन्तूनां नित्यानन्दप्रदायिनी ॥ १५. प्रसूते सेवतां नित्यं कल्पवल्लीव काङ्क्षितम् । इत्थमाश्वास्य सोमाय विद्यां प्रादान्महामुनिः ॥ १६. प्राप्तमन्त्रः प्रसन्नात्मा गुरुं नत्वा परीत्य च । तमामन्त्र्य यथान्यायं पर्यन्ते हिमभूभृतः ॥ १७. कृत्वाश्रमपदं चक्रे तपो घोरतरं शशी । आत्मन्यहन्तामादाय तस्यामादाय मानसम् ॥ १८. निरुध्येन्द्रियसञ्चारमन्तः पश्यन् अतीन्द्रियः । निराहारो विनिद्रश्च निवातगृहदीपवत् ॥ १९. निश्चलाङ्गो महातेजाः नासाग्रन्यस्तलोचनः । ध्यायन् गुरुपदं मूर्ध्नि मन्त्रमन्तर्मुखे रहः ॥ २०. दैवतं हृदि संस्थाप्य स्थिरधीरभ्यवर्तयत् । एवं तपस्यतः तस्य प्रत्ययात् वत्सरत्रयम् ॥ २१. तत् पुरस्तात् महादेवी गङ्गा परमपावनी । सदाशिवसमादिष्टा प्रादुरासीत् जगत्प्रसूः ॥ २२. प्रीणयन्ती स्मितरुचा द्विगुणीकृत्य तत्प्रभाम् । बभाषे तपसा क्षीणं रोगेणापि विकर्शितम् ॥ २३. गङ्गा -- द्विजराज महाभाग त्वया जीवन्ति देवताः । त्वदंशुसंश्रयात् भूमौ भवन्त्योषधयो ननु ॥ २४. घर्मांशुपरिभूतानां भूतानां त्वं परायणम् । त्वत्दत्तामृतसन्तृप्ताः सर्वे देवाः निरामयाः ॥ २५. तथापि क्लेशयत्येष राजयक्ष्मा वपुस्तव । तस्मादलङ्घनीयो हि विधिर्देवकुलैरपि ॥ २६. भवितव्ये न शोचन्ति पण्डिताः हि भवादृशाः । श्रूयतामस्य देवस्य महादेवस्य शासनम् ॥ २७. महामलयसम्भूता यत्र पुण्या सरिद्वरा । गन्तव्यं भवता तत्र शापात् मुक्तिमभीप्सता ॥ २८. आगमिष्यत्यदीर्घेण कालेन वृषभध्वजः । वयमप्यागमिष्यामः तव प्रीतिविधित्सया ॥ २९. शिलादस्योपदेशेन स्नानं कुरु महामते । ताम्रायाः तीर्थमाहात्म्यात् लब्धारोग्यो भविष्यसि ॥ ३०. एतावत् उक्त्वा तस्यां तु विरतायां सुधानिधिः । तामामन्त्र्य नमस्कृत्य संप्राप मलयात्मजाम् ॥ ३१. सप्तविंशतिसङ्ख्यातैः अवरोधैः अलङ्कृतम् । नद्यास्तु दक्षिणे तीरे शिलादस्याश्रमं महत् ॥ ३२. दृष्ट्वा चैत्ररथप्रख्यं नानाद्रुमलतायुतम् । अवरुह्याम्बरात् इन्दुः आश्रमं प्रविवेश ह ॥ ३३. तं दृष्ट्वा तेजसां राशिं शिलादो मुनिपुङ्गवः । स्वागतेनासनेनापि पूजयित्वापि सादरम् ॥ ३४. बहुमान्य गिरा राजन् व्याजहार महामुनिः । शिलादः -- भगवन् ओषधीशान प्रीतोऽस्मि तव दर्शनात् ॥ ३५. परिक्षीणमिदं कान्तं वपुस्ते केन हेतुना । परिश्रान्त इवाभासि चिन्तया परितप्यसे ॥ ३६. सर्वं कथय मे तथ्यं श्रोतुं कौतूहलं हि नः । इति पृष्टो मुनीन्द्रेण तमाहेदं निशाकरः ॥ ३७. चन्द्रः -- श्रुणु ब्रह्मन् प्रवक्ष्यामि शापात् दक्षस्य दुःखित ; । तद्दोषशान्तिमन्विच्छन् त्वामिदानीमुपस्थितः ॥ ३८. कुर्वतानुग्रहं भूरि देवदेवेन शूलिना । अनुशिष्टोऽस्मि गीर्वाणतटिन्या प्रतिबोधितः ॥ ३९. त्वदन्तिकमहं प्राप्तो देवदेवस्य शासनात् । संश्रयः तव विप्रेन्द्र ताम्रपर्ण्यां च मज्जनम् ॥ ४०. द्वयमेतत् हि कथितं प्रायश्चित्तं मम द्विज । तस्मात् त्वां शरणं प्राप्तं त्राहि मां शापकिल्बिषात् ॥ ४१. शिलादः -- द्विजराज महाभाग शिवाज्ञामनुवर्तिनाम् । न पश्याम्यशुभं क्वापि यथा मृत्युः सुदर्शिनाम् ॥ ४२. मातृशापात् अपुत्रापि मद्भार्या शम्बरावती । ताम्रतीर्थस्नानयोगादसूत सुतमूर्जितम् ॥ ४३. स पुत्रो नन्दिकेशो मे स्नात्वात्र शिवसेवया । मृत्युं जित्वा पदं लेभे ब्रह्माद्यैरपि दुर्लभम् ॥ ४४. अष्टौ नागाः पुराभ्येत्य स्नात्वात्र तटिनीजले । संप्रापुः तीर्थमाहात्म्यात् मित्रभावं गरुत्मतः ॥ ४५. अथ तीर्थवरे पुण्ये त्वं दारैः सहितो व्रती । अत्र मङ्क्त्वा महेशस्य प्रसादात् इन्दुमौलिनः ॥ ४६. मनोरथमनुप्राप्य श्रियं प्राप्नुहि पुष्कलाम् । श्वो भविन्यहनि श्रीमान् अहिमांशुः प्रतापवान् ॥ ४७. दक्षिणाशां परित्यज्य स्वतीर्थं विनिवर्तयन् । सप्तसप्तिरुदग्यानः सप्तम्यामरुणान्वितः ॥ ४८. सा तिथिः सर्वपापघ्नी तीर्थरूपा प्रशस्यते । सहास्माभिर्महानद्यां स्नानं कुरु महामते ॥ ४९. इति तत् वचनात् इन्दुः पुरोधाय भूसुरम् । सप्तविंशति सङ्ख्यातैः दारैरुद्दामकीर्तिमान् ॥ ५०. सप्तम्यामुदिते सूर्ये आसाद्य मलयात्मजाम् । त्रैलोक्यकलुषध्वान्तविध्वंसनविनोदिनि ॥ ५१. पापं नाशय मे शीघ्रं त्वयि स्नास्म्यहं शुचौ । इति मन्त्रं समुच्चार्य मङ्क्त्वा तत्तीर्थवारिणि ॥ ५२. निर्मुक्तशापमालिन्यः सो ममज्ज पुनः शशी । तावदाविरभूदग्रे महोक्षेन्द्रं समास्थितः ॥ ५३. नीलकण्ठः समाश्लिष्टवल्लभातनुतल्लजः । अशेषसिद्धसङ्घातस्तूयमानपदाम्बुजः ॥ ५४. ब्रह्मनारायणमुखैः गीर्वाणैरभिसंवृतः । परितो विकिरन्तीभिः अमरीभिः कुसुमोत्करम् ॥ ५५. संस्तुवत्वत्सकलाम्नायं सन्नमत्भुवनत्रयम् । सानन्दस्मेरसौभाग्यं समालोक्य शिवं विधुः ॥ ५६. स्तुत्वा स्तुतिभिरानन्दनिर्भरः तत्पदाम्बुजे । पपात पाहि मां भक्तमित्युच्चैरुद्गिरन् गिरम् ॥ ५७. ततः शम्भुः प्रसन्नात्मा समाश्लिष्य स्वपाणिभिः । सान्त्वयित्वा निशानाथं व्याजहार सदाशिवः ॥ ५८. अहो विधो विनाशाय साध्वनुष्ठितमंहसाम् । तव तेजो बलं बुद्धिः यशो वैशिष्यमेव च ॥ ५९. तव सन्तु निराबाधज्ञानविज्ञानभूतयः । त्वं वरिष्ठः समस्तानां देवानामपि भास्वताम् ॥ ६०. त्वमोषधीनामीशानः त्वं सोमः सोमपायिनाम् । हव्यकव्योदयस्थानं पितॄणां त्वं दिवौकसाम् ॥ ६१. त्वद्ध्यानमात्रात् नश्यन्ति विषरोगविपत्तयः । पितॄणामपि देवानां जीवनाय विशाम्पते ॥ ६२. श्रुणु वक्ष्यामि कालस्य मर्यादारभ्यते पुनः । पूर्वापरौ तु भूयास्तां पक्षौ त्वत्बिम्बलक्षणम् ॥ ६३. पूर्वेण तु वर्धन्तां कलास्तव दिने दिने । अपरेण तु पिबन्त्यन्ये देवाश्च पितरः क्रमात् ॥ ६४. गङ्गाद्याः सरितः पुण्याः देवाश्चेन्द्रपुरोगमाः । त्वत्तीर्थेऽस्मिन् प्रकुर्वन्तु सन्निध्यं बद्धसौहृदाः ॥ ६५. ये चात्र पुण्ये मज्जन्ति तीर्थे सौम्ये तु जन्तवः । तेषामभीष्टदानाय नित्यमत्र वसाम्यहम् ॥ ६६. इत्युक्त्वान्तर्दधे शम्भुः सार्धं विष्णुमुखैस्सुरैः । अन्तर्हिते चन्द्रचूडे देवदेवगणान्विते ॥ ६७. सोमः सोमेश्वरं लिङ्गं हस्ताभ्यां परिणामगम् । शिलादस्योपदेशेन पूजयित्वा च सादरम् । ६८. प्राप्य प्रसादं देवस्य गुरुमामन्त्र्य सादरम् । ताम्रां नदीमभिष्टूय भक्त्या मातरमम्बिकाम् ॥ ६९. सह दारैः संप्रतस्थे स्वदाम परमर्धिमत् । शङ्खः -- एवं शापात् संप्रमुक्तसोमो यस्मात् महीपते ॥ ७०. तदादि सोमतीर्थाख्यं प्रशस्तं भुवनत्रये । अस्य तीर्थस्य माहात्म्यं सङ्ग्रहात् कथितं तव ॥ ७१. पठनात् श्रवणात् अस्य मर्त्यो रोगैः प्रमुच्यते । अतः परं प्रवक्ष्यामि कथा नादाम्बुजस्य ते ॥ ७२. यत्र विष्णुं समाराध्य व्यासो योगविदां वरः । तत् प्रसादात् अवपोच्चैः ब्रह्मज्ञानमकल्मषम् ॥ ७३. जन्तूनामेव सर्वेषां यातायातपरिश्रमम् । यावत् तत् तीर्थ संप्राप्तिः तावत् इत्याह धूर्जटिः ॥ इति षट्त्रिंशोऽध्यायः । Pro.ToTal = 2997 + 73 = 3070.

सप्तत्रिंशोऽध्यायः

नादाम्बुजतीर्थमहिमा । १. राजा -- भगवन् सर्वधर्मज्ञ महायोगीन्द्र सद्गुरो । नादाम्बुजमिति प्रोक्तं भवता क्षेत्रमुत्तमम् ॥ २. तत्र विष्णुं समाराध्य भगवान् बादरायणः । ब्रह्मज्ञानं कथं प्राप तन्मे कथय विस्तरात् ॥ ३. शङ्खः -- प्रवक्ष्यामि कथां पुण्यां पाराशर्यस्य योगिनः । श्रवणात् एव पापघ्नी यथा मलयनन्दिनी ॥ ४. पुरेयं कथितं पुण्या कथा सूतेन सूरिणा । पुण्यक्षेत्रे नैमिशे तु महर्षीणां महात्मनाम् ॥ ५. पुरा कदाचित् भगवान् व्यासः सत्यवतीसुतः । वेदान् विभज्य सर्वत्र शाखा सूत्रान्तराणि च ॥ ६. तेषु प्रवर्तकान् विप्रान् मन्वादीन् पृथक् पृथक् । शौनकादीन् मुनीन् कृत्वा देवतन्त्रप्रवर्तकान् ॥ ७. अष्टादशपुराणानां श्रुतिस्मृत्यनुयायिनाम् । वक्तारं मां समादिश्य कृतकृत्यो बभूव ह ॥ ८. मनीषां चिन्तयामास कृत्यशेषां महातपाः । आश्रमाचारभेदं च शाखासूत्रान्तराणि च ॥ ९. तत्कर्तरश्च विहिताः शिक्षिताश्च यथाविधि । तेषु तेषु प्रवर्तन्ते शास्त्रेषु मुनयः सुराः ॥ १०. जाता श्रेयःकरी नूनं सफलो मे परिश्रमः । एतदेव किलास्माकमवतारप्रयोजनम् ॥ ११. इतः परं इहास्माकं किं कर्तव्यं सुखावहम् । तदत्रैव करिष्यामि मा भूत् कालपरिक्षयः ॥ १२. इति निश्चित्य भगवान् कृष्णद्वैपायनो मुनिः । जगाम सहसा हर्षात् मेरुं काञ्चनपर्वतम् ॥ १३. यमेनं नाकपृष्ठाख्यमारुह्य किल योगिनः । गच्छन्ति ब्रह्मसालोक्यं तपसा दुष्करं परैः ॥ १४. यत्र ब्रह्मपुरं मध्ये समन्तात् शतयोजनम् । यत्र विष्णुपदात् मुक्ता गङ्गा पतति वै किल ॥ १५. यमाहुः परमं स्थानं स्वर्गस्यापि सुखप्रदम् । नानासिद्धगणाकीर्णं देवगन्धर्वसेवितम् ॥ १६. नानाधातुगणैः चित्रैः सालङ्कारमिव स्थितम् । हाराभिरामैः शतशः निझरैः उपशोभितम् ॥ १७. दिव्यपक्षिगणाकीर्णं दिव्यस्त्रीशतसङ्कुलम् । यत्र वै वातरशनाः ऋषयः चोर्ध्वमन्थिनः ॥ १८. तपःकुर्वन्ति नियताः लोकानां हितकाम्यया । तमाससाद वेगेन पितामहदिदृक्षया ॥ १९. ददर्श तत्र लोकानां पितामहमनामयम् । उपास्यमानं सर्वत्र सनकाद्यैर्महात्मभिः ॥ २०. स ऋचा यजुषा साम्ना अथर्वेणाभ्युपासितम् । मूर्तिमद्भिर्महामन्त्रैः साङ्गैः चोपनिषद्गणैः ॥ २१. सर्गोपकरणैरन्यैः भूतैः व्याहृतिभिः तथा । सेव्यमानं महात्मानं ब्रह्माणं भारतीपतिम् ॥ २२. देवगन्धर्वसिद्धैश्च नारदाद्यैर्महर्षिभिः । ददर्श परमासीनं सत्यसिंहासने प्रभुम् ॥ २३. ततः सत्यवतीसूनुः आससाद कनकाचलम् । संप्राप्तः सर्वतोभद्रां सभां साक्षात् स्वायम्भुवः ॥ २४. तत्र सभ्याः समासीनाः ऋषयः चोर्ध्वमन्थिनः । सेवन्तो परितो देवं धातारं जगतां प्रभुम् ॥ २५. सनकश्च सनन्दश्च कौषीतककहोलकौ । सनत्कुमारः पर्णादः शैब्यः शाकल्य एव च ॥ २६. यज्ञकेतुर्हविर्धानः काणादः कण्व एव च । जमदग्निः शङ्कुकर्णः पिप्पालदश्च रोमशः ॥ २७. चमसो माण्डुकर्णिश्च हरश्च करभाजिनः । मेधातिथिः सुमन्थुश्च हिरण्यस्रुव एव च ॥ २८. शत्रुजित् पुरुजित् पैलो वामदेवोऽत्रिरेव च । गार्ग्यायणः सुयज्ञश्च वसिष्ठो गौतमस्तथा ॥ २९. एवमन्ये च मुनयः कुत्सगृत्समदादयः । उपासन्ते जगत्योनिं समन्तात् कमलासनम् ॥ ३०. एवं दृष्ट्वा सभां दूरात् सन्नतस्तु कृताञ्जलिः । पूज्यमानस्तु मुनिभिः ववन्दे कमलासनम् ॥ ३१. सभां प्रविशति व्यासे सानन्दे मुनिपुङ्गवे । सभा परमसंहृष्टा सोच्चैर्नादा बभौ क्षणात् ॥ ३२. अभिवाद्य स्वकं नाम ब्रुवन् धातारमग्रतः । भारती च ततो देवीं प्रणयात् अभ्यवादयत् ॥ ३३. आगतं तं मुनिं दृष्ट्वा हर्षरोमाञ्चमञ्जुलैः । अङ्गैरलघुवैभ्राजैः सुमेरुरिव भूर्जकैः ॥ ३४. सस्नेहैरमृतालोकैरामृष्टैश्चन्द्रशीतलैः । प्रीणयित्वा मुनिश्रेष्ठं व्याजहार पितामहः ॥ ३५. स्वागतं ते मुनिश्रेष्ठ सुखमास्वेदमासनम् । इदमर्घ्यमिदं पाद्यमिदमाचमनीयकम् ॥ ३६. गां च गृह्णीष्व भद्रं ते प्रीतोऽस्मि तव दर्शनात् । भवदानुष्ठितं सर्वं ज्ञातं मे मुनिपुङ्गव ॥ ३७. मत्प्रसादात् इदं लब्धं वेदजालं त्वयानघ । यथावत् विहितं सर्वं कर्मकाण्डं द्विजातिषु ॥ ३८. अष्टादशपुराणानि सेतिहासानि कृत्स्नशः । समायातानि कॢप्तानि त्वया सत्यवतीसुत ॥ ३९. व्यासः -- धर्मशास्त्राणि विज्ञानं त्वत्कृपापरमाणवः । ज्ञानं विज्ञानसम्पन्नं त्वच्छक्त्या सचराचरम् ॥ ४०. यथा तथा विनिर्मुक्तो लोको मूकायते ध्रुवम् । तस्मात् प्रसादात् भवतः कृतमेतत् मया प्रभो ॥ ४१. यदादावुपतिष्ठन्ते तथा सर्वं यथाविधि । जन्मलब्धं मया ब्रह्मन् सत्कुले लोकविश्रुते ॥ ४२. अभ्यस्ताः श्रुतयः चैव तदर्थाः चावधारिताः । आश्रमे प्रथमे सम्यक् स्थीयते च मया विभो ॥ ४३. सर्वं च मम विज्ञातं विना कैवल्यसाधनम् । वेदैश्च निखिलैः शास्त्रैः कर्मजालं प्रतीयते ॥ ४४. कर्मणा नैव पश्यामि श्रेयोऽद्य निरुपद्रवम् । कर्माणि कुर्वतां नॄणां स्वर्गाद्याः फलभूतयः ॥ ४५. ते च क्षीणे पुण्यफले पतन्ति च पुनःपुनः । कारणान्येव कर्माणि नॄणां मरणजन्मनोः ॥ ४६. कर्मणा नरकं स्वर्गं अनुरूपं समश्नुते । स्वर्गात् च नरकात् मुक्तः पुनर्योनिमुपैष्यति ॥ ४७. तस्मात् वेदितुमिच्छामि कर्मनिर्मलकारणम् । केन वा कर्मनिर्मुक्तः परमानन्दमृच्छति ॥ ४८. तादृशं विमलं ज्ञानं ब्रह्मानन्दैकसाधनम् । भगवन् मे सकरुणमुदेष्टुं त्वमर्हसि ॥ ४९. छिन्धि मे संशयं ब्रह्मन् दुःखशोकमयप्रदम् । कृपया पाहि मां मग्नं दुरन्ते दुःखसागरे ॥ ५०. बालं कृच्छ्रगतं मोहात् पिता पाति यथा सुतम् । तथा सीदन्तमशुचौ मामाशु परिपालय ॥ ५१. कर्मजालपरिक्षिप्तान् क्लिश्यमानान् मुहुर्मुहुः । दृष्ट्वा भीतोऽस्मि भगवन् दावाग्निमिव कुञ्जरः ॥ ५२. लोकस्य दुर्गतिं दृष्ट्वा यातायातं प्रकुर्वतः । सीदामि घर्मसन्तप्तो मत्स्या इव जलाशये ॥ ५३. आश्वास्य मनस्तप्तं चिन्ताजले चिदग्निना । वाचाभयतया ब्रह्मन् पर्जन्य इव वृष्टिभिः ॥ ५४. प्राञ्जलिः प्रणतकन्धरो मुदा मञ्जुलध्वनिमनोज्ञवर्णया । श्रावयन् हरिकथां सुधां गिरा व्याजहार स मुनिं पितामहः ॥ ५५. ब्रह्मा -- श्रुणु नान्यमना ब्रह्मन् वक्ष्यमाणं मयाधुना । त्वया संप्रार्थ्यमानस्य फलस्योदयकारणम् ॥ ५६. बोद्धारो बहवस्सन्ति सर्वविद्यासु सर्वतः । नैव तत्त्वप्रबोद्धारं विना पश्यामि शार्ङ्गिणम् ॥ ५७. ज्ञानतः प्रथमं साक्षात् हरिरेव न संशयः । तदन्ते मोक्षदश्चैव रसानामिव कामधुक् ॥ ५८. यद्रूपं तारकं विष्णोः बिन्दुना कृतलक्षणम् । एक एवेश्वरो विष्णुः कैवल्याद्यखिलार्थतः ॥ ५९. यस्तितीर्षुर्भवाम्भोधिं यो जिज्ञासुः सुखावहम् । संसेवते हरिं भक्त्या मनसा कर्मणा बुधः ॥ ६०. तस्मात् त्वमपि विप्रेन्द्र तमेव शरणं व्रज । स एव भगवान् विष्णुः कुर्यादेव तवेप्सितम् ॥ ६१. तमेव मधुहन्तारमाराधय समाधिना । तोषितो विधिना सम्यक् कैवल्यमपि यच्छति ॥ ६२. व्यासः -भगवन् स कथं देवः पूजनीयो मया हरिः । केन वाश्रमधर्मेण केन मन्त्रेण वा पुनः ॥ ६३. कुत्र वास्ते हरिर्नित्यं कुतस्सिद्धिर्भविष्यति । तदत्र श्रोतुमिच्छामि वद मे करुणानिधे ॥ ६४. ब्रह्मा -- साधु पृष्टं मुनिश्रेष्ठ भवता धर्मचेतसा । अहो सुदुर्लभा लोके भक्तिर्भगवतीदृशी ॥ ६५. स्नेकजन्मसंसिद्धैः सञ्चितैः तपसां फलैः । भवत्येतादृशी भक्तिर्नेतरेषां कदाचन ॥ ६६. भक्त्या परमया युक्तः स लोकान् जयति ध्रुवम् । तस्मात् अलभ्यः सर्वत्र भक्तियोगो नृणां मुने ॥ ६७. त्वया बुद्धिर्मुनिश्रेष्ठा सकला हरिसात्कृता । हरिसात्कृतचित्तानां न गोप्यं गुरुभिर्भवेत् ॥ ६८. अपि गुह्यं च वक्ष्यामि शास्त्रसारं मुने तव । यो विनीतस्य शिष्यस्य भक्तस्य प्रणतस्य च ॥ ६९. स वञ्चयति पापीयान् स गुरुर्नारकी भवेत् । विशिष्य हरिभक्तानां न कुर्यात् वञ्जनं बुधः ॥ ७०. व्याप्य विश्वमिदं कृत्स्नं एधमानस्य वै विभो । स्थानैकदेशं नैवास्ति तैलस्येव तिलो यथा ॥ ७१. तथापि तस्य कथ्यन्ते स्थानान् यद्युत्तमानि च । श्रुतिभिः परिगीतानि तानि वक्ष्यामि ते श्रुणु ॥ ७२. मेरुपृष्ठं च मैनाकं क्षीरोदं वृषभाचलम् । केतुमालं हरिद्वारं द्वारका मथुरा तथा ॥ ७३. अविमुक्तं जगन्नाथं श्रीरङ्गं शेषपर्वतम् । कुम्भघोणं सेतुगर्भं स्यानन्दूरं हरिव्रजम् ॥ ७४. नादपद्मं भोगपुरं नरनारायणालयम् । लक्ष्मीपुरं च वाराहं इन्द्रगोलं बृहद्वनम् ॥ ७५. हविर्धानं नैमिशं च ब्रह्मनाभं च शङ्खणम् । वज्रमोक्षं गजारण्यं नागचूडं च वामनम् ॥ ७६. सह्यामलकमच्छोदं साकेतं प्रणवाश्रयम् । भागण्डं रैवतं शैब्यं वज्रकोशं खगालयम् ॥ ७७. एतानि पुण्यक्षेत्राणि विष्णोरायतनानि च । चत्वारिंशत् मया ब्रह्मन् प्रोक्तं यद्युत्तामान्यलम् ॥ ७८. एतेषु वसतां नॄणां सिद्धो मोक्षो न संशयः । अचिरात् लभ्यते तेषां हरिसान्निध्यमञ्जसा ॥ ७९. एतानि पुण्यक्षेत्राणि विभक्तानि त्रिधा मुने । तेषां भेदं प्रवक्ष्यामि श्रुण्वन्येन चेतसा ॥ ८०. कानिचित् वेदगीतानि भोगक्षेत्राणि भूतले । तथा कानिचित् अन्यानि कर्मस्थानानि केवलम् ॥ ८१. अपराण्यभिरामाणि ज्ञानभागानि सूरिभिः । एषां प्रवक्ष्ये पुण्यानां गुणान् भेदान् च कृत्स्नशः ॥ ८२. हरिव्रजं मेरुश‍ृङ्गं मैनाकं क्षीरसागरम् । केतुमालं नागचूडं इन्द्रगोलं बृहद्वनम् ॥ ८३. शैब्यं प्रणवकेतं च भोगस्थानानि वै दश । अन्यत्र भारतात् वर्षात् एतानि किल वै मुने ॥ ८४. तथा हि भारते वर्षे कृत्वा कर्माणि भूरिशः । तेषां फलानि भुञ्जन्ते मुनयोऽन्यत्र निर्मलाः ॥ ८५. अत एव किलैतेषां भोगभूमित्वमिष्यते । कृतानां कर्मणामेषु फलं कर्म समीरितम् ॥ ८६. दशसूत्तमदेशेषु पुण्येषु पुरुषोत्तमः । निर्गुणेन स्वरूपेण सान्निध्यं कुरुते सदा ॥ ८७. अत एव न कुर्वन्ति कर्माण्येतानि सूरयः । विन्दन्तः सुखसंसिद्धिं पश्यन्तः परमं पदम् ॥ ८८. द्वारका मथुरा चैव हरिद्वारं वृषाचलम् । स्यानन्दूरं शेषचैलं कुम्भघोणं च रैवतम् ॥ ८९. शङ्खणं भोगनगरं नैमिशं चक्रमोक्षणम् । गजारण्यं च साकेतं वज्रकोशं खगालयम् । ९०. भागण्डं अच्छतीर्थं च हविर्धानं च वामनम् । विंशत्येतानि पुण्यानि कर्मस्थानानि वै मुने ॥ ९१. एतेषु किल कर्माणि कुर्वतां विधिपूर्वकम् । सफला किल जायन्ते सिद्धयोऽष्टौ न संशयः ॥ ९२. एतेषु पुण्यक्षेत्रेषु भगवान् हरिरीश्वरः । राजसेन गुणेनैव सान्निध्यं कुरुते स्वयम् ॥ ९३. तेषु कर्मविशेषेण सुप्रीतो मधुसूदनः । पालयिष्यति वै भक्तान् भवभीतान् इवामृतम् ॥ ९४. अविमुक्तं जगन्नाथं श्रीरङ्गं कमलापुरम् । नरनारायणक्षेत्रं वाराहं सेतुबन्धनम् ॥ ९५. ब्रह्मनाभं चामलकं नादपङ्केरुहं तथा । दशैतानि मुनिश्रेष्ठ ज्ञानक्षेत्राणि भूतले ॥ ९६. एषु सत्वगुणेनैव हरिरास्ते निरन्तरम् । तस्मात् तदनुरूपेण तत्त्वज्ञानेन विद्यया ॥ ९७. समाधियुक्ताः सेवन्ते सर्वेन्द्रियजिगीषवः । निर्मुक्तमत्सराः शान्ताः मुनयो मुक्तसंशयाः ॥ ९८. ज्ञानप्रदानि चैतानि मुक्तिसाधनवन्ति च । विमृश्य सेवितव्यानि गुणाधिक्यानि सूरिभिः ॥ ९९. पापीयान् वा वसीयान् वा यो मृतो यत्र मुक्तिभाक् । अविमुक्तं तत् क्षेत्रं मृतं मुक्तिर्न मुञ्चति ॥ १००. सुकृतं दुष्कृतं चैव वृद्धिम्मत्र न मुञ्चति । यत्र शंसन्ति निर्बन्धं कुलस्तम्भे सुदुस्सहम् ॥ १०१. यत्र जीवति वै जन्तौ ज्ञानं नोपदिशेत् चेत् शिवः । अत एवात्र वत्स्यामि यत्र नास्ति परिश्रमः ॥ १०२. ब्रह्मयोनौ समुत्पन्नाः शतवारं धृतव्रताः । ते लभन्ते जगन्नाथं नान्यथा लभते सुखम् ॥ १०३. अतो न सद्यः सुखदं क्षेत्रं वै पुरुषोत्तमम् । श्रीरङ्गं च तथा क्षेत्रमपि मोक्षदमुत्तमम् ॥ १०४. प्राप्य रक्षःपतिरभूत् विदधात्ममनोरथः । तस्मात् अत्रान्तरायन्तु श्रेयसामस्ति निश्चयम् ॥ १०५. यत्र स्थिताः मर्त्यगणाः कामरागवशानुगाः । प्रच्यवन्ते स्वाश्रमाचारात् भयमेतत् रमापुरे ॥ १०६. अत्र धर्माण्याचरतां वसुशापात् सुदारुणात् । ध्रुवोऽन्तरायः तद्भीत्या श्रीपुरं मे न रोचते ॥ १०७. नरनारायणक्षेत्रे मुनिरासीत् जनार्दनः । स्वयं जपः प्रकुरुते जिघृक्षुः फलमुत्तमम् ॥ १०८. तत्त्वोपदेशाः सर्वेषां कर्तुमस्य जगत्पतेः । अभावात् अवकाशस्य मनो मे न प्रहर्षति ॥ १०९. वराहे च मुनिश्रेष्ठः भूमिमुद्वहतामुना । सम्भ्रामो नाम गन्धर्वो रक्षार्थे विनियोजितः ॥ ११०. तत्रत्यानां तु जन्तूनां वासविघ्नकरो यतः । अतः तत्रापि विघ्नानां समाहारं प्रतीयतः ॥ १११. यत्राप्सु मज्जतामब्धेर्महापातककोटयः । नश्यन्ति सहसा नूनं हिमानीवार्कदर्शनात् ॥ ११२. मासात् ऊर्ध्वं धनुष्कोट्यां ये वसन्त्यपि वञ्चिताः । तेषां सुकृतजालानै भैरवो भक्षयेत् ध्रुवम् ॥ ११३. अत एव चिरं वस्तुमवकाशविपर्ययात् । परिभ्रमति वै चित्तं फललुब्ध इवार्भकः ॥ ११४. यत्र क्रीडति कल्याण्या रमया सह केशवः । तत्र मुक्तिर्नृणां नूनं ब्रह्मनाभे श्रुतीरितम् ॥ ११५. तथापि स्वर्गभोगानां भोक्तव्यान्यत्र सूरिभिः । अत एव विचारोऽस्ति कर्मबन्धनशङ्कया ॥ ११६. तथैव सह्यामलकं विष्णोरायतनं महत् । सेवतां नियता मुक्तिरन्ते श्रुतिसमीरिता ॥ ११७. नैवात्र वसतां ज्ञानं हरिर्नोपति चेत् इति । परिभ्रमति चित्तं मे दृष्ट्वौषदिमिवार्भकः ॥ ११८. अत एव परं मन्ये श्रेयसामुत्तमोत्तमम् । नादपद्ममिदं क्षेत्रं नादब्रह्मैकदर्शनम् ॥ ११९. यत्र स्थितानां जन्तूनां भजतां प्रीति पूर्वकम् । ज्ञानोपदेशं कुरुते स्तन्यं मातेव वत्सला ॥ १२०. तस्मात् त्वमपि विप्रेन्द्र तत् क्षेत्रं याहि मा चिरम् । तुरीयाश्रमधर्मेण वर्तमानो दिवानिशम् ॥ १२१. जपन् अष्टाक्षरं मन्त्रं ज्ञानं प्राप्स्यसि केशवात् । न लभ्यते ज्ञानविद्या तपसा केशवं विना ॥ १२२. व्यासः -- एतदुक्तं भगवता भवता करुणात्मना । पीयूषमिव मे पीतं श्रोत्राभ्यां वचनामृतम् ॥ १२३. श्रुत्वैनामद्भुतां वाणीं कल्याणीं सर्वदेहिनाम् । हृष्यामि परमानन्दसुधाकल्लोलसागरे ॥ १२४. हृदयात् दूरतो नष्टा चित्तसन्तापसन्ततिः । संप्राप्तमद्य कल्याणं सफला मे तपःक्रिया ॥ १२५. न तृप्तिमुपगच्छामि पिबन्नपि कथासुधाम् । प्राप्य हृष्यामि ते पादं रसायनमिवातुरः ॥ १२६. भूयोऽपि श्रोतुमिच्छामि कथामेनां पुरातनीम् । कुत्र वा वर्तते क्षेत्रं तदेतत् ज्ञानसाधनम् ॥ १२७. नादपद्ममिति ख्यातं विष्णोरायतनं महत् । अद्य तत् क्षेत्रमाहात्म्यं वक्तुमर्हसि मे विभो ॥ १२८. ब्रह्मा -- पाराशर्य महाप्राज्ञ सर्वशास्त्रविशारद । श्रुणु वक्ष्याम्यहं पुण्यमितिहासं पुरातनम् ॥ १२९. पुरा विश्वमिदं कृत्स्नं स्रष्टुकामोऽहमद्भुतम् । तपसा तोषयन् देवं विश्वातीतं पुरातनम् ॥ १३०. ततो वर्षसहस्रान्ते ध्वान्ते तपसि दारुणे । तेजःपुञ्जं मया दृष्टं कोटिसूर्यसमप्रभम् ॥ १३१. तत्तेजो महदाश्चर्यं दुर्निरीक्ष्यमहं तदा । सभयोऽहं मुनिश्रेष्ठ प्रणयात् अस्तुवं तदा ॥ १३२. तावत्तस्मिन् महद्धाम्नि ब्रह्मण्यभुदयास्पदे । सञ्जज्ञे सहसो नादो मेघनाद इवापरः ॥ १३३. यस्तारक इति ख्यातो मन्त्रो वेदेषु गीयते । तमश्रौषं महामन्त्रं जगतां बीजपूरकम् ॥ १३४. तदग्रे परमं मन्त्रं अवाप्याह महामुने । अपश्यदग्रतो दिव्यं कमलं तत्र तेजसि ॥ १३५. अष्टपत्रं सुवर्णाभं अष्टाक्षरमयं परम् । तस्मादुदञ्चत् वदनं हंसं परमभास्वरम् ॥ १३६. चन्द्रपाण्डरवर्णाभ्यां पक्षाभ्यामुपशोभितम् । साक्षात् तत्त्वात्मकं भद्रमालोकितमकल्मषम् ॥ १३७. ससत्यरूपः सहसाभिजातैरालोकनैरादिमपास्य चित्तात् । आभाष्य मामाह मुदा स भूमा सृजस्व लोकानिति नादरूपी ॥ १३८. अपास्य मोहं मलिनायमानं विचित्रवाचा विशदीचकार । तत्त्वात्मकं मह्यमथोपदिश्य व्यक्तं पुनर्मे गिरमुज्जहार ॥ १३९. तां पौरुषीं गां कथयामि सत्यां श्रुत्यन्तबद्धां मुनिभिर्विमृश्याम् । श्रुणुष्व विप्रेन्द्र सुखानुभूत्यै सुदुर्लभां भूमितले नराणाम् ॥ १४०. श्री भगवान् -- मय्यावेश्य मनो नित्यं मां यजस्व यथातथम् । मामेव भजतां नित्यं ददामि परमां गतिम् ॥ १४१. इत्युक्त्वा दर्शयामास नादब्रह्मसरोरुहम् । क्षेत्रं स्वकीयं विमलं मह्यं मधुनिषूदनः ॥ १४२. पुनरेवाह मां भक्तं कृपया पुरुषोत्तमः । आब्रह्मस्तम्बपर्यन्तं प्रकटीकृत्य चात्मनि ॥ १४३. नादब्रह्मस्य मे ब्रह्मन् विश्वरूपस्य भास्वतः । एतदेव परमं स्थानं विद्धि मद्रूपकं परम् ॥ १४४. नित्यमत्रैव वत्स्यामि भक्तानां ज्ञानदोऽस्म्यहम् । अत्र मां ये भजन्यद्धा मत्तो विन्दन्ति तत्फलम् ॥ १४५. तदेतत् परमं क्षेत्रं बद्रूपं विद्धि वै मुने । अत्र भक्तानहं सर्वान् पालयिष्ये मुहुर्मुहुः ॥ १४६. अन्ते संक्षीयमाणानि भूतानि मम तेजसा । पश्यन्नपि न मुञ्चामि क्षेत्रमेतत् सुखावहम् ॥ १४७. अपि मुञ्चामि कमलामपि मुञ्चामि वै क्षमाम् । नैव मुञ्चाम्यहं भक्तान् क्षेत्रमेतं च शाश्वतम् ॥ १४८. क्षेत्रमेतं न मुञ्चामि मामेतं च न मुञ्चति । प्रीतिर्भक्तेषु मे नूनं क्षेत्रेऽस्मिन् च तथाविधे ॥ १४९. द्विधा कृत्वाहमात्मानं वत्स्यामि जगदीश्वरः । स्थूलरूपमिदं क्षेत्रं मदीयं बोद्धुमर्हसि ॥ १५०. तदन्तर्ज्योतोषां राशिं विमलं काञ्चनप्रभम् । सूक्ष्मरूपमिदं विद्धि मदीयं भारर्तीपते ॥ १५१. कल्पे कल्पे परिद्यूनान् भक्तानिह वसन् अहम् । पालयिष्यामि सत्येन ज्ञानदानेन भूयसा ॥ १५२. तस्मादेवेह मां सर्वाः श्रुतयः सूक्ष्मया गिरा । भक्तप्रियं प्रशंसन्ति पुराणान्यपि पद्मज ॥ १५३. अद्य ते नादरूपेण कमलेन स्वयम्भुवा । दृष्टवानसि मां यस्मात् भूयात् तन्नामकं स्थलम् ॥ १५४. मत्प्रसादात् इदं विश्वं विधाय सचराचरम् । मामेवाराधयन् नित्यं शाश्वतीं भूतिमश्नुहि ॥ १५५. इत्थं मामनुशास्यादौ भगवान् लोकपावनः । स्तूयमानो मया भक्त्या तत्रैवान्तरधीयत ॥ १५६. ततोऽहमपि संप्राप्य विद्यां सर्गोपसाधनीम् । तमेव मनसाधाय भगवन्तमधोक्षजम् ॥ १५७. सृष्ट्वा चराचरं विश्वं स्वस्थो वत्स्याम्यहं मुने । नैवास्ति शक्तिर्मे विद्यामुपदेष्टुं तवाधुना ॥ १५८. तस्मात् त्वमपि विप्रेन्द्र तदेव क्षेत्रमुत्तमम् । संप्राप्य देवमाराध्य मुक्तो भवितुमर्हसि ॥ १५९. विन्ध्यात् दक्षिणभगे तु पूर्वे तु मलयाचलात् । ज्योतिषामयनं क्षेत्रं नादाम्भोरुहसंज्ञकम् ॥ १६०. यत्र देवा सगन्धर्वाः सिद्धाश्च परमर्षयः । उपासन्ते समागत्य भगवन्तं जगत्पतिम् ॥ १६१. यत्र वेदाश्च मन्त्राश्च मूर्तिमन्त उपासते । तत्क्षेत्रमध्ये कल्याणी ताम्रपर्णी सरिद्वरा ॥ १६२. सङ्गता याति सिद्धार्था सागरं सरितां पतिम् । यत्र बिन्दुमयी भूमिः तीर्थं चापि कलात्मिकम् ॥ १६३. अम्भोजहंसरूपेण सदाध्यास्ते हरिस्स्वयम् । तत्राभ्यर्च्य हरिं भक्त्या विधिना मुनयः पुरा ॥ १६४. तत्त्वज्ञानं हरेर्लब्ध्वा जीवन्मुक्ताः चरन्ति हि । तथैव राजर्षयः समभ्यर्च्यात्र केशवम् ॥ १६५. तरन्ति दुस्तरां मायां वैष्णवीं सुखभागिनः । बहुना किं मुनिश्रेष्ठ वक्ष्ये सारतरं वचः ॥ १६६. दधिमन्थात् इवानेकात् धैर्यं भवमशेषतः । चाण्डालाः च सुरापाः च पुल्कसाः च पुलिन्दकाः ॥ १६७. ये चान्येवात्र सङ्गत्य ज्ञानं विन्दन्ति केवलम् । तस्मात् त्वमपि विप्रेन्द्र गत्वा तत्क्षेत्रमुत्तमम् ॥ १६८. भजस्व परया भक्त्या ततो विन्दत्यभीप्सितम् । तीर्थं विष्णुपदं विद्धि तद्ध्यानं तीर्थमुत्तमम् ॥ १६९. तन्नामकीर्तनं तीर्थं तीर्थं तज्जनसङ्गमम् । ये च वै भगवत्भक्ताः संसक्ताः साधुचारिणः ॥ १७०. एते हि तत्त्वज्ञानस्य भागिनो नात्र संशयः । तत्र गत्वा त्वया ब्रह्मन् समभ्यर्च्य जनार्दनम् ॥ १७१. लङ्घ्यते वैष्णवी माया दुस्त्यजा देहिनां परा । इत्थं प्रसादमुपलभ्य विधेः प्रसन्नात् आधिं विहाय मनसो मलिनत्वहेतुम् । बद्धाञ्जलिस्तुति पिलालयन् सभायां स्वान्तं विभोर्मुनिवरो निरगात् नगेन्द्रात् ॥ इति सप्तत्रिंशोऽध्यायः । Pro.Total = 3070 + 171 = 3241.

अष्टत्रिंशोऽध्यायः

नादाम्बुजक्षेत्रे व्यासागमन म् । १. प्रणम्य तं समापृच्छ्य शिष्यैस्सह मुदान्वितः । निष्क्रान्तो ब्रह्मनगरात् हिमवन्तमुपागमत् ॥ २. तत्रापश्यत् वधूसङ्गं वसन्तं व्याकुलात्मकम् । व्रणरक्तपरीताङ्गं क्लिश्यमानमिवस्थितम् ॥ ३. ताः च दृष्ट्वा दयाविष्टो विस्मयोल्लासिमानसः । उपसृत्य च पप्रच्छ का यूयमिति कौतुकात् ॥ ४. व्यासः -- काश्च यूयं महाभागा रुजा जर्जरिता इव । किं च वः करणीयं मे वक्तव्यं यदि भण्यताम् ॥ ५. कन्यकाः -- व्यासं सत्यवतीसुनुं जानीमः त्वां मुनीश्वर । त्वदागमनतः प्रीताः कथयामः चिकीर्षितम् ॥ ६. यदप्सु मज्जनात् मर्त्यो मुच्यते सर्वकिल्बिषैः । ताश्च तीर्थमयाः पुण्याः गङ्गाद्या सरितो वयम् । ७. स्नात्वा स्नात्वाप्सु नो मर्त्याः त्यजन्त्यंहः सुदारुणम् । प्रयान्ति परमं स्थानमन्तर्बहिरकल्मषम् ॥ ८. सद्योत्सृष्टानि पापानि दूषयन्ति नः तनूः । तत्पापनाशनायाद्य यास्यामः क्षेत्रमुत्तमम् ॥ ९. यस्य दर्शनमात्रेण जन्तवो जगतीतले । विमुक्तपापाः गच्छन्ति तद्विष्णोः परमं पदम् ॥ १०. एषा गङ्गा तुङ्गभद्रा चैषा पुण्या कलिन्दजा । एतास्वेकत्र विन्दन्ति भुक्तिं मुक्तिं च मानवाः ॥ ११. तथाप्येता महापुण्याः तीर्थान्तरमनामयम् । सम्भूय परमं क्षेत्रं नादाम्बुजमुत्तमम् ॥ १२. गच्छन्त्यनादिनिधनमात्मपापानुनुत्तये । व्यासः -- अलं भवत्यो लोकानां सर्वपापप्रशान्तये ॥ १३. तथापि काङ्क्षा युष्माकं तीर्थान्तरनिषेवणे । स्मरणादेव पापघ्नी गङ्गा चैषां प्रशस्यते ॥ १४. किं पुनर्मज्जतां पुंसां कैवल्याद्यर्थसाधने । तथैव यमुना पुण्या हरिसायुज्यसाधनी ॥ १५. कवेरजा तीर्थमहो लोकानां भवभेषजाम् । या चैषा नर्मदा पूर्वं ब्रह्मलोकविहारिणी ॥ १६. सर्पाणां मातृशब्दानां स्मृता तच्छान्तिमातनोत् । तुङ्गभद्रा तथा चैषा श्रीशैलेशप्रियङ्करी ॥ १७. अस्यास्तु तीर्थलेशेन नृणां निर्वाणदः शिवः । तथैव चन्द्रभागाद्याः पुण्योदाः श्रुतिचोदिताः ॥ १८. अष्टादशपुराणानि पुण्यान्यासां प्रसङ्गतः । इत्थमभ्युदयार्थानां नदीनां स्रोतसामिह ॥ १९. पवित्रकरणं तीर्थं कुतो जागर्ति भूतले । एतद्विज्ञातुमिच्छामि कौतूहलकरं परम् ॥ २०. वक्तुमर्हत कल्याण्यो महानद्याः कृपात्मिकाः । एवं पृष्ठवति व्यासे कृष्णद्वैपायने मुनौ ॥ २१. गङ्गा सरस्वती प्राह व्यासं सत्यवतीसुतम् । गङ्गा -- श्रुणु त्वं वासवीसूनो वक्ष्यमाणं मयाधुना ॥ २२. पुरा विश्वमिदं सृष्ट्वा विधाता सचराचरम् । तथैव तेषु मर्यादां द्विधा चक्रे बृहस्पतिः ॥ २३. अधर्मम्ग्रे ससृजे ततो धर्मं सनातनम् । दैतेयादित्योः प्रादात् तौ चोभौ तत्र भागिनोः ॥ २४. अधर्मं प्राप्य दैतेया मूढा हृष्टा प्रतस्थिरे । देवाश्च धर्ममादाय गन्तुमेवोपचक्रमुः ॥ २५. धर्मलाभात् मदान्धानां देवानां च महात्मनाम् । करात् विगलितो धर्मः पपात हरिपादयोः ॥ २६. ततो देवाः समागम्य भ्रान्ताः विष्णुमतोषयन् । सोऽपि प्रसन्नो भगवान् देवदेवो जनार्दनः ॥ २७. धर्मं स्वपादयुगलात् ससृजे विश्वभूतये । सृज्यमानः तच्चरणात् चतुर्धा समजायत ॥ २८. तत् सत्यनामकं ज्येष्ठं द्वितीयं तीर्थनामकम् । तृतीयं क्रतुमाहुस्तत् चतुर्थं मन्त्रमुयते ॥ २९. सत्यां सुराणां वदने क्रतुं तेषां करे तथा । मन्त्रं चकार जिह्वायां तीर्थमङ्गेषु माधवः ॥ ३०. आह चैतान् हरिः प्रीत्या देवानां हितकाम्यया । सत्यमुख्याः तथा यूयं पापं हर देहिनाम् ॥ ३१. इत्युक्तवति वै देवे पुनः प्राहुः तदीश्वरम् । ससत्या इव शार्दूल कृताञ्जलिपुटाः पुरा ॥ ३२. वयं तदाशात् देहिनामघसन्ततिम् । नाशयिष्यामहे नूनं नात्र कार्या विचारणा ॥ ३३. कुत्र वा शुद्धिरस्माकं भूयात् विधीयताम् । एतत् श्रुत्वा वचो विष्णुः पुनः प्राह मुदान्वितः ॥ ३४. अत्राहं तीर्थरूपेण श्रेयसे जगतां सदा । वसामि ब्रह्मनिर्वाणं दर्शयन् सर्वदेहिनाम् ॥ ३५. यत्र सत्वकलाशक्तिर्मामकी परदेवता । मामेव तीर्थरूपेण ताम्राख्या समुपासते ॥ ३६. तदेतत् मामकं क्षेत्रं नादाम्बुजमितीरितम् । परमात्मेति सर्वत्र वेदेषु परिपठ्यते ॥ ३७. यत्र मां अर्चयिष्यन्ति सततं सकलाः कलाः । तत्र देवाः च मे नित्यं पादौ परिचरन्ति हि ॥ ३८. तत्र यूयं समागत्य सत्यमुख्याः समन्ततः । धूतपापाः भविष्यन्ति प्रत्यब्दं मत्प्रसादतः ॥ ३९. मदात्मके मार्गशीर्षे व्यतीपादेऽरुणोदये । तदा मज्जन्ति ये तत्र ते मुक्ता नात्र संशयः ॥ ४०. तत्र जप्तं हुतं दत्तं कृतं कोटिगुणं भवेत् । यूयं तस्मात् इहागत्य धूतपापाः भविष्यत ॥ ४१. इत्यादिष्टा भगवता सत्यमुख्या महामुने । स्थानानि भेजिरे सर्वे हरेरादेशकारिणः ॥ ४२. तदादि वयमन्ये च सत्यक्रतुपुरस्सराः । धूतपापाः भविष्यामः प्रत्यब्दं हरिदर्शनात् ॥ ४३. सूतः -- इत्युक्तः गङ्गायाः व्यासः ताभिस्साकं मुदान्वितः । संप्राप नादकमलं सच्चिदान्न्दलक्षणः ॥ ४४. ददर्श दूरतो व्यासः तेजःपुञ्जमिव स्थितम् । भगवन्तं वासुदेवं तिष्ठन्तं क्षेत्ररूपकम् ॥ ४५. कृताञ्जलिः केवलतत्त्वदर्शनं पदं हरेः प्राप्य परावरात् मनः । ददर्श तीर्थं परमं पुराणं स्थानं च साक्षात् प्रणवात्मकस्य ॥ ४६. विचार्य निपुणां बुद्धिं व्यासः सत्यवतीसुतः । तत्रैव विश्वकर्माणं सस्मार स्वर्गवर्धकिम् ॥ ४७. तावदाविरभूत्तस्य पुरस्तात् संप्रहर्षयन् । किं कृत्यमिति पप्रच्छ विश्वकर्मा मुनीश्वरम् ॥ ४८. अत्रैव देवदेवस्य विष्णोरभ्युदयात्मनः । मूर्तिं संस्थापयिष्यामि जन्तूनां दर्शनक्षमम् ॥ ४९. समानय भवानत्र विष्णोर्मूर्तिमकल्मषम् । इत्युक्तः तेन सहसा कृत्वा तां मुनये तदा ॥ ५०. शुभे मुहूर्ते देवस्य मूर्तिं संस्थाप्य मन्त्रतः । पूजयामास विधिना कलातीर्थेन माधवम् ॥ ५१. पुष्पैःच तुलसीपत्रैः धूपदीपादिभिस्तथा । तथैव परमान्नेन पूजयामास वै मुनिः ॥ ५२. तावत् व्योम्नि महानासीत् देवदुन्दुभिनिस्वनः । पुष्पवृष्टिः पपातोच्चैः देवमुक्ता नभस्थलात् ॥ ५३. देवाश्च ऋषयश्चैव तुष्टुवुस्तं मुनीश्वरम् । दिशः प्रसेदुर्वसुधा सानन्दां समजायत ॥ ५४. ततो मुनिः प्रसन्नात्मा शिष्यैः सह मुदान्वितः । तोषयामास विधिना देवदेवं जनार्दनम् ॥ ५५. एवं हरिं प्रतिष्ठाप्य् नादब्रह्मणि निर्मले । तत्रैव भगवान् व्यासः तपश्चक्रे सुदारुणम् ॥ ५६. देवस्य पश्चिमे भागे पीठे शारदसंज्ञिके । पर्णशालां शिवां कृत्वा तत्र वासमकल्पयत् ॥ ५७. कलातीर्थे कृतस्नातः तुरीयाश्रमधर्मतः । सर्वत्र पूजयामास तीर्थे बिम्बे च केशवम् ॥ ५८. ब्रह्माण्डे यानि तीर्थानि वर्तन्ते हरिशासनात् । तान्याजग्मुः तत्र तीर्थे आत्मपापानुनुत्तये ॥ ५९. सर्वतीर्थमयं तीर्थं दृष्ट्वा व्यासः कृताञ्जलिः । इमं मन्त्रं जजापोच्चैः तीर्थानां स्तोत्रमुत्तमम् ॥ ६०. नमोऽस्तु तीर्थराजाय हरिपादाब्जभूतये । त्वदम्भसाहमात्मानं क्षालयामि प्रसीद मे ॥ ६१. महामङ्गलदे मातः मलयाद्रिसमुद्भवे । दातुमर्हसि मे तीर्थं मज्जनात् मलिनापहम् ॥ ६२. माया मलयजा पुण्या ताम्रा मुक्ताफलप्रसूः । गौरी मरुद्वृधा गङ्गा शिवचूडा शिवोद्भवा ॥ ६३. सर्वतीर्थेडिता सत्या सर्वपापप्रणाशिनी । ज्ञानप्रदीपिका नन्दा हरिसायुज्यदायिनी ॥ ६४. षोडशैतानि नामानि ताम्राया मुनिपुङ्गवः । नित्यं स्नात्वा महातीर्थे देवर्षीनभिपूज्य च ॥ ६५. पूजयामास मन्त्रेण महापुरुषविद्यया । एवं पूजयतः तस्य वेदव्यासस्य धीमतः ॥ ६६. अत्यगुः क्रमशो विप्राः क्षणवत् शरदां शतम् । ततः कदाचित् उत्थाय प्रातः प्रयतमानसः ॥ ६७. विद्यातीर्थे च स स्नात्वा यात्रां कृत्वा यथाविधि । पूजयामास पुरुषं मन्त्रेणानेन मन्त्रवित् ॥ ६८. पूजान्ते नियतो भूत्वा कृताञ्ज्लिपुटः शुचिः । तुष्टाव देवदेवेशं स्तोत्रेण पुरुषोत्तमम् ॥ ६९. व्यासः -- नमःपरमशान्ताय निगमान्तःप्रबोधिने । नित्यानन्दरूपाय योगिने ब्रह्मणे नमः ॥ ७०. योऽसौ विभूतिभिः सर्वं आत्मदेहसमुद्भवैः । आवृत्य बहुधा भाति भूषणैरिव हाटकः ॥ ७१. नामानि यस्य पुण्यानि जपन्तः जन्तवः परम् । पदं गच्छन्ति कल्याणं नमस्तस्मै महात्मने ॥ ७२. ॐ नमो वासुदेवाय कृष्णाय परमात्मने । भक्तप्रियाय शान्ताय भक्तिमुक्तिप्रदायिने ॥ ७३. नमो नमःपङ्कजलोचनाय नमो नम;पङ्कजभूषणाय । भक्तप्रियायाखिललोकधाम्ने नमो नमो नादनवाम्बुजाय ॥ ७४. स्तुवतः तस्य भक्तस्य देवोऽप्याह कृताञ्जलेः । भगवान् -- प्रीतोऽस्मि मुनिशार्दूल व्रियतां यदभीप्सितम् ॥ ७५. व्यासः -- अभीप्सितं मे भगवन् तव पादाम्बुजद्वयम् । नान्यं वृणे श्रीनिकेतात् यातायातश्रमादहम् ॥ ७६. खिन्नोऽस्मि कर्मजालेन पङ्काक्रान्त इव द्विपः । तस्मात् अपारदुःखाब्धेः त्रातुमर्हसि मां प्रभो ॥ ७७. नानायोनिशतारण्ये धावमानो मुर्मुहुः । नान्तं पश्यामि भगवन् मृगवन्मृगतृष्णया ॥ ७८. त्वामखण्डपरानन्दं दुर्दर्शमपि योगिनाम् । दृष्ट्वा भूयो न शोचामि यथा कुरु तथा विभो ॥ ७९. श्री भगवान् -- मा शोचथाः विप्रेन्द्र हर्षं प्राप्नुहि वै चिरात् । मदाराधनयुक्तानां न हि बन्धनतो बलम् ॥ ८०. ये मां भजन्तः सततं भक्त्या परमया युताः । तेषां न जायते क्वापि पुनः संसृतिबन्धनम् ॥ ८१. ये मामनुकरिष्यन्ति ते मामायान्त्यसंशयम् । अन्तरात्मनि सर्वेषां मयि चित्तं निवेश्य तु ॥ ८२. प्रत्याहारपरो भूत्वा पश्य मां योगमुद्रया । सर्वद्वन्द्वसहः शान्तः सर्वत्र समदर्शनः ॥ ८३. मामेव पूजयात्मानमत्रैव ज्ञानविद्यया । दत्तं मया ते निर्वाणमन्ते विश्वस्य केवलम् ॥ ८४. एतन्मे परमं क्षेत्रं ये भजन्ति हि मानवाः । तेषां दर्शय मे मुद्रां मदीयां ज्ञान रूपिणीम् ॥ ८५. इत्युक्त्वा मुनिशार्दूलं देवदेवो जनार्दनः । दर्शयित्वा ज्ञानमुद्रां तत्रैवान्तरधीयत ॥ ८६. शङ्खः -- एवमन्तर्हिते देवे व्यासः सत्यवतीसुतः । अद्याप्यास्ते हरिं भक्त्या पूजयन् पुरुषोत्तमम् ॥ ८७. तस्मात् तत्क्षेत्रमाहात्म्यं वक्तुं वाचामगोचरम् । ज्ञानतोऽज्ञानतो वापि तत्क्षेत्रं यस्तु गच्छति ॥ ८८. तेषामज्ञानसम्भूतं बन्धनं नैव जायते । स्नात्वा कलशतीर्थमिदं हि जन्तुः सकृत् प्रपश्यत्यपि देवदेवम् । न याति मातुर्जठरीकरण्टं स मुक्त एवात्र न चिन्तनीयम् ॥ ८९. व्यासस्य साक्षात् अखिलात्ममूर्तेः गुरोरशेषस्य गुणैकधाम्नः । श्रुण्वन् गृणन् वापि कथामुदारामपास्तपापो भविताचिरेण ॥ इति अष्टत्रिंशोध्यायः । Pro.Total = 3241 + 89 =3330.

एकोनचत्वारिंशोऽध्यायः

रोमशतीर्थप्रस्तावः । १. शङ्खः -- तस्मात् ऐन्द्रीमवष्टभ्य दिशं किञ्चिददूरतः । रोमशाख्यं महातीर्थं दर्शनादघनाशनम् ॥ २. यत्तीर्थकणिकामात्रसंसर्गात् मुक्तबन्धनाः । तिर्यञ्चोऽपि प्रपद्यन्ते तद्विष्णोःपरमं पदम् ॥ ३. पुरा शार्ङ्गेण कथितां कथामाकर्ण्य रोमशः । अद्यापि न त्यजत्यद्धा तीर्थमाहात्म्यमित्यतः ॥ ४. तस्मात् तत्तीर्थसदृशं नास्ति तीर्थं विशिष्टता । मनुष्यत्वेऽपि दुष्प्राप्ये ज्ञानविज्ञानसाधने ॥ ५. नैव मज्जन्ति तत्रैव तरते ह्यात्मवञ्चिताः । अस्वाधीनमिदं विश्वं विधिना कर्मरूपिणा ॥ ६. विकृष्यते तत्र तत्र बद्ध्वा पाशैरिव ध्रुवम् । सुकृतं दुष्कृतं चैव कर्तुं नालं हि जन्तवः ॥ ७. स्वकृतैः सुकृतैरेव प्राप्नोति सुकृतं पुनः । तथापि यत्नः कर्तव्यः धर्मे बुद्धिमता सदा ॥ ८. यतमानाः प्रपद्यन्ते पुण्यतीर्थानि मानवाः । नान्यथा लभ्यते कल्पकोटिभिः चाल्पतेजसा ॥ ९. राजा -- भगवन् का कथा तेन कथिता शार्ङ्गपक्षिणा । कथां शुश्राव भगवान् रोमशः कुत्र वा मुनिः ॥ १०. तत्राश्रमपदं चक्रे स्वावासाय कथं पुनः । एतत् सर्वमशेषेण वद विस्तरतो मम ॥ ११. इति पृष्टो मुनिस्तेन शङ्खयोगी महीपतिम् । सम्भाव्य भूयो राजानं व्याजहार कथामिमाम् ॥ १२. शङ्खः -- श्रुणु राजन् प्रवक्ष्यामि कथां शुश्रूषवे तव । पुरा कदाचित् भगवान् रोमशः तपसां निधिः ॥ १३. सह शिष्यैः सिद्धगणैः अन्यैः चापि महात्मभिः । ब्रह्मलोकात् विनिष्क्रम्य मेरुमाप महीधरम् ॥ १४. तत्र गन्धवती नाम वायोरुद्यानवाटिका । काञ्चनैः कदलीषण्डैः महामाणिक्यपादपैः ॥ १५. सुधासदृक्षपानीयैः तप्तहाटकपङ्कजैः । महीसोपानसम्पन्नैः वपीकूपजलाशयैः ॥ १६. सर्वर्तुसम्पदोल्लासिमन्दमारुतमञ्जुलैः । अविमुक्तमहाभाग्यैः महामरकतस्थलैः ॥ १७. सर्वार्तिशान्तिसामग्रीं दर्शयन्तीमिवस्थिताम् । नानापक्षिगणाकीर्णां नानासिद्धनिषेविताम् ॥ १८. तां प्रविश्य महोद्यानवाटीं वातैकपालिताम् । मधुद्रवासरस्तीरे रसालतरुमूलके ॥ १९. वासं चकार भगवान् विश्रमाय महामुनिः । तमेनमुपतस्थुस्ते योगिनो योगवित्तमाः ॥ २०. कथयन्तः कथाः चित्राः तोषयन्तः परस्परम् । तत्रान्तरे महाराज कोऽपि काञ्चनसन्निभः ॥ २१. नभः प्रकाशयन् भासा विहगः प्रत्यदृश्यत । पीतलोहितनीलाभान् स्वपक्षान् विक्षिपन् मुहुः ॥ २२. अखण्डचित्रकलनमम्बरे कलयन् इव । परस्परं समाबद्धचरणाः विस्तृतच्छदाः ॥ २३. पक्षिस्वनैः स्वपक्षीयान् आह्वयन्तीव सादरम् । तं विलोक्य समायान्तं तत्रत्याः तादृशाः खगाः ॥ २४. उपगम्य सुसम्भ्रान्ताः पक्षैः संश्लिष्य सौहृदात् । तरुस्कन्धे समानीय परितः तं व्यतस्थिरे ॥ २५. उपविष्टं सुविश्रान्तं प्रेम्णा वचनमब्रुवन् । पक्षिणः सखे सुहृत्तमान् विहायानुचरान् इमान् ॥ २६. कुत्र यातः किमर्थं वा कथयस्व महामते । सुकुमारं वपुः केन परिम्लानमिदं तव ॥ २७. चन्द्रशीतमिदं गात्रं सोष्मलं केन हेतुना । इति पृष्टःसुहृद्भिः तैः स पक्षीपक्षिपुङ्गवैः ॥ २८. स्ववृत्तान्तं यथातत्त्वं व्याजहार महीपते । रे रे सुहृत्तमाः किञ्चित् आश्चर्यं चरता महीम् ॥ २९. दृष्टं मया तद्वक्ष्यामि श‍ृण्वन्तु विगतज्वराः । यत्र चन्दनशैलेन्द्रशिखरात् निर्गता नदी ॥ ३०. ताम्रपर्णीति विख्याता सर्वपापापहारिणी । वहते कुम्भजमुनेः प्रसादात् दक्षिणापथे ॥ ३१. यदम्बुपरिणामेन जायन्ते मणयः परम् । यत्तोयकणिका पानादपि कीटोद्भिज्जातयः ॥ ३२. गच्छन्त्यपुनरावृत्तिं तद्विष्णोःपरमं पदम् । तत्र काचन भीमाक्षी राक्षसी विकृतानना ॥ ३३. पक्षिपक्षावधूतेन तत्तीर्थजलबिन्दुना । विहाय देहं विकृतं राक्षसं भीमदर्शनम् ॥ ३४. स्पृहणीयं त्रिजगतां प्राप्य नारीवपुःक्षणात् । विमानवरमारूढा गच्छन्ती गगनाङ्गणे ॥ ३५. दृष्टा सम्भाषिता चापि विस्मयेनान्तरात्मना । तदेतदद्भुतं वक्तुं युष्माकं सुहृदामहम् ॥ ३६. इतः परं हि गन्तव्यमस्माभिः सह बन्धुभिः । तत्तीर्थवरमाप्लुत्य यास्यामि परमां गतिम् ॥ ३७. कालातिपातो न कर्तव्यः गन्तव्या दक्षिणाहरित् । द्रष्टव्यो मलयः शैलः सेवितव्यो घटोद्भवः ॥ ३८. ताम्रपर्णी धर्मतोया सेव्या सर्वमणिप्रसूः । इति ब्रुवति पक्षीन्द्रे सानन्दो रोमशो मुनिः ॥ ३९. शुश्रूषुः तत्कथां पुण्यामुपसृत्य तदन्तिकम् । सम्भाव्य वाचा विहगमभ्यभाषत हृष्टवत् ॥ ४०. रोमशः -- रे रे विहङ्गममणे सद्गुणामृतवारिधे । धर्मैकबुद्धिर्मय्येव यथाब्धौ रत्नसन्ततिः ॥ ४१. त्वां मन्ये सत्कुलोद्भूतं त्वामेव तपसां निधिम् । विधेः अन्तःपुरं किन्तु विन्यस्तं ते मुखाम्बुजे ॥ ४२. सुस्पष्टवर्णता वाचि कान्तिर्वपुषि तैजसः । आर्जवं च दयाचित्ते द्विजमुख्यत्वशंसिनी ॥ ४३. भस्मच्छन्नं वह्निमिव त्वां मन्ये मुनिसत्तमम् । केन कर्मविपाकेन तिर्यक्त्वं प्रापितो भवान् ॥ ४४. नामकर्मकृताचारान् तव तत्त्वेन साम्प्रतम् । ज्ञातुमिच्छामि सौहार्दात् पूर्यतां मे मनोरथः ॥ ४५. वक्तव्यं यदि मा कालविलम्बोऽस्तु विहग्गम । कुत्र दृष्टं त्वया पुण्यं तीर्थं श्रेयस्करं परम् ॥ ४६. का वा निशाचरी मुक्ता महापातकबन्धनात् । सम्भाषिता तया देवगतिं संप्राप या कथा ॥ ४७. मदर्थं सकलं व्यक्तमाख्याहि विहगोत्तम । इति पृष्टो मुनीन्द्रेण तथा पक्षी विचक्षणः ॥ ४८. उद्धूय पक्षिमूर्धानमानमय्य स्फुटेक्षणम् । उत्क्षिप्य दक्षिणं पादं व्याजहार स पक्षिराट् ॥ ४९. पक्षी -- भगवन् श्रूयतां वक्ष्ये मद्वृत्तान्तमशेषतः । भगवन् विश्ववृत्तान्तवेदिना भवताततम् ॥ ५०. अनुशिष्टः प्रवक्ष्यामि पुनरुक्तमिव द्विज । पुरा शरद्वान् नामाभूत् वैश्वानरकुलोद्भवः ॥ ५१. अर्चिष्मान् इति विख्यातो वेदवेदाङ्गपारगः । तपसामेकमयनं सम्पदामेकमाश्रयम् ॥ ५२. आहर्तारं क्रतूनां च वक्तारं च वेदशास्त्रयोः । यमेनं सूरयो विप्राः स्तुवन्ति गुरुगौरवात् ॥ ५३. ज्वालावत्यां धर्मपत्न्यां तपसा सप्तसूनवः । मित्रोऽरिष्टः कविस्सन्धिः अर्चिष्मान् रोषणःक्रतुः ॥ ५४. सप्तैते लोकविख्याताः वेदवेदाङ्गपारगाः । क्रमात् गुरुकुले वासं कुर्वन्तो गौतमाश्रमे ॥ ५५. निर्ययौ बहुलः कालः अस्खलत् ब्रह्मचारिणः । एतस्मिन् अन्तरे ब्रह्मन् गुरुरस्मान् समादिशत् ॥ ५६. पञ्चलक्षादिकान्तु गवां संरक्षणाय वै । मेरुसानुषु रम्येषु तृणतोयसमृद्धिषु ॥ ५७. वयं गृहीत लगुडाः सन्नद्धास्तु पदे पदे । वारयन्तो महासत्वान् सिंहशार्दूलस्खादिकान् ॥ ५८. घृतक्षीरादिपानेन गुर्वादिष्टेन जीविताः । हायनानां शतं साग्रं क्रमादेवं हि यापितम् ॥ ५९. तदा जगत्क्षोभकरी प्राणिप्राणापहारिणी । अनावृष्टिरभूत् घोरा सागस्यापि शोषिणी ॥ ६०. निस्तोया पृथिवी जाता विशीर्णतृणवीरुधा । क्षुधासंक्षुण्णसर्वाङ्गाः पतिता जीवकोटयः ॥ ६१. क्षीराभावात् मृता वत्साः वत्सतर्यः ततस्ततः । निर्वीर्या वृषभाः जाताः सह गोभिर्महीतले ॥ ६२. गोकुले व्याकुले चैव वयमाहारवर्जिताः । विमृश्य बुद्ध्या कर्तव्यमुपायं प्राणधारणम् ॥ ६३. मृतान् मृतान् प्रत्यहं हि समानीय पशून् वयम् । विधिना तेन मांसेन श्राद्धं कृत्वा दिने दिने ॥ ६४. तच्छेषेणैव जीवन्तः स्थिताः तत्रैव निर्वृताः । समास्वेवं वर्तमानाः स्वायुषः क्षयगैरवात् ॥ ६५. महाव्यालपरिप्लुष्टाः युगपत् पञ्चतां गताः । यमस्य सदनं नीताः किङ्करैः तीव्रकारिभिः ॥ ६६. ततो राजा यमो दृष्ट्वा धर्मज्ञोऽस्मान् समागतान् । चित्रगुप्तादिभिः सभ्यैः समालोच्य मुहुर्मुहुः ॥ ६७. उवाचास्मान् भयाविष्टान् वाचा भेरीगभीरया । यमः -- भोः भोः सत्कुलसम्भूताः ह्यधीतसकलागमाः ॥ ६८. निर्णीताशेषधर्माः च कृतवन्तो जुगुप्सितम् । तथापि श्रद्धया श्राद्धं सम्यगाचरितं पुनः ॥ ६९. ततो गोमांसभक्षाणामवाप्तपितृतोषिणाम्(दोषिणाम्) । अथ जातव्यमधुना न पश्यामः क्षणान्तरे ॥ ७०. तस्मात् युष्माकमाप्तानां भ्रातॄणां सप्तवारकम् । तिर्यग्योनिमुपागम्य भोक्तव्यं कर्मणः फलम् ॥ ७१. तथापि पितृपूजायाः प्रभावात् ब्रह्मसंस्मृतिः । अस्तु त्रिकालविज्ञानविमला बुद्धिरक्षया ॥ ७२. जन्मद्वये चक्रवाकाः चतुर्वारं मृगायने । अन्ते शार्ङ्गत्वमासाद्य ब्रह्मज्ञानपरायणाः ॥ ७३. रोमशस्य ऋषेस्सङ्गात् महातीर्थावगाहनात् । अक्षयं परमं स्थानमन्ते गच्छत मा चिरम् ॥ ७४. इत्थं धर्मेण वै राज्ञा समादिष्टाः वयं मुने । अनुभूय क्रमात् योनिं शार्ङ्गं प्राप्ताः सुदुःखिनः ॥ ७५. चिरमाकाङ्क्षितं भाग्यं क्रमात् युष्मात् समागतम् । त्वदङ्घ्रिपङ्कजध्याननिर्धूताशेषकल्मषाः ॥ ७६. प्राप्स्यामः परमां सिद्धिं सुधां लब्ध्वामरा इव । एतावत् अनुभूतं यत्कर्मजातं महामुने ॥ ७७. तदशेषं समाख्यातं त्वदाज्ञागौरवादिह । ततः परं वक्ष्यामि यन्मे दृष्टं च कौतुकम् । समाकर्णय विप्रेन्द्र सावधानेन चेतसा ॥ इति एकोनचत्वारिशोऽध्यायः । Pro.Total = 3330 + 77 =3407.

चत्वारिंशोऽध्यायः

तत्र प्रस्थान म् । १. शङ्खः -- कथयित्वात्मवृत्तान्तं तथ्यमित्थं स पक्षिराट् । भूयः कलिमलापायकलनैकविनोदनीम् ॥ २. कथां कन्दलयामास रोमशाय महात्मने । किञ्चित् चञ्चलयन् मौलिं विधून्वन् पक्षिपालिकाम् ॥ ३. उद्धृत्य दक्षिणं पादं व्याजहार मुनीश्वरम् । पक्षी -- श्रुणु ब्रह्मन् प्रवक्ष्यामि दृष्टं मे कौतुकं हि यत् ॥ ४. प्रसादचन्द्र नामाभूत् पाण्ड्यदेशे महीपतिः । आस्थानमागमस्थानमावासं सर्वसम्पदाम् ॥ ५. त्रय्याः सङ्केतसदनं सिन्धुः सौन्दर्यसम्पदाम् । यं प्रशंसन्ति गन्धर्वाः वसुधावासवं मुहुः ॥ ६. यत्कोदण्डगुणक्वाणश्रवणात् अरियोषिताम् । निष्पतन्ति परित्रस्ता गर्भा निर्भरबिन्दवः ॥ ७. धर्मज्ञः वदान्यः च युवा पञ्चास्यविक्रमः । स राजा महतींं कृत्स्नां भारती दिग्जिगीषया ॥ ८. परिक्रम्यादाय भूपेभ्यो धनमादाय पुष्कलम् । मणलूरुपुरं प्राप सैन्येन महता वृतः ॥ ९. तत्र तत् वृत्तमाकर्ण्य नागराजो मणिध्वजः । परिभूतः शत्रुसङ्घैः तमेनं शरणं ययौ ॥ १०. तमागतं पूजयित्वा पाण्ड्यनाथो यथोचितम् । प्रसाद्य वाचा नागेन्द्रं व्याजहार सकौतुकम् ॥ ११. प्रसादचन्द्रः -- कस्त्वं सखैरेभिः समागमनकारणम् । त्वयानीतेन रत्नेन लोकमूल्येन भूयसा ॥ १२. प्रीतोऽस्मि नितरां साधो कथयस्व मनीषितम् । ये मामुपागताः प्रीत्या काङ्क्षन्तःस्वमहोदयम् ॥ १३. तेषां शतगुणं कामं दास्ये कल्पतरुर्यथा । तस्मात् कथय तत्त्वेन काङ्क्षितं कैतवं विना ॥ १४. इति पृष्टो महीपेन प्रसन्नेन्द्रियचेतसा । स भोगिराजः प्राहेदं प्रशस्य जगतीपतिम् ॥ १५. नागराजः -- महाराज सखे सर्वजनतातापापनोदन । त्वयि चित्रं न पश्यामि वदान्यत्वं महोदयम् ॥ १६. शीतलत्वं निशानाथे प्रतापत्वं दिवाकरे । उत्तुङ्गता महामेरौ गम्भीरत्वं महोदधौ ॥ १७. वाग्मिता गीष्पतौ नित्यं वदान्यत्वं सुरद्रुमे । त्वयि सर्वगुणावासे कथं स्तोतुमिहोत्सहे ॥ १८. विचार्य सुचिरं बुद्ध्या निश्चितार्थोऽहमागतः । लब्धमनोरथास्सर्वे पूर्णा मे सम्पदः स्थिराः ॥ १९. त्वदाननेन्दुसान्निध्ये मयि तापः कुतो भवेत् । श्रुणु राजन् प्रवक्ष्यामि मदागमनकारणम् ॥ २०. जातिसामान्यवैरी च वैनतेयः खगेश्वरः । अस्मासु बन्धुतां यातः शेषराजसुहृत्तया ॥ २१. अकारणविरोधेन बाधते डम्भकोऽसुरः । उधूटकस्य दैत्यस्य कन्या कनकसुन्दरी ॥ २२. रूपसौन्दर्यवैदुष्यवीर्ययौवनवत्तया । तत्पुत्रं शारदं नाम्ना भर्तारमवृणोत् प्रिया ॥ २३. उद्वाहमङ्गले तत्र सुहृज्जनसमागमे । असूयानिर्भरः पापी सङ्ग्रामाय समाह्वयत् ॥ २४. तेनातिबलिना युद्धे वयं सर्वे पराजिताः । त्वयि सौख्यं हि मन्वानाः त्वयि निश्चितमानसाः ॥ २५. इतः परं महाराज कर्तव्यं सुविचार्यताम् । इत्युक्तवति वै तस्मिन् भुजङ्गे शरणागते ॥ २६. प्रसादचन्द्रो भूपालः प्रहसन् वाक्यमब्रवीत् । राजा -- मा भैष्ट यूयं भोगीन्द्र भवन्तु स्थिरचेतसः ॥ २७. व्यसनं तेऽपकर्षामि नीहारमिव भानुमान् । अद्य तं नाशयिष्यामि दानवं पापचेतसम् ॥ २८. इत्युक्त्वा रथमारुह्य सर्वगं मेरुसन्निभम् । अकुण्ठितमहावेगैरश्वरत्नैरलङ्कृतम् ॥ २९. महाकार्मुकतूणीरशक्तितोमरमुद्गरैः । सन्नद्धः कवची खड्गी प्रायात् तेन रसातलम् ॥ ३०. सर्वतः काञ्चनाकारा मही माणिक्यशर्करा । महाभाग्यसुसम्पूर्णा स्वर्गादपि गरीयसी ॥ ३१. नन्दनादिकसौभाग्यरुद्यानैः मधुगन्धिभिः । महादानवसङ्घातैः महाभोगीन्द्रमन्दिरैः ॥ ३२. कीडन्तीभिर्वधूभिश्च समन्तादुपशोभितम् । तत्र गङ्गमुखी नाम नगरी काञ्चनारुणा ॥ ३३. यस्यां रत्नप्रभाजालैः न जानन्ति तमः कलाम् । मणिप्राकारवलया महादानवसमाकुला ॥ ३४. निर्मदाख्येन दैत्येन पालितां बलशालिना । तं बभञ्ज महाबाणैराशीविषोपमैः ॥ ३५. रुद्रदत्तवरः श्रीमान् अभेद्यकवचो युवा । तत्र युद्धे महाघोरे जिगायारीन् समागतान् ॥ ३६. तत्र कोटिसहस्राणि दानवानां महौजसाम् । यामार्थेनैव वीरेण सर्वान् जित्वा महामुने ॥ ३७. तद्दृष्ट्वा कर्मभूपस्तु दुष्करं भुवनत्रये । महाबलिमुखास्सर्वे तेन सख्यं वितेनिरे ॥ ३८. तैर्महादानवैसौख्यं प्राप्य रत्नैर्महाधनैः । प्रसादचन्द्रः सन्तुष्टः सुहृदं प्रीतिवर्धनम् ॥ ३९. मणिध्वजं स्थापयित्वा स्वस्थाने सह सम्पदा । तमामन्त्र्य यथान्यायं मित्रानामन्त्र्य दानवान् ॥ ४०. प्रतिप्रयाते भूपाले स्वपुरीं तु जयश्रिया । अनुव्रज्यानुरागेण प्राहैनं मणिध्वजः ॥ ४१. महाराज सखे किञ्चित् कर्तव्यं मम विद्यते । सफलं तु करिष्याद्य सानुरागेण चेतसा ॥ ४२. कन्याः चतस्रः कल्याण्यो वर्तते मम वेश्मनि । तासु शेषगुणाभिख्यां विद्यास्वेकतमां प्रियाम् ॥ ४३. अङ्गीकुरु महालक्ष्मीमनुरूपामिव प्रभो । इत्याकर्ण्यानुरागेण तथास्त्वित्यनुमान्य ताम् ॥ ४४. स्वराजधानीं संप्राप्ते ते राज्ञि प्राज्ञो मणिध्वजः । सपुत्रबन्धुः सामात्य सह कन्याजनेन च ॥ ४५. सहानीत महाराज सर्वभोगसमृद्धिमान् । तमभ्यर्च्यागतं स्निग्धं सवाहनपरिच्छदम् ॥ ४६. सुमुहूर्ते सुनक्षत्रे समादिष्टे पुरोधसा । विवाहोद्यमं चक्रे राजा विहितकौतुकः ॥ ४७. समागतेषु सर्वेषु ज्वलत्यपि हुताशने । मणिध्वजः स्वतनयामलङ्कृत्य महाधनैः ॥ ४८. सहसैव समारेभे सहिरण्योदपूर्वकम् । तावत् कन्याप्यदृश्याभूत् विद्युन्मेघान्तरे यथा ॥ ४९. हा हेति किञ्चिदालभ्य धैर्यचित्तो मणिध्वजः । द्वितीयां दातुमारेभे सापि कन्या तिरोदधे ॥ ५०. तृतीया तुरीया क्वापि नष्टेव जनसंसदि । ततः शुशोच नागेन्द्रः राजाभ्यन्तरशोचत ॥ ५१. महाकष्टमिति वाचाटा सा सभाभूत् भयाकुला । चिन्ताक्रान्ते महीपाले नागेन्द्रे शोकसम्प्लुते ॥ ५२. तावदाविरभूत् व्योम्ना नारदः तपसां निधिः । प्रसादचन्द्रः तं दृष्ट्वा समुत्थाय निजासनात् ॥ ५३. प्रणम्य पूजयित्वैनं विस्मितो वाक्यमब्रवीत् । स्वागतं ते महायोगिन् सर्वसंशयनाशन ॥ ५४. त्वदङ्घ्रिपङ्कजप्राप्त्या कृतकृत्योऽस्मि साम्प्रतम् । अभ्युत्थानमिदं सर्वं मन्वानाः चित्रदर्शनम् ॥ ५५. अस्पन्दतारकेणाक्ष्णा प्रतीक्षन्ते समन्ततः । पुराकृतानां तपसां पचेलिमतया मुने ॥ ५६. मन्ये त्वद्दर्शनं भूयो जात्यन्धस्य यथा मणिः । किं कर्तव्यं यथा ब्रह्मन् कैङ्कर्यं पदपद्मयोः ॥ ५७. मयि प्रसीद ब्रह्मर्षे कर्तव्योऽनुग्रहः तथा । इत्यञ्जलिपुरोत्तंसमौलिना व्याकुलात्मना ॥ ५८. प्रार्थ्यमानो मुनिः प्राह राजानं तत्र संसदि । सैषा परिष्कृता संसद् चक्राकारो व्यतिष्ठत ॥ ५९. इत्थं मुनीन्द्रागमनोत्सवेन तरङ्गितानन्दसुधाशयानाम् । समागतानां हृदयं जनानां ब्रह्मानुभूत्येव समाधिभाजाम् ॥ इति चत्वारिंशोऽध्यायः । Pro.Total = 3407 + 59 =3466.

एकचत्वारिंशोऽध्यायः

रोमशतीर्थवैभववर्णन म् । १. पक्षी -- तपोधन महाभाग समाकर्णय सादरम् । वक्ष्यमाणं महाख्यानं श‍ृण्वतां विस्मयावहम् ॥ २. ईदृशे जनसम्मर्दे परमानन्दनिर्भरे । सम्भाव्य वाचा राजानं व्याजहार स नारदः ॥ ३. महराज मनस्येवं मा चिन्तां कुरु शोकताम् । त्वयि चिन्तापरे भोगिराजे व्याकुलचेतसि ॥ ४. जनेषु कथ्यमानेषु विस्मितेषु ततस्ततः । समागतोऽहं कैलासात् तव हर्षविधित्सया ॥ ५. श्रुणु वृत्तान्तमाश्चर्यं सहेतुकमिदं वचः । पुरा श्रुतिवरूधस्य तनया कापि कर्कशा ॥ ६. गण्डूलका नाम पत्नी बभूव सुमतेर्मुनेः । धनकामा लुब्धचित्ता शुश्रूषन्ती पतिं गृहे ॥ ७. निनाय बहुलं कालं धनकामेन चेतसा । कदाचित् तद्गृहे बालो मणिकाञ्चनभूषणः ॥ ८. तनयः कुरुविन्दस्य महर्षेर्भावितात्मनः । फलैर्भक्ष्यविशेषैश्च तोषयित्वा तमर्भकम् ॥ ९. स्वान्तर्गृहं समानीय हत्वा जग्राह भूषणम् । अनभिज्ञातः परैश्चैनं गर्ते चिक्षेप दुर्भगा ॥ १०. तन्माता जनकश्चैव भ्रमन्तो विपिनान्तरे । नदी कच्छेषु गुल्मेषु विवरेषु ततस्ततः ॥ ११. आह्वयन्तौ सुतं बालं ब्रुवन्तौ नाम तस्य तु । बान्धवैः च परिभ्रम्य चिरकालं महीपते ॥ १२. क्वाप्यलब्ध्वा पुनर्गेहं प्राप्य पत्न्या समन्वितः । उपतस्थे दिनेशानं तं जिज्ञासुर्विधानवित् ॥ १३. तावत् तयोः समाचष्ट ब्राह्मण्याभिहितं रविः । ततः शाशाप कोपेन मुनिर्देवस्य सन्निधौ ॥ १४. या बालकं मत्तनयं निजघानार्थकामुकी । सैषा चिरतरं कालं भवित्री पुरुषादिनी ॥ १५. घोररूपा निराहारा प्राणिप्राणापहारिणी । शोकस्यान्तमपश्यन्ती क्षुत्क्षान्ता चरतु ध्रुवम् ॥ १६. इत्थं शप्त्वा मुनिः कोपात् सभार्यः स्वाश्रमं ययौ । सैषा कण्डूलका तावत् अपहाय निजं वपुः ॥ १७. भूव दुर्भगाकारा राक्षसी घोरदर्शना । नागायुतबलोत्साहा नीलकुञ्चितमूर्धजा ॥ १८. पद्भ्यां तालप्रमाणाभ्यां भुजाभ्यां भयदर्शिनी । निजगेहात् विनिष्क्रम्य ताम्राया दक्षिणे तटे ॥ १९. अद्यापि वसते सर्वप्राणिप्राणापहारिणी । अज्य्या सर्वलोकानां सर्वेषामप्यसंशयम् ॥ २०. तया शापोपहतया बाधिताः मुनयः सुराः । त्वां मन्यमानाः त्रातारं नारायणमिवापरम् ॥ २१. तवोद्वाहान्तरालस्य कारणत्वमुपागताः । त्वदग्रे किल वर्तन्ते मायच्छन्ना हि ताः स्त्रियः ॥ २२. यदासौ राक्षसी नाशं नीयते भवता विभो । भविष्यन्ति ततः प्रीताः देवाश्च मुनयः परे ॥ २३. तव श्रेयांसि भूयांसि भविष्यन्ति न संशयः । ब्रह्मविष्णुमुखास्त्वां वै तोषयन्ति सम्पदा ॥ २४. ताश्च कन्याः समुद्वाह्य चिरं जीवितुमर्हसि । पक्षी -- इत्थं निशम्य वचनं महर्षेः भावितात्मनः ॥ २५. प्रसादचन्द्रः भूपालः तं प्रणम्य मुनीश्वरम् । तथेति समुपामन्त्र्य सभ्यान् अन्यान् च भूसुरान् ॥ २६. आरुरोह रथं दिव्यं कामगं पुष्पकोपमम् । जगाम तीरं ताम्रायाः यत्रास्ते सा निशाचरी ॥ २७. नीलाञ्जनशिलाकारां गर्जन्तीं घनसन्निभाम् । निजघनेषुणा राजा वज्रेणैव शतक्रतुः ॥ २८. तद्बाणभिन्ना हृदयात् स्रुवन्ती रुध्रं बहुः । निपपात महातोये ताम्राया भीमराविणी ॥ २९. तत्तीर्थसङ्गभूतायाः राक्षस्याः पश्यतां नृणाम् । उत्पपात महत्तेजो व्योम्ना निर्भित्य मस्तकम् ॥ ३०. अपूर्वभूतरूपाङ्गी नारीकुलमतल्लिका । पूज्यमाना देवगणैः सिद्धगन्धर्वकिन्नरैः ॥ ३१. विमानवरमारुह्य प्रययौ ब्रह्मणः सभाम् । अनुयाताय मे सर्वं निजवृत्तान्तमद्भुतम् ॥ ३२. कथयित्वा पुनः प्रायात् भानुभास्वरवर्चसा । देवताभ्यो वरं प्राप्य पूजिताश्च यथोचितम् ॥ ३३. स्वराजधानीं प्रययौ भोगिराजमुखैर्नृपः । ताश्च कन्याः समुद्वाह्य मणलूरुपुरेश्वरः ॥ ३४. वसते तत्र राजर्षिः श्रिया कीर्त्या समुज्ज्वलन् । एतत् वृत्तान्तमालोक्य हर्षमाणोऽहमागतः ॥ ३५. भ्रातृभ्यः कथितं ब्रह्मन् तीर्थमाहात्म्यमुत्तमम् । ताम्रादर्शनमाहात्म्यसम्भिन्नाशेषपातके ॥ ३६. मयि प्रसादमादातुमागतोऽसि महामुने । इतः परं न शोचामि वयं येनेह कर्मणा ॥ ३७. तदनुष्ठाय भगवन् पाहि नः पापसञ्चयात् । इति पक्षिमुखात् प्राप्तां कथामाकर्ण्य रोमशः ॥ ३८. विस्मयं परमं प्राप सह सर्वैर्महर्षिभिः । अभिनन्द्य महादेवीं साञ्जलिं मलयात्मजाम् ॥ ३९. आनन्दसान्द्रहृदयः तूष्णीं क्षणमतिष्ठत । बहुमान्य पुनः शार्ङ्गं सान्त्वयानं कथामृतैः ॥ ४०. तैश्च साकं मुनिगणैः पक्षिभिश्च समन्वितः । प्रतस्थे दक्षिणामाशां दिदृक्षुर्मलयात्मजाम् ॥ ४१. अतीत्य महदध्वानमम्बरेणैव वर्त्मना । आससाद महातीर्थं ताम्रायाः परमाद्भुतम् ॥ ४२. यत्र मुक्तिमवापैषा राक्षसी तीर्थमज्जनात् । तत्र स्नानं चकारासौ सह सिद्धैश्च पक्षिभिः ॥ ४३. तेषां तीर्थं ददौ प्रीत्या शार्ङ्गाणां मन्त्रभावितम् । विधिना तेन मुनिना स्नापितः पक्षिणः तथा ॥ ४४. अपहाय महद्घोरं तिर्यक्रूपमशोभनम् । दिव्यं वपुः समासाद्य पूज्यमानाः सुरासुरैः ॥ ४५. तं प्रणम्य मुनिश्रेष्ठं स्तुत्वा स्तोत्रैरनेकशः । अनुज्ञाता मुनीन्द्रेण विमानमधिगम्य तु ॥ ४६. प्रययुः ब्रह्मसदनं पुनरावृत्तिवर्जिताः । सर्वे देवगणाः सिद्धैः पुष्पवृष्टिमुचो दिवि ॥ ४७. स्तुवन्तो रोमशमुनिं नमस्कृत्य महामुनीन् । उपस्पृश्य महातीर्थं प्रययुः स्वपदान्यमी ॥ ४८. तेषु तेषु प्रयातेषु सिद्धेषु च सुरेष्वपि । तत्रैव श्रद्धया भक्त्या विदधे वसतिं मुनिः ॥ ४९. व्यासाश्रमात् पूर्वभागे ताम्रायाः दक्षिणे तटे । महालिङ्गं प्रतिष्ठाप्य शाम्भवं मुक्तिसाधनम् ॥ ५०. पूजयामास विविधैः स्तोत्रैः वेदान्तगर्भितैः । तत्रेऽपि किञ्चित् पुरतः स्थाप्य नारायणं विभुम् ॥ ५१. तत्रापि पूजयामास येन प्रीतोऽभवत् विभुः । उभयत्राप्यहरहः त्रिवारं मुनिरर्चयन् ॥ ५२. तपः चचार परमं शरदामयुतत्रयम् । अवाप परमां सिद्धिं शम्भोर्विश्वम्भरादपि ॥ ५३. तदन्तरे प्रशस्तानि तीर्थानि च महीपते । स्नानसंस्पर्शनध्यानदर्शनान्मुक्तिदान्यपि ॥ ५४. शिवस्योत्तरभागे तु तीर्थं रोमशसंज्ञितम् । यत्र पूर्वं मृकण्डुश्च जनेऽपि निमज्जनात् ॥ ५५. अवाप परमां सिद्धिमशेषजनपूजिताम् । तदग्रे भृगुतीर्थं च तत् पूर्वे शापमोचनम् ॥ ५६. अनयोश्चापि माहात्म्यं वक्तुं वाचामगोचरम् । ततोऽपि किञ्चित् पुरतो हरेरुत्तरतो महत् ॥ ५७. तच्चापि रोमशं तीर्थमशेषौघाघनाशनम् । यत्र ब्रह्मा गुरोः तस्मात् ब्रह्मज्ञानमवाप्तवान् ॥ ५८. तस्मात् तां महिमां राजन् वक्तुं वर्षशतैरपि । न शक्यं शङ्करेणापि किं पुनः चेतरैरपि ॥ ५९. अद्यापि भगवान् विष्णुः नीलकण्ठश्च भूपते । विदधाते हि सान्निध्यं लोकानुग्रहकारिणौ ॥ ६०. नैव मुञ्चति तत्क्षेत्रं रोमशः स्वाभिमानतः । अद्यापि वर्तते प्रीत्या तपः कुर्वन् अविश्रमम् ॥ ६१. इत्थं महाराज कथा मयोक्ता महामुनेर्वा मलयात्मजायाः । प्रपठ्यते भक्तिविनम्रबुध्या न तत्र तापत्रय ईतिबाधाःः ॥ इति एकचत्वारिंशोऽध्यायः । Pro.Total = 3466 + 61 =3527.

द्विचत्वारिंशोऽध्यायः

दौर्वासतीर्थमाहात्म्य म् । १. श्रीशङ्खः -- अत्रैव रोमशतीर्थे सर्वसिद्धिमहोदये । देवस्य पूर्वभागे तु तीर्थं दैवाससं महत् ॥ २. यत्र स्नाता नरा राजन् प्रयान्ति शिवतुल्यताम् । पुरा पुरहरादेशात् अत्रिसूनुर्महामुनिः ॥ ३. कृत्व स्वनाम्ना तीर्थं च स्थाप्य लिङ्गं च शाम्भवम् । क्रोधाग्नेः त्राणमकरोत् तपसा तत्र भूपते ॥ ४. राजा -- भगवन् कथमात्रेयः शिवानुज्ञामवाप्तवान् । कथं वा स्थापयामास शिवलिङ्गं स्वसिद्धये ॥ ५. कथं वा त्राणं चक्रे क्रोधाग्नेः स्वतपोनिधेः । एतत् विस्तार्य मे ब्रूहि श्रोतुं कौतूहलं मे ॥ ६. शङ्खः -- श्रुणु राजन् प्रवक्ष्यामि पुण्यमाख्यानमुत्तमम् । यस्मात् तच्छ्रवणात् मुच्यते सर्वकिल्बिषैः ॥ ७. पुरा विरिञ्चभवने वसन्तं भारतीपतिम् । उपासाञ्चक्रिरे सर्वे देवाश्च ऋषयः परे सभाया ॥ ८. तत्र पौराणिकाः गाथाः पठन्ति शौनकादयः । क्वचित् त्रयीं महाविद्यां क्वचित् आन्वीक्षकीमपि ॥ ९. क्वचित् जजल्पुः धर्मान् च मन्त्रशास्त्रं तथापरे । उच्चरन्ति क्वचित् ब्रह्मविज्ञानमपरे जनाः ॥ १०. एवं भगवतः तस्य ब्रह्मणः परमेष्ठिनः । सभा समग्रसन्नादा चकाशे चित्ररूपिणी ॥ ११. एवं सर्वेषु देवेषु मिलितेषु महात्मसु । सुमन्थुनानुजनेनैव कृत्वा कलहमुत्तमम् ॥ १२. क्रोधान्धः साम गायन् तु दुर्वासा ब्रह्मसन्निधौ । अकरोत् अपस्वरं घोरं सभ्यानां दुस्सहं तदा ॥ १३. तूष्णीं स्थितेषु सर्वेषु सभायां शापशङ्कया । वीजयन्ती चामरेण ब्रह्माणं पार्श्ववर्तिनी ॥ १४. शब्दब्रह्मात्मिका वाणी किञ्चित् उल्लोलचेतसा । जहास दन्तज्योत्स्नाभिः विशदीकृत्य तां सभाम् ॥ १५. ततः कोपारुणापाङ्गरोचिषा तु पिशङ्ग्गया । शशाप भारतीं देवीं स मुनिः तामसार्भकः ॥ १६. कुर्वन्त्या मेऽवमानं दुर्विदग्धे सरस्वति । मामविज्ञाय दुर्बुद्धे हासं कृतवती यतः ॥ १७. मत्तपोऽग्निबलात् नूनं भवती नात्र संशयः । इति ब्रुवति वै तमिन् मुनौ कोपवशाकुले ॥ १८. भारतीं सान्त्वयामास व्याजहार पितामहः । मा भारति वरारोहे वैमनस्यं प्रायास्यसि ॥ १९. क्षमस्व क्षमया युक्ताः लोकपूज्या भवन्ति हि । त्वयि प्रतिप्रयातायां मर्त्ययोनौ वरानने ॥ २०. तत्र त्वामनुयास्यामि लोकानां हितकाम्यया । तत्र शास्त्राणि चोद्दिश्य वेदमार्गप्रवर्तने ॥ २१. सन्निवेश्य यथान्यायं भुक्त्वा भोगान् यथेप्सितान् । चतुष्षष्टिसमाः स्थित्वा पुनः प्राप्स्यामहे परम् ॥ २२. इत्युक्त्वा पद्मभूर्देवीं पुनः प्राह मुनिं स्मयन् । अथ साधो मुनिश्रेष्ठ किमिष्टं ते विचेष्टितम् ॥ २३. तपो दानं दमः शौच नियमाश्च यमाः तथा । अविवेकवतां पुंसां विमला इति वै श्रुतिः ॥ २४. तथाप्यभिज्ञो मेधावी त्वं न जहासि कृतं न भो । एतावता प्रकारेण भवता सञ्चितं तपः ॥ २५. अकाण्डे कोपतः श्रेष्ठे गुरुभूते विशेषतः । सर्वं ते विमलं यातं नीहार इव भानुना ॥ २६. अतस्त्वस्मात् दैवलोकात् भुवमेत्य महामुने । तीर्थयात्राचरो भूत्वा चर वर्षत्रयं क्रमात् ॥ २७. ततो निर्धूतकलुषः पुनरेष्यसि मत्सभाम् । तेनैवमनुशिष्टः तु मुनिः कमलभूतिना ॥ २८. अवतीर्य ब्रह्मलोकात् चचार पृथिवीमिमाम् । मानसं चार्चपानीयं नरनारायणालयम् ॥ २९. हरिद्वारं गयां गङ्गां सरयूं च सरस्वतीम् । नैमिशं च कुरुक्षेत्रं साकेतं द्वारकामपि ॥ ३०. अविमुक्तं च गोकर्णं श्रीशैलं पुरुषोत्तमम् । क्रमात् निषेव्य तीर्थानि मुनिरत्रितनूर्भवः ॥ ३१. आससाद महाशैलं कालहस्तीति विश्रुतम् । यत्र पुण्या प्रवहति सुवर्णमुखिनी नदी ॥ ३२. यत्र शम्भुः समध्यास्ते लोकानां क्षेमहेतवे । यत्र ज्ञानप्रसूनाम्बा मोक्षश्रीः मोक्षकाङ्क्षिणाम् ॥ ३३. तत्र स्नात्वा यथान्यायं देवमाराध्य शङ्करम् । तपश्चचार भगवान् दुर्वासः तपसां निधिः ॥ ३४. जितेन्द्रियः जितक्रोधः निराहारश्च भूपते । इत्थं तपस्यतः तस्य व्यतिचक्राम वत्सरम् ॥ ३५. वरदः तस्य भगवान् आविरासीत् पुरो विभुः । शिवः -- प्रीतोऽस्मि तपसा ब्रह्मन् वरं दास्यामि भूरिशः॥ ३६. क्रुद्धस्यापि तवाक्षय्यं तपस्सम्यग्भविष्यति । इतो गत्वा दक्षिणाशां मलयं चन्दनालयम् ॥ ३७. यत्र पुण्यद्रवा नाम नदी मुक्तामणिप्रसूः । पावयन्ती जगत्कृत्स्नं प्रयाति वरुणालयम् ॥ ३८. तस्यां स्नात्वा महानद्यामर्चयित्वा विधानतः । मय्यर्पितानि पुष्पाणि भावभक्तिमथात्र वै ॥ ३९. तानि ताम्रजले यत्र दृश्यन्ते कैतवं विना । तत्र मां स्थापयित्वा त्वमभ्यर्च्य विधिपूर्वकम् ॥ ४०. अनपायमनुस्यूतं मनोरथमवाप्स्यसि । इत्युक्त्वा शङ्करः तस्मै ददौ लिङ्गमनुत्तमम् ॥ ४१. प्रेषयामास भगवान् अनसूयात्मजे शिवः । इत्थं प्रसादमासाद्य मुनिः कालगिरीशितुः ॥ ४२. विनिर्गत्य महाक्षेत्रात् संप्राप मलयाचलम् । बद्धाञ्जलिः प्रह्वतनुः संस्तुवन् मलयात्मजाम् ॥ ४३. क्रमात् निषेव्य तीर्थानि तीरयोरुभयोरपि । प्रार्थिताभ्य्दयक्षेत्रं रोमशस्य महात्मनः ॥ ४४. तं दृष्ट्वा पूजयामास रोमशः प्रीतमानसः । तत्र त्रिरात्रमुषितो मुनिः सोमानुजो मुदा ॥ ४५. कार्तिक्यां कृत्तिकायोगे प्रातरुत्थाय वाक्यतः । प्रातः स्नानाय ताम्रायाः तीरमाप महर्षिणा ॥ ४६. तथेव पुष्पनिकरं ताम्रायाः सलिले शुभे । दृष्ट्वा महामुनिः प्रीत्या प्रणम्य च पुनःपुनः ॥ ४७. सूक्तैः मणिप्रसूं स्तुत्वा तत्र स्नानं चकार सः । तदा देवाश्च ऋषयः साधु साध्विति वादिनः ॥ ४८. मुमुचुः पुष्पवर्षाणि ब्रह्मविष्णुपुरोगमाः । तावत् वृषभमारुह्य गौर्या सह महेश्वरः ॥ ४९. वरान् प्रदात् अभद्रौघशमनैकविचक्षणान् । प्राह चैनं शिवः प्रीत्या (अत्रिसूनुम्)रोमशं मुनिपुङ्गवम् ॥ ५०. महामुने तव क्वापि न तपः संक्षयो भवेत् । अत्र लिङ्गं प्रतिष्ठाप्य मामभ्यर्च्य विधानतः ॥ ५१. भूयः प्राप्नुहि भद्राणि काङ्क्षितानि महामुने । त्वयात्र भक्त्या जप्तेन सूक्तेनाद्भुतरूपिणा ॥ ५२. सुप्रीता दास्यति नदी चन्दनाचलकन्यका । ये पठन्ति स्तुतिमिमां तीर्थे मज्जन्ति ते नराः ॥ ५३. लभन्ते मत्प्रसादेन पुरुषार्थचतुष्टयम् । इत्थं दत्वा वरं तस्मै देवदेवः पिनाकवान् ॥ ५४. सह देवैः भृत्यगणैः प्रायात् कैलासभूधरम् । ततः प्रीतमनाः भूत्वा दुर्वासाः तपसां निधिः ॥ ५५. लिङ्गं स्थाप्य तत्तीरे कालहस्तीश्वराह्वयम् । पूजयन् साम्बमव्यग्रमनसा शरदां शतम् ॥ ५६. अद्यापि वसते राजन् सह शिष्यैर्महामुनिः । राजा -- ब्रह्मन् केनैव सूक्तेन स्तुत्वा मलयनन्दिनीम् ॥ ५७. स्नानं चकार दुर्वासाः तं मे शंसितुमर्हसि । शङ्खः -- महाराज प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् ॥ ५८. एनं दृष्ट्वा ताम्रपर्णी तस्मै भाग्यमकल्पयत् । यदा प्रातः प्रवाहेऽस्मिन् कुसुमान्युत्थितान्यसौ ॥ ५९. सदा सन्तुष्टहृदयो बद्धाञ्जलिपुटो मुनिः । जजाप परमं सूक्तं नाभिदध्नजले स्थितः ॥ ६०. दुर्वासाः -- मलयाचल सम्भूते मलयानिलसोदरि । मरुद्वृधे महाभागे मङ्गलानि प्रयच्छ मे ॥ ६१. नारायणि शिवे गङ्गे गौरीदेहसमुद्भवे । सर्वपापहरे मातः तुभ्यं नित्यं नमो नमः ॥ ६२. महापापपरिप्लुष्टं देहं मम तवाम्भसा । क्षालयामि जगन्मातः मह्यं नित्यं प्रसीद मे ॥ ६३. इति सूक्तत्रयं जप्त्वा स्नात्वा तत्तीर्थवारिणा । उन्ममज्ज जलात्तस्मात् ध्यात्वा मनसि देवताम् ॥ ६४. तत्प्रभावात् आविरभूत् पुरतोऽस्य महामुनेः । बालातपारुणा तन्वी तपनीयविभूषणा ॥ ६५. स्तूयमाना देवगणैः सिद्धैः सन्नद्धकन्धरैः । पीयूषमिव सिञ्चन्ती करुणापाङ्गवीक्षितैः ॥ ६६. मन्दस्मितारुचा मुक्तामणिजालमिवाग्रतः । वीणारवोक्तवर्णेन वाचा प्राह महामुनिम् ॥ ६७. श्रीदेवी -- प्रीतोऽस्मि ते मुनिश्रेष्ठ सूक्तेनानेन भूयसा । ये मां स्तुवन्त्यनेनैव तेषान् कामान् ददाम्यहम् ॥ ६८. तपोवृद्धिरविच्छिना तव भूयात् न संशयः । अत्रैव भवता नित्यं वस्तव्यं प्रीतये मम ॥ ६९. शिष्यैरेभिस्तपोनित्यैः श्रेयस्ते भवति ध्रुवम् । त्वन्नाम्ना लक्षितं तीर्थं ये सेवन्ते तु जन्तवः ॥ ७०. तेषामिष्टान् प्रदास्यामि नात्र कार्या विचारणा । इत्युक्त्वान्तर्दधे देवी ताम्रा मलयनन्दिनी ॥ ७१. सोऽपि लब्ध्वा वरान् इष्टान् दुर्वासाः प्रीतमानसः । तत्रैव वसतिं चक्रे शिष्यैः सह महातपाः ॥ ७२. इत्थं ते कथिताः पुण्याः कथाः दुर्वाससो मुनेः । पठतां श‍ृण्वतां चैव कामदोग्ध्री न संशयः ॥ इति द्विचत्वारिंशोऽध्यायः । Pro.Total = 3527 + 72 =3599.

त्रिचत्वारिंशोऽध्यायः

छायातीर्थमाहात्म्य म् । १. शङ्खः -- ततोऽपि पूर्वदिग्भागे नद्याश्चैवोत्तरे तटे । छायातीर्थं प्रशंसन्ति स्मरणात् पापनाशनम् ॥ २. यत्र विद्याधरसुता तपसाराध्य पार्वतीम् । लब्धवत्याश्रमं तत्र दुर्ज्ञेयमजितात्मभिः ॥ ३. महाभाग्यैकनिलयं निवसन्ती तथाश्रमम् । प्रपन्नं पालयामास पापेभ्यो ब्रह्मराक्षसम् ॥ ४. राजा -- कथं विद्याधरसुता तपसाराध्य पार्वतीम् । आश्रमं प्राप परमं अक्षयाशेषमङ्गलम् ॥ ५. राक्षसं पालयामास को वा केन च हेतुना । एतानि वद विस्तार्य विमृश्य करुणानिधे ॥ ६. शङ्खः -- वक्ष्यामि पुण्यमाख्यानं पूर्ववृत्तान्तदर्शनम् । यस्मिन् श्रुतिभिरापूर्ये विलयं यान्ति बाधकाः ॥ ७. पुरा कण्डूलको नाम सांवर्तकमुनेस्सुतः । सत्यवाक् सत्यसङ्कल्पः ब्रह्मज्ञानविशारदः ॥ ८. तपश्चचार मेधावी विन्ध्याद्रे वा नदीतटे । तावत् दुरालपा नाम विध्याधरकुमारिका ॥ ९. मुनिं शुश्रूषयामास काले काले यथोचितम् । ततो वर्षसहस्रान्ते प्रीतात्मा स मुनीश्वरः ॥ १०. प्राह विद्याधरवधूमन्तिकस्थां कृताञ्जलिम् । कण्डूलकः -- का त्वं तरुणि कल्याणि कस्य वासि परिग्रहा ॥ ११. का ते माता पिता को वा किमर्थं मामुपागता । तव शुश्रूषया तन्वि प्रीतोऽस्मि नितरामहम् ॥ १२. वरान् वरय भद्रं ते दास्यामि च मनीषितम् । इत्थं तेनानुशिष्टा सा संप्रीता प्राह तं मुनिम् ॥ १३. यक्षी -- भगवन् मम वृत्तान्तं वक्ष्यमाणं मयाधुना । सावधानेन मनसा समाकर्णय सादरम् । १४. पुरा कुमुद्वान् नामाभूत् विद्याधरजनेश्वरः । कुलीनो धर्मविद्वाग्मी शूरो वीरजनेडितः ॥ १५. तस्याहं दयिता भार्या छायेव परिवर्तिनी । एवमावां चिरं कालं भुञ्जानौ भाग्यसम्पदः ॥ १६. कदाचित् मलयप्रस्थं प्राप्य पुष्पितकाननम् । क्रीडतोरावयोस्तत्र राक्षसः कोऽपि दारुणः ॥ १७. कृपीडो नाम शालेयः पूर्ववैरमनुस्मरन् । निहत्य मम भर्तारं स्वयं तेन हतोऽभवत् ॥ १८. भर्तारमनुगन्तं मां यत्तां वागशरीरिणी । निषेधयित्वा सान्त्वय्य त्वत्छुश्रूषणकर्मणि ॥ १९. नियोजयामास वाणी मां प्रसाद्य च पुनःपुनः । तद्विस्रम्भात् मुक्तशोका त्वामेव शरणं गता ॥ २०. मम प्रीतोऽसि भगवन् यदि दातुं वरं पुनः । त्वत्तुल्यतपसं शान्तं तनयं दातुमर्हसि ॥ २१. इति तस्या वचश्श्रुत्चा मुनिः परमहर्षितः । तव कुक्षौ महातेजा पुत्रो ब्रह्मविदां वरः ॥ २२. वर्तते नात्र सन्देहः गच्छ तन्वि निजालयम् । इति लब्ध्वा वरं देवी तं प्रणम्य मुनीश्वरम् ॥ २३. संप्रतस्थे सखीयुक्ता स्वावासाय महीपते । उवास स्वगृहे तन्वी भृशमाश्वासिता जनैः ॥ २४. तावत् वचः कुर्वन्त्यामाराधयितुमीश्वरम् । सर्वे कौतूहलधिया निर्जग्मुरमरालयाः ॥ २५. इन्द्रादयो लोकपालाः सर्वे चाप्सरसां गणाः । मिलिताः दारान्तिकारैः सपुत्रज्ञातिबान्धवैः ॥ २६. सापि कण्डूलका भक्त्या तैः प्राप रजतालयम् । स्तुत्वा नत्वा महादेवं (कृष्ण)चतुर्दश्यामुपोषिता ॥ २७. प्राप्य प्रसादं श्रीकण्ठात् सर्वे जग्मुर्यथागतम् । सापि विद्याधरवधूः मुग्धा नारी कदम्बकैः ॥ २८. शिवालयात् विनिष्क्रम्य तत्परेऽहनि सम्भ्रमात् । तुषारशैलराजस्य दक्षिणे चित्रकानने ॥ २९. महत्स्थाणुत्वं नाम स्थानं भूतपतेर्विभोः । तत्राभ्येत्य क्षणं स्थित्वा विश्रान्ता गर्भिणी शनैः ॥ ३०. मलयं प्राप शैलेन्द्रं सखीजनसमावृता । असूत तनयां तत्र चन्द्ररेखामिव प्रभाम् ॥ ३१. ततः कुमारिकां दृष्ट्वा विद्याधरकुमारिका । दुःखिता प्राह तां वीक्ष्य वयस्था देवयोषितः ॥ ३२. किमिदं प्राप्तमधुना विपरीतो मनोरथः । ऋषिवाक् अपि वन्ध्याभूत् दुर्भगायां मयि ध्रुवम् ॥ ३३. इत्युक्त्वा सा सखीयुक्ता निर्विण्णा निस्पृहा सती । निधाय दारिकां भूमौ जातमात्रां वनान्तरे ॥ ३४. जगाम तरसा सर्गं यत्रास्ते वसतिर्निजा । ततो रुदन्तीं तां दृष्ट्वा दयाविष्टा वसुन्धरा ॥ ३५. अङ्केनादाय वै प्रादात् स्तन्यं स्वममृतोपमम् । तत्पानात् ववृधे तावत् दशवर्षमयाकृतिः । ३६. पुष्पाङ्गीं प्राप्तचैतन्यां बुद्धिज्ञान घनोदयाम् । तां कन्यां प्राह भूदेवी स्वपुत्रीमिव संस्थिताम् ॥ ३७. श्रीभूमिदेवी -- वत्से जीव चिरं श्रेयः प्राप्तुमर्हसि वाञ्छितम् । तव सन्तु पुरो नित्यं काङ्क्षितानि ममाज्ञया । ३८. तत्र वस्तव्यमाराध्य भवत्या परमेश्वरी । यदा यदा मां स्मरसि तावत् तावत् शुभायते ॥ ३९. आगमिष्याम्यहं प्रीत्या देवी कामदुघा यथा । इत्युक्त्वा तां मही देवी काञ्चित् विद्यां प्रदाय च ॥ ४०. तिरोदधे घनच्छन्ना रेखा चान्द्रमसी यथा । प्रवालमञ्जरीतल्पे शयानां वनदेवताः ॥ ४१. तन्नाम्ना चक्रिरे सर्वाः सिद्धाश्च परमर्षयः । प्रवालमञ्जरी नाम्ना सापि चक्रे तपो महत् ॥ ४२. इत्थमब्दत्रये पूर्णे संप्रीता शैलकन्यका । पुरः प्रादुरभूत् तस्मिन् प्रवर्षन्ती सुधामिव ॥ ४३. बालिके ते प्रसन्नास्मि वरं दातुमिहागता । मदंशभूता त्वं वत्से मामकी नात्र संशयः ॥ ४४. इतः परं त्वया गत्वा ताम्राया उत्तरे तटे । कुन्दाटव्यां निवसती तपः कुरु वरानने ॥ ४५. वैरोचनिः पुरा यत्र स्थाप्य लिङ्गमनुत्तमम् । पूजयामास नियमात् अप्रमत्तः पुरोधसा ॥ ४६. काव्येन शरदां त्रीणि सहस्राणि समन्वितः । अवध्यत्वं परैः प्राप देवदेवात् पिनाकिनः ॥ ४७. तस्मात् त्वयापि वस्तव्यं सहस्रं शरदां क्रमात् । तत्र वर्षसहस्रान्ते पुम्भावं लप्स्यसे शिवात् ॥ ४८. एवं ब्रुवत्यामम्बायां विस्मिता ता तपस्विनी । प्रवालमञ्जरी प्राह प्रणता परमेश्वरीम् ॥ ४९. कथमम्ब भविष्यामि पुरुषो महिला स्वयम् । स्त्रियः क्वापि न गच्छन्ति पुम्भावमिति मे श्रुतम् ॥ ५०. एतन्मे संशयं छिन्धि लोकमातर्दयानिधे । श्रीदेवी -- श्रुणु वत्से तपःक्लान्ते कारणं कथयाम्यहम् ॥ ५१. तव मात्रा वरो लब्धः सन्तुष्टात् मुनिपुङ्गवात् । तव कुक्षौ सुतो भूयात् इति तन्न मृषा वचः ॥ ५२. तव मातुरकृत्येनाप्यनभिज्ञया पुरा । अध्वश्रमापनोदनाय प्रवेशात् स्थाणुकानने । ५३. गर्भस्थोऽप्यर्भकस्तावत् त्यक्रपौरुषलक्षणः । ये विशन्ति वनं तावत् भवन्तु वनिता इति । (अलङ्घनीया हि देवस्य मर्यादा भुवनत्रये ॥) ५४. तस्मात् त्वं पुरुषः पूर्वं स्थाणुकाननसम्भवात् । नारीभूता च तदघं विजहीहि कृतोद्यमा ॥ ५५. इति तच्छासनं मूर्ध्ना समादाय मणिं यथा । कुन्दाटवीं समासाद्य तपस्तेपे च सादरम् ॥ ५६. सर्वद्वन्द्वसहा शान्ता संयम्य सकलेन्द्रियम् । स्नात्वा त्रिषवणं भक्त्या ताम्राया निर्मले जले ॥ ५७. निनाय शरदां साग्रं सहस्रमनपायिनी । ततः कदाचित् आकाशात् अञ्जनाचलसन्निभः ॥ ५८. मुखेन विकृताकारेणानन्देन कृताञ्जलिः । लम्बमानोष्ठजिह्वाग्रः राक्षसः कोऽप्यशोभनः ॥ ५९. आससाद महाघोरः पुरतोऽस्याः जरत्वपुः । हाहेति भृशमालभ्य तामुवाच तपस्विनीम् ॥ ६०. राक्षसः -- मातः प्रसीद कल्याणि विद्याधरकुलाङ्कुरे । प्राञ्जलिं पाहि मां दीनमनाथं पापकर्शितम् ॥ ६१. परिश्रान्तोऽस्मि नितरां दुष्कर्मध्वान्तगह्वरे । दैवात् त्वां शरणं प्राप्तं पाहि मां करुणात्मिके ॥ ६२. इत्थं वदन्तं पतितं पादयोः भीमदर्शनम् । दृष्ट्वा किञ्चित् भयाविष्टा व्यवष्टभ्य पुनर्दृढम् ॥ ६३. प्रवालमञ्जरी प्राह सान्त्वपूर्वमिदं वचः । कस्त्वं भद्र कुतः केयमवस्था ते समागता ॥ ६४. सर्वं कथय तथ्येन मयि गोप्यमिति चेत् । राक्षसः -- श्रुणु वक्ष्याम्यम्ब सिद्धे मम वृत्तान्तमादितः ॥ ६५. पुरा देवयुगे देवि काश्यपान्वयवर्चसः । कौषीतक इति ख्यातो विप्रो वेदविदां वरः ॥ ६६. आङ्गीरसीं समुद्वाह्य कन्यामञ्जलिकाह्वयाम् । गार्हस्थ्यं वर्तयामास विधिना स्मृतितत्त्ववित् ॥ ६७. एवं तपस्विनोः काले तयोरासीत् तनूभवः । कुशकेतुरितिख्यातः पूर्वजन्मन्यहं किल ॥ ६८. अतीत्य वेदशास्त्राणि पित्रोः शुश्रूषणे रतः । कलाजातं समस्तं मे विधेयमभवत् क्रमात् ॥ ६९. विधिना विहिता तावत् भूयिष्ठा भूरि दक्षिणा । गुरुणानुमतः स्नानं कर्म निर्मितवानहम् ॥ ७०. ततः पिता मे सुप्रीतः कर्तुं वैवाहिकीं क्रियाम् । उद्योगमकरोत् आप्तैः बन्धुभिः प्रीतिपूर्वकम् ॥ ७१. तदा रहो निषिध्याहमुक्तवान् पितरं मम । तात कोऽयं समारम्भो दारिद्र्योपहतात्मनाम् ॥ ७२. अर्थसाध्यमिदं विप्र अनर्थः करवाम किम् । तस्मात् राजानमासाद्य तोषयिष्ये बहुप्रदम् ॥ ७३. आनयिष्याम्यसङ्ख्यातमर्थं सर्वसुखप्रदम् । इति तातं समाश्वस्य मातरं च तपस्विनीम् ॥ ७४. गत्वा च श्रीधरं नाम्ना राजानं मनुनन्दनम् । अर्थदं संसदि प्रज्ञां विद्यां विस्तार्य विस्मितम् ॥ ७५. राजन् प्रदेहि मे वित्तं येन तृप्तिं भजाम्यहम् । इति पृष्टः स भूपालो मया वित्तानुकाङ्क्षिणा ॥ ७६. प्रादात् स्वदेहतुलितं मणिकाञ्चनसञ्चयम् । प्रतिगृह्य पुनर्गेहं निर्यातो भारमुद्वहन् ॥ ७७. शनैरुत्तीर्य चाध्वानं विन्ध्यं प्राप्तोऽहमद्भुतम् । सञ्चारवान् पुनः श्रान्तः क्षुत्पिपासार्तितः पुनः ॥ ७८. कस्मिंश्चित् तरुमूले वापीकूलोपकण्ठतः । न्यषीदं परं गन्तुं तदध्वानमशक्नुवन् ॥ ७९. तत्र तावत् दैवयोगात् कन्या काचित् समागता । मां समीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ ८०. को भवान् नरवैदूर्य किमर्थमटवीं गतः । कन्दर्पो वाथवा देव सिद्धो वा मानुषोऽपि वा ॥ ८१. त्वां दृष्ट्वा विस्मयाकारं युवानमतिसुन्दरम् । परं गन्तुं न शक्नोमि कन्दर्पशरपीडिता ॥ ८२. उपेक्षसे मामिह चेत् प्राणान् त्यक्ष्ये न संशयः । इत्थं वदन्तीं तां दृष्ट्वा कामराजकलामिव ॥ ८३. कौतूहलसमायुक्तः प्रोवाचमहमङ्गनाम् । अद्य कल्याणि कथय कौतुकोत्साहरूपिणी ॥ ८४. ममापि वर्तते बुद्धिः तव प्रतिविधित्सया । त्वदालोकन सौभाग्यात् गतो मेऽथ परिश्रमः ॥ ८५. यदाभिलषितं कार्यमावयोरस्तु कानने । इत्युक्तवति मय्येषा समागत्य शुचिस्मिता ॥ ८६. समाश्लिष्य रतिं चक्रे सौख्यं स्वर्गेऽपि दुर्लभम् । एवं तस्मिन् वने देवि रममाणौ परस्परम् ॥ ८७. कुलोचितानि कर्माणि वेदशास्त्रोचितान्यपि । विस्मृत्य सहकैराध्या तद्वर्गैरनुमोदितः ॥ ८८. राज्ञा दत्तनि वित्तानि व्ययीभूतानि कालतः । एवं निवसतोऽटव्यां सम्मिल्य च वनेचरैः ॥ ८९. मरणं चापि मे प्राप्तमाशीविष इवाग्निना । नीतो व वैवस्वतपुरं किङ्करैर्घोरदर्शनैः । ९०. अनुभूय चिरं कालं नरकान् एकविंशतिम् । आज्ञया धर्मराजस्य ब्रह्मरक्षोऽभवं तथा ॥ ९१. महेन्द्रात् दक्षिणे भागे निर्जने जलवर्जिते । क्षुत्पिपासापरिश्रान्तः शुष्ककण्ठोष्ठतालुकः ॥ ९२. न पश्यामि जलं क्वापि पातुं स्वच्छन्दतोऽनघम् । पश्यामि शाखिनः स्निग्धान् फलपुष्पोपबृंहितान् ॥ ९३. छायां तदापि मे वस्तुं न पश्यामि महीतले । मादृशाः बहवः सन्ति चरन्तो ब्रह्मराक्षसाः ॥ ९४. ते लभन्ते क्वचित् क्वापि अन्नपानादिकान्यपि । अहो पापस्य बाहुल्यं पश्यामि परमाद्भुतम् ॥ ९५. अरण्ये सन्ति पक्वानि फलमूलादिकान्यपि । तोयान्यमृतकल्पानि वापीकूपनदीषु च ॥ ९६. इत्थं मया श्रान्तिजुषा दुःखिते नाटता महीम् । चतुरशीति सहस्राणि अष्टौ पञ्चशतान्यपि ॥ ९७,वर्षाणि वातवर्षाणां सहमानेन केवलम् । व्यतीतानि विनाहारैः पानीयैश्च समन्ततः ॥ ९८. बहुना किं प्रलापेन श्रुणु मातः तपस्विनि । केन वा कारणेनापि क्रौर्यं मे हृदयं कथम् ॥ ९९. अज्ञानमतिरौद्रत्वमपयातं हृदि स्थितम् । पूर्वजन्मस्मृतिर्जाता केन वा पुण्ययोगतः ॥ १००. पूर्वेषु च यथा जाता क्षुद्घोरा बलशालिनी । सुप्तोत्थित इवारण्यं पश्यमानः समन्ततः ॥ १०१. त्वामग्रे परिपश्यामि जननीमिव संस्थिताम् । शरणं त्वां प्रपन्नोऽहं पापान्मोचय मामिह ॥ १०२. येन केनाप्युपायेन त्राहि मां दुःखसागरात् । इति ब्रुवाणं पतितं पातयोः भयविह्वलम् ॥ १०३. प्रसादपूर्वं प्राहेदं विस्मिता ब्रह्मराक्षसम् । पश्यन्ती कृपया चैनं विद्याधरवधूरियम् ॥ १०४. प्रवालमञ्जरी -- भद्र मास्तु मनःखेदो माविषादमुपैहि च । इतः परं विधास्यामि श्रेयसे तव केवलम् ॥ १०५. एतत् हि परमं क्षेत्रं दयितं तु हि दुहितुर्गिरेः । तयाद्र स्थापितो लिङ्गो लोकमात्रा पुरातनः ॥ १०६. अद्यापि लोकरक्षायै जागर्ति भगवान् शिवः । अत्र तीर्थे महापुण्ये गौरीसन्तोषणाय हि ॥ १०७. आविर्भूतानि तीर्थानि कोटिशः शम्भुशासनात् । एषा पीयूषधाराख्या चन्दनाचलकन्यका ॥ १०८. गङ्गादिभिर्नदीमुख्यैः प्रत्यहं सेव्यते मुदा । अत्र शैलेन्द्रदुहितुः वक्षोजघटसङ्गिना ॥ १०९. संयोगात् कुङ्कुमेनैतत् सानुरागमिवस्थितम् । पश्य तीर्थवरं पुण्यं दर्शनात् भुक्तिमुक्तिदम् ॥ ११०. अत्र छाया जले यस्य बिम्बता दृश्यते यदा । तदा निर्धूतकलुषो जायते जन्तुरञ्जसा ॥ १११. इति मह्यं पुरा गुप्तं कथितं शैलकन्यया । छायासंयोगतः तीर्थे तव पपो विनाशितः ॥ ११२. मया सह महातीर्थे स्नानं कुरु विधानतः । अत्रैवाराधयन् नूनं पूतात्मा त्वं भविष्यसि ॥ ११३. इत्युक्त्वा राक्षसं देवी विद्याधरवधूः स्वयम् । तमेनं स्नापयामास तस्मिन् तीर्थे दयावती ॥ ११४. प्रणाममाचरत् शम्भोः अग्रतः त्राहि मामिति । शिवं प्रदक्षिणीकृत्य शिवेति शिवसन्निधौ ॥ ११५. पपात गिरिसङ्काशो राक्षसो घोरदर्शनः । मूर्धानं च विनिर्भिद्य किञ्चित् तेजस् समुत्थितम् ॥ ११६. देवरूपवपोच्चैः कोटिकन्दर्पलक्षणम् । आजग्मुरखिला देवाः हरिनारायणादयः ॥ ११७. मुञ्चतः पुष्पनिकरं स्तुवन्तश्च महेश्वरम् । सिद्धचारणगन्धर्वयक्षविद्याधरोरगाः ॥ ११८. दिदृक्षवो भूतगणाः मुनयो नारदादयः । विमानैर्निबिडं व्योम भूतैरन्यैर्महीतले ॥ ११९. एतस्मिन्नन्तरे तस्मात् महालिङ्गात् उमापतिः । आविर्बभूव पार्वत्या कोटिसूर्यसमद्युतिः ॥ १२०. गङ्गाधरः शशिधरः वृषारूढः पिनाकधृत् । सानुकम्पं समभ्येत्य विद्याधरसुतामिमाम् ॥ १२१. पस्पर्श पाणिभिः प्रीत्या शन्तमैः धरणीपते । नारीभावं ततो मुक्त्वा पश्यतां सर्वदेहिनाम् ॥ १२२. षोडशाब्दवयाः राजन् पुमानासीत् मणिप्रभः । हा हेति तत्र गीर्वाणाः सिद्धाश्च परमर्षयः ॥ १२३. नेदुरुच्चैर्स्मयाविष्टाः सन्तुष्टाश्च बभूविरे । त्यक्तस्त्रीभावकालुष्यात् प्राप्तपुंस्त्वेन शोभनः ॥ १२४. तुष्टाव परमेशानं बद्धाञ्जलिपुटः स्थितः । द्वैतीभूय जगत् पाति तस्मै पूर्णाय ते नमः ॥ १२५. पुरातनाय पुण्याय पुरुषार्थप्रदायिने । पुरान्तकाय भूतानां पतये स्थाणवे नमः ॥ १२६. एकतः पुरुषाकारमेकतः महिलात्मकम् । प्रपञ्चपितरं वन्दे वन्दे विश्वैकमातरम् ॥ १२७. क्वचित् कर्बुरवर्णाय क्वचित् कुङ्कुममूर्तये । नीलग्रीवाय देवाय निष्कलाय नमो नमः ॥ १२८. त्वमादौ रजसाविष्टः सत्वेनासौ जगत्स्थितिः । त्वमेवान्ते तु तावात्मन् त्वामहं शरणं गतः ॥ १२९. त्वामाहुः श्रुतयः सत्यमव्यक्तं व्यक्तमेव च । तस्मात् त्वां जगदाधारं प्रणतोऽस्मि सदाशिवम् ॥ १३०. तत्तत्कर्मफलप्राप्त्यै यदाज्ञारूढमौलिनः । ब्रह्माद्याः सकलाः देवाः तस्मै पूर्णात्मने नमः ॥ १३१. नमश्शिवाय शान्ताय नमस्सोमार्धधारिणे । नमस्सकलकल्याणसौभाग्यामरशाखिने ॥ १३२. शेखरीकृतपीयूषनिधये निधये नमः । यदेकममलं ब्रह्मनिर्गुणं परमाद्भुतम् ॥ १३३. नमः पराय सर्वेषां भास्कराय नमो नमः । इत्थं स्तुवन्तं प्रणतं कृताञ्जलिमुपस्थितम् ॥ १३४. पुनः प्राह महादेवः प्रणतार्तिप्रभञ्जनः । वत्स धर्मभृतां श्रेष्ठ श्रेष्ठः त्वमसि देहिनाम् ॥ १३५. स्तोत्रेण तपसा चैव प्रीतोऽस्मि नितरामहम् । तव नित्या तु गान्धर्वविद्या कौतूहलावहा ॥ १३६. तव सन्त्वक्षया भोगाः सर्वलोकेषु सर्वदा । त्वया यत् द्रोहतः पापात् राक्षसत्वात् विगर्हितः ॥ १३७. सखा ते भविता नित्यं यावदाभूमिसम्प्लवम् । सायुज्यं युवयोरन्ते दास्याम्यहमसंशयम् ॥ १३८. त्वां दृष्ट्वा प्राप्तमुम्भावं ब्रह्माद्या सकलास्सुराः । हा हेति विस्मयात् प्रोचुः तस्मात् हाहेति नामवान् ॥ १३९. पूज्यमानैस्समस्तैस्वं त्वं गन्धर्वो भविष्यसि । अविच्छन्नोऽनुहार्दत्वात् अविमुक्तः सुहृत्तया ॥ १४०. हूहू नाम सखा तेऽस्तु तुल्यभोग स्वयंसखः । अतः स्नात्वा महातीर्थे मां पश्यन्ति सकृन्नराः ॥ १४१. ते भुक्त्वा चिरं भोगान् अन्ते मां यान्तु केवलम् । इत्युक्त्वान्तर्दधे देवे तौ च देवैरभिष्टुतौ ॥ १४२. विमानवरमारूढौ समायातौ सुरालयम् । इत्थं कथामखिलकल्मषमोहहन्त्रीं पुण्यां शिवां पुरहरस्य च तीर्थमूर्तेः । श‍ृण्वन् पठन् अपि दिनेषु महोदयेषु निर्मुक्तपापकलुषो भवतीह मर्त्यः ॥ इति त्रिचत्वारिंशोऽध्यायः । Pro.Total = 3599 + 142 =3741.

चतुश्चत्वारिंशोऽध्यायः

ज्योतिर्वनमाहात्म्य म् । १. इत्थं निगद्य धर्मात्मा शङ्खयोगी महीभुजे । कथां कर्णैकपीयूषां दोषापायधुरन्धराम् । २. भूयो राजानमाभाष्य पुनर्वक्तुमुपचक्रमे । पुरा वृत्तमाख्यानं पुण्यानामिव कन्दलम् ॥ ३. शङ्ख ; -- श्रुणु राजन् प्रवक्ष्यामि पुरा वृत्तां कथामिमाम् । श‍ृण्वतां पठतां चापि पुरुषार्थोदयावृताम् ॥ ४. पुरा देवयुगे देवी देवदेवस्य वल्लभा । उमा कदाचित् कैलासे कनकोज्ज्वलमण्डपे ॥ ५. संस्थिताङ्गे महेशस्य भक्तानां दर्शनं ददौ । तदा पाण्ड्यमहीपस्य तपसा तुष्टमानसा ॥ ६. देवं विज्ञापयामास अवस्थां पाण्ड्यभूपतेः । देवेदानीं परिश्रान्ते भक्ते पाण्ड्यमहीभुजि ॥ ७. अविलम्बं प्रदातव्यं काङ्क्षितं परमेश्वर । इति देव्या वचः श्रुत्वा स्मयमानो महेश्वरः ॥ ८. व्याजहार पुनर्देवीं भक्तानां हितकाम्यया । लोकमातः श्रुणुष्वात्र त्वमेव जगतां प्रसूः ॥ ९. त्वयैवाभिमतो देयो भूपतेरस्य भामिनि । पुत्रीभूता त्वमस्यैव श्रेयः कुरु कुलोचितम् ॥ १०. अहं त्वामुपयास्यामि तव प्रीति विधित्सया । इत्यादिष्टा भगवता मलयध्वजभूपतेः ॥ ११. कन्या तटातका नाम्ना सञ्जज्ञे साप्ययोनिजा । त्रिस्तनी दिव्यसौभाग्यशीलोदारगुणान्विता ॥ १२. साध्वीं राजपदे चक्रे स भूपालः प्रहृष्टवान् । अभ्षिच्य सुतां बालामनपत्याघसञ्चयात् ॥ १३. विमुक्तोऽप्यटवीमेत्य ततस्तप्त्वा सुदारुणम् । समियाय चिरेणैव शिवसायुज्यमञ्जसा ॥ १४. सैषा बालापि सर्वज्ञा राजसिंहासनस्थिता । शशास वसुधां कृत्स्नां पारावारवरां पराम् ॥ १५. विजित्य लोकपालान् च महेन्द्रवरुणादिकान् । यत्प्रतापाग्निसन्तप्ता भूपाला भीतिसम्प्लवे ॥ १६. निमज्जन्तः करं दत्वा जीवनं यापयामासुः । यदालोकनलेशेन तिरोधत्ते पयोधरः । १७. स पतिर्भविता तस्या इति वागाह पुष्करात् । इति निश्चित्य सा कन्या विजित्य भुवनत्रयीम् ॥ १८. कैलासकटके देवं समालोक्य पिनाकिनम् । तृतीयस्तनहीनाभूत् चकमे तां च शङ्करः ॥ १९. तामुद्वाह्य महादेवो मधुरायां महेश्वरः । नाम्ना सुन्दरपाण्ड्योऽभूत् कामराज इवापरः ॥ २०. तस्यां तस्य च पुत्रोऽभूत् स्वयमेव षडाननः । श्रिया बलेन च बुध्या च नाम्ना श्रीबलधिर्महान् ॥ २१. स शास्त्राणामागमानां निगमानां च पारगः । पित्रोः शुश्रूषणं चक्रे विनयाचारसम्पदा ॥ २२. सोऽयं लब्ध्वा तपश्शक्त्या शाम्भवं लैङ्गमद्भुतम् । ज्योतिर्वने स्थापितवान् सनकस्यानुशासनात् ॥ २३. चिरन्तनीं कथां श्रुत्वा निर्मलाभ्युदयोज्ज्वलाम् । अनुग्रहात् आदिपित्रोः अर्चयामास तत्र हि ॥ २४. तदादि तद्वनं लोके प्रशस्तमभवत् विभो । तत्प्रीतिं कुर्वतोरादिपित्रोस्सान्निध्यगौरवात् ॥ २५. तद्वनं श्रवणात् एव महापातकनाशनम् । ये पश्यन्ति तत्क्षेत्रं ते स्युर्मुक्ता न संशयः । २६. तत्र ब्रह्ममयं ज्योतिः जागर्त्याभूत सम्प्लवम् । यत्रेन्द्राय महज्ज्योतिं दर्शयामास शङ्करः ॥ २७. उन्मादरोगान्मुक्तोभूत् यत्र नन्दो महीपतिः । पुत्रवात्सल्यसम्पन्ना गौरी प्रादुरभूत् जलात् ॥ २८. तदादि गौरीतीर्थं तत् तत्र नाम्ना प्रशस्यते । दुर्वासशापात् निर्मुक्ता तत्रैव हि सरस्वती ॥ २९. वृषो नाम पुरा यक्षो स्तेन(स्वेन) शापात् वृषाकृतिः । यत्र क्षेत्रदर्शनादेव भूयः स्वं रूपमवाप्तवान् ॥ ३०. तस्मात् तत्क्षेत्रमाहात्म्यं राजन् वाचामगोचरम् । मया वर्षशतेनापि वक्तुं नालं हि विस्तरात् ॥ ३१. इति तद्वचनं श्रुत्वा क्षेत्रमाहात्म्यसम्प्लुतम् । स वीरसेनो भूजानिः प्रत्युवाच मुनीश्वरम् ॥ ३२. राजा -- भगवन् योगिनां श्रेष्ठ सर्वज्ञ करुणानिधे । मयि प्रसीददात्यर्थं त्वत्पादाब्जावलम्बिनि ॥ ३३. अपारमहिमाधारे क्षेत्रे ज्योतिर्वनाह्वये । दृश्यन्ते देवदेवस्य लीलावैशिष्ट्यसम्पदः ॥ ३४. उग्रश्रीवलधिः श्रीमान् राजा पाण्ड्यकुलोद्भवः । कथं मेघात् महालिङ्गं लब्धवान् परमाद्भुतम् ॥ ३५. कथं वा स्थापयामास महायोगीन्द्रशासनात् । कथमिन्द्रो महद्धाम ददर्शानुग्रहात् प्रभोः ॥ ३६. शापग्रस्तः कथं यक्षः पशुरूपात् विमोचितः । सरस्वती कथं मुक्ता मुनिशापात् सुदारुणात् ॥ ३७. पार्वती पुत्रवात्सल्यात् सान्निध्यं विदधे कथम् । एतानन्यानि विस्तार्य कथय त्वं महामते ॥ ३८. विचित्रं तत्र पश्यामि चरितं शूलपाणिनः । इत्थं राज्ञा भक्तिभारप्रणम्रमणिमौलिना ॥ ३९. सम्पृष्टः स महायोगी हर्षरोमाञ्चविग्रहः । प्रशस्य भूयो राजानं व्याजहार कथामिमाम् ॥ ४०. शङ्खः -- अस्तु भद्रमनुस्यूतधर्ममार्गविहारिणः । तव प्रीतोऽस्मि नितरामनर्गलधिया विभो ॥ ४१. त्वदन्तर्वृत्तिकलिकामभिज्ञातुमिवाधुना । कथा सङ्कुचिता भूरि विस्तरा सागरोपमा ॥ ४२. चित्तवृत्तिरभिव्यक्ता तवादर्शोपमामला । धर्मादन्यत्र च्यवते कौमुदीव निशाकरे ४३. अतिगोप्यमनर्हेभ्यः पुरा वृत्तान्तमीदृशम् । सत्पात्रे त्वयि वक्ष्यामि नात्र कार्या विचारणा ॥ ४४. कुलीनता सदाचारसम्पन्नत्वमवक्तता । ब्रह्मण्यता विवेकत्वं त्वयि धत्ते समाजताम् ॥ ४५. सन्तुष्टोऽस्मि महाराज श्रद्धया तव केवलम् । वक्ष्यमाणं महाराज इतिहासकथामिमाम् ॥ ४६. सम्भावय महाराज श्रोत्रयोरथितिं पदे । कथेयं कलिकालुष्यकलना कर्मनिर्मदा ॥ ४७. धर्ममार्गैकसञ्चारसाचिव्यमणिदीपिका । अपारनरकद्वारपिधानकरवालिका ॥ ४८. सम्पदागमनैकान्तवर्धनी ध्वस्तकण्टका । श्रुणु राजन् कथामेनां पुण्यां कोऽपि वनेचरः ॥ ४९. अन्धोऽपि भूयः संप्राप लोचने दीर्घदर्शने । एतामद्भुताकारां श्रुणु नान्येन चेतसा ॥ ५०. पुरा लोकहितार्थाय भगवान् परमेश्वरः । उपयम्य विधानेन पाण्ड्यकुमारिकाम् ॥ ५१. तस्यामुत्पादयामास पञ्च पञ्चास्यविक्रमान् । सुतान् विद्यासु निपुणान् सोमसूर्याग्निवर्चसः ॥ ५२. सर्वश्रेष्ठो महाराज यथा रत्नेषु कौस्तुभः । उग्रश्रीवलधिर्नाम प्राणताशेषभूपतिः ॥ ५३. यमेनं कथयन्त्यद्धा साक्षात् क्रौञ्चान्तकारिणम् । तस्यानुजो वज्रधर्मा नाम्ना लोकेषु गीयते ॥ ५४. तमेनं परिशंसन्ति साक्षात् नन्दीश्वरं सुराः । तृतीयो तनयो राज्ञो सौदासो नाम नामतः ॥ ५५. माणिभद्रं प्रशंसन्ति प्रमथानामधीश्वरम् । तस्यानुजः कुम्भकेतुः प्रशस्तो वीरसम्मतः ॥ ५६. वीतिहोत्रां च सम्भूतं तमेनं मुनयो विदुः । सोमा(शत)धामाभवत् तेषां मनुजः तुल्यविक्रमः ॥ ५७. येन लोकमिदं सर्वं क्षेमयुक्तमभूत् पुरा । शिवयोः प्रीतिमातन्वन् अवतीर्णा हि चन्द्रमाः ॥ ५८. इत्थं सुहृत्सु वीरेषु प्रशस्तेषु पराक्रमैः । प्रहर्षमतुलं लेभे देवदेवश्च पाण्ड्यराट् ॥ ५९. वपुषा पुष्पधन्वानं वपुषा प्राप्तयौवनम् । तेजसा सूर्यसङ्काशं धिषणं प्राप्तविद्यया ॥ ६०. समाहूय सुतं ज्येष्ठं सुन्दराख्यो महीपतिः । यौवराज्येऽभिषिच्यैनं सुमेरोः दक्षिणापथे ॥ ६१. द्वितीयं पश्चिमे देशे तृतीयं चोत्तरापथे । तुरीयं पूर्वभागे च कृत्वा सन्तुष्टमानसः ॥ ६२. कैलासात् दक्षिणे भागे शतश‍ृङ्गाख्यभूतले । मध्ये जनपदः पुण्यः सर्वभाग्यसमृद्धिमान् ॥ ६३. तप्तचामीकरमयी महामाणिक्यशर्करा । दिव्योद्यानगुणोपेता नानानगरमण्डिता ॥ ६४. तन्मध्ये कौतुकाभिख्या नगरी योजनायता । चम्पावती शतह्रादा त्रिस्रोता च सरस्वती ॥ ६५. एताः पीयूषसलिलाः प्रवहन्ति समन्ततः । यत्र जीवन्ति मनुजा वर्षाणामयुतं क्रमात् ॥ ६६. तद्राज्ये शतधामानं राजानमकरोत् विभुः । एवं निधाय भूभारं पुत्रेषु गुणशालिषु ॥ ६७. अवात्सीत् सह धर्मिण्या मधुरायां महीपतिः । इन्द्रादिभिर्लोकपालै ; प्रत्यहं परिपूजितः ॥ ६८. बुभुजे विषयान् भौमान् उमया सह शङ्करः । अथ श्रीवलधिः पाण्ड्यो धर्मात्मा पितृसम्मतः ॥ ६९. मणलूरुपुरं प्राप्य महाभोगसमृद्धिमान् । विनीतैश्च स्वसामन्तैः राजधर्मपरायणैः ॥ ७०. सूक्ष्मार्थवेदिभिः स्निग्धैः आत्मभक्तैर्महाकुलैः । विस्मितः पालयामास त्रिलोकीं मघवा यथा ॥ ७१. कदाचित् आस्थानमस्य देवर्षिर्नारदो महान् । तत्र सम्भावितस्तेन राजानमिदमब्रवीत् ॥ ७२. वत्सायुष्मन् महाभाग शूरोऽसि बलवान् असि । त्वय्येव धर्मो नीतिश्च सौमनस्यं वदान्यता ॥ ७३. आलोकालोकमास्वर्गमापातालान्तरालकम् । त्वत्कीर्तिसम्पदः पुण्याः श्रूयते पठिता जनैः ॥ ७४. तस्मात् त्वां वासवो राजा काङ्क्षन् मैत्रीपदं विभुः । स्पृहयत्यन्वहं श्रेयः तस्मात् नूनं भविष्यति ॥ ७५. तारकाख्यस्य दैत्यस्य नप्ता कुण्डोदराह्वयः । नष्टेष्वशेषदैत्येषु तारकाख्येषु भूपते ॥ ७६. हतशेषो भयाविष्टः कान्तिशीकत्वमागतः । मानसोत्तरमासाद्य गुहायां ववृधे बली ॥ ७७. भार्गवस्योपदेशेन तपसाराध्य शङ्करम् । अवध्यत्वं सुरैः प्राप्य समुद्वेजयते सुरान् ॥ ७८. तदुपद्रवविद्धस्य सर्वसौभाग्यविभूतयः । नितरां सुखिनो नैव हेमन्तनलिनी यथा ॥ ७९. तस्मात् त्वया पालनीया बलिना त्रिदिवौकसः । तव श्रेयांसि भूयांसि भवन्त्येव न संशयः ॥ ८०. इत्युक्तवति देवर्षौ पुष्करात् इन्द्रचोदितः । मातलिः समधिष्ठाय विमानं काञ्चनारुणम् ॥ ८१. आविर्बभूव सहसा प्रत्यूषे भानुमान् इव । स राजसूनुमासाद्य जय जयेति कीर्त्यन् ॥ ८२. प्राह प्रसन्नवदनः यथेन्न्द्रेणानुशासितम् । मातलिः -- पाण्ड्यराजकुलोत्तंस कुमार जयतां गुरो ॥ ८३. त्वामिन्द्रः प्राह सौहार्दात् देवः कुशलमब्रवीत् । त्वया वयं स्वर्गभुजः जीवामः खलु शत्रुहन् ॥ ८४. कुण्डोदरभयात् अस्मान्(त्) त्राता मा ते विडम्बनम् । एतत् विमानमारोह वर्म चेदं गृहाण भो ॥ ८५. अनेन धनुषा बाणैः अमोघैः वज्रसन्निभैः । शक्त्या चैवानया क्षिप्रं त्वं हत्वा दानवं रणे ॥ ८६. जयलक्ष्म्या च समायुक्तः पुनरेष्यस्यसंशयम् । इति श्रुत्वा वचस्तस्य प्रीतः श्रीवलधिर्नृपः ॥ ८७. तथेति प्रतिश्रुत्य चोदयामास मातलिम् । गृहीतधनुरापत्य तूणीराक्षयसायकौ ॥ ८८. शक्तिपाणिः प्रसन्नात्मा समारोहत् प्रतापवान् । अथोत्पपात वेगेन स्यन्दनो व्योपवर्त्मना ॥ ८९. संप्राप्य भानुपदवीं प्रतस्थे वारुणीं दिशम् । अतीत्य भारतं देशं उल्लङ्घ्यलवणार्णवम् ॥ ९०. प्लक्षादीन् अन्तद्वीपान् च सागरं च महीपते । दधिमण्डोदधिं तीर्त्वा पुष्करं तीर्थमण्डलम् ॥ ९१. अनेकशतसाहस्रं योजनायातमण्डितम् । आससाद स भूपालः समृद्धनगरीं पुरीम् ॥ ९२. विभजन् इव मध्येन पुष्करद्वीपमण्डलम् । यं प्रशंसन्ति सूर्यस्य बहुमान्य च मातलिम् ॥ ९३. नारदं प्रणिपत्याग्रे सभ्यान् आमन्त्र्य सान्त्वयन् । रथं प्रदक्षिणीकृत्य व्याजहार तदा गिरा ॥ ९४. महामहीधरं नाम मानसोत्तरमद्भुतम् । तत्राभ्यन्तरभागे तु मयमाया विनिर्मिता ॥ ९५. गुहा परमविस्तीर्णा दुष्प्रवेशा सुरासुरैः । तच्छरानलसन्तप्ता दानवास्ते बिलोदरात् ॥ ९६. निर्जग्मुः कोटिसङ्ख्याकाः सायुधाः सपरिच्छदाः । असङ्ख्यातैर्हयैर्मत्तैः मातङ्गैः स्यन्दनैरपि ॥ ९७. पादातैः सर्वथाक्रान्तैः छादयन्तो महीतलम् । अष्टाष्टपूर्वमत्युग्रं जन्यमासीत् जनक्षयम् ॥ ९८. ववर्ष शरवर्षाणि दैत्याः पाण्ड्येन्द्रनन्दने । शक्तिगदामरभुशुण्डिं च भिण्डिभालपरश्वधान् ॥ ९९. शतघ्नीशूलकुन्देषून्युगपत् चिक्षिपुर्मृधे । स राजसूनुर्बलवान् स्मयमान इव क्षणात् ॥ १००. नाशयित्वा स्वशस्त्रैः च बाणैराशीविषोपमैः । महानारायणास्त्रेण दैत्यसैन्यं क्षणादिव ॥ १०१. भस्मसात् अकरोत् रक्षः मातलिं संप्रहर्षयन् । स्वबले संक्षयं प्राप्ते स दैत्यो राजसूनुना ॥ १०२. निर्बिभेद शरैस्तीक्ष्णैः सूर्यवैश्वानरोपमैः । युयुधे चास्त्रशस्त्रौघैः अमोघैर्मर्मभेदिभिः ॥ १०३. तत्सर्वं शमयामास रौद्रास्त्रेण स्मयन् इव । आग्नेयेन तदास्त्रेण यन्तारं स जघान ह ॥ १०४. धनुः छित्वा हयान् हत्वा विरथीकृत्य दानवम् । शक्तिमादाय चिक्षेप तस्मै दैत्याय पाण्ड्यराट् ॥ १०५. सा शक्तिः तत्करान्मुक्ता द्योतयन्ती नभःस्थलम् । सञ्जहारास्य मूर्धानं शैलात् इव घनं मरुत् ॥ १०६. एवं निपतिते दैत्ये सभृत्यबलवाहने । सर्वे मुमुदिरे देवाः सेन्द्राः सर्पनगोरगाः ॥ १०७. मुञ्चन्तः पुष्पवर्षाणि स्तुवन्तो राजनन्दनम् । अभिजग्मुर्विनिहते सर्वदेवविरोधिनि ॥ १०८. इन्द्रः तं प्राप्य सानन्दं समाश्लिष्य मुहुर्मुहुः । व्याजहार वचः प्रेम्णा उग्रश्रीवलधिं तदा ॥ १०९. महावीर त्वया सर्वे पालिता सुमहत् भयात् । त्वया मित्रेण नित्येन सौख्यं विन्दामहे वयम् ॥ ११०. त्वयैव तारकाद्याः च विनष्टाः पूर्वजन्मनि । इदानीमपि तच्छेषं विहितं दैत्यनाशनम् ॥ १११. तस्मात् त्वां सुहृदं प्राप्य स्वर्गिणः सुखभोगिनः । तस्मात् वयमिहाभीष्टं कर्तुं काङ्क्षामहे तव ॥ ११२. यत्ते मनोरथं मत्तःप्रीत्या प्राप्नुहि भूपते । पूर्णकामस्य ते नूनं कर्तुं काङ्क्षन्यमी सुराः ॥ ११३. बह्वप्यण्डतरं वापि प्रीत्या दत्तं हि साधवः । प्रतीच्छन्ति महाभाग नदीतोयमिवार्णवः ॥ ११४. श्रीवलधिः -- देवराज दयासिन्धो तवैतत् उचितं खलु । त्वत्प्रसादेन जीवन्ति त्रयो लोकाः सनातनाः ॥ ११५. योगक्षेमेण युष्माकं प्रहृष्यामि न संशयः । तथापि तव हर्षाय त्वद्दत्तं वरमञ्जसा ॥ ११६. प्रीतिपूर्वं प्रगृह्णामि सुहृत् त्वमनुपालय । येन तुष्यन्ति गीर्वाणाः यदन्ते तत्र मानवाः ॥ ११७. देवेषु तेषु तुष्टेषु स्वयमायान्ति सम्पदः । तस्मात् प्रियतरं कर्म भूयस्ते कर्तुमुत्सहे ॥ ११८. भूतेषु च दया नित्या शिवे भक्तिश्च शाश्वती । ब्रह्मण्यता वदान्यत्वं प्रार्थनीयानि अमूनि मे ॥ ११९. एतत् एव महाराज युष्माभिः करुणा यदि । क्रियते सततं तस्मात् श्रियं काङ्क्षो न मे क्वचित् ॥ १२०. इति ब्रुवति राजेन्द्रे नन्दने लोकनन्दने । तथास्त्विति समाभाष्य सह देवैः शचीपतिः ॥ १२१. सह मातलिना भूयः प्रस्थाप्य प्रीतिपूर्वकम् । ऐरावतं समारूढः समीयाय शतक्रतुः । पुरीं पुलोमजायुक्तः सह देवैः मरुद्गणैः ॥ १२२. ततः प्रहृष्टः स नृपात्मजो बली समास्थितो मातलिना रथोत्तमम् । गतक्लमः पुष्करवर्त्मना सुतो नभश्चरैः सिद्धगणैश्च किन्नरैः ॥ १२३. अतीत्य पन्थानमहःपतेरतः प्रभृत्यमेतावलिमेत्य भूतले । प्रविश्य हालास्यमथाविवाद्य आसाद्य पित्रोः चरणाम्बुजद्वयम् ॥ इति चतुश्चत्वारिंशोऽध्यायः । Pro.Total = 3741 + 123 = 3864.

पञ्चचत्वारिंशोऽध्यायः

ज्योतिर्वनमागत्य स्नात्वा शिवाराधनं कुर्वतः भगस्य नष्टनयनयुगलः प्राप्तिः । १. अथ सुनरपाण्ड्योऽपि दण्डितारि(अराति)मण्डलः । मुमुदे तनयं दृष्ट्वा निशाकरमिवार्णवः ॥ २. समुत्थाप्य सुतं दोर्भ्यामङ्कमारोप्य सम्भ्रमात् । समाघ्राय च मूर्धानं षट्पदः कुसुमं यथा ॥ ३. अघ्रायाघ्राय सौहार्दात् न तृप्तिमुपजग्मिवान् । उभयोरङ्गसंसर्गात् सौख्यस्यैवान्तरं यथा(तथा) ॥ ४. समूहे सन्ततोदञ्चत्रोमाञ्चः पुष्पितैरिव । सर्वसाम्राज्यसौभाग्यपदे भाविनि भूपतिः ॥ ५. अभ्यषेचयत् आनन्दबाष्पपूरैरिवात्मजम् । सर्वे सभास्थः तत्र प्रेमवैक्लव्यमिशितुः ॥ ६. सर्वे मुमुदिरे हृष्टाः नीपा इव घनागमे । अथ भूपतिराहूय मातलिं चेन्द्रसारथिम् ॥ ७. बहुमान्य समायुक्तं वाक्यमेतत् उवाच ह । सुन्दरपाण्ड्यः -- मातले भवता साधु कार्यमेतत् अनुष्ठितम् ॥ ८. अपि कुण्डोदरं दैत्यं दानवं जितवानसि । इन्द्राय कुशलं ब्रूहि देवेभ्योऽपि विशेषतः ॥ ९. प्रणामं ब्रूहि गुरवे जीवाय यदनुष्ठितम् । आवयोरस्तु सौहार्दमाकल्पमनपायवत् ॥ १०. इत्थं प्रशस्य तं सूतं सुन्दरे शमहीपतिः । स्वर्गं प्रस्थापयामास सम्भाव्य मणिकाञ्चनैः ॥ ११. विसर्जयित्वा सभ्यान् च मन्त्रिणः यथोचितम् । अन्तःपुरं कुमारेण स्वयमाप समृद्धिमत् ॥ १२. ततः श्रीवलधिः प्रीत्या मातरं लोकमातरम् । विनयेनोपसंप्राप्य पादयोरभ्यवादयत् ॥ १३. सा तमागतमालोक्य चिरात् इव निजात्मजम् । अभ्यनन्दत् समाश्लिष्य स्नेहस्नुतपयोधरा ॥ १४. असुरास्त्रसमालीढमङ्गमप्यङ्गजन्मनः । पश्यन्ती परितापार्ता सौहार्दात् इदमब्रवीत् ॥ १५. ततः किन्ते वपुः क्लान्तं सुकुमारं सुमादपि । कथं सोढासि शस्त्राणामसुराणां महौजसाम् ॥ १६. एतानि व्रणजालानि त्वदङ्गस्थानानि पुत्रक । तुदन्त्यन्तर्मनो मह्यं बडवाग्निरिवार्णवम् ॥ १७. कथमासीत् तव रणं बालकस्य महाबलैः । जितवानसि तान् दैत्यान् केनोपायेन वार्भक ॥ १८. इत्थं मुहुर्मुहुः पृष्ट्वातिवेलं विलोक्य सा । शुशोच राजमहिषी गौरिवालोक्य तर्णकम् ॥ १९. इत्थं व्याकुलचित्ताया जनन्यां राजनन्दनः । प्रत्युवाचाञ्जलिं मूर्ध्ना पद्मकोशमिवोद्वहन् ॥ २०. अनुग्रहात् पितुर्मातुरपि प्राप्य महारणम् । नैवोद्विजन्ति मर्माणि तेषामस्त्राणि पुष्पवत् ॥ २१. पातिताश्च महादैत्याः निश्शेषाः सपरिच्छदाः । किन्तुर्मर्माणि मातर्मे त्वद्वियोगानलावली ॥ २२. व्यथयत्यशनिप्रख्याः दुर्बलं बलवान् इव । इति पुत्रवचः श्रुत्वा स राजा सुन्दरेश्वरः ॥ २३. परिरभ्य पुनः पुत्रं मन्दमामर्चयत् गुरुः । वितीर्य कवचं तस्मै पुत्रायाभ्येत्य मन्त्रिभिः ॥ २४. तात मा शोकमोहाभ्यां वियोगो भविता न ते । त्वदन्तिके वसिष्यामि सन्ततं जननी च ते ॥ २५. एनां पश्यसि सुस्निग्धां मातरं पितरं सुत । तथा करिष्ये गन्तव्यं स्वपुरं बन्धुभिस्सह ॥ २६. इत्थं सन्तोष्य तनयं दिव्याम्बरविभूषणैः । प्रेषयामास मालेयीतीरभूमिं सुशोभनाम् ॥ २७. मात्रा पित्रा च सौहार्दात् सम्परिष्वजय नन्दितः । कृताञ्जलिः संप्रतस्थे पितरौ प्रणिपत्य सः ॥ २८. देवसूते दिवं प्राप्ते सवाहनपरिच्छदः । मणलूरुपुरं प्राप्य निवासमकरोत् विभुः ॥ २९. कदाचित् आस्थानगतमासने परमाद्भुते । उपतस्थुर्महात्मानं मन्त्रिणो मुनयस्तदा ॥ ३०. श्रेणीमुख्याः च सामन्ताः पौरजानपदा अपि । श्वेतच्छत्रसमायुक्तं चामराभ्यां च शोभितम् ॥ ३१. तुष्टुवुस्संस्तवैः पुण्यैः सूतमागधवन्दिनः । धर्मेण पालयन् आस्ते सुकुमारो महीमिमाम् ॥ ३२. एतमिन् अन्तरे व्योम्ना दिशः प्रावृत्य सर्वशः । ददर्श सतडिन्मालः स्तनयन् मेघमण्डलम् ॥ ३३. विमुञ्चन् सन्ततां तारां नादैर्भिन्दन् इवाम्बरम् । महायुद्धपरिश्रान्तिमपवाहयितुं किल ॥ ३४. हिमशीतैरम्बुकणैःमृणालधवलैर्मुहुः । अपि सर्वेषु पश्यत्सु धाराधरगृहोदरात् ॥ ३५. अचिरांशुमहादीपो मेघवारणवाहनात् । शिवलिङ्गत्रयं तावत् महामरकतोपमम् ॥ ३६. निपपात महीपृष्ठे सह वैदूर्यवृष्टिभिः । एधतेव धनं राजन् एतत् अभ्युदयन् इव ॥ ३७. अनेन भूयः श्रेयांसि भविष्यन्ति न संशयः । चिरार्जितानां धर्माणां तपसामपि भूपते ॥ ३८. परिपक्वफलमिदं समाधत्स्व मुदान्वितः । यत्र ज्योतिरनुस्यूतमनपायं प्रकाशते ॥ ३९. तत्र संस्थाप्य विधिवत् समाराधय शम्भवम् । इति श्रुत्वाम्बरात् वाणीमधीनामशरीरिणीम् ॥ ४०. समुत्थायासनात् प्रीत्या समुदाय नृपात्मजः । राजासने समावेश्य विस्मयं परमं ययौ ॥ ४१. महामुक्तामणिमयीवृष्टिः काञ्चनपुञ्जिता । पूरयित्वा पुरं तस्य विराममगमत् क्षणात् ॥ ४२. आसन् प्रसन्ना ककुभः विबभुः व्योम्नि तारकाः । मदयन्तीव राकात् ऊर्ध्वं वलते भृशम् ॥ ४३. मुनीनामग्न्यागारेषु प्रसन्नार्चिर्हुताशनः । आदधे हविरामोदं मन्त्रपूतं प्रदक्षिणम् ॥ ४४. भूरभूत् सस्यसम्पन्ना फलवन्तश्च पादपाः । मनाम्स्यासन् प्रसन्नानि ब्राह्मणानां महात्मनाम् ॥ ४५. आकस्मिकमभूत्तत्र रोमाञ्चो सभाजुषाम् । देवदुन्दुभिनिर्घोषैः पूर्णमासीत् वियत्तलम् ॥ ४६. व्याभुष्टहर्षसन्नादं सभास्थानं महीपतेः । सूतमागधमुख्यानां तथा विद्योपजीविनाम् ॥ ४७. सञ्जज्ञे स्तुतिसन्नादो हंसानामिव मानसे । इति सम्भ्रमसन्नादकरम्बितनभस्थले ॥ ४८. सञ्चचालेव सम्भ्रान्ता सा सभा नर्तकी यथा । हिरण्यगर्भधनयावं परा वर्त्मना गता(तथा) । ४९. सनातनो मुनिः श्रीमान् आजगाम सभामिमाम् । समुत्थाय महीपालः प्रत्युद्गम्य प्रणम्य च ॥ ५०. आसने च समावेश्य मधुपर्कार्हणादिभिः । कृताञ्जलिः कृत्यविदामग्रणीः नृपनन्दनः ॥ ५१. विश्रान्तं स्वस्थमनसं प्रश्रितो वाक्यमब्रवीत् । श्रीवलधिः -- भगवन् स्वाग्तं तेऽद्य गतो वाध्वपरिश्रमः ॥ ५२. अद्य मे सफलं जन्म जीवितं च महामते । त्वदागमनकल्याणसुधाकल्लोलितात्मनः ॥ ५३. कृतार्थोऽस्मि कृतार्थोऽस्मि कृतकृत्योऽमि साम्प्रतम् । यस्त्वदीक्षणपीयूषधाराभाजनतां गतः ॥ ५४. अवन्द्यमङ्गलाध्वानविहारिणि गुरौ त्वयि । अक्षिलक्ष्यत्वमेतेषामुपयाते महात्मनि ॥ ५५. सर्वे विस्मयसम्फुल्लस्वान्तपङ्गजवृत्तयः । सभ्याः परे च काङ्क्षन्तो श्रोतुं त्वद्वचनामृतम् ॥ ५६. निस्पृहस्यापि ते ब्रह्मन् त्वय्यागमनसम्भ्रमः । शुभां जगतां जातां स्पृहां द्योतयतीव मे ॥ ५७. काङ्क्षितेष्वपि कृत्येषु भृत्यं यदि मां योक्ष्यसे । इत्थं विनयसम्पत्या भक्त्या च परमार्थया ॥ ५८. सहर्षमाणो भगवान् देवर्षिर्वाक्यमब्रवीत् । सनातनः -- राजन् ते साधुवचनैः हर्षणैर्विनयोज्ज्वलैः ॥ ५९. प्रीतोऽस्मि निस्पृहस्यापि स्पृहा जनयतीति यत् । श्रुणु वृत्तान्तमीशस्य तव हेतोर्विनोदजम् ॥ ६०. पूर्वेद्युः पूर्वपक्षस्य त्रयोदश्या निशामुखे । धाराद्रेः दिव्यशिखरमणिकाञ्चनमन्दिरे ॥ ६१. दिव्यसिंहासने देव्या सहितो लोकशङ्करः । सेव्यमानो भूतगणैः देवानां दर्शनं ददौ ॥ ६२. तत्र नन्दीश्वरमुखाः गणेशस्कन्दनन्दिनः । कुम्भजम्भालभम्भाद्याः माणिभद्रमणिध्वजौ ॥ ६३. वज्रकण्ठः शिखण्डी च हरिकर्णः सुकेतुकः । चण्डीशभृङ्गिमालूकाः प्रमथाः शतकोटयः ॥ ६४. सिषेविरे वीरभद्रं क्षेत्रपालसमन्विताः । स्तुवन्तो देवदेवेशं रुद्रसूक्तैः स्वसूक्तिभिः ॥ ६५. उपतस्थुः च कुर्वन्तः शुश्रूषां विविधां विभो । तत्र देवाः समाजग्मुर्महेन्द्रोपेन्द्रसंयुताः ॥ ६६. सिद्धगन्धर्वयक्षैश्च लोकपालाः तथापरे । नारदप्रमुखादेवाः ऋषयः काश्यपादयः ॥ ६७. स्वैः स्वैः विभूतिविभवैः आनर्चुः साम्बमीश्वरम् । करुणासान्द्रपीयूषवर्षिणापाङ्गवर्चसा ॥ ६८. मनः प्रह्लादयामास देवस्तेषां वृषध्वजः । एतस्मिन्नन्तरे ब्रह्मा आजगाम सभान्तरे ॥ ६९. शनैर्विज्ञापयामास त्वद्वीर्यविभवं रणे । पराजयं च दैत्यानां विजयं च तवाद्भुतम् ॥ ७०. गन्धर्वोद्गीयमानानि चरित्राण्यपि भूरिशः । तानि तद्वर्णितान्युच्चैराकर्णयतीव हर्षितः ॥ ७१. विभुर्विस्तारयामास शिवलिङ्गमभूमिजम् । त्वदर्थे पाशहस्तस्य पाणौ त्राणाय देहिनाम् ॥ ७२. तदेतत् आलोकयितुं तस्मात् कैलासमन्दिरात् । आगतोऽस्मि महाराज तव श्रेयो विधित्सया ॥ ७३. स राजा वरुणस्तुभ्यं कुर्वन् अभ्युदयं महत् । मणिवृष्ट्या सहेदानीं मेघैरर्पितवान् ननु ॥ ७४. तदेतत् अधुना लिङ्गं प्रथमानं महीतले । क्रियाभूतं त्रयीसारं सञ्चयत्वैकसूचकम् ॥ ७५. लिङ्गस्यास्य परं मत्वा साभ्यन्तरनिर्मले । तथैवाहाम्बरात् वाणी तत्प्रमाणं कुरु प्रभो ॥ ७६. इति तस्यादिसिद्धस्य सनातनमुनेर्वचः । श्रुत्वा श्रीवलधिर्भूयो विस्मितः प्रत्यभाषत ॥ ७७. राजा -- किं वात्र तैजसं स्थानं कुत्र वा कथ्यतां मुने । कथं मया स्थापितव्यं शाम्भवं लिङ्गमद्भुतम् ॥ ७८. ज्योतिस्थानं महीपृष्ठे कूपिकायां तिमिङ्गिवत् । अस्निग्धमशेषेण ब्रह्मन् मे वक्तुमर्हसि ॥ ७९. शङ्खः -- इति भूपुरुहूतेन तेन पृष्टः सनातनः । प्रसन्नहृदयो धीमान् विस्मितो वाक्यमब्रवीत् ॥ ८०. सनातनः -- श्रुणु राजन् पुरा वृत्तमितिहासं पुरातनम् । श्रवणात् कीर्तनात् मर्त्यो मुच्यते पापबन्धनात् ॥ ८१. पुरा दक्षे तु कोपेन भगवान् परमेश्वरः । विद्राव्य देवान् अखिलान् छित्वा देवं प्रजापतिम् ॥ ८२. उत्पाटयामास दृशौ भगस्याप्यपराधिनः । पुनः प्रशान्ते देवेशे याते कैलासमन्दिरम् ॥ ८३. दुःखितो लोचनाभावात् परिश्रान्तो मुहुर्मुहुः । भगः शरणं संप्राप शरणं गीष्पतिं गुरुम् ॥ ८४. तं सान्त्वयित्वा वचनैः हेतुभिः चापि सद्गुरुः । प्रत्यवोचत् स्वया बुध्या विचार्य परमार्थयाआ ॥ ८५. श्रुणु वक्ष्याम्यहं साधो मर्यादामादिकल्पिताम् । यः करोति शिवद्रोहं दूषयत्यपि तद्गुणान् ॥ ८६. तेषां कदापि जन्तूनां पुरुषार्थो न हि ध्रुवम् । अन्धन्तमः प्रपद्यन्ते यावत् आभूतसम्प्लवम् ॥ ८७. तथाभ्युदयं वक्ष्यामि तेन सौख्यमुपैष्यसि । या वा को वा पुमान् लोके शैवं पाशुपताभितम् ॥ ८८. अनुवृत्य स्थितो भक्त्या स कदापि न शोचति । कृतघ्नः पिशुनो लुब्धः हेतुनिष्ठः च दूषकः ॥ ८९. यन्नामकीर्तनात् एव मुक्तिमेत्यनपायिनीम् । न यमो यमदूताश्च नारयो नाधयस्तथा ॥ ९०. परिक्लेशयितुं शक्ताः शिवपादाम्बुजाश्रयात् । सैषा षडाक्षरी विद्या शाम्भवी पापहारिणी ॥ ९१. ब्रह्मविष्णुमुखैर्देवैसेव्यते चात्मसिद्धये । त्रिपुण्ड्रश्चैव रुद्राक्षो महापञ्चाक्षरो मनुः ॥ ९२. प्रशस्यन्ते त्रयी मूर्ध्ना मोहायासोपशान्तये । एवं त्रिधा विभज्येशो लोकान् पाति स्वलीलया ॥ ९३. तस्मात् त्वमद्य देवेशं शरणं याहि शङ्करम् । इत्थं प्रबोधितस्तेन भगो देवः पुरोधसा ॥ ९४. तथैव गुरुमाराध्य शिवदीक्षामदीक्षयत् । सनातनः -- उपलभ्य महामन्त्रं तस्मात् शैवषडाक्षरम् ॥ ९५. शिवाराधनतन्त्राणि यथावत् उपगम्य सः । प्रणम्य भूयः पप्रच्छ भगोऽसौ धिषणं गुरुम् ॥ ९६. भगवन् गीष्पते प्राप्तं मया सर्वमभीप्सितम् । त्वयोपदिष्टेन मार्गेण मन्त्र्णानेन भूयसा ॥ ९७. कस्मिञ्चित् तोषयामास सिद्धक्षेत्रे सदाशिवम् । येन सद्यः प्रसन्नो मे भविता त्रिजगद्गुरुः ॥ ९८. इत्युक्तवति वै तस्मिन् पुनः प्राह स गीष्पतिः । यत्र ज्योतिरविच्छिन्नं भूमौ जागर्ति शाम्भवम् ॥ ९९. अनायासेन तत्र सिद्धिः स्यात् सर्वशरीरिणाम् । तत्र गत्वा महादेवं ताम्राया दक्षिणे तटे ॥ १००. तपसाराधयन् भक्त्या प्राप्तकामो भविष्यसि । पुरा कुम्भाटको नाम राजसूनुः प्रतापवान् ॥ १०१. हत्वा स्वमातरं साध्वीं पापान्धः परितो भ्रमन् । दैवात् अवाप्य तत्स्थानं निर्धूताशेषकल्मषः ॥ १०२. यतीनां यज्वनां वापि(चापि) दुर्लभ्यां परमां गतिम् । आससाद महायोगी पुनरावृत्तिवर्जिताम् ॥ १०३. इत्युक्त्वा प्रेषयामास काश्यपिं तं गिरां पतिः । इत्थं भगः परमकारुणिकात् अवाप्य जीवात् गुरोः परमपाशुपतं व्रतं तत् । तेनाध्वना विषमलोचनमीशमिष्ट्वा ज्योतिर्वनात् नयनयोर्युगमाप शम्भोः ॥ इति पञ्चचत्वारिंशोऽध्यायः । Pro.Total = 3864 + 103 =4067.

षट्चत्वारिंशोऽध्यायः

ज्योतिर्वने कुम्भाटकनाम्नः कस्यचित् राज्ञः मातृहत्तिमोचन म् । १. सनातने मुने योगिन् सर्वतत्त्वार्थसारवित् । एतदेव पुनः श्रोतुं काङ्क्षे विस्तरतो मुने ॥ २. कथं बृहस्पतिः तस्मै कथामकथयत् पुरा । कुम्भाटकस्य विषयाः अशेषापन्निवारणीम् ॥ ३. सनातनः -- अहो चित्रतरं पुण्यं पुरा गीष्पतिनेरितम् । आख्यानं संप्रवक्ष्यामि यथावत् अवधार्यताम् ॥ ४. भगः -- नमस्तुभ्यं महाभाग सर्वदेवनमस्कृत । त्वया जीवन्ति यद्देवाः जीवोऽसि जगतां गुरो ॥ ५. को वा कुम्भाटको नाम कस्य पुत्रस्तु कीदृशः । किमर्थमवधीत् मोहात् जननीं क्रूरलोचनाम् ॥ ६. पापोऽप्यगात् पुण्यवनं केन वा कर्मणा पुनः । कथं चकार तपो घोरं कथं वा मुक्तिमाप सः ॥ ७. एतानि विस्तरात् ब्रह्मन् वक्तुमर्हस्यसंशयम् । बृहस्पतिः -- हन्त ते कथयिष्यामि कथां कलुषनाशिनीम् ॥ ८. तथाकर्णनतो जन्तुः नैव पश्यति दुर्गतिम् । पुरासीत् वसुषेणाख्यः राजा वैशालिको महान् ॥ ९. यस्य कोदण्डवैशिष्यं गायन्त्यद्यापि देवताः । यमाहुः सूरयो नित्यं द्वितीयं वा शतक्रतुम् ॥ १०. जीमूतवाहात् अधिकं दातारं कवयो विदुः । स राजा काशिराजस्य तनयां वसुमालिनीम् ॥ ११. स्वयंवरे जहारैको नारीकुलमतल्लिकाम् । तामुद्वाह्य वरारोहां चक्रे धर्माण्यनेकशः ॥ १२. वाजपेयाश्वमेधादीन् राजसूयमुखान् मखान् । मखान्ते तस्य भगवान् देवदेवो रमापतिः ॥ १३. सन्तुष्टः प्रददौ तस्मै व्योमयानं सभास्वरम् । तद्विमानं समारुह्य जित्वाभूत् मण्डलं बली ॥ १४. धनान्याहृत्य भूरीणि भूमौ धर्माण्यकारयत् । एवं पालयतस्तस्य भूमण्डलमखण्डकम् ॥ १५. सम्पदः प्रशशंसुस्ते देवदानवमानवाः । अनपत्यतया किञ्चित् अपूर्वत्वेन सर्वतः ॥ १६. तच्छ्रुत्वोद्विग्नहृदयो विचार्य सह मन्त्रिभिः । राज्यभारं समादाय मन्त्रिमुख्ये सुधार्मिके ॥ १७. धर्मपत्न्या समं राजा तपसा वनमेयिवान् । चकरोग्रतपः पत्न्या नियमैः दुष्करैः परैः ॥ १८. कुलोचितं मे तनयं शूरमत्यधिधार्मिकम् । दातुमर्हसि मे शम्भो त्वामहं शरणं गतः ॥ १९. इति संप्रार्थ्य मनसा तोषयामास शङ्करम् । कुलधर्मकरीं कन्यां (शीलो)शीलौदार्यगुणान्वितम् ॥ २०. मातर्मे देहि कल्याणि त्वामहं शरणं गता । इति संप्रार्थ्य सञ्चक्रे सपत्नीकः चिरं तपः ॥ २१. एवं वर्षशते पूर्णे संप्रीतावादिदम्पती । सान्निध्यं पुरतः कृत्वा युगपत् वाचमूचतुः ॥ २२. युवयोरीप्सितं वस्तु रूपसौभाग्यसम्भृतम् । लोकैकविस्मयकरं भविष्यति न संशयः ॥ २३. एवममन्तरधात् दाता दत्वापि लक्षितं वरम् । स्वपुरं प्रत्यपद्येतां यथाभिलक्षितोदयौ ॥ २४. कालेन सैषा महिषी प्राप दौर्हृदलक्षणम् । सोऽपिराजवरः श्रीमान् कृत्वा पुंस्सवनादिकम् ॥ २५. चिन्तयानः सुतोत्पत्तिं तद्रक्षां विधिवत् व्यधात् । साप्यसूत शुभे लग्ने मासे वैजनने सति ॥ २६. स्त्रीपुंसलक्षणोपेतां प्रजामालोक्य ते जनाः । हा कष्टमिति जल्पन्तः शोकाक्रान्ता सदाभवन् ॥ २७. स राजा परमोद्विग्नो ज्ञातिसम्बन्धबान्धवैः । अभूतपूर्वचिह्नानि निशाम्यातीव दुःखितः ॥ २८. क्वेयं दुर्लक्षणावाप्तिः क्व वा मे तपसः फलम् । किं कुर्मः कस्य वा ब्रूमः दैवे विषयवर्तिनि ॥ २९. एवमुद्विग्नचिह्नेषु जनेष्वन्येषु भूपतौ । यदृच्छया महायोगी वामदेवः समागतः ॥ ३०. तं दृष्ट्वोत्थाय भूपालः प्रत्युद्गम्य प्रणम्य च । आसनाद्युपचारैः च पूजयित्वा यथाविधि ॥ ३१. उपविष्टं सुविश्रान्तं नृपः प्राह कृताञ्जलिः । राजा -- भगवन् योगिनां श्रेष्ठ त्वदागमनगौरवात् ॥ ३२. प्रीतोऽस्मि कृतकृत्योऽस्मि कृतार्थोऽस्मि न संशयः । इदमुत्पातरूपं मे किं प्रजावपुषाभवत् ॥ ३३. आलोचितः ते भविता पुत्र इत्याह सङ्करः । मिथ्या तत् कथमभूत् देवदेवस्य भाषितम् ॥ ३४. इत्थं शोकविकल्पेन जल्पन्तमवनीपतिम् । चिन्तयित्वाह भगवान् वामदेवः त्रिकालवित् ॥ ३५. वामदेवः -- राजन् क्वापि शिवयोर्न मिथ्या जायते गिरः । त्वया संप्रार्थितः पुत्रः बलौदार्यगुणान्वितः ॥ ३६. तथैव वसुमालिन्या पुत्री संप्रार्थिता किल । आवयोः काङ्क्षितं दात्रोः शिवयोर्कथितं वचः ॥ ३७. कदापि न मृषा भूयात् तत्र को विस्मयः प्रभो । तस्मात् तव संशयमपहर्तुमिहागतः ॥ ३८. आशानुरूपं जन्तूनां कर्मणः फलमिष्यते । यथायं प्रार्थितो देवः पूजितुः तादृशो भवः ॥ ३९. चिन्ता मास्त्वत्र राजेन्द्र करिष्याम्यद्य ते प्रियम् । पुत्रोऽसौ भविता नूनं हायनत्रितयं पुनः ॥ ४०. पुनः त्रिवत्सरं नारी भविष्यति पुनः पुमान् । पर्यायेणैव राजन् पुत्री पुत्रो भविष्यति ॥ ४१. अनेन पुत्ररूपेण श्रेयस्ते सम्भविष्यति । दुहितेयं पुनर्भूत्वा युवामाह्लादयिष्यति ॥ ४२. इत्युक्त्वा कारयामास जातकर्मादिकं मुनिः । आशीर्भिः योजयित्वैतौ पुनः प्रायात् यथागतम् ॥ ४३. अपयाते वामदेवे स्मयमानो महीपतिः । कृतसंस्कारसम्पन्नो पुत्रमेनवर्धयत् ॥ ४४. कालेनाभ्यस्तशास्त्रोऽयं शस्त्रास्त्रेषु कृतश्रमः । ब्रह्मविद्यामवाप्यासौ ब्रह्मचर्यमुपाचरन् ॥ ४५. तथैव केकयेन्द्रस्य पुत्रीमुद्वाह्य माधवीम् । तया रेमे कुमारोऽथ रमया माधवो यथा ॥ ४६. स्त्रीत्वेऽपि ब्रह्मदत्तस्य पत्नी पाञ्चालविद्यया । भूत्वा चचार धर्माणि पातिव्रत्योचितान्यपि ॥ ४७. द्विवर्त्मानमिमं नाम्ना प्रशशंसुः समन्ततः । द्विवर्त्मकामिमां स्तोकं प्रशशंसुर्हिः नामतः ॥ ४८. वसुषेणो महाबुद्धिः पुत्रं राज्येभिषिच्य च । स्व पत्न्या वनं प्राप्य तपसाराध्य शङ्करम् ॥ ४९. कर्मबन्धविनिर्मुक्तः संप्राप परमां गतिम् । सोऽपि द्विवर्त्मा माधव्यां पुत्रं लेभे सुवर्चसम्(सुमेधसम्) ॥ ५०. द्विवर्त्मनोऽपि पाञ्चालं भूपतेः महिषीसुतम् । असूत समये पुत्रं कुम्भाटक इति श्रुतम् ॥ ५१. अपयाते शतं तस्मिन् शरदां कालयोगतः । स पाञ्चालमहीपालो रोगात् पञ्चत्वमेयिवान् ॥ ५२. पितर्युपरते तस्मिन् स्वयं राज्यमाकारयत् । उभौ तौ बालकौ स्नेहात् यथाकालं यथोचितम् ॥ ५३. पोषयित्वा कलास्वेतावशिक्षयत् अनुक्षणम् । तावुभौ तु महावीरौ सर्वशास्त्रेषु शिक्षितौ ॥ ५४. गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु कोविदौ । राजकृत्येषु निष्णातौ प्रकृतीनां च सम्मतौ ॥ ५५. बभूवतुर्वीरवरौ युवानौ पितृसम्मतौ । एतस्मिन् एव समये स कुम्भाटकनामकः ॥ ५६. बोधितः पिशुनैः दुष्टैः पापमचिन्तयत् । ज्येष्ठ एव सुतो राज्ये पित्रा समभिषिच्यते ॥ ५७. कनिष्ठः तत्परो राजा शास्त्रेषु विहितः किल । ज्येष्ठं करोति राजानं न कनिष्ठं करोति माम् ॥ ५८. विशाला नगरी ज्येष्ठा पाञ्चालनगरी तथा । अस्माकं विमुखी जाता मज्जाड्यत्वेन केवलम् ॥ ५९. इमामम्बां ज्येष्ठपुत्रकृतस्नेहां ममाहिताम् । हनिष्यामि न सन्देहो तत्र दोषो न विद्यते । ६०. ज्येष्ठो वैशालिको भूयात् पाञ्चालस्येन्द्रो भवाम्यहम् । इति निश्चित्य मनसा कुम्भाटः कुलपांसनः ॥ ६१. असद्बिर्बोधितो मूर्खैः अर्धरात्रे स्वमातरम् । शिरः चिछेद खड्गेन पशुं (शौ)सौनिकवत् बली ॥ ६२. अनभिज्ञातमन्यैस्तु कृत्वा कर्मातिपातकम् । सम्भ्रान्तः स्वगृहं प्राप वल्मीकमिव पन्नगः ॥ ६३. ततः प्रभाते विमले सर्वे राजानुचारिणः । हतां दृष्ट्वा भयाविष्टाः हा कष्टमिति चुक्रुशुः ॥ ६४. जनाः सम्भूय सामन्ताः मन्त्रिणो मित्रबान्धवाः । दुःखेन महता दीनाः चक्रुः तस्यौर्ध्वदेहिकम् ॥ ६५. सुमेधसं ज्येष्ठपुत्रं बलिनं सर्वसम्मतम् । पुरोधसा मन्त्रिवृद्धाः विधिना चाभ्यषेचयन् ॥ ६६. मातृहत्या समाविष्टः परिभ्रान्तो जडोऽनुजः । हा हतोऽस्मीति विक्रोशन् चचार पृथिवीं भयात् ॥ ६७. पृष्ठतःतस्य भीमाक्षी दण्डहस्ता पिशाचिका । कापि हत्तिर्महाघोरा तर्जयामास भर्त्सनैः ॥ ६८. तया विद्राव्यमाणोऽसौ श्रान्तः खेदमपारयन् । निराहारो विनिद्रश्च शुष्ककण्ठोष्ठतालुकः ॥ ६९. अन्विष्य शरणं किञ्चित् न लेभे सौख्यमात्मनः । परिभ्राम्य महीं कृत्स्नां काशीकौसलमालवान् ॥ ७०. काश्मीरान् मागधान् वङ्गान् साल्वानारट्टकानपि । चोलकेरलकम्भोजान् अतीत्य विपिनान्यपि ॥ ७१. पुण्यक्षेत्रान्यनासाद्य पुण्यतीर्थानि हत्यया । विद्राव्यमाणः सर्वत्र प्राप्य पाण्ड्यमहीमिमाम् ॥ ७२. यत्र चन्दनसौरभ्यमलयेन्द्रनभस्वता । ताम्रातरङ्गशीतेन महापापापहारिणा ॥ ७३. पवित्राम्बरं राज्यं यदाप परितो भ्रमन् । तथैव पृष्ठतो यान्तीं स्त्रीहत्यां घोररूपिणीम् ॥ ७४. न ददर्श क्षणादेव तमस्सूर्योदये यथा । समन्तात् ब्रह्मभुयिष्ठां ब्रह्मघोषनिनादितम् ॥ ७५. ऋषिवृन्दैः स्तूयमानैः अग्निभिर्मन्त्रमन्त्रितैः । वर्णाश्रमसदाचरैः जनैरानन्दनिर्भरैः ॥ ७६. पूर्यमाणा पुरी पुण्यैर्दक्षिणाशा सुशीतला । महामणिगणाकीर्णा कुम्भयोनिपवित्रिता ॥ ७७. सैषा दर्शनमात्रेण कुम्भाटं शरणागतम् । अपालयत् इवाभ्याशे स्वपुत्रं जननी यथा ॥ ७८. इत्थमाश्वासितः तावत् देवेन नृपनन्दनः । स्मयमानः परिभ्राम्य ताम्राया उत्तरे तटे ॥ ७९. निषाद्य मूले वृक्षस्य पिप्पलस्य महीयसः । ताम्रामालोकयन्नग्रे महापीयूषवाहिनीम् ॥ ८०. चिन्तयामास बहुधा व्याघ्रमुक्त इवोरगः । हा घोररूपिणी हत्या क्व याता केन वारिता ॥ ८१. अत्याहारविहीनस्य तीर्णाध्वानस्य मे कुतः । परिश्रमः परामृष्टः भयं चापि पलायितम् ॥ ८२. अन्धकारोपऽयशेषश्च शान्तः स्वस्थं च मे मनः । आकस्मिकमहासौख्यं सञ्जातं केन हेतुना ॥ ८३. मातरं पितरं भार्यां ब्राह्मणं शरणं गतम् । ये च निघ्नन्ति पापिष्ठा तेषां काश्यपि कालिका ॥ ८४. महापातकयुक्तानां मातृहत्यालसात्मानाम् । गङ्गाप्यङ्गारपूरेति कथयन्ति पुराविदः ॥ ७५. इतः परं किं करिष्ये शरणं कं व्रजाम्यहम् । अत्रावधिं न पश्यामि मित्रं संरक्षणक्षमम् ॥ ८६. इति चिन्तयस्तस्य राजपुत्रस्य धीमतः । कापि कल्याणजननी बुद्धिरासीत् पुराकृतैः ॥ ८७. पुण्यैः तत्तीरसंयोगात् अरणेर्हव्यवाट् इव । इयं पुण्यनदी साक्षात् सर्वपापप्रणाशिनी ॥ ८८. यदालोकनमात्रेण स्त्रीहत्या यद्विनाशिता । तस्मात् स्नातव्यमस्माकं तीर्थमेतत् न संशयः ॥ ८९. अतः परं गमिष्यामि शरणं कमपि द्विजम् । इति निश्चित्य मनसा तत्र स्नात्वा यथाविधि ॥ ९०. दक्षिणं तीरमाश्रित्य ददर्श महदाश्रमम् । सर्वतः शोभनाकारां तपन्तीमिव दुष्करम् ॥ ९१. तत्र काञ्चनतन्वङ्गीं तपनीयनिभप्रभाम् । भस्मोद्धूलितसर्वाङ्गीं भास्वद्रुद्राक्षमालिकाम् ॥ ९२. चीरकृष्णाजिनधरां तपस्यन्तीं सुनिश्चलाम् । चञ्चत् अङ्गुष्ठकोटीरव्यावृद्धाक्षिस्रगुज्ज्वलाम् ॥ ९३. महामन्त्राक्षराटोपस्फुरमाणौष्ठपल्लवाम् । अचञ्चलतटित्प्रख्यां अर्धोन्मीलितलोचनाम् ॥ ९४. अनासाद्यामन्यजनैः दीप्तामग्निशिखामिव । तां दृष्ट्वा विस्मयाविष्टः शनैरासाद्यशान्तिगम् ॥ ९५. प्रणिपत्याञ्जलिं मूर्ध्ना लालयन् नृपनन्दनः । उपतस्थे तथा देवीं गायत्रीं ब्राह्मणो यथा ॥ ९६. उपहृत्य समाधिं सा शनैरुन्मील्य लोचने । ददर्श पुरतो दान्तमुपचारमुवाच ह ॥ ९७. कस्त्वं कुतस्समायातः किं वागमनकारणम् । सर्वमाख्याहि तत्त्वेन यद्यगोप्यं मयाधुना ॥ ९८. अनुशिष्टः तया तन्व्या स्ववृत्तान्तमशेषतः । स्वगोत्रकर्मनामानि व्याचचक्षे विशाम्पते ॥ ९९. मया पापात्मना मातृहत्या पापान्धचेतसा । प्रायश्चित्तं पातकस्य कृतस्यादेष्टुमर्हसि ॥ १००. का त्वमेकाकिनी बाला तपो घोरं वितन्वती । परिश्राम्यसि मातस्त्वं श्रोतव्यं मे कृपास्ति मे ॥ १०१. पापान्धसिन्धौ पतितं गभीरे पारानवाप्त्या परिशोचमानम् । त्राहि प्रसन्ने जननीव पुत्रान् सत्यं पुरस्तात् शरणागतं माम् ॥ १०२. इत्थं दुःखार्तिकम्पमानहृदयं कारुण्यकल्लोलिनी सैषा स्वाङ्घ्रिसरोरुहैकचरणं पाञ्चालभूपात्मजम् । पापात् एनं अमोचयत् परशिवानन्दैकदीक्षा- क्रमात् दावाग्नेरिव कालिकाजलकणैघर्मेव नान्यां गतिम् ॥ इति षट्चत्वारिंशोऽध्यायः । Pro.Total = 4067 + 102 =4169

सप्तचत्वारिंशोऽध्यायः

ज्योतिर्वने कचावत्याः ताम्रास्नानमहिम्ना भर्तृत्वप्राप्तिः । १. भगवन् करुणामूर्ते ज्ञानविज्ञानवारिधे । स्वर्गापायतमस्सूर्ये कार्याकार्यविचारवित् ॥ २. त्वदङ्घ्रिपङ्कजालम्बात् अनपायमिदं जगत् । तस्मात् त्वं शरणं प्राप्य न पश्ये शोकमुल्बणम् ॥ ३. एतत्वृत्तान्तमाश्चर्यं भूयो विस्तरतो गुरो । श्रोतुमिच्छाम्यशेषेण प्रसादः क्रियतां मयि ॥ ४. केयमेकाकिनी बाला किमर्थं तप आस्थिता । कथं कुम्भाटवीं पापात् दुरन्तात् तामचोदयत् ॥ ५. इति तेनार्थितः तावत् गुरुर्गिरमथादधे । बृहस्पतिः -- श्रुणु नान्यमना पुण्यां कथां काश्यपनन्दन ॥ ६. पुरा वात्स्यायनः कश्चित् अजमीड इति श्रुतः । तस्य धर्मचरी पद्मा नाम्ना गार्ग्यस्य नन्दिनी ॥ ७. असूत कन्यामाश्चर्यां रूपौदार्यगुणान्विताम् । कचावतीति विख्याता चतुष्षष्टिकलावती ॥ ८. पित्रोः शुश्रूषणपरा वर्धमानेव चन्द्रिका । बाल्ययौवनमध्यस्था वयसा चारुहासिनीम् ॥ ९. अनुरूपतपःकर्मविद्याविनयशालिने । हारीताख्यवरायैनामदात् आत्मैकवेदिने ॥ १०. हारीतस्तां समुद्वाह्य लक्ष्मीमिव जनार्दनः । सभार्यः स्वाश्रमं प्राप बान्धवैरनुमोदितः ॥ ११. सापि बाला पतिगृहे गृहकर्मरता सती । शुश्रूषमाणा भर्तारं श्वश्रूः प्रीतिमर्धयत् ॥ १२. एतस्मिन्नन्तरे चारु मिथुनं कृकलासयोः । रममाणौ रतिपरौ संसप्राक्षीत् कचावती ॥ १३. विनोदनाय तदा काष्ठमङ्गुष्ठप्रमाणकम् । तस्योपरि चिक्षेप पतत्प्रहारैकदेशतः ॥ १४. मिथुनमूर्च्छितमभूत् पतितं व्याजहार ताम् । दुर्भगे रतिवेलायां विघ्नं कृतवती यत ॥ १५. तव भर्तृवियोगोऽभूत् पापेनेनानेन भूयसा । इत्युक्त्वा कृकलासस्त्यक्त्वा तं मिथुनं वपुः ॥ १६. स्पृहणीयतराकारावास्ताममरदम्पती । विमानवरमारुह्य प्रयाणाभिमुखौ तदा ॥ १७. कचावतीं शोचमानां तरुणीं सास्रलोचनाम् । सान्त्वयित्वा दयायुक्तः वाचमेनामभाषत ॥ १८. प्रिये कल्याणि मा भैषीः शोकं नार्हस्यपि श्रुणु । भवितव्ये न शोचन्ति मण्डिताः सूक्ष्मदर्शिनः ॥ १९. अनभिज्ञातयावाभ्यां लब्धः शापोऽयमुल्बणः । द्वादशाब्दावधिर्भूयात् तावत् श्रेयः समेष्यसि ॥ २०. इत्युक्तवन्तौ तौ नत्वा विमानवरमास्थितौ । व्याजहार नयभिज्ञा दिव्याकारौ कचावती ॥ २१. कौ युवां कमनीयाङ्गौ महाभोगैकभागिनौ । अदृष्टपूर्वसौभाग्यौ सुरसम्पूर्णविग्रहौ ॥ २२. भास्कराविव निष्क्रान्तौ रोहिणीचन्द्रवर्चसौ । केन कर्म विपाकेन संप्राप्तौ कृकलासताम् ॥ २३. केन वा सापराधायां मयि वात्सल्यभगिनौ । एतानि श्रोतुमिच्छामि वक्तव्यं यदि विस्तरात् ॥ २४. गन्धर्वः -- वत्से त्वामभिधास्येऽहं जन्मकर्म च पूर्विकम् । पुरा गन्धर्वराजस्य वसुनाभस्य धीमतः ॥ २५. पुत्रोऽहं सुरुचिर्नाम मद्भृत्यानां मदौदयः । रूपेणासगुणेनापि कान्तिसौभाग्यवत्तया ॥ २६. गण्यमानेषु गन्धर्वेष्वग्रेसरमिमं जनः । प्रशंसन्ति जनास्सर्वे देवदानवमानवाः ॥ २७. सङ्गीतविद्यासर्वस्वसारस्वते चोमापतिः । तपसाराधिताः चक्रुः ऋषी नारदपर्वतौ ॥ २८. एषा पुष्करकेशस्य गन्धर्वाण्मधिशितु ; । तनया सौरगत्येन विद्याविनयसम्पदा ॥ २९. तुलिता सा वराटेयं मया चोढा स्वयम्वरे । देवदत्तविमानेन कामगेनार्कवर्चसा ॥ ३०. परीत्य सकलान् लोकान् अनया भार्यया समम् । गन्धमादनशैलस्य मणिकन्धरमन्दिरे ॥ ३१. मयानीतामरकक्ष्याः कीडताक्षैरहर्निशम् । एतस्मिन्नन्तरे तन्वि तनयौ यज्ञकेतुनः ॥ ३२. प्रियमित्रः सुमित्रश्च सङ्गीतागमपारगौ । अन्योन्यविद्याप्रागल्भ्यात् मदन्तिकमुपागतौ ॥ ३३. तावनादृत्य क्रीडन्तावावामन्योन्यविभ्रमात् । तावदाविष्टरोषाभ्यां शापुत्सृष्टतयेदृशः ॥ ३४. अन्यच्च श्रूयतां भद्रे शोकमत्युल्बणं मम । षड्जपाल इति ख्यातः गन्धर्वः मत्सुहृत्तमः ॥ ३५. कलाकलापदुग्धाब्धिः मम प्राणो बहिश्चरः । देवराजस्य शापेन हेतुना केनचित् पुरा ॥ ३६. स्त्रीत्वमासाद्य गोकर्णे शुचावासीत् शतं समाः । तावत् तत्परितोऽर्थी तु स्त्रीहेतोः कोऽपि दानवः ॥ ३७. जघान गदया तत्र तद्भार्यां च विचकर्ष सः । पातिव्रत्याग्निना तस्या सोऽपि भस्मीकृतोऽभवत् ॥ ३८. स दैत्योऽभूत् द्विवर्त्माख्यः नाम्ना कुम्भाटकः स्वयम् । निहत्य मातरं तत्र हत्या सम्भ्रान्तचेतनः ॥ ३९. यावत् त्वदन्तिकं याति तावत्तस्मै ससान्त्वकम् । इमां शैवीं महाविद्यामुपदेष्टुं त्वमर्हसि ॥ ४०. तावद्भर्त्रा समायुक्ता श्रेयः प्राप्स्यसि बालिके । इत्युक्त्वा तां स गन्धर्वः शैवीमेनां षडक्षरीम् ॥ ४१. उपदिश्य यथान्यायं तामामन्त्र्य प्रियान्वितः । विमानेनातिवेगेन प्रययौ व्योमवर्त्मना ॥ ४२. सापि विस्मयसम्फुल्लनयना चारुहासिनी । स्वभर्त्रे कथयामास रहस्येषा कचावती ॥ ४३. प्रियावियोगः प्राप्तव्यं मन्वानो मुनिपुङ्गवः । प्रियासखः प्रीतिकरं पित्रोर्नियमकारयत् ॥ ४४. केषुचित् शापया तेषु दिनेषु पितरौ मुनेः । दैवात् पञ्चत्वमापन्नौ शिवसायुज्यमीयतुः ॥ ४५. तावत्पित्रोर्यथान्यायं सविधायौर्ध्वदेहिकम् । निवापाञ्जलिमादातुं स्वपत्न्या बन्धुभिस्सह ॥ ४७. स्नातुं मलयनन्दिन्याः तीर्थमाविश्य मन्त्रवित् । ममज्ज शीतले तीर्थे शिव पाहीत्युदीरयन् ॥ ४८. तावत् कश्चित् बलेर्भृत्यो दैत्यः तत्तीर्थसंश्रयः । विनोदाय तमानीय निनाय बलिमन्दिरम् ॥ ४८. तं दृष्ट्वा मुनिमानीतं स्वभृत्येनावजानता । स्वागतासनपाद्यार्घ्यमधुपर्कार्हणादिभिः ॥ ४९. तोषयित्वा स्वभवने मुनिमेनमवासयत् । अथ तीरगताः स्निग्धाः मुनयोऽपि बान्धवाः ॥ ५०. हारीतं तमश्यन्तः चुक्रुशुः शोककर्शिता । कथमम्भसि निर्मग्नः पुनर्नागन्तुमक्षमः ॥ ५१. गृहीतो वा ग्राहमुख्यैः नीतो वा स्रोतसा पुनः । मृत्युः प्राणैकहर्ता स्यात् न देहस्य कदाचन ॥ ५२. अहो पिता च माता च द्वादशाहात् परं गतौ । एषा कचावती बाला तनीयस्यामलाशया ॥ ५३. कथं सोढुं सम्रर्था स्यात् संप्राप्तं विरहज्वरम् । विलप्य बहुधा चैव सुहृदो दिवसत्रयम् ॥ ५४. सान्त्वयित्वा च तत्पत्नीं स्वानि स्वानि गृहान्यगुः । सापि भाव्यमिदं दुःखमवस्थाप्य हृदयङ्गणे ॥ ५५. तस्याश्रमस्था तपसा तोषयामास शङ्करम् । निराहारा यदाहारा स्थिता स्थण्डिलशायिनी ॥ ५६. ताम्रायास्तु महातीर्थे दर्शनात् पापहारिणि । त्रिकालं कुर्वती स्नानं महानियममास्थिता ॥ ५७. द्वादशाब्दं क्रमेणैव सा निनाय शनैः शनैः । तावत् कुम्भाटकं दृष्ट्वा तद्वृत्तान्तं निशम्य च ॥ ५८. स्नेहात् स्वकर्मनामानि कथयित्वा यथोचितम् । दीक्षां अस्मै समावेश्य प्रादाच्चैव षडाक्षरम् ॥ ५९. प्राप्य पाशुपत्ताभिख्यं व्रतं तत्र नृपात्मजः । पशुवृत्तिं समाधाय तस्यां अहरहः कृती ॥ ६०. साम्बमाराधयामास महानियममास्थिता । दिनेष्वेवं नीयमानेष्वबला दुर्बलाशया ॥ ६१. कचावती निशामध्ये चिन्तामाप दुरत्ययाम् । अहो मे दुरितस्यान्तो नाभ्येति चिरकालतः ॥ ६२. गन्धर्वराजवचनं यथार्थं फलते न मे । द्वादशाब्दमपाक्रान्तं समयो ह्यत्यवर्तत ॥ ६३. मन्त्रौषधीतपस्तीर्थदेवपूजादिकान्यपि । सद्यः सुकृतिनं पाति नैव पाताकिनं खलु ॥ ६४. पापास्तु त्रिविधा प्रोक्ता ह्यागम्यारब्धसंशयाः । आद्यन्तकौ सुकृतिनां विलीयेते तपोबलात् ॥ ६५. मधमस्तु गरिष्ठोऽयं यमनुभोगात् विनश्यति । अवश्यमनुभोक्तव्यं कृतं कर्मशुभाशुभम् ॥ ६६. नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि । कदापि धर्मशीलानां विद्यन्ते नापदः क्वचित् ॥ ६७. अभाग्यपापिनं पापं निकृन्दन्ति पदे पदे । जन्मान्तरार्जितैः पापैः पतिविश्लेषणं स्त्रियः ॥ ६८. तदिदानीं प्रमुञ्चन्ति किं दुष्कृतकारिणम् । मृते भर्तरि नारीणां धर्मो ह्यनुमृतिः ध्रुवम् ॥ ६९. तमेनमपहायात्र वर्तन्तीं मां दुराशयाम् । हसन्ति सन्तः सीदन्तीं व्यर्थकर्मैकपालिनीम् ॥ ७०. तस्मादितः परं कार्यमस्माकं सौख्यहेतवे । विमलापहायैनां ननु धर्मार्जनक्षमाम् । ७१. त्यक्त्वा मलयनन्दिन्याः तीर्थे पापापहारिणि । भर्तारमनुगच्छामि नात्र कार्या विचारणा ॥ ७२. तपःकर्तुमशक्तानां समाधिमुपगच्छताम् । असामर्थ्यवतां लोके फलाः सन्दर्शिताः च तैः ॥ ७३. भृगुपातोऽग्निपतनं सङ्ग्रामे निधने तथा । महाप्रस्थानकरणं तीर्थे देहविसर्जनम् ॥ ७४. अनायासेन कुर्वन्ति मोक्षलक्ष्मीमिति श्रुतिः । अनुयान्ति स्वभर्तारं कूटस्थाः पूर्वपूर्विकाः ॥ ७५. अद्यापि सद्भिः गीयन्ते स्त्रियो धर्मपरायणाः । पारम्पर्यकथामेनां पदवीं भाग्यदायिनीम् ॥ ७६. अपहाय महामोहात् कालो मे पर्यवर्तितः । दैवात् इदानीमस्माकं सञ्जाता बुद्धिरीदृशी ॥ ७७. सर्वतीर्थमयी देवी देवता मन्त्ररूपिणी । महामङ्गलदा नॄणां माला मलयनन्दिनी ॥ ७८. पालयिष्यति मां व्यक्तं नात्र कार्या विचारणा । इति निश्चित्य मनसा वैशाखे बहुलागमे ॥ ७९. उपोष्य नवमीं शुद्धामाराध्य गिरिजासखम् । अपरेद्युरसम्भ्रान्ता किञ्चित् अभ्युदिते रवौ ॥ ८०. निर्गत्य स्वाश्रमात् तन्वी कीर्तयन्ती शिवं शिवाम् । स्मरन्ती गुरुपादाब्जं स्मरन्ती पारलौकिकम् ॥ ८१. छिन्दन्ती कर्मपाशान् च प्रविशन्ती परात्परम् । तीरमासाद्य ताम्रायाः निगृहीताखिलेन्द्रिया ॥ ८२. आशान्ता स्वान्तसम्फुल्लपरतत्त्वार्थदीपिका । अनुयाते शनैरेनामारूढेव मनोरथम् ॥ ८३. शिरस्यनुस्यूतगुरुपादुकातपवारणा । परमानन्दपीयूषपाथेयोल्लासिताशया ॥ ८४. परलोकप्रयाणार्थं परिच्छेदवती च या । नमस्कृत्य मुहुर्भक्त्या गुरुहेरम्बभैरवान् ॥ ८५. कण्ठलग्नजले स्थित्वा ध्यायन्ती परमेश्वरम् । जजाप परमं मन्त्रं कर्मनिर्मूलनक्षमम् ॥ ८६. कल्याणि कलिपङ्कघ्ने कन्दलत्करुणाशये । सदाशिवहृदावासे सायुज्यं संप्रयच्छ मे ॥ ८७. गङ्गाद्यशेषालिलालितामृतवाहिनि । सदाशिवहृदावासे सायुज्यं संप्रयच्छ मे ॥ ८८. ब्रह्मविष्णुमहेशेशसदाशिवमनोरथे । मलयाद्रिसमुद्भूते मार्गं देहि महेश्वरि ॥। ८९. इति मन्त्रं समुच्चार्य ममज्जाम्भसि निर्मले । कचावती निराशा सा निर्मलं पदमेयुषी ॥ ९०. तावत्कलाकलारावः सञ्जज्ञे तीरवर्तिनाम् । निषेधतीव निर्याणं तरङ्गनिकरैः करैः ॥ ९१. चकाशे तटिनीहंससारसारवमेदुरा । तस्मादाविरभूदग्रे तडित्वान् तत्क्षणादिव ॥ ९२. तरुणादित्यसङ्काशा तरङ्गितकृपाशया । चतुर्भुजाभुदोञ्चत्पाशाङ्कुशवराभया ॥ ९३. मणिकोटीरघटिता शर्वरीविटरूपिका । किरीटहारकेयूरकनत्कनककुण्डला ॥ ९४. कर्पूरवृष्टिविभ्रान्तिकारिणी स्मितरोचिषा । कृपातरङ्गितापाङ्गपरिपूता शुभावलिः ॥ ९५. नित्यकल्याणदा गौरी मायापाशविमर्दिनी । स्तूयमाना मुनिगणैः पूज्यमाना सुरासुरैः ॥ ९६. लोकापायोपशमनैः स्वकैः करसमोन्मुखैः । दृशा व्योमाम्बुपूरात् अभिमृश्य कचावतीम् ॥ ९७. मा भैष्ट मा विचारोऽस्तु त्वया च सविजृभणम् । जहि शोकमिमं वत्से धैर्यमालम्ब्यतां हृदि ॥ ९८. विद्यया तपसा सौख्यसौभाग्याभ्युदयश्रियम् । पश्य पश्य भजस्वेमां परमानन्दसम्पदम् ॥ ९९. मुहूर्तात् एव भर्तारं तीर्थात् अस्मात् उदित्वरम् । द्रष्टुमर्हसि सानन्दं पूर्णकामा भविष्यसि ॥ १००. अस्मिन् मत्संश्रये तीर्थे स्मरणात् अशुभापहे । त्वदीरितामिमां जप्त्वा स्तुतिं मुक्तामणिप्रसोः ॥ १०१. ये मज्जन्ति मां स्तुत्वा नूनं सायुज्यभागिनः । मध्याह्ने वाथवादित्ये समुन्मिषति मानवः ॥ १०२. स्नात्वा स्वपितॄन् विप्रान् तर्पयित्वा यथोचितम् । ज्योतिःस्थानं समालोक्य कर्मबन्धात् विमुच्यते ॥ १०३. त्वया युक्त्या भक्त्या वस्तव्यं पूर्णभाग्यया । स्वभर्त्रा सुखदान् भुक्त्वा विषयान् धर्मसम्मितान् ॥ १०४. अन्ते निरामयं तेजो युवाभ्यां प्राप्यमञ्जसा । इति तामनुशास्याम्बा प्रीणयित्वापरोत्तमैः ॥ १०५. पश्यतां सर्वदेवानां तत्रैवान्तरधात् जले । ततः प्रसन्नहृदया समेता तत्र बान्धवैः ॥ १०६. प्रवाहलक्ष्मीमक्षीणां प्रसन्नकमलाननाम् । फेनावलिदुकूलाढ्यामुच्चलन्मीनलोचनाम् ॥ १०७. आवर्तनाभिशोभाढ्यां नीलशैवालकैशिकाम् । चक्रवाकस्तनवतीं हंससारसनादिताम् ॥ १०८. अस्पन्दनिमिषोल्लाससानन्दैः लोचनोत्पलैः । आभिमुख्यप्रवाहैस्तैः अभावनिबिडैर्जनैः ॥ १०९. एवं प्रतीक्षमाणेषु मुनेरभ्यागमार्थिषु । तत्तीरपूरादाश्चर्यप्रभा प्रादुरभूदग्रतः ॥ ११०. ऐन्द्रीमिव परिक्षिप्तां आशामरुणरश्मिभिः । चकाशे सा नदी पुण्या कुङ्कुमोदकवाहिनी ॥ १११. उपर्युपरि पूरस्य जृम्भमाणैः च बुद्बुदैः । उदयारुणिते व्योम्नि समभावीव तारकैः ॥ ११२. इतस्ततः प्रसर्पिद्भिः शफरैः प्रांशुभिर्जले । उन्ममज्ज मुनिर्मीनकेतुशङ्कां विकल्पयन् ॥ ११३. सदैत्यराजदत्तैः च मणिकाञ्चनभूषणैः । किरीटेनार्कवर्णेन द्योतयन् इव रोदसी ॥ ११४. प्रादुरासीत् मुनिः तीर्थात् पश्यतां तीरवर्तिनाम् । ऊह्यमानो बहुगणैः हेतुभिः तत्त्वदर्शिभिः ॥ ११५. प्रियामानन्दयन् स्निग्धां बन्धून् चैवानुवर्तिनः । तीरमासाद्य सानन्दं भीतान् निर्वापयन् तदा ॥ ११७. प्रियां संप्रीणयामास ज्ञातीन् चान्यान्यथोचितम् । तावत् गीर्वाणनिर्मुक्तैः कल्पतरुकुसुमैस्समम् ॥ ११८. देवदुन्दुभयो नेदुः सिद्धाश्चैवास्तुवन् मुनिम् । हंसारूढः तदा ब्रह्मा सेव्यमानः सुरासुरैः ॥ ११९. तमेनं प्रीणयन् वाचा व्याजहार पितामहः । हारीतक महाप्राज्ञ त्वया तप्तं महत्तपः ॥ १२०. सैषा कचावती भार्या ह्यनुरूपा तव प्रिया । अरुन्धतीव कल्याणी लोपामुद्रेव सत्प्रिया ॥ १२१. युवाभ्यां तपसा यस्मात् तोषितं भुवनत्रयम् । चिरमत्राश्रमे पुण्ये विविधैराप्तदक्षिणैः ॥ १२२. यज्ञैः सन्तोष्य देवान् च प्रजया स्वपितॄनपि । नित्यमाराधयस्वैवं महदेवमुमापतिम् ॥ १२३. तदन्ते परमं स्थानं युवामेष्यत निर्वृतौ । एतत्तीर्थपरं पुण्यं त्वद्भूषणमरीचिभिः ॥ १२४. परिक्षिप्तं क्षणं यस्मात् प्रभातीर्थमितीर्यते । ये चात्र जन्तवः तीर्थे प्रभा नाम्नि प्रसादितम् ॥ १२५. स्नात्वा ज्योतिर्मयं दृष्ट्वा न पुनर्दुःखभागिनः । एषा महानदी पुण्या ताम्रा भुवनपावनी ॥ १२६. सेवितव्या त्वया नित्यं श्रेयस्ते ऋद्धिमेष्यसि । इत्युक्त्वा सह गीर्वाणैः सिद्धैश्च परमर्षिभिः ॥ १२७. पितामहः स्वभवनं प्रतस्थे व्योमवर्त्मना । सोऽपि हारीतकः प्रीत्या वरान् लब्ध्वा पितामहात् ॥ १२८. प्रसाद्य च यथान्यायं सह पत्न्या स्वमाश्रमम् । प्रविश्य बन्धुभिस्सार्धं सुखमास तथा मुने ॥ १२९. सर्वे च बान्धवाः स्निग्धाः स्वागतेनाभिनन्द्य तम् । पारिपप्रच्छुः आदृत्य तत्रत्याः च मुनीश्वराः ॥ १३०. तेषां स कथयामास निजवृत्तान्तमद्भुतम् । यदाकर्णतो भूयः सर्वे विस्मयमानसाः ॥ १३१. नानाविधैः नगरगोपुरहर्म्यजालैः आरामविभ्रमरसातलराजलक्ष्मी । दृष्टं यथावत् अभिवर्णयितुं महात्मा बुद्धिं चकार यदपत्रशामैकदीक्षाम् ॥ १३२. इत्थं सुहृद्बिरमरैर्निजबन्धुवर्गैः हर्षोन्मिषत्पुलककोमलिताङ्गवह्निः । अभ्यर्च्यमाननिजवृत्तिविलासमेषां हारीतको मुनिरशेषमसावद्वादीत् ॥ १३३. सुविस्मितैः स्पष्टमुदीतकण्ठकैः वपुर्परानन्दसमृद्धिसूचकैः । उदश्रुभिर्लोचनपङ्कजैर्निजैः अभूयतासारघनैर्घनैरिव ॥ १३४. समाजमाश्चर्यकथारसायनैः उदञ्चयन् हर्षमपां निधिं यथा । हिमांशुरंशुप्रकरैः सुधासरैः बभौ मुनिस्तत्र कचावतीपतिः ॥ इति सप्तचत्वारिंशः अध्यायः । Pro.Total = 4169 + 134 = 4303.

अष्टाचत्वारिंशः अध्यायः

हारीतस्य कचालिकायाश्च तपश्चरण म् । १. श्रीवलधिः - (भगवान्)ब्रह्मन् ब्रह्मात्मसम्भूतब्रह्मानन्दसुधानिधे । भवता कथिता चेयं कथा कर्णसुधाधुनी ॥ २. अतिकण्ठमनुस्यूतमावृण्वत्यपि मे गुरो । तृप्तिं न कुरुते भूयः तृष्णां जनयतीव मे ॥ ३. कथं बृहस्पतिस्तस्मै स्पष्टमाचष्ट विस्तरात् । तामिदानीं विस्तरतः कथयस्व कथां पुनः ॥ ४. रसातलात् समागत्य स हारीतो मुनीश्वरः । बन्धुभ्यः कथयामास कथां वा लिङ्गमद्भुतम् ॥ ५. स्थापयित्वार्चयामास कथं वा मुक्तिमाप्तवान् । कुम्भाटको राजपुत्रः किं चकार ततः परम् ॥ ६. कथं आभाषिणी देवः भगः काश्यपननदनः । एतानि विस्तरात् ब्रह्मन् कथयस्वाद्य मे गुरो ॥ ७. इति राजाधिराजस्य मलयध्वजभूपतेः । कुमारेणानुसम्पृष्टः सिद्धनाथ सनातनः ॥ ८. तमेनमभिनन्द्यादौ भूयो विस्तार्य तां कथाम् । राजनन्दन वक्ष्यामि तामिदानीं पुरातनीम् ॥ ९. श‍ृण्वनन्यधिया पुण्यां हारीतकगुणोज्ज्वलाम् । इत्थं काश्यपिना पृष्टः जीवो देवपुरोहितः ॥ १०. कथां कन्दलयामास तस्मै विस्मयकारिणीम् । श्रुणु देव प्रवक्ष्यामि वृत्तान्तं तस्य धीमतः ॥ ११. वयस्यैः बन्धुभिस्स्निग्धैः मुनिभिश्च तपोधनैः । सम्पृष्टः स हारीतो विस्मितो वाक्यमब्रवीत् ॥ १२. श‍ृण्वन्तु बान्धवास्सर्वे सावधानेन चेतसा । मयि मज्जति तीर्थेऽस्मिन् कोऽपि दैत्येश्वरानुगः ॥ १३. गृहीत्वा तत्क्षणादेव निनाय बलिमन्दिरम् । तत्र रत्नप्रभाजालैः बालातपसमप्रभैः ॥ १४. न जानन्ति तत्रत्याः जनास्सर्वे तमः गताम् । नानाविधैर्मणिमयैः उद्यानैः कल्पकोपमैः ॥ १५. नदीनां च शतैः पुण्यैः इक्षुकाण्डरसोदकैः । तप्तहाटकसङ्काशैः मही तत्र प्रकाशते ॥ १६. नवमाणिक्यखचितप्राकारद्वारमण्डिता । कापि कल्याणनिलया नगरी नलिनावती ॥ १७. तत्र राजगृहे कोऽपि मणिसिंहासने विभुः । अनङ्गानेकसौन्दर्यसम्पूर्णनिजविग्रहः ॥ १८. दैत्यदानवरक्षोभिः सेव्यमानस्समन्ततः । महाबलिरिति ख्यातः स्तूयमान्श्च बन्दिभिः ॥ १९. मां दृष्ट्वा सदयाविष्टो समावेश्य निजासने । पूजयित्वार्घ्यपाद्याद्यैः यथालोके तथैव माम् ॥ २०. स्नानहारानुलेपाद्यैः भूषणैर्वसनोत्तमैः । स्वागतैः प्रीतिवचनैः सौहार्दातिशयोज्ज्वलैः ॥ २१. कृत्वा द्वादशरात्रं तु पूजां पूज्यतमोऽपि सः । तावन्मदङ्गमामृज्य पाणिना पङ्कजश्रिया ॥ २२. एकासनं समासीनो मामिदं प्राह दैत्यराट् । ब्रह्मन् कुतस्समायातः केनेनानीतोऽसि मद्गृहम् ॥ २३. किन्ते मत्तः प्रीतिकरं काङ्क्षितं वक्तुमर्हसि । त्वया चिरतरं भक्त्या पूजितः परमेश्वरः ॥ २४. स एव पुरुषार्थानां दाता तावन्न संशयः । तथापि तव तुष्ट्यर्थं दातुमीहे सुहृत्तया ॥ २५. काङ्क्षितानि प्रदास्यामि दुर्लभानि महीतले । किन्ते व्यवसितं ब्रह्मन् वक्तव्यं यदि मे गृहे ॥ २६. कन्यारत्नं प्रदास्यामि भवनं स्वर्गसन्निभम् । वक्तुमर्हस्यसङ्कोचं वदान्यं मामवेहि भो ॥ २७. इति तस्य वचः श्रुत्वा बलेर्विनयगौरवम् । सन्तुष्टोऽहं पुनर्दैत्यं अनुरागादवादिषम् ॥ २८. दैत्यराज महाभाग सर्वज्ञ करुणानिधे । पौनःपुन्येन कर्णैकरसायनसुधानिधिम् ॥ २९. श्रुत्वा श्रुत्वा वदान्येषु कीर्त्यमानेषु सूरिभिः । निरन्तरसहावासं मन्ये राजन् सुहृत्तमम् ॥ ३०. पुरा कृतानां पुण्यानां महतां परिणामतः । मम लब्धमिदं भाग्यं त्वदालोकनकौतुकम् ॥ ३१. मदाश्रममनुप्राप्य तपस्विन्या च भार्यया । आराधयितुमिच्छामि प्रसादात् ते महेश्वरम् ॥ ३२. इति मद्वचनं श्रुत्वा स राजा विनयोज्ज्वलम् । दिव्याम्बरमणिप्रान्तमुकुटाङ्गदकङ्कणैः ॥ ३३. अम्लानकमलामृष्टैः हारैर्मृगमदैरिव । शालीकृत्य मदग्रे तु पुनः प्राह स दैत्यराट् ॥ ३४. दयादत्तमिदं लिङ्गं पूजयिस्वेति सादरम् । दत्तवान् च महाभूतैः चतुर्भिः मेघसन्निभैः ॥ ३५. वर्षयित्वा च वसून् मामाह वचसादरम् । प्रस्थापयित्वा स्वलोकात् भूलोकं स दयानिधिः ॥ (इत्थमाकर्ण्य मुनयः स्निग्धाः च सुहृदः परे । आनन्दबाष्पपूर्णाभ्यां लोचनाभ्यां क्षणान्तरम् ॥ रोमाञ्चमञ्जुलैर्गात्रैः अभूवन् अग्रतो मुनेः । स्नानाभरणैर्दिव्यैः गन्धस्रगनुलेपनैः ॥) ३६. रे रे सुहृत्तमाः स्निग्धाः मुनयो ब्रह्मवादिनः । भवतामाशिषा नूनमागतोऽस्मि न संशयः ॥ ३७. तोषयित्वा सुहृद्वर्गं प्रेषयामास वै गृहम् । रहः कचावतीं भार्यां कृशाङ्गीं तपसा पुनः ॥ ३८. प्रीणयित्वा यथान्यायं नया धर्मान् चचार सः । ज्योतिःस्थानात् वायुभागे ताम्रायाः दक्षिणे तटे ॥ ३९. कचालिकायाः प्राग्भागे लिङ्गं संस्थाप्य शाम्भवम् । पूजयामास विधिवत् प्रत्यहं प्रीतिपूर्वकम् ॥ ४०. यज्ञैः विविधैरिष्ट्वा दक्षिणापूरितैर्मुनिः । प्रजया च पितॄन् सर्वान् तर्पयित्वा च धर्मवित् ॥ ४१. ततो वर्षसहस्रान्ते स्नात्वा ताम्रामहोदके । दम्पती नियतात्मानौ यतवाक्कायमानसौ ॥ ४२. प्रदक्षिणीकृत्य देवं ज्योतिश्चक्रे विलिल्यतुः । तावत् कुसुमवर्षेण पूरयित्वा स्थलं महत् ॥ ४३. अस्तुवन् देवताः सर्वाः सिद्धविद्याधरोरगाः । हारीतकं प्रपश्यन्तः स्तुवन्तः प्रीतमानसाः ॥ ४४. जग्मुर्यथागतं देशान् तदद्भुतमिवाभवत् । कुम्भाटकोऽपि संप्राप्त शिवदीक्षां यथाविधि ॥ ४५. कचावत्या तपस्विन्याः तपःकर्तुं प्रचक्रमे । हारीतकाश्रमात् तस्मात् क्रोशार्धात् एव पूर्वतः ॥ ४६. ज्योतिश्चक्रस्य चैशान्यां कृत्वाश्रमपदं निजम् । पूजयामास विधिना साम्बं चन्द्रार्कशेखरम् ॥ ४७. निगृह्य चारिषड्वर्गं नियम्येन्द्रियमण्डलम् । सर्वद्वन्द्वसहः श्रान्तः समाधिमुपसंश्रितः ॥ ४८. सर्वं शिवमयं पश्यन् समन्तात् व्योमरूपिणम् । ध्यानयोगबलेनैव निर्मलात्मा बभूव ह ॥ ४९. एवं वर्षशते पूर्णे तपसाराधितो विभुः । प्रादुर्बभूव तस्याग्रे भगवान् वृषरूपधृत् ॥ ५०. स्वलोचनविनिष्क्रान्तैः करुणासान्द्रशीतलैः । पीयूषतोयैर्विमलैः अभ्यषेचयत् आदरात् ॥ ५१. तत्सुधावृष्टिधाराभिः सिच्यमानो कुशात्मजः । शनैरुन्मीलयामास समाधिस्थः स्वलोचने ॥ ५२. ददर्श पुरतो देवं चन्द्रमण्डलपाण्डुरम् । स्तूयमानं सिद्धगणैः महावृषभरूपिणम् ॥ ५३. समुन्नताभ्यां श्रुङ्गाभ्यां द्विकूटमिव दर्पितम् । तप्तहाटकसम्भिन्नैः महामणिविभूषणैः ॥ ५४. देदीप्यमानं देवेशं कामदं कल्पकोपमम् । दृष्ट्वा तत्पुरतो नत्वा कृताञ्जलिपुटोऽनघः ॥ ५५. तुष्टाव परमेशानं धर्मं धर्मभृतां वरः । कुम्भाटकः -- नमो नमस्ते लोकानामादिकर्त्रे महात्मने ॥ ५६. धर्माकाराय साराय श्रुतीनामात्मने नमः । त्वां भजन्तः तथा भक्त्या स्तुवन्ति त्वां सुरासुराः ॥ ५७. ध्यायन्ति योगिनः स्वान्ते त्वामेव च परात्परम् । त्वत्कृपालोककणिकालाभमात्रेण जन्तवः ॥ ५८. जगत् क्षोभयितुं कर्तुं त्रातुं पटुतराभवन् । त्वन्मुखान्निर्गता वेदा मर्यादां व्यक्तयन्ति ते ॥ ५९. तेषु तेषु च वर्तन्ते त्वदाज्ञागौरवाय ते । येषां त्वं विमुखो देवो ते वै सीदन्ति सर्वदा ॥ ६०. त्वदालम्बनयोगेन सिद्धयोऽष्टौ न संशयः । ऐहिकामुष्मिकौ मार्गौ त्वत्सृष्टौ लोकहेतवे ॥ ६१. नमः पूर्वाय पूर्वाणां पुरुषाय महात्मने । वृषाय वृषरूपाय वेदरूपाय ते नमः ॥ ६२. त्वच्छक्त्या धार्यते सर्वं त्वल्लीलाकलनात्मकम् । त्वं विष्णुस्त्वं शिवो ब्रह्मा त्वं मित्रो वरुणो यमः ॥ ६३. त्वं गुणैः त्रिगुणाभिख्यां बिभर्षि कलया स्वया । प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ ६४. पाहि पापार्णवाद्भीतं भक्तं मां शरणागतम् । नमो नमःकारणकारणाय ते कलाविशेषैः कलिताखिलात्मने । ६५. प्रसीद विश्वेश्वर विश्वमूर्ते प्रसीद देवेश दयासुधानिधे ॥ ६६. इति स्तुत्वा स कुम्भाटो भक्त्या परवशो मुहुः । प्रणामममकरोत्तस्मै दण्डवत् पुरतो विभोः ॥ ६७. ततः प्रसन्नो भगवान् स्तोत्रेणानेन तोषितः । तमुत्थाप्य वराभीतिरताङ्गजलजोज्ज्वलैः ॥ ६८. भुजैः पीयूषसंसिक्तैरभिमृज्याङ्गमादरात् । प्राहैनं प्रहसन् वाचा भगवान् राजनन्दनम् ॥ ६९. भगवान् -- संहृष्टोऽस्मि महाराज स्तोत्रेण तपसा पुनः । पापाश्च संक्षयं नीताः विमुक्तो मातृहत्यया ॥ ७०. षड्जपालाभिधस्त्वं हि गन्धर्वाणामधीश्वरः । प्रारब्धदोषात् मर्त्यत्वं प्राप्तवानसि केवलम् ॥ ७१. देवो न भविता भूयः सर्वभोगसमृद्धिमान् । सम्पूजितः त्वया शम्भुः पूजिता परमेश्वरी ॥ ७२. अत्र ज्योतिर्महद्दृष्ट्वा भूयो नार्हसि शोचितुम् । इत्थं सन्दर्शयामास तस्मै संवित् महापगा ॥ ७३. अनन्तमक्षयं नित्यमनपायमकल्मषम् । तेजसामपि तेजिष्ठमविषह्यमनातुरम् ॥ ७४. काङ्क्षितानि प्रदास्यामि दुर्लभानि महीतले । गजहस्तप्रमाणेन भूमिभागात् समुत्थितम् ॥ ७५. उपास्यमानं श्रुतिभिः स्तूयमानं महर्षिभिः । दृष्ट्वा तदद्भुतं तेजो कुम्भाटो हर्षनिर्भरः ॥ ७६. संप्राप परमानन्दं तत्तेजःपुञ्जदर्शनात् । ततो देवो राजपुत्रीं पाणिमालम्ब्य पाणिना ॥ ७७. प्रदक्षिणं परीत्यैनं धर्मो वृषरूपधृत् । तमेनं राजतनयं तीर्थे तस्मिन् न्यमज्जयत् ॥ ७८. तथैव भगवान् तत्र संविवेश महाम्बुनि । तावत् सर्वेषु पश्यत्सु दिवि देवेषु सर्वतः ॥ ७९. तत्तीरपूरात्ताम्रायाः मुहूर्तात् उन्ममज्ज सः । कन्दर्पस्पृहणीयेन वपुषा भानुवर्चसा ॥ ८०. राजपुत्रो मणिव्रातैः तप्तकाञ्चनभूषणैः । पूजितः तरुणाकारो दीर्घबाहुः सुलोचनः ॥ ८१. त्यक्त्वा तु मानुषं भावं देवभावेन भाषितः । स्मयमानमुखः श्रीमान् चकाशे भानुमान् इव ॥ ८२. आवव्रुः तथा स्निग्धाः ज्ञातयो मित्रबान्धवाः । गन्धर्वाः स्वैः विमनैःतं मिथुनीभूय कौतुकात् ॥ ८३. निस्तीर्णशापं कुम्भाटं निर्मुक्तं पापपञ्जरात् । प्रीणयन्तः स्तुवन्तश्च जल्पन्तो विविधाः कथाः ॥ ८४. केचित् च चन्द्रसङ्काशाः केचित् वैश्वानरोपमाः । प्रकाशयन्तो गगनं स्वभूषणमरीचिभिः ॥ ८५. तमूचुः स्वागतैर्वाक्यैः स्वागतस्तोत्रसञ्चितैः । अये सुहृत्तमाभ्येहि कुशलं किन्तु साम्प्रतम् ॥ ८६. त्वद्वियोगाः वयं सर्वे विप्राणा इव जीविताः । इत्थं सञ्जल्पमाणेषु गन्धर्वेष्वखिलेष्वपि ॥ ८७. परिभ्रान्त इवालोक्य तूष्णीमासीत् स केवलम् । तावदेनं समासाद्य नारदो वाक्यमब्रवीत् ॥ ८८. अजानन् इव किं साधो बन्धून् अभ्यागतान् इमान् । न मेलयसि नाभ्येषि न ब्रूषे प्रियभाषणम् ॥ ८९. त्वन्नाथकेतोर्मालिन्यां जातो गन्धर्वभूपतेः । नामतः षड्जपालं त्वां प्रशंसन्ति सुरासुराः ॥ ९०. किन्ते व्यवसितं साधो किं वा कर्तव्यमद्य ते । अक्षय्यास्ते महाभोगाः एवं पूर्वतनाः खलु ॥ ९१. महातीर्थेन पूतात्मा तपसा धूतकल्मषः । आराधितो महादेवो देवास्ते परितोषिताः ॥ ९२. इदानीं वृषरूपेण समागम्य महेश्वरः । अत्र तीर्थवरं कृत्वा त्रीन् लोकान् स पुनाति हि ॥ ९३. अपि पापशताविष्टो मर्त्यो मलयजामिमाम् । स्पृष्ट्वा सञ्छिन्नकर्मपाशः स्यात् एति एव परां गतिम् ॥ ९४. ज्योतिर्वनमिदं नाम्ना ख्यापितं परमात्मना । तपोभिर्दुष्करैर्वापि नियमैर्वा यमैस्सदा ॥ ९५. ददर्श हि महत्तेजः तत्रैतत् दृष्टवानसि । मन्ये त्वामुत्तमं लोके गन्धर्वाणां महत्कुले ॥ ९६. त्वया तपो विशेषेण लब्धमेव हि नान्यथा । क्षणमात्रमुषित्वापि जन्तुर्ज्योतिर्वने पुनः ॥ ९७. न याति जननीगर्भदुःखजालसमावृतः । त्वादृशा शतशो मर्त्याः तपस्तप्त्वा सुदुस्तरम् ॥ ९८. प्रयाता परमं स्थानं अत्र ज्योतिर्वने घने । क्षेत्रमेतत् हि जन्तूनां दुष्कर्मपरिकृन्दनम् ॥ ९९. ज्ञात्वैव मुनयोऽत्रैवं तपःकुर्वन्ति निर्मलाः । अत्रान्तरायशान्त्यर्थं भगवान् आदिपूरुषः ॥ १००. स्वभृत्यौ कल्पयामास श्रीपुष्कलसपुष्कलौ । अद्यापि क्षेत्रवर्यस्य शास्तारौ बालकाविमौ ॥ १०१. तस्मात् तव महाबहो प्राक्तनैः तपसां फलैः । लब्धं क्षेत्रमिदं न्यूनमनायासेन सिद्धिदम् ॥ १०२. कृतार्थोऽस्मि कृतार्थोऽस्मि कृतकृत्योऽस्मि कर्मणा । मा विलम्बोऽत्र सर्वेषां जन्तूनां प्रीतिमावहन् ॥ १०३. इदं विमानमारुह्य प्रयाहि पदवीं निजाम् । इत्युदीरितमाकर्ण्य देवर्षेः प्रीतिपूर्वकम् ॥ १०४. षड्जपालः प्रणम्यैनं प्रत्युवाच कृताञ्जलिः । षड्जपालः -- नमस्तुभ्यं भगवते योगिवर्याय धीमते ॥ १०५. गुरवे सर्वविज्ञान निधये वेधसे नमः । तत्तथैव करिष्यामि भवातात्रानुशासितम् ॥ १०६. लोकपालादिभिमूर्ध्र्ना त्वदाज्ञा धार्यतेतराम् । सैषानुवर्तिनी या मे श्रुतिवाक् इव ते गुरो ॥ १०७. कञ्चित् कालमिहैवाहं भूयोऽभ्यर्च्य सदाशिवम् । ततः परं करिष्यामि यदि ते मय्यनुग्रहः ॥ १०८. इत्युक्तवति वै तस्मिन् भक्त्या विनयपूर्वकम् । नारदोऽतीव संहृष्टः तथास्त्वित्युदीरयन् ॥ १०९. सह गन्धर्वनिवहैः व्योमयानं प्रतस्थिवान् । अथ तस्मिन् मुनिवरे यते सह नभश्चरैः ॥ ११०. षड्जपालः स गन्धर्वः किञ्चिदेवं व्यचिन्तयत् । तपोभिः मत्कृतैश्शम्भुः सन्तुष्टो नात्र संशयः ॥ १११. स्तुवन्ति मां सवयसो गन्धर्वाः स्तुतिगौरवात् । मां वदन्ति समानेषु देवाः श्रेष्ठतमं पुनः ॥ ११२. पूजिताः विबुधास्सर्वे तारितोऽस्म्यसंशयात् । इतः परं चरिष्यामि मर्त्यानां हितकाम्यया ॥ ११३. अत्रागमनमात्रेण सर्वे निर्धूतपातकाः । प्रपश्यन्ति महत्तेजः यद्दृष्ट्वा मुच्यते जनः ॥ ११४. कृतघ्नः पिशुनो मूर्खः ब्रह्महा गुरुतल्पगः । परिवित्तापहर्ता च परनारीरतोऽपि वा ॥ ११५. परापवादी पाषण्डः परहिंसापरायणः । दूषको वेदमार्गस्याप्यवमन्ता महात्मनाम् ॥ ११६. विष्णुभक्तः शिवद्रोही विष्णुद्रोही शिवप्रियः । एते चान्ये च पापिष्ठाः पश्चात्तापानुतापिताः ॥ ११७. प्रायश्चित्तानुसङ्गम्य तीर्थेऽस्मिन् कृतमज्जनाः । प्रवेशमात्रात् क्षेत्रस्य महतोऽप्याहतैनसः ॥ ११८. पश्यन्ति निर्मलात्मानः परञ्ज्योतिस्सनातनम् । एतदर्थं करिष्यामि तपः परमदुष्करम् ॥ ११९. ममैव काङ्क्षितं भाग्यं सर्वेषामुपकारकम् । दातुमर्हसि विश्वात्मन् तपसाराधितो मया ॥ १२०. इति निश्चित्य सङ्कल्प्य षड्जपालो दृढव्रतः । प्रदक्षिणं परिक्रम्य ज्योतिश्चक्रमनामयम् ॥ १२१. महतोऽस्यैव नैरृत्यां विष्णुचक्राश्रमस्थले । स्ववासायोटजं कृत्वा षड्जपालो यथोचितम् ॥ १२२. दर्भान् आस्तीर्य तत्रैव दृढधीरुपविश्य सः । प्राणान् आरोपयन् नाड्यां सुषुम्नायां विकासयन् ॥ १२३. स्वान्ते पङ्केरुहं ध्यायन् निश्चलाङ्गः तु तत्त्ववित् । निरुध्य सर्वतो वायुं निराहारोऽभ्यवर्तत ॥ १२४. एवं वर्षशते पूर्णे समग्रे तस्य धीमतः । निष्पेतू रोमकूपेभ्यो ज्वालाः बालार्कसन्निभाः ॥ १२५. धूमराशिरभूदङ्गात् अम्बुदालिसमप्रभा । एवं तपोऽग्निना कॢप्तं सकलं भुवनत्रयम् ॥ १२६. भयाविष्टा जनास्सर्वे तमेवं शरणं ययुः । अनिश्चितार्थो मघवा लोकपालैः सहेतरैः ॥ १२७. समेत्य लोककर्तारं तस्मै सर्वं व्यजिज्ञपत् । भगवन् षड्जपालेन तपसाक्रम्यते जगत् ॥ १२८. तत्तपोऽग्नेः क्षणादेव जगदेकाहुतिर्भवेत् । यावत् तावत् प्रदातव्यमभीष्टं भवतास्य हि ॥ १२९. अपि सूर्यत्वमिन्द्रत्वं चन्द्रत्वं वाप्यभीप्सितम् । तस्मै दत्वाखिलान् लोकान् त्रातुमर्हसि मा चिरम् ॥ १३०. तदतः करुणाज्ञानकलास्वकुशलाः वयम् । नानोपायधृतोपायकलना दैवतैः कृता ॥ १३१. तपसोऽस्य विघाताय कृतं सैकतसेतुवत् । इत्थं वैक्लब्यमेतेषां दृष्ट्वा दृष्ट्वा दयार्द्रधीः ॥ १३२. सान्त्वपूर्वमिदं वाक्यं व्याजहारामरेश्वरम् । चिन्तां कुर्वन्तु मा देवाः ह्यपनेष्यामि साध्वसम् ॥ १३३. श्रुण्वन्तु सर्वे गीर्वाणाः मद्वशः कार्यसाधने । ऋतुधामा महीपालः पुरासीत् पाण्ड्यमण्डले ॥ १३४. तस्यैव यजमानस्य राजदूये महाक्रतौ । यूपावटे खन्यमाने कचालिः समदृश्यत ॥ १३५. तस्मात् आश्चर्यसम्भ्रान्तैः तस्मात् मृदमपोह्य तु । ऋत्विग्भिः अपरैः सभ्यैः तत्रापश्यत दारिकाम् ॥ १३६. तामादाय स भूपालः पुत्रीकृत्य स्वभार्यया । पुपोष नामतः कृत्वा ब्राह्मणैः च कचालिकाम् ॥ १३७. लालिता पोषिता बाला मात्रा पित्रा च सादरम् । व्यवर्धेन्दुरेखेव समये संस्कृता तदा ॥ १३८. सा प्राप यौवनावस्थां कालेनैषा कचालिका । रूपयौवनसम्पन्नां बालामालोक्य भूपतिः ॥ १३९. वराय रूपसौभाग्य वराय कुलशालिने । प्रदातुकामो भूपालान् आजहार स्वयंवरे ॥ १४०. सर्वेषु राजपुत्रेषु मिलितेषु एकतो वधूः । सखीभिस्सह संयुक्ता साक्षात् श्रीरिव रूपिणी ॥ १४१. वरणस्रजमादाय स्वयंवरसभामगात् । आलोक्य मञ्चादिगतान् महीपालसुतानियम् ॥ १४२. तुच्छीकृत्यधिया तन्वी तामिमां वरणस्रजाम् । व्योम्नि वेगात् प्रचिक्षेप सुपर्णो भुजगीमिव ॥ १४३. तत्र कोऽपि युवा कोटिकन्दर्पोद्दाममूर्तिमान् । स्कन्धेनादाय तां मालां क्षणात् अन्तरधीयत ॥ १४४. तावत्कलाकलारावो मिलितानां महीभुजाम् । कन्यात् आदातुकामानां बलात् बलवतां तथा ॥ १४५. सन्नाहसम्भ्रमं व्योम्ना रुन्धती वाक् अजायत । देवभोग्येयं अनघा तन्वी साक्षात् उमांशजा ॥ १४६. यस्त्वेनां स्पृहते कन्यां बलात्कारेण दुर्मतिः । तस्य मूर्धा भवेत् नूनं शतधा नात्र संशयः ॥ १४७. इति श्रुत्वा वचो भीत्या राजपुत्रास्तु निस्पृहाः । ययुर्यथागतं सर्वे विस्मयमाना महामते ॥ १४८. उमांशजां प्रियां पुत्रीं निश्चित्य सह मन्त्रिभिः । ब्रह्मार्पणधिया तत्र दत्तवान् कृतकृत्यधीः ॥ १४९. सापि निर्विण्णहृदया तपसा देवमीश्वरम् । आराधयामास तथा नन्दाटव्यां कृतोटजा ॥ १५०. वायुभक्षा निराहारा स्वात्मन्यारोप्य चेतसम् । निश्चलाङ्गी निरातङ्का निगृहीतेन्द्रियावलिः ॥ १५१. इत्थं तत्र तपस्यन्त्याः निरपायं तपोवने । भूर्युगानां त्रितयं क्षणप्रायमिवाभवत् ॥ १५२. सैषा तपस्विनी युष्मत्परितापोपशान्तये । भविष्यति न सन्देहो भूमेर्वृष्टिं यथोचिता ॥ १५३. इत्युक्त्वा तां समाहूय ब्रह्मा लोकपितामहः । वचोभिस्सान्त्वयित्वाह लोकानां हितकाम्यया ॥ १५४. ब्रह्मा -- तपस्विनि महाभागे राजपुत्रि कचालिके । जितास्ते सकलाः लोकाः देवाश्च परितोषिताः । १५५. मनोरथः समीपस्तो मास्तु चिन्तापरिश्रमः । ज्योतिर्वने समासीनं तपस्यन्तं सुदुस्सहम् ॥ १५६. षड्जपालं समाधाय लोकानुग्रहकारिणि । ताम्रायाः उत्तरे तीरे क्षेप्तुमर्हस्यपां चयैः ॥ १५७. लोकाश्च सुखिनः सन्तु देवो निर्वृतिमृच्छतु । सखीभूत्वा त्वमम्बाया मालेय्या लोकसम्मता ॥ १५८. सायुज्यमुपगच्छध्वमखण्डब्रह्ममण्डले । लोके विस्तार्य विमलां कीर्तिं पापप्रणाशिनीम् ॥ १५९. इत्यादिष्टा भगवता ब्रह्मणा सा कचालिका । देवैस्सह महीं प्राप्य तत्तथाभिदधे मुखम् ॥ १६०. नन्दाटवीमुपगता तरुणी चिराय संप्राप्य काङ्क्षितमशेषजगद्धिताय । तीर्थप्रवाहपुषिता मिषतां सुराणां तं षड्जपालमुदवासयत् आत्मशक्त्या ॥ इति अष्टचत्वारिंशः अध्यायः । Pro.Total = 4303 + 160 =4463.

एकोनपञ्चाशोऽध्यायः

गन्धर्वतीर्थमहिमवर्णन म् । १. बृहस्पतिः -- तपोधन महाभाग कश्यपप्रियनन्दन । श्रुणु वक्ष्यामि ते पुण्यां कथां पापप्रणाशिनीम् ॥ २. यस्याः श्रवणतो जन्तुः न भूयो जन्म गच्छति । सर्वेषामेव जन्तूनामाकैवल्यफलप्रसूः ॥ ३. इत्थं कचालिका देवी समादिष्टा स्वयम्भुवा । पुलिन्दशैलपर्यन्तां निष्क्रान्तां नन्दकाननात् ॥ ४. महातीर्थप्रवाहेन प्लावयित्वा वसुन्धराम् । महावेगसमुत्कृष्टनानातरुलतावृता ॥ ५. समाधिनिष्ठं गन्धर्वं षड्जपालं क्षणादिव । आदाय दूरे चिक्षेप कूले नद्यास्तथोत्तरे ॥ ६. आश्लिष्यमाणो सस्नेहं ताम्रपर्ण्या मुहुर्मुहुः । अभिवृष्टः पुष्पचयैः स्तूयमानः मुनीश्वरैः ॥ ७. पश्यतां सर्वलोकानां ज्योतिश्चक्रमुपाविशत् । इत्थं तया स गन्धर्वः संक्षिप्तोऽन्यत्र चाश्रमात् ॥ ८. ताम्राया उत्तरे तीरे योगात् मुक्तोन्मिमील सः । अदृष्टपूर्वं विपिनं नानाद्रुमलतायुतम् ॥ ९. दृष्ट्वा चिरेण सञ्जज्ञे किमेतत् इति विस्मितः । कुतोऽहं प्राप्तवान् एतत् विपिनं चित्रवृक्षकम् ॥ १०. ममाश्रमं न पश्यामि तस्मात् मत्पुरतो वनम् । कथं ज्योतिर्वनाद्बभ्रष्टः केनानीतोऽस्मि दूरतः ॥ ११. कस्समर्थोऽस्ति वै स्थानात् मां विचालयितुं भुवि । देवभावेन हीनत्वात् प्रक्षीण इव दृश्यते ॥ १२. तत्र सन्धुक्षितं गात्रं विस्मृतिश्चापि चेतसि । हा कथं करणीयं मे कर्म काङ्क्षितसिद्धये ॥ १३. किमत्र कृत्यं युक्तं मे कं सहायं वृणोम्यहम् । आशा का वा विग्रहस्या श्रेयः प्राप्स्ये पुनःपुनः ॥ १४. इत्थं विभ्रष्टयोगोऽयमपास्थासनबन्धनः । अधैर्यदूषितस्वान्तः परमार्थविचारणः ॥ १५. स गन्धर्वो विसृष्टार्थः गन्धहस्तीव निःश्वसन् । समुत्तस्थौ शनैःपश्यन् समन्तात् तटिनीतटम् ॥ १६. विलुलोके न पश्यामि तमालतरुकाननम् । जम्बुजम्भीरनारङ्गकेरवानीरनीपकैः । १७. मालूरमालतीचिञ्चाप्रवालबकुलेन्द्रिकैः । माक्न्दकुन्दमाध्वीकनमेरुपनसादिभिः ॥ १८. अन्यैरनोकहैः श्रेष्ठैः सपुष्पफलपल्लवैः । निवारितातपोद्गारं निरन्तरमधुस्रवम् ॥ १९. मन्दमारुतसम्पातं कूजत्कोकिलसारसम् । सुखानामिव संवासं सुपुण्यादानामिवोदयम् ॥ २०. सिद्धैर्मुनिगणैर्दिव्यैः ब्रह्मध्यानपरायणैः । अस्खलद्द्रुतमर्यादैः मुनिदारैश्च शोभितम् ॥ २१. सुकुमारैः कुमारैश्च व्रतस्वाध्यायलम्पटैः । अलङ्कृतमिवात्यर्थं वनमासाद्य निःश्वसन् ॥ २२. इतस्ततः परिक्रम्य विश्राम्य च मुहुर्मुहुः । दैवात् आलोकयाञ्चक्रे वसतिं पर्णनिर्मिताम् ॥ २३. तस्यां तपस्विनीं दृष्ट्वा वृद्धां विगतकल्मषाम् । तां प्रणम्य स गन्धर्वः प्रश्रयावनतोऽब्रवीत् ॥ २४. का त्वमम्ब महाभागे तीर्थे लक्ष्मीर्विभासि मे । ज्ञातुमिच्छामि तत्त्वेन कस्याश्रमपदन्त्विदम् ॥ २५. अहं गन्धर्वराजस्य तनयः स्वेन कर्मणा । शापात् अवाप्य मानुष्यं मदान्धः कृतकिल्बिषः ॥ २६. दैवात् ज्योतिर्वनं प्राप्य कचावत्याः प्रसादतः । मुक्तशापोऽपि मोहेन भूयः श्रेयो विधित्सया ॥ २७. समारब्धतपस्तत्र केनाप्यस्मद्विरोधिना । नीतोऽस्म्यम्ब तवोपान्ते जनन्या इव बालकः ॥ २८. न जानाम्यपरं कृत्यं मित्रमापत्सहायिनम् । त्वां प्रपन्नोऽस्मि तत्त्वेन त्रातुमर्हसि किल्बिषात् ॥ २९. इत्थं संप्रार्थिता तेन प्रणतेनानुशोचता । ध्यायन्ती क्षणमात्रं तु निश्चितार्था तपस्विनी ॥ ३०. अभिनन्द्यार्हणैर्वाचा व्याजहार तमागतम् । तपस्विनी -- गन्धर्वज्येष्ठ जानामि त्वद्वृत्तान्तमशेषतः ॥ ३१. अलं शोकविकल्पेन धैर्यमालम्ब्य चेतसा । भूयांसि ते भविष्यन्ति श्रेयांस्यायान्ति सम्पदः ॥ ३२. अस्याश्रमस्य माहात्म्यं श‍ृण्वतां पुण्यवर्धनम् । वक्ष्यमाणं मया कर्णविषयीक्रियतां त्वया ॥ ३३. पुरा हिमवतः पृष्ठे धाराटव्यामुमाश्रमे । तपश्चक्रे महातेजाः वल्कलाख्यो महामुनिः ॥ ३४. सर्वद्वन्द्वः शान्तः जितक्रोधो जितेन्द्रियः । दुष्करैर्नियमैर्देवं तोषयामास शङ्करम् ॥ ३५. तदन्तरायजननी कापि रातिञ्चराङ्गना । उलूकाक्षीति विख्याता तमेनं पुत्रगर्दिनी ॥ ३६. प्रणम्य तरुणीभूय प्राह रूपगुणान्विता । राक्षसी -- प्रसीद भगवन् ब्रह्मन् प्रसीद करुणानिधे ॥ ३७. हतबन्धुं ज्ञातिहीनामनन्यजनसंश्रयाम् । अङ्गीकुरु महाभाग यावत् आप्रसवं प्रियाम् ॥ ३८. पुत्रमेकं प्रतीक्षन्ती तपोबलसमन्वितम् । उलूकाक्षीति विख्याता जानीहि तपसां वर ॥ ३९. इति तद्गदितां वाणीमाकर्ण्य मुनिपुङ्गवः । समाप्य काल्यं नियमं पराधीनोऽघजन्मना ॥ ४०. व्याजहारानुरागेण तामिमां रजनीचरीम् । अयि प्रीतोऽस्मि भद्रं ते त्वयास्त्वभिमतो रतिः ॥ ४१. इत्थं प्रसाद्य च तया रेमे रात्रिञ्चरस्त्रिया । अजनिष्ट तथा तस्यामात्मजो भीमविक्रमः ॥ ४२. जायमानोऽतिरौद्रस्तु क्रन्दन् मण्डूकवत् यतः । तस्मात् मण्डूक नामानं तमेनं मुनयो विदुः ॥ ४३. स पितुः प्राप्य परमां विद्यां क्षिप्रप्रसादिनीम् । तया संप्रीणयन् शम्भुं तताप परमं तपः ॥ ४४. ततो वर्षशते पूर्णे प्रीतः प्रादुरभूत् शिवः । तमाह वत्स प्रीतोऽस्मि वरान् दास्ये मनोरथान् ॥ ४५. इति तद्वचनं श्रुत्वा सुप्रीतः प्रणतोऽब्रवीत् । देवदेव दयासिन्धो यदि देयो वरो मम ॥ ४६. अवध्यत्वमजय्यत्वमशेषैरमरैरपि । कामगत्वं च मे देहि त्वामहं शरणं गतः ॥ ४७. एवमस्त्विति सम्भाष्य गौर्या मौलिभूषणः । कञ्चिन्मणिवरं तस्मै दत्वा भूयोऽभ्यभाषत ॥ ४८. यावदेव मणिर्मौलौ ज्वलते भास्करोपमः । तावत् त्वमखिलैर्देवैः अवध्यो भविता ध्रुवम् ॥ ४९. इत्युक्त्वान्तर्दधे देव ; सोऽपि तुष्टो निशाचरः । स्वमात्रे कथयामास स्ववृत्तान्तमशेषतः ॥ ५०. संहृष्टा चोदयामास स्वविपक्षविनाशने । सोऽपरेद्युः समाहूय स्वमित्रान् रजनीचरान् ॥ ५१. स् जिगाय जगच्चक्रं सब्रह्मेन्द्राग्निमारुतम् । सप्तद्वीपादिपान् खण्डान् इलावृतमुखानपि ॥ ५२. विशेषात् भारतं वर्षं संप्राप्य सह राक्षसैः । समन्तात् भक्षयामास प्रजाः कालान्तकोपमः ॥ ५३. काशिकौसलकाश्मीराकामरूपकुविन्दकान् । अङ्गवङ्गकलिङ्गान् च मद्रमागधमौसलान् ॥ ५४. पारसीकान् च सौराष्ट्रान् पाञ्चालान् अथ कौरवान् । आन्ध्रकर्णातकारट्टचोलकेरलदौलवान् ॥ ५५. एतानन्यान् जनपदान् क्षपयित्वा शनैःशनैः । आससाद महीं पुण्यां मान्यां पाण्ड्येन पालिताम् ॥ ५६. क्षोभयामास सकलान् तिमिङ्ग इव सागरम् । क्रमात् इमं समासाद्य मुनेराश्रममद्भुतम् ॥ ५७. आश्चर्यगुणसर्वस्वं ताम्रातटविभूषणम् । अत्रैव वसतिं कृत्वा क्रव्यादैः स्वानुयायिभिः ॥ ५८. मुनीन् विद्रावयामास तपोनिष्ठान् यतव्रतान् । कालेनाल्पीयसा तेन निर्मानुष्यमभूत् जगत् ॥ ५९. ब्राह्मणाः च तपोनिष्ठाः ऋषयः च वनेचराः । अगस्त्यं शरणं प्रापुः प्रजापतिमिवप्रजाः ॥ ६०. सर्वं विज्ञापयामासुः राक्षसस्य विचेष्टितम् । स तान् मुनीन् समाश्वास्य विचार्य मनसा चिरम् ॥ ६१. हरिमाराधयामास समाधिं समुपागतः । तेनैवाभ्यर्च्यमानस्तु भगवान् पुरुषोत्तमः ॥ ६२. दत्वाभयं तदा तस्मै प्रीतः कलशजन्मने । मायामास्थाय तरुणीरूपेणाद्भुतदर्शिना ॥ ६३. वीणाविलासिनापाणियुगलेनाब्जचारुणा । नीलोत्पलदलश्रेणीचमत्काराक्षिवर्चसा ॥ ६४. वपुषा कुङ्कुमश्रेणीवर्षिणा वारुणश्रिया । मन्दं वृतश्रियास्यन्दिकुन्दपुष्पविडम्बया ॥ ६५. रूपसौन्दर्यकान्तिश्रीसारपीयूषपूरया । तरङ्गिण्येव मूर्त्यात्र भगवान् अभ्यवर्तत ॥ ६६. अवाप्तयौवनाकारां नारीमस्पष्टयौवनाम् । आपादमौलिविलस्त्मणिकाञ्चनभूषणाम् ॥ ६७. क्वणन् नूपुरमञ्जीरमेखलादामकङ्कणैः । परस्परं भाषमाणैः अङ्गैरिव मनोहराम् ॥ ६८. तामिमां मोहिनीरूपां तरुणीमौलिमालिकाम् । विलोक्य मोहिताः तैस्तैः समाचख्युः निशाचराः ॥ ६९. एतदाश्चर्यगुणश्रेणीसुधासन्धुक्षितश्रुतिः । स राक्षसेशो तुष्टेशोऽप्यनङ्गेनैव वञ्चितः ॥ ७०. तां मोहिनीं समालोक्य परिश्रान्त इव आतुरः । ययाचे प्रीणयन् वाचा पत्य्रर्थे चारुहासिनीम् ॥ ७१. प्रणतं याचमानं तं लुठन्तमिव चेतसा । मदगद्गदया वाचा माया नारायणी जगौ ॥ ७२. भगवान् -- राक्षसेन्द्र महासत्व श्रेष्ठः त्वं बुद्धिशालिनाम् । गुणेन सम्पदा सर्वं जयलक्ष्म्या बलेन च ॥ ७३. रूपेण यौवनेनापि प्रभावत्वात् प्रतापतः । श्रुत्वा श्रुत्वानुरागेण त्वां द्रष्टुमहमागता ॥ ७४. त्वामुद्दिश्येह संप्राप्तां मां राक्षसकुलेश्वर । मां वृणीष्वेह भद्रं ते पूरयित्वा मनोरथम् ॥ ७५. इति तस्याः सुधातुल्यपीयूषाक्षरचारुणा । वचसा मोहितस्सोऽयं राक्षसः प्राह सान्त्वयन् ॥ ७६. राक्षसः -- अशेषतरुणीसारसम्पदासि विनिर्मिता । लोकैकमान्यास्थमूल्यं नालं लोकत्रयं ननु ॥ ७७. अपि प्राणान् प्रदास्यामि किमन्यत् काङ्क्षितार्पणे । यद्यन्मनोरथं त्वेदं वस्तु तत्तत् प्रकल्प्यते ॥ ७८. तवादेशं करिष्यामि नात्र कार्या विचारणा । त्वया ये परिरब्धाश्च न हि काङ्क्षा त्रिविष्टपे ॥ ७९. प्रसादः करणीयोऽयं अस्मिन् भृत्ये सुहृत्तमे । इति तद्वचनं श्रुत्वा निश्तितार्था प्रदर्शनम् ॥ ८०. व्याजहार तदा देवी माया नारायणी वचः । माया -- अनुरूपमहं मन्ये श्रुतस्य तव सर्वदा ॥ ८१. औदार्यबन्धो सद्बन्धो तव चूडापथेस्थिताम् । मणिश्रेष्ठमिमां मह्यं दत्वा श्रेयोऽधिगच्छसि ॥ ८२. इति मायाविलासिन्या वाणीमदिरया तया । प्रददौ मौलेर्मणिवर्यं विकृष्य सः ॥ ८३. तस्यैव मोचयामास परिव्राट् ईषणामिव । तत्करात् उज्जहारैनां सचैतन्यबलश्रिया ॥ ८४. प्राणेनैवायुषा सार्धं मणिमालां महाविभुः । तदा गतायुर्निष्प्राणो निस्सत्वो रजनीचरः ॥ ८५. पपात सहसा भूमौ वज्ररुग्ण इवाचलः । तं दृष्ट्वा पतितं भूमौ सर्वे देवाः सुरर्षयः ॥ ८६. प्रहृष्टाः पुष्पवर्षेण किरन्तो हरिमस्तुवन् । ब्राह्मणाश्च तदा सर्वे सहिताः कुम्भजन्मना ॥ ८७. समजग्मुरिदं क्षेत्रमाराधयितुमीश्वरम् । हतेष्वशेषरक्षस्सु विद्रुते दिक्षु सर्वशः ॥ ८८. सुदर्शनेन चक्रेण नीष्कण्टकमभूद्वनम् । भरद्वाजः सुमन्थुः च गौतमोऽत्रिर्महातपाः ॥ ८९. विश्वामित्रः शतानन्दः शतजित् च सहस्रजित् । पुरुचिः पुलहोचथ्यः कलविङ्गप्रसादनः ॥ ९०. वसिष्ठो वाम्देवश्च जाबालिः कपिलो जपः । आह्लादो मुद्गलः शङ्कुः आपस्तम्भः कुशध्वजः ॥ ९१. यज्ञकेतुः सुकेतुश्च याज्ञवल्क्योऽग्निमान् क्रतुः । शङ्खः पराशरो व्यासः दुर्वासा श्रुतविश्रुतौ ॥ ९२. मार्कण्डेयोऽऽणिमाण्डव्यो याजकः चोपयाजकः । पुरुधामा बृहद्धामा शरभङ्गः सुतीक्ष्णकः ॥ ९३. मोदकः शररोमा च शतरोमा च रोमशः । एते चान्ये च मुनयः सहशिष्याः समाहिताः ॥ ९४. अभ्यायौः प्रीतिमन्तः प्रसादयितुमीश्वरम् । आगतैरमरश्रेष्ठैः महेन्द्रवरुणादिभिः ॥ ९५. समन्तानिबिडं व्योम विमानैः काञ्चनोज्ज्वलैः । ब्रह्मणा प्रययौ देवो नीलकण्ठः शिवान्वितः ॥ ९६. ते सर्वे समभिष्टूय मिलिता गरुडध्वजम् । अपूर्वतरुणीरूपामावव्रुः प्रीतिपूर्वकम् ॥ ९७. तावदेषा भगवती मणिमादाय राक्षसात् । प्रददौ प्रणतायाग्रे प्रकृष्टं विश्वकर्मणे ॥ ९८. तावत्परवशो बाणैः अनङ्गस्य वृषध्वजः । पत्न्यर्थे वरयामास तामिमामादिमोहिनीम् ॥ ९९. सैषा भगवती माया शङ्करप्रियकाम्यया । पतिं वव्रे हरं मालामवसज्यास्य कन्धरे ॥ १००. ततो देवाः सहेन्द्रेण सिद्धाश्च परमर्षयः । तुष्टुवुः विविधैः स्तोत्रैः किरन्तः कुसुमोच्चयम् ॥ १०१. तावुभावादिपुरुषौ नरनरीवपुर्धरौ । गृहस्थाश्रममासाद्य रममाणौ परस्परम् ॥ १०२. ऊषतुस्सह सिद्धैः च शुश्रूषद्भिरिहाश्रमे । अग्निहोत्री च होता च लीलया हरशङ्करौ ॥ १०३. शतान्तं शरदामास्तां लोकानुग्रहहेतवे । तावत्तयोराविरभूत् कुमारः कोऽपि सुन्दरः ॥ १०४. तमेनं क्षेत्ररक्षार्थं समादिश्य विभुः स्वयम् । रहस्योपनिषत् तत्त्वमुपदिश्य द्विजन्मनाम् ॥ १०५. मुनीनामादिसिद्धानां मुमुक्षूणां महात्मनाम् । प्रतस्थाते च वैकुण्ठकैलासाभ्यां प्रहृष्टवत् ॥ १०६. तदस्तु भक्तिसान्द्रानन्दकरणाः ब्रह्मवादिनः । वसन्त्यद्यापि देवाश्च ऋषयश्च तपोधनाः ॥ १०७. केचित् अभ्यागमनसिद्धिं केचित् मुक्तिमुपागमन् । तस्मात् हरिहराख्यं व क्षेत्रमेतत्च्च पावनम् ॥ १०८. अधिष्ठाय महादेवं मद्भक्ताः भृगुनन्दनम् । सहस्रं शरदां देवावाराध्य हरिशङ्करौ ॥ १०९. परां सिद्धिमुपागम्य तद्विष्णोःपरमं पदम् । सशरीरः संप्रतस्थे मया चाराधितः पतिः ॥ ११०. आत्मानमनुयान्तीं मामनुरक्तां पतिव्रताम् । निषेधयित्वा सान्त्वोक्त्या दत्वा च स्वकमण्डलुम् ॥ १११. एवमुक्त्वापरेणैव जगाम परमं पदम् । यत्र यदा निशानाथे साकल्य्रेन स्वतेजसा ॥ ११२. पूर्णतामेयुषि तदा तीर्थेऽस्मिन् पापहारिणि । स्नात्वा हरिहराख्ये तु विधिना वरवर्णिनि ॥ ११३. ध्यात्वा हरिहरौ देवौ स्मृत्वा मामपि सादरम् । किञ्चिदभ्युदिते सूर्ये माषमात्रं शिलाकणम् ॥ ११४. कलशेऽस्मिन् विनिक्षिप्य पूजयित्वा दिने दिने । एवं त्वयाद्य कर्तव्यं प्रतिपूर्वमुखं प्रति ॥ ११५. यदापूर्णा भवेदेषां कलशीं मे शिलाकणैः । तदा त्वां कोऽपि गन्धर्वः शरणं समुपैष्यति ॥ ११६. तावत्तस्मै समर्प्येमां कथयित्वा कथामिमाम् । मामुपैष्यसि भद्रं ते शोकं जहि सुदारुणम् ॥ ११७. इति भर्तृवचश्श्रुत्वा त्वदागमनकाङ्क्षिणी । बृहस्पतिः -- अत्र स्थितवती कालमियन्तं तप आस्थिता ॥ ११८. इत्थमग्निशिखा नाम ऋषिपत्नी मुदान्विता । दत्वेमां कलशीं तस्मै गन्धर्वाय महात्मने ॥ ११९. स्नात्वा च तीर्थे च नियता सशरीरा दिवं ययौ । स्वभासा भासयन्ती सा स्मन्तात् गगनाङ्गणम् ॥ १२०. ज्योतिश्चक्रं परिक्रम्य भर्तृलोकमुपागमत् । सोऽयमाकर्ण्य गन्धर्वः सुप्रीतेनान्तरात्मना ॥ १२१. तयेरितामिमां वाणीं प्रतिगृह्य च कुण्डिकाम् । मेने कृतार्थमात्मानं प्राप्तः चासौ मनोरथः ॥ १२२. आदित्यैर्मुनिवर्यैश्च शंसद्भिः शाम्भवीं कथाम् । पूज्यमानः स गन्धर्वः स्वपाणिस्थां कमण्डलुम् ॥ १२३. लिङ्गशर्करप्रभापूर्णां पश्यतां कौतुकावहाम् । शिवलिङ्गे समालोक्य ह्यहो चित्रमिति ब्रुवन् ॥ १२४. मुहूर्तमभवत् स्तब्धः परमानन्दगौरवात् । तदा समस्तविज्ञानज्ञानेन विमलाशयम् ॥ १२५. भरद्वाजः समागत्य गन्धर्वं वाक्यमब्रवीत् । स्वस्त्यस्तु ते महाभाग गन्धर्वान्वयवर्धन ॥ १२६. भूपते विधिनात्रैव लिङ्गमर्चय मा चिरम् । श्रेयांसि तव भूयांसि ददाति हि महेश्वरः ॥ १२७. इति तद्गीतिमाकर्ण्य तं पुरोधाय देशिकम् । तदादिष्टेन मार्गेण स्थाप्य लिङ्गमनुत्तमम् ॥ १२८. शतरुद्रीयमन्त्रेण स्नापयित्वा महाम्बुभिः । धूपैः दीपैः च नैवेद्यैः सुगन्धैः कुसुमैरपि ॥ १२९. पूजान्ते परमेशानमस्तावीत् संयताञ्जलिः । गन्धर्वराजः -- नमो नमस्समाजानां पतये पापहारिणे ॥ १३०. पशूनां पतये तुभ्यं मन्त्राणां पतये नमः । महते मह्तां नित्यं अणूनामप्यणीयसे ॥ १३१. तेजीयसे तेजसां हि परस्मै ब्रह्मणे नमः । आर्तानामार्तिशमनमशेषाभीष्टदायकम् ॥ १३२. उमासखमहं वन्दे वन्द्यमानं सुरासुरैः । देवदेव दयासिन्धो गङ्गाधर पुरान्तक ॥ १३३. शरणं त्वां प्रपन्नोऽस्मि त्राहि मां दुःखसागरात् । नमस्सोमाय सोमार्धजटाचूडाय ते नमः ॥ १३४. पापघ्नाय मखघ्नाय दुःखघ्नाय नमो नमः । त्रिशूलिने महेशाय महामोहापहाय च ॥ १३५. नमो रुद्राय गौराय गौरीनाथाय ते नमः । नमो ब्रह्मस्वरूपाय नमस्ते विष्णुरूपिणे ॥ १३६. नमो रुद्रस्वरूपाय त्रिमूर्तिप्रेषितात्मने । अन्तराय तमस्तोमभेदिने भानवे नमः ॥ १३७. भक्तभाग्यमहाम्भोधिसुधादीधितिमूर्तये । मृत्युञ्जयाय रुद्राय नीलण्ठायशम्भवे ॥ १३८. अमृतेशाय शर्वाय महादेवाय ते नमः । अपराधशतोद्भूतनानासुकृतवर्त्मनि ॥ १३९. क्षमाकर दयासिन्धो देवदेव जगत्पते । इत्थं स्तवैरभिमतैः परितोष्य शम्भुं अस्रैरजस्रगलितैः नयनाम्बुजाभ्याम् ॥ १४०. आर्द्रीकृतस्वतनुरग्रज एव शम्भोः साष्टाङ्गवत् प्रणतिमाचरयां बभूव । तत्रैवं संस्तुतः तेन भगवान् परमेश्वरः ॥ १४१. उदियाय च तल्लिङ्गात् अरणेर्हव्यवाट् इव । अर्धमिन्दीवरश्यामर्धं कर्पूरपाण्डुरम् ॥ १४२. नरनारीवपुर्बिभ्रन् नवलावण्यसुन्दरम् । किरीटहारकेयूरकनकाङ्गदभूषणैः ॥ १४३. गङ्गाधरः शशिधरः भस्मरुद्राक्षभूषणः । वृषमारुह्य धवलं देवैश्च समभिष्टुतः ॥ १४४. नन्दीभृङ्गीमुखैरन्यैः प्रमथैरभिसंवृतः । वराभयकरो देवः स्मयमानमुखाम्बुजः ॥ १४५. मा भैरिति ब्रुवन् वाक्यं व्याजहारामृतोपमम् । श्रीभगवान्-- उत्तिष्ठ वत्स भद्रं ते मा ते शोकविकल्पना ॥ १४६. इतः परं न ते भूयात् मनोरथनिरोधनम् । वृथा व्यवसितं ह्येतत् त्यज दूरे परिश्रमम् ॥ १४७. श्रूयतामभिधास्यामि गन्धर्वप्रवराधुना । या चेष्टा जगदाधारा वसुदा विष्णुवल्लभा ॥ १४८. सर्वप्रसूरिति व्यक्तं पुराणैः परिपठ्यते । भारत्याः च विशेषेण तस्याः कर्मप्रसोर्नृणाम् ॥ १४९. मुखस्थानमिदं क्षेत्रं ज्योतिस्थानं तु यत् स्मृतम् । तृतीयं नयनं प्राहुः श्रुतयः च सनातनम् ॥ १५०. तददृष्टमनिर्देश्यमदृश्यमनपायवत् । अपि ब्रह्ममुखैर्देवैरनादिमुनिमुङ्गवैः ॥ १५१. दुर्दर्शं तदिदं तेजः गतं सर्वत्र गोचरम् । अपि नारायणो देवः सर्वपितामहः ॥ १५२. अद्याप्याराधयन् आस्ते शिवं तेजोपलब्धये । तद्गतं सर्वजन्तूनामक्षिलक्ष्यं चिकीर्षति ॥ १५३. पुरा कुण्डलाख्यस्य महर्षेर्भावितात्मनः । प्रियां ऋतुमतीं साध्वीं हठात्कृत्य शतक्रतुः ॥ १५४. तत्कोपात् नष्टदृक् भूत्वा नारदस्योपदेशतः । कुशस्तम्भाग्रसंस्पृष्टस्वाङ्गुष्ठाग्रेण संस्थितः ॥ १५५. चिरं तत्र तपःकृत्वा तत्प्रसादात् पुनर्वृषा । ज्योतिर्वनमनुप्राप्य लब्धदृष्टिस्सनातनः ॥ १५६. महर्ज्योतिस्समालोक्य कृतार्थः स्वर्गमेयिवान् । तस्मात् गन्धर्वराजस्त्वमपहाय मनीषितम् ॥ १५७. पुनः पश्यसि तत्तेजः मत्प्रसादात् न संशयः । अस्मिन् हरिहरक्षेत्रे तीर्थे कलुषापहारिणि ॥ स्नात्वा मामर्चयन् नित्यं न भूयः तनुमान् भवेत् ॥ १५८. एतावत् उक्त्वा वचनं गिरीशो गन्धर्वराजस्य करं गृहीत्वा । सन्दर्शयामास महान्तमुच्चैः यदक्षरं परमं वेदितव्यम् ॥ १५९. पुनश्च तस्मिन् अभिजातरूपे श्रीकण्ठलिङ्गे स तिरोबभूव । सम्पूर्णकामोऽर्णवपूरसाम्यमानन्दसौख्यं परमं जगाम ॥ १५०. तत्राम्बरात् अम्बरचारिमुक्तां प्रसूनवृष्टिं मणिचारुवर्णां पपात तत्क्षेत्रभुवं समन्तात् आनन्दयन्तीव सतां जनानाम् ॥ इति एकोनपञ्चाशः अध्यायः । Pro.Total = 4463 + 150 =4613.

पञ्चाशत्तमः अध्यायः

गन्धर्वराजसिद्धिः । १. सनातनः -- राजन् अभिनवां पुण्यां कथां गन्धर्वभूपतेः । आकर्णय मयेदानीं वर्णितामत्र विस्तरात् ॥ २. देवदेवस्य भूयोऽपि प्रसादात् शूलपाणिनः । दृष्ट्वान्तरायरहितमखण्डानन्दमण्डलम् ॥ ३. तेजःपुञ्जमविच्छन्नमक्षयं परमं शिवम् । अवाप परमानन्दं चन्द्रं दृष्ट्वेव वारिधिः ॥ ४. अन्ते स्वान्तोचितानन्दसुधावारिधिपूरिताः । उन्निद्ररोमनिकरैः अङ्गैः संसूचयन् इव ॥ ५. दिशो विलोकयन् अक्ष्णा फुल्लपङ्कजचारुणा । देवं प्रदक्षिणीकृत्य प्रसाद्य च पुनःपुनः ॥ ६. तत्रत्यान् च मुनीन् सर्वान् समापृच्छ्य सुहृत्तमान् । ज्योतिर्वनात् अथ क्षेत्रात् प्रस्थातुमुपचक्रमे ॥ ७. तावत् ववर्षुः देवैश्च पूर्यमाणैः नभस्थलात् । द्योतमानाः तदा सर्वाः प्रभया काञ्चनश्रिया ॥ ८. भेरीमृदङ्गसम्पुष्टैः जयशब्दैः दिवैकसाम् । रोदसी पूर्यमाणेव मेघानामिव निस्स्वनैः ॥ ९. प्रत्यदृश्यन्त दिव्यानि विमानानि नभःस्थले । प्रशंसन्तः स्तुवन्तश्च हृष्यमाणाः परस्परम् ॥ १०. तमासेदुर्महात्मानं गन्धर्वाः सह चारणैः । विश्वावसुर्वीतिहोत्रो वीरसेनो विभावसुः ॥ ११. वसुः चित्ररथोद्दालः कीर्तिकेतुः प्रियंवदः । हाहाहूहूः महाहिश्च ऋतधामा मणिध्वजः ॥ १२. एते चान्ये च बहवो गन्धर्वाणां महारथाः । शतक्रतुं पुरस्कृत्य तमेनं पर्यवारयन् ॥ १३. तानिमानागतान् दृष्ट्वा बान्धवान् च सुहृत्तमान् । पिप्रिये प्रेमसंरम्भसम्भावितविलोकनैः ॥ १४. समाश्लिष्टः तदा सर्वैः प्रशंसद्भिर्मुहुर्मुहुः । तं षड्जपालमाहूय सुहृत्तमजनायुतम् ॥ १५. महेन्द्रः प्राप्य पाणिभ्यां पाणिमालब्य सम्भ्रमम् । इन्द्रः -- साधु साधु महाभाग भवता धर्मचारिणा ॥ १६. दुष्करैर्नियमैर्घोरैः तपोभिः समुपार्जितम् । श्रेयो लोकत्रयोत्कृष्टं अलमन्यैजर्नैर्न तु ॥ १७. इतःपरं त्वया साकं प्राप्य ज्योतिर्वनं महत् । देवमाराध्य गौरीशं काङ्क्षे यातुं सुरालयम् ॥ १८. इत्युक्त्वेन्द्रः षड्जपालं गृहीत्वा पाणिना करम् । गन्धर्वेशं संप्रणम्य कृत्वा चापि प्रदक्षिणम् ॥ १९. सह देवैस्संप्रतस्थे ज्योतिर्वनमनुत्तमम् । अवगाह्य महातीर्थं ताम्रामुत्तीर्य पावनीम् ॥ २०. दक्षिणं तीरमासाद्य गौरीतीर्थकान्यपि । क्रमात् निषेव्य विधिना स्तुत्वैनां तीर्थदेवताम् ॥ २१. तर्पयित्वा पितॄन् देवान् ब्राह्मणान् च विशेषतः । सक्षिनाथं गणेशानं चक्षुष्मन्तं च भास्करम् ॥ २२. उमादेवीं च भद्राख्यां तथा हारीतकाश्रमे । देत्येश्वराभितं लिङ्गं पूजयित्वा सहोमया ॥ २३. धर्माश्रमे वृषेशानमभिवाद्य यथाविधि । शतरुद्राभिधं तत्र शास्तारं संप्रणम्य च ॥ २४. पुलिन्दशैललपुण्येशं तत्रैव प्रमथेश्वरम् । विष्णुचक्राश्रमे विष्णुं ब्रह्मतीर्थं गुहेश्वरम् ॥ २५. कचावत्याः पूर्वभागे नत्वा हरिहरात्मजम् । उत्तरे तु महाकालीं तत्पूर्वे सकलेश्वरम् ॥ २६. भूतनाथं पूजयित्वा देव्याः प्राक् उत्तरे स्थितम् । ददर्शेन्द्रधनुःप्रख्यं बालातपसमप्रभम् ॥ २७. ज्वलत्पावकसङ्काशं चन्द्रपाण्डुरवर्चसम् । अनाद्यन्तमनाकारमकालकलनात्मकम् ॥ २८. अपूर्वरूपमक्षीणमनादिममृतोपमम् । तस्मै सन्दर्शयामास महेन्द्रः पाकशासनः ॥ २९. तेन तद्दर्शितं ज्योतिः महागन्धर्वरूपिणम् । प्रणम्य दण्डवत् भूमौ तिष्ठन् अग्रे कृताञ्जलिः ॥ ३०. तुष्टाव प्रणावाकारं ज्योतिश्चक्रं शिवाकृतिम् । गन्धर्वः -- ॐ तत्प्रपद्ये यदशेषपूर्णं तेजस्तमस्तोमहरं परस्तात् ॥ ३१. अपारमानन्दघनार्णवौपममहेतुवीताश्रयमप्रतर्क्यम् । अतीन्द्रिये रागविशेषकल्पनाविशुद्धचित्तां पुरुहोतरालयम् ॥ ३२. यदागमैर्वा नियमैरुपास्यते तदस्तु नो वस्तु पुरःपुरातनम् । पुरातनैरागमगर्भनिर्णयप्रगल्भविज्ञानविशुद्धबुद्धिभिः ॥ ३३. सनन्दनन्दादिभिरादियोगिभिः विभाव्यमस्माकमिदं पुरो भवेत् । यदक्षरं चैवमचिन्त्यवैभवं भवार्णवोद्धारणकल्पितप्लवम् ॥ ३४. शुभाय भूयात् पुरतः पुरातनैः अधिष्ठितं योगिवरप्रमाद्यतः । अलं परिभ्राम्य भवार्णवोदरे ममैषणाग्राहवती दुरूत्तरे ॥ ३५. त्वदङ्घ्रिपङ्केरुहसावलम्बनं पुनीहि भूम्ना सदयाक्षिवर्चसा । शिवोऽद्वितीयोऽपि भवान् अरूपकः गुणक्रियारूपविभागवर्जितः ॥ ३६. स्वभक्तलोकैकहिताय केवलं विनोदतो भाति विशेषरूपकैः । न नाकपृष्ठं न रसादिनाथता न पार्मेष्ठ्यं न च पौरुषं पदम् ॥ ३७. स्पृशामि चित्ताणुतवाङ्घ्रिसत्पते भवेत् पदालम्बनभाग्यमन्तरा । उपेत्य वागीश्वरदोयितः प्राक्करोषि कृत्यं रजसा गुणेन तु ॥ ३८. निदाघपुष्टो निरयत्विषा च वा पुनः स्वयं ताटस्थ्यमसावपीडनात् । बालशशाङ्कमौलिवान् भवार्णवात् पातुमिदं जनं क्षमम् ॥ ३९. वाञ्छामि नाहं विषयेन्द्रियार्थान् मरन्द्बिन्दुसदृशान् अलभ्यान् । शम्भो भवत्पादसरोजसेवा सुखान्तरायान् दुरितैकहेतून् ॥ ४०. परितः पूरवतामियान् विषयासक्तिविकृष्टचेतसा । शरणं करुणात्मना हितं भवता लब्धमिदं पदं विभोः ॥ ४१. शिवशङ्करशाश्वतादिदेव न परैर्नामपरैरपीशते । अमृतत्त्वं अयं निजं तपः किमुताक्ष्णा विषयीकृते मयि ॥ ४२. तपत्यसौ मामियं मुहुर्विषयाशा भुजगीव भूयसी । भवभेषजपण्डितैरमुं जनमङ्गीकुरु नाप्यलक्षितैः ॥ ४३. क्षणमप्यसहामि कल्पकल्पं करुणादुग्धपयोनिधे विभोः । अनवाप्य भवत्पदाम्बुजं नहि कालेन विलम्बनं कुरु ॥ ४४. चिरमिति कलुषाकूपारपागतिमतिसुखदात्रीमप्यदृष्ट्वा समन्तात् । परमिह विनियोगं नयनौघं त्राहि दीनानुकम्पिन् ॥ ४५. अभयमहह मह्यं देहि दीनाय शम्भो जनमिममनुपश्यन् आर्द्रयात्मीयबुद्ध्या । सकरुणमविलम्बादक्षिकान्त्या दयालो भुवनजननतापं मोक्तुकामोऽस्मि देव ॥ ४६. इति स्मयन् स गन्धर्वः खिद्यमानेन चेतसा । आविवक्षुरिवेशानं पपात भुवि दण्डवत् ॥ ४७. शङ्खः -- इत्थं तस्मिन् महाभागे पतिते भक्तवत्सलः । अरूपैर्व्याजहारोच्चैः प्रीणयन् गगनात्मकः ॥ ४८. श्री भगवान् -- गन्धर्वराज प्रीतोऽस्मि स्तोत्रेण तपसामुना । वरान् लोकैरमूल्यान् ते मनोरथपरिष्कृतान् ॥ ४९. दास्याम्युत्तिष्ठ भद्रं ते श्रुणु मे वचनं हितम् । इमं विमानमारुह्य तप्तकाञ्चनसन्निभम् ॥ ५०. शातकुम्भमणिव्रातनानामणिभूषिताः । तुरगाः कोटिसङ्ख्याताः सारोहाः चारुदर्शनाः ॥ ५१. इमान् वृणीष्व मातङ्गान् उत्तुङ्गान् चन्द्रपाण्डुरान् । चतुर्दन्तान् च सारोहान् ऐरावतसमौजसः ॥ ५२. भूताः तवानुचराः शूराः चारुविलोचनाः । कन्दर्पसुन्दराकाराः स्वामिभक्ताः प्रियंवदाः ॥ ५३. तवानुयायिनः सन्तु नित्याः चित्तानुवर्तिनः । इमाः चामीकराः चारुप्रमदाः प्रियदर्शनाः ॥ ५४. अनेकगुणसम्पन्नाः विद्युज्ज्वलितवर्चसः । स्त्रियामङ्गस्पृशो यत्र वान्ति वाताः सुगन्धिनः ॥ ५५. मरुताः च तत्र जीवन्ति सुधासृष्टेऽत्र जन्तवः । इत्थमत्यद्भुतैर्भोगैरुपेतस्त्वं महीपते ॥ ५६. अनेन सुहृदा सख्यं देवराजेन धीमता । संप्राप्य नाकपृष्ठाख्यं सुखीभव मदाज्ञया ॥ ५७. अथ राथन्तरे कल्पे क्रमादागामिनि स्वयम् । भवितव्यमदित्यां त्वं अंशुमान् नाम नामतः ॥ ५८. विधाय जगतो रक्षां हत्वा दैत्यान् बहूनिह । अत्रैव मामनाद्यन्तमखण्डब्रह्ममण्डम् ॥ ५९. अपारमकुतोमोहमानन्दामृतमेष्यसि । इत्युक्त्वा विरते तस्मिन् अम्बरात् अम्बरात्मनि ॥ ६०. आसीत् कलाकलारावः स्तुवतां वै दिवैकसाम् । ववर्षुः पुष्पवर्षाणि परमामोदवायुना ॥ ६१. जहर्षुः च तदा सिद्धाः ऋषयो नारदादयः । आसन् प्रसन्नसलिला ह्रदा जलरुहश्रियः ॥ ६२. सतामासीत् अकलुषं अन्तस्वान्तसरोरुहम् । इत्थं जगदि सानन्दे स गन्धर्वः प्रसन्नधीः ॥ ६३. अनुशिष्टो महेन्द्रेण सुहृद्भिश्च समावृतः । विमानवरमारुह्य देवदत्तैः महाधनैः ॥ ६४. अनुयायिगणैराप्तैः स्त्रीरत्नैरपि सेवितः । उद्गीयमानसौभाग्यः छत्रचामरसेवितः ॥ ६५. रराज देवराजेन सहितः चन्द्रमा इव । तावदाविरभूत् श्रीमान् वैनतेयरथो हरिः ॥ ६६. सेव्यमानः सुरगणैः तस्यैव प्रियकाम्यया । संस्तुतः पूजितस्तेन तमेनं प्राह माधवः ॥ ६७. श्री भगवान् -- गन्धर्वराज प्रीतोऽस्मि तपसा व्रतचर्यया । सर्वाणि अस्तु भद्रं ते जीवेश्च शरदां शतम् ॥ ६८. अत्रैव शम्भुर्भगबान् आत्मज्योतिः प्रकाशयन् । भक्तानां श्रेयो विधायन् आस्ते सत्वगुणान्वितः ॥ ६९. अत्र सर्गसमारम्भस्थित्यां रम्योऽपि मायया । उपसंहरण कार्यं च कुर्वन् सदा शुभङ्करः ॥ ७०. अत्र एवात्मतत्त्वज्ञैः आवासं अद्य क्षेत्र एव हि । उपासना च कर्तव्या सर्वदा मम वासरे ॥ ७१. भाग्यमेतादृशं प्राप्तं अक्षय्यं मोक्षलक्षणम् । प्रत्यब्दमत्र स्नातव्यं मीनमेयुषि भास्करे ॥ ७२. भरण्यामर्चनीयोऽयं शङ्करो लोकशङ्करः । एषु तीर्थेषु च स्नात्वा पुण्यं ईयुः सदा जनाः ॥ ७३. ब्राह्मणाः पूजनीया हि विधिज्ञ विधिना त्वया । अत्रैव देवाश्च सर्वे हितकाम्यया पूजनीयाः ॥ ७४. यत्ते जागरणं नित्यं प्रजानां पितरो यथा । तस्मात् अत्रैव कुर्वन्तु पूजां हरिहरात्मकम् ॥ ७५. यः चात्र पुण्यतीर्थेषु स्नात्वा मलयजोदके । तेजः प्रदक्षिणीकृत्य जप्त्वा त्रिपदिकामपि ॥ ७६. मुक्तपापो भवेत् क्षिप्रं नात्रकार्या विचारणा । स्नात्वा प्रभामये तीर्थे कण्ठदध्नोदकस्थितः ॥ ७७. महाविद्यामनुं जप्त्वा ब्रह्महा मुच्यते परम् । सूर्यतीर्थे नर ; स्नात्वा सौरमष्टाक्षरं स्मरन् ॥ ७८. निर्मुक्तपापो मर्त्यः सद्यः सायुज्यमेष्यति । त्रयम्बकं सप्रणवं तथा पञ्चाक्षरं जपेत् ॥ ७९. अवगाह्य महातोयं जपन् हरिहरे ततः । ध्रुवं मुक्तिमवाप्नोति विद्यां शैवीं षडाक्षरम् ॥ ८०. स्नात्वा तीर्थे जपन् चापि ध्यात्वा मामपि सादरम् । नारायणात्मकं मुक्तिमष्टाक्षरं स्मरन् ॥ ८१. श्रीसूक्तं पावनं त्रिसुपर्णमथापि वा । तथैव पौरुषं सूक्तं विष्णुसूक्तमथापि वा ॥ ८२. महान्यासेन सहितं शिवसङ्कल्पमेव च । शतरुद्रीयं ये जपन्ति तेषां मुक्तिः करे स्थिता ॥ ८३. ये वज्रकीटरचितसालग्रामं द्विजन्मने । दत्वा प्रयान्ति निर्मुक्ताः तद्विष्णोःपरमं पदम् ॥ ८४. स्फाटिकं मणिसङ्कॢप्तं स्वर्णतारादिकल्पितम् । शिवलिङ्गं प्रदायैव ब्राह्मणाय महात्मने ॥ ८५. अभयं तैजसं लोकं प्रयाति निरपायवत् । गोदातान्नप्रदाता वा वस्त्ररत्नप्रदोऽपि वा ॥ ८६. आज्यदाताम्भसां दाता शय्यावाहनदायिनः । क्षेत्रारामप्रदाता वै रथवाजिप्रदायिनः ॥ ८७. वसन्ति सुखिनो नित्यं रुद्रलोके निरामये । ये चात्र स्थापयन्त्यद्धा शिवलिङ्गं विधानतः ॥ ८८. आकल्पं भोगिनो मर्त्याः ते यान्ति शिवतुल्यताम् । ममैव मूर्तिं परमां स्थापयन्ति महामते ॥ ८९. न ते भूयः प्रपद्यन्ते जननीगर्भगह्वरम् । भोगस्थानमिदं नॄणां मुमुक्षूणां च मुक्तिदम् ॥ ९०. तपस्सिद्धिकरं भोगसाधनोपायदर्शनम् । तस्मात् एतत् परं क्षेत्रं सेवितव्यं प्रयत्नतः ॥ ९१. काङ्क्षद्भिः परमं श्रेयः नात्र कार्या विचारणा । तस्मात् अवश्यं भवता प्रत्यब्दं सह बन्धुभिः ॥ ९२. आमुक्तकलनाप्राप्तिः आश्रितव्यमिदं स्थलम् । कर्मपाशानुबन्धानां यातायातश्रमावताम् ॥ ९३. जन्तूनामुपकारार्थमेतावत् कथितं मया । इत्थं विभुः समादिश्य गन्धर्वं गरुडध्वजः ॥ ९४. सर्वान् सम्भावयन् वाचा देवराजपुरोगमान् । पश्यतां सर्वजन्तूनां तेजस्यन्तरधीयत ॥ ९५. इत्थमन्तर्हिते देवे देवदेवे जनार्दने । गन्धर्वराजो हृष्टात्मा सर्वदा बलसंयुतः ॥ ९६. देवदत्तं महाभोगविभूतिविभवार्चितम् । देवस्थानं संप्रणम्य विमानेनाम्बरात्मना । योगिलभ्यं परं स्थानमवाप परमाद्भुतम् ॥ इति पञ्चाशत्तमोऽध्यायः । Pro.Total = 4613 + 96 =4709.

एकपञ्चाशत्तमोऽध्यायः

ज्योतिर्वने श्रीबलधिर्नाम्नः राज्ञा लिङ्गत्रयप्तिष्ठा श्यामानदीसङ्गमे । १. श्री शङ्खः -- इत्थमाकर्णैकपीयूषाम्भोधिसम्प्लवाम् । कथां कलिमलापायां काङ्क्षितोदयनैष्ठिकीम् ॥ २. दुष्कर्मव्रातशमनीं राजा पाण्ड्येन्द्रनन्दनः । प्रसाद्य मूर्ध्ना भूयोऽपि सनातनमिदं जगौ ॥ ३. राजोवाच -- भगवन् योगिनां श्रेष्ठ दृष्टलोकपरावर । भवता जगतीचक्रे परित्राणपरात्मना ॥ ४. जन्तवो जन्मसंसारघोरार्णवपरिभ्रमात् । परिपश्यन्ति सिद्धार्था नैव पश्यन्ति दुर्गतिम् ॥ ५. तरन्त्यन्धन्तमः सूर्यात् परितापं निशाकरात् । परितापं तमस्तोमं तरन्ति भवतो जनाः ॥ ६. तस्मात् त्वां करुणामूर्तिं गुरुमासाद्य निर्मलम् । न भवाब्धेर्न संसारात् परिपश्याम्यहं क्वचित् ॥ ७. दूरीकृतानि दुःखानि चिन्तासन्तापवन्त्यपि । ऊरीकृतमहो श्रेयः प्राप्तसर्वमनोरथम् ॥ ८. अनया कथया ब्रह्मन् ब्रह्मज्योतिप्रकाशया । कृतकृत्योऽस्म्यहं ब्रह्मन् कृतार्थोऽस्मि हि केवलम् ॥ ९. भूमिः परिमिता व्योम्नि मितं तारकदम्बकम् । मिता हिमानी कालेन मिता चैव कुलाचलाः ॥ १०. मन्यामहे वयं ब्रह्मन् कथया भूरिसम्पदः । महामहार्थकलिका ह्यमिता व्योमचक्रवत् ॥ ११. इतःपरमहं ब्रह्मन् तेजःपुञ्जमकल्मषम् । द्रष्टुमिच्छामि भवतां मास्तु कालविलम्बनम् ॥ १२. स्नातव्यानि च तीर्थानि द्रष्टव्यानि स्थलान्यपि । पूजितव्याश्च तत्रत्याः देवताश्च यथाक्रमम् ॥ १३. गुरूपदिष्टमार्गेण स्थाप्य लिङ्गमनुत्तमम् । पूजयिष्यामि विश्वेशं सोमं सोमविभूषणम् ॥ १४. सा तेन महाभाग मन्त्रिणः सपुरोहिताः । सेनाध्यक्षाः च निर्यान्तु सवाजिरथकुञ्जराः ॥ १५. धनाध्यक्षाः समादाय पुष्कलानि धनान्यपि । इति भूपवचश्श्रुत्वा सर्वे संहृष्टमानसाः ॥ १६. नगरात् निर्ययुः तूर्णं विचित्रं द्रष्टुमुत्सुकाः । सुधानीतं तथा दिव्यं स्यन्दनं कामचारिणम् ॥ १७. विनीताश्वसमायुक्तं गन्धर्वनगरोपमम् । सनातनं पुरस्कृत्य समारोहन्नृपात्मजः ॥ १८. काश्यपो जमदग्निश्च पर्णादो रैब्यरैवतौ । लोपामुद्रापतिः श्रीमान् अगस्त्यः साग्निहोत्रकः ॥ १९. नारदः पर्वतश्चैव कौशिकश्च पराशरः । वसिष्ठाद्याः तथा तस्मिन् समवायमकल्पयन् ॥ २०. शङ्खभेरीनिनादैश्च पणवानकगोमुखैः । वीणावेणुनिनादैश्च जयशब्दैश्च वन्दिनाम् ॥ २१. पूर्यमाणमिव व्योम भूः चचलेव सर्वशः । एवं प्रहृष्टैः मुनिभिः जनमन्त्रिपुरोहितैः ॥ २२. प्रपूज्यमानो योगीन्द्रो राजापाण्ड्येन्द्रसूनुना । प्रविवेश महाक्षेत्रं भास्कराकारदर्शनम् ॥ २३. समन्तात् योजनायामं सर्वसिद्धनिषेवितम् । नीलजीमूतसङ्काशैः महापादपसञ्चयैः ॥ २४. व्याप्तं दिग्व्योमभागैश्च सपुष्पफलपल्लवैः । चूतकेतकतालाम्रतङ्कोलामलकेतकैः ॥ २५. माक्न्दकुन्दमन्दारचन्दनातङ्कतिन्दुकैः । केरनारङ्गकङ्केलिकलिमालूरमागधैः ॥ २६. नमेरुपूगनागाद्यैः शाखारुद्धातपच्छदैः । अनभिज्ञातपापौघभूभागपरमोदयः ॥ २७. कासारशतसम्पातकल्हारकुमुदोज्ज्वलम् । ज्वलत्पावकसङ्काशैः सूर्यताराधिपप्रभैः ॥ २८. तपस्यद्भिः महासिद्धैः यतिभिः ब्रह्मचारिभिः । वनाश्रमिजनैरन्यैः ब्राह्मणैः गृहमेधिभिः ॥ २९. क्वचित् समाधिमापन्नैः अर्धोन्मीलितलोचनैः । क्वचित् आराधयद्भिः च देवदेवमुमापतिम् ॥ ३०. पञ्चयज्ञपरैर्दान्तैः क्वचित् स्मृतिविशारदैः । क्वचित् सामानि गायद्भिः क्वचित् चापि ऋचां गणैः ॥ ३१. यजूंषि वाचा विस्तार्य तदर्थान्वेषणातुरैः । ब्राह्मणैरध्वरोद्युक्तैः आथर्वणपरैः परैः ॥ ३२. जुह्वद्भिरग्निमन्यत्र क्वचित् योगपरायणैः । सर्वतश्शोभनाकारं सालङ्कारमिव स्थितम् ॥ ३३. क्षेत्रमक्षिपथे लब्ध्वा आदिसिद्धनृपादयः । अवतीर्य स्वयानेभ्यः कृताञ्जलिपुटोज्ज्वलाः ॥ ३४. प्रणेमुः शिरसा क्षेत्रं प्रजापतिमिव प्रजाः । सह राजेन्द्रपुत्रेण प्रीतो विप्रैः सनातनः ॥ ३५. प्रविवेश महाक्षेत्रं भक्त्या प्रणतकन्धरः । इत्थमायान्तमधुना राज्ञा राजेन्द्रसूनुना ॥ ३६. तत्रत्याः सहसा सिद्धाः ज्ञात्वा प्रीतिपुरस्सरम् । प्रत्युज्जग्मुर्यथान्यायं मधुपर्कार्हणादिभिः ॥ ३७. परस्परं समभ्यर्च्य त एते स्वागतादिभिः । तैः पूजितो यथान्यायं हृष्टा क्षेत्रमुपागमन् ॥ ३८. प्रविश्य सुमहत्क्षेत्रं विनीतो राजनन्दनः । आदिसिद्धोपदिष्टेन विधिना भैरवं विभुः ॥ ३९. प्रथमं पूजयित्वा तु गणेशवटुकौ तथा । तीर्थदेवीं समभ्यर्च्य ताम्रां मलयनन्दिनीम् ॥ ४०. स्नात्वा क्रमेण तीर्थेषु वापीकूपह्रदादिषु । देवान् पितॄन् ऋषीन् चैव तर्पयित्वा द्विजान् अपि ॥ ४१. क्षेत्रोपवासं विधिवत् रात्रौ जागरणं तथा । कृत्वा धर्मकथां श्रुत्वा निनाय रजनीं नृपः ॥ ४२. अपरेद्युस्समुत्थाय कृत्वा स्नानादिकाः क्रियाः । ब्राह्मणान् भोजयित्वा तु पारणामभ्यवर्तयत् ॥ ४३. ततः कतिपयाहेषु गतेषु नृपनन्दनः । दीनेशे मकरारूढे पूर्यमाणे निशाकरे ॥ ४४. सप्तम्यां गुरुवारे च शुभयोगसमन्विते । गार्हस्थ्यमिन्द्रावश्विन्यां कर्म कुर्वति निमले ॥ ४५. गुरुणाधिष्ठिते लग्ने कविना च निरीक्षिते । एकादशगते मन्दे मुहूर्ते मैत्रसंज्ञिते ॥ ४६. राजा श्रीमान् आगमोक्तेनवर्त्मना । महामन्त्रेण शैवेन नवकूटाणुना सह ॥ ४७. स्थापयामास तल्लिङ्गं यत्र ज्योतिः प्रवर्तते । उच्चावचेषु मन्त्रेषु ईरितेषु महर्षिभिः ॥ ४८. भेरीमृदङ्गशङ्खेषु निनदत्सु समन्ततः । विमानस्थाः ततो देवाः ब्रह्मनारायणादयः ॥ ४९. आसन् प्रसन्ना ककुभः सामोदः मरुत् ववौ । देवदुन्दुभयो व्योम्नि सस्वनुर्देवचोदिताः ॥ ५०. जपन्तो मन्त्रवैशिष्यं शतरुद्रीयसंज्ञितम् । तुष्टुवुः परमेशानं सिद्धैश्च परमर्षिभिः ॥ ५१. देवदुन्दुभयो व्योम्नि सस्वनुर्देवचोदिताः । ववर्षुः पुष्पवर्षाणि सिद्धैश्च परमर्षिभिः ॥ ५२. ववर्षुः पुष्पवर्षाणि परितः कल्पशाखिनः । एवं प्रतिष्ठाप्य शिवं पूजयामास भूपतिः ॥ ५३. धूपैर्दीपैश्च नैवेद्यैः गन्धपुष्पाक्षतादिभिः । एतस्मिन् अन्तरे व्योम्ना समादिष्टः सुरोत्तमैः ॥ ५४. महाचूडामणिकृतामादाय प्रथिमां शुभाम् । गौरीं नीलोत्पलप्रख्यां नानामणिविभूषिताम् ॥ ५५. विश्वकर्मा समासाद्य ददौ राज्ञे च संसदि । हृष्टात्मा स महीपालः तां प्रगृह्य मणिप्रभाम् ॥ ५६. देवीं संस्थापयामास मन्त्रेण गुरुचोदितः । एवं देवं च देवीं च प्रतिष्ठाप्यागमात्मना ॥ ५७. नमस्कृत्य महादेवं त्रिःपरिक्रम्य साञ्जलिः । पूजान्ते पुरतः स्थित्वा साम्बं स्तोतुं प्रचक्रमे ॥ ५८. राजा -- ॐ तद्वाच्यं द्योतमानं महान्तं ज्योतिर्नित्यं सत्समाधेयरूपम् । मान्यं मोहापायहेतुं प्रपद्ये प्रायः श्रेयः प्राप्तुमैशं महिम्ना ॥ ५९. यातायातश्रान्तिसन्तारहेतोः हातुं मायाजालिकाबन्धनानि । सन्धातुं वै जीवलेखां महिम्ना साक्षात् ईशं संश्रये तत्त्वरूपम् ॥ ६०. कर्माकारं तत्फलाकाररूपं कर्तृत्वे च व्यक्तिमभ्येषि वासम् । इज्याकारं देवताकारमन्तः शैवं भावं यातुमीहे महान्तम् ॥ ६१. तीर्थाकारो यः परित्रातुमेतत् मन्त्रार्णात्मा नैगमान्तर्विलासी । साक्षी दाता कर्मणासौ फलानां देवो भूयात् अग्रतो नः पुराणः ॥ ६२. यन्नामर्णान् वाचि कुर्वन् प्रमादात् अभ्यर्थात्वा पापतो मुक्तिमेति ॥ तं त्वामन्तः चन्द्रचूडं प्रपद्ये नीलग्रीव त्राहि नः कर्मबन्धात् ॥ ६३. अन्तःकरणा नेडमूकाकनाथाः यत्ते किञ्चित् वृत्तमुल्लास्य शम्भुम् । पापात् मुक्ता यान्ति तज्ज्योतिरैशं पाशापायं नौमि नाथं पशूनाम् ॥ ६४. हेतुस्साक्षी तन्नियन्तापहन्ता जन्तोरन्तर्जीवरूपो च भूयः । येऽस्पृश्यात्मा कथ्यते ब्रह्मविद्भिः सोऽयं शम्भुः पातु नः कर्मबन्धात् ॥ ६५. विश्वात्मा यो विश्वरूपो नियन्ता काले काले योजयित्वा स्ववृत्या । कालक्षेपं कल्पयत्येष नित्यं तस्मै धाम्ने कल्पये चित्तमद्धा ॥ ६६. युक्त्या मन्त्रैर्वेदतत्त्वार्थदृष्टैः बुद्ध्या शुद्ध्या वाग्विलासाद्गुरूणाम् । अन्वेषन्ते योगिनो यत्पदाब्जं तस्मिन् आशा भूयसी मेऽस्तु नित्यम् ॥ ६७. नित्यं शुद्धं निर्विकल्पं पुराणं सत्यं सूक्ष्मं सर्वसङ्कल्पहीनम् । श्रद्धामात्रं शम्भुमाद्यं विनोदात् सालङ्कारं कारयेन्नीलकण्ठम् ॥ ६८. देव प्रसीद परमेश्वर चन्द्रमौले लीलाविशेषपरिकल्पितपञ्चकृत्य । पश्यन् त्रिकालभवभूतपते दयालो मां पाहि मोहकुहरात् गहनात् प्रपन्नम् ॥ ६९. इति तस्याग्रतः स्थित्वा स्तुवतः स्तुतिसम्पदा । लालिताञ्जलिनालस्य भक्तिनम्रात्ममूर्तिनः ॥ ७०. तल्लिङ्गात् अक्षिपदवीमभूत् तस्मात् शुभोदया । अपारा पूरिताशेषभुवना भास्करोपमा ॥ ७१. दैव तेजसः कोऽपि पुमान् आगत्य सत्वरम् । एहि वत्सेति सम्भाष्य करेणालम्ब्य भूपतिम् ॥ ७२. अन्तर्निनाय वै तस्मिन् तेजःपुञ्जे महत्तरे । ददर्श महतीं भूमिं तदन्तः काञ्चनारुणाम् ॥ ७३. तन्मध्ये नगरीं पुण्यां मधुरां राजनन्दनः । महाप्राकारसंयुक्र्तां महापरिघवेष्टिताम् ॥ ७४. महाजनसमाकीर्णां नरनारीसमाकुलाम् । विभक्तरथ्यां विततां गजवाजिरथाकुलाम् ॥ ७५. महाराजगृहोपेतां प्रासादशतसङ्कुलाम् । पुरीं विचित्रामालोक्य स्मयमानो महीपतिः ॥ ७६. तत्रत्यैर्बन्धुभिस्स्निग्धैः मन्त्रिसामन्तबन्धुरैः । प्रत्युद्यतः पूज्यमानः स्तूयमानश्च बन्धुभिः ॥ ७७. कैलासशिखराकारां ददर्श भवनं पितुः । अतीत्य कक्ष्याः विविधाः मणिकाञ्चनकुट्टिमाः ॥ ७८. अधिष्ठितद्वारपालाः रक्ष्यमाणाश्च रक्षिभिः । अक्षिप्राघुणिकीजातां सभामासाद्य वै शनैः ॥ ७९. ददर्श पितरं तत्र मणिसिंहासने स्थितम् । दीप्यमानं स्वया कान्त्या महेन्द्रवरुणोपमम् ॥ ८०. चामराभ्यां वीज्यमानं श्वेतच्छत्रसमन्वितम् । स्तूयमानं पुरोभागे सूतमागधवन्दिभिः ॥ ८१. पार्श्वे मरकतश्यामां मातरं चारुदर्शनाम् । तत्र स्थिताःमन्त्रिवृद्धाः ऋषयो ब्रह्मवादिनः ॥ ८२. सभ्याः परमोदाराः सूक्ष्मज्ञाः दीर्घदर्शिनः । उपतरस्थुर्महात्मानं देवराजमिवामराः ॥ ८३. तं दृष्ट्वा पितरं प्रीतो मातरं च यशस्विनीम् । प्रणम्य पादयोर्भक्त्या व्युपतस्थे तदन्तिके ॥ ८४. तमेनमागतं पुत्रं कौतुकात् परमेश्वरः । स्नेहात् अमुं समाश्लिष्य मूर्ध्न्युपाघ्राय वै मुहुः ॥ ८५. अङ्के पुत्रं समारोप्य स्नेहात्त् वचनमब्रवीत् । पिता -- जय जीव चिरं वत्स तातायुष्मन् महामते ॥ ८६. प्रीतोऽस्मि तव कृत्येन स्तोत्रेणानेन पूजया । एषा ते जननी प्रीता तव शुश्रूषयाऽनघ ॥ ८७. धर्मेण पालय महीमधर्मं परिवर्जय । मा तवाहङ्क्रियां क्वापि गुरून् आराधयानिशम् ॥ ८८. सर्वमीश्वरभावेन कर्माणि परिवर्तय । अलङ्घनीया गुर्वाज्ञा मन्त्रयन् मन्त्रिभिस्सह ॥ ८९. ब्राह्मणेषु च देवेषु सदा तुल्यमतिर्भव । पाषण्डानामनार्याणां विमुखो भव सर्वदा ॥ ९०. नित्यमावां च पितरौ भक्त्या शुश्रूषया सदा । धर्मं संस्थापयन् भूमौ शत्रून् जहि महामते ॥ ९१. यज्ञेन देवानभ्यर्च्य पितॄन् चैव यथोचितम् । स्वदारनिरतो भूत्वा चिरं जीवितुमर्हसि ॥ ९२. काठिन्यं नानुवर्तस्व स्वशत्रुषु जयोत्सुकः । मार्दवात् गुरुवर्गेषु भृत्येषु समवर्तिना ॥ ९३. अहमत्रैव वत्स्यामि तव मात्रानया सह । सर्वेषामेव जन्तूनां हिताय च महामते ॥ ९४. इत्थं सुन्दरपाण्ड्योऽयं साक्षात् गौरीसखश्शिवः । पुत्रं समनुशास्यैव तत्रैवान्तरधीयत ॥ ९५. तावत् श्रीबलधिश्श्रीमान् प्रसन्नात्मातिविस्मितः । लिङ्गं पुरस्तात् आलोक्य ब्राह्मणानां च समन्ततः ॥ ९६. पृष्टः सनातनेनासौ किं चक्रमिति भूपते । कथयामास वृत्तान्तं यथावत् दिव्यदर्शनम् ॥ ९७. श्रुत्वा सर्वे मुनिगणाः राजानोऽन्ये च मन्त्रिणः । जहर्षुः परमानन्दात् पूर्यमाणा इवापगाः ॥ ९८. ततो राजसुतो देवमभ्यर्च्य च सनातनम् । तेनानुशासितः चक्रे नगरीं तत्र विस्तृताम् ॥ ९९. मधुरायाः तुल्यरूपां देवागारशतोज्ज्वलाम् । चण्डाख्यः पूर्वभागे तु वीरभद्रं महाबलम् ॥ १००. पुरस्य रक्षणार्थं स्थापयामास भूपतिः । आग्नेय्यां वीरशास्तारं दक्षिणे च मदोत्कटम् ॥ १०१. नैरृत्यां देवदेवेशं सुन्दराख्यं जनार्दनम् । पश्चिमे मुचुकुन्दाख्यं भगवन्तं गणेश्वरम् ॥ १०२. वायव्यां वैनतेयं च गन्धर्वं च तथोत्तरे । ऐशान्यां च गणेशानं सिद्ध्याख्यं सिद्धिदायकम् । १०३. एवं कृत्वा पुरीं पुण्यां तुल्यरूपां महीपतिः । चकार वासं तत्रैव देवमाराधयन् सदा ॥ १०४. स्नात्वा स्नात्वा च तीर्थेषु दृष्ट्वा दृष्ट्वा च देवताः । ईजे बहुविधैर्यज्ञैः विपुलैः आप्तदक्षिणैः ॥ १०५. पुत्राभ्यां स्थापयामास शिवलिङ्गद्वयं नृपः । धर्मसेनाभिधस्तस्य पुत्रे ज्येष्ठोऽतिधार्मिकः ॥ १०६. तत्र दत्तं च तल्लिङ्गंस्थापयामास शास्त्रतः । वामनाश्रमतोऽप्यग्रे पूर्वभागे वृषाश्रमे ॥ १०७. स्थापितं तु महालिङ्गं नाम्ना श्रीबलधीश्वरम् । ये च पश्यन्ति तेषां तु मोक्षलक्ष्मीः करस्थिता ॥ १०८. तद्भ्रात्रा ब्रह्मदत्तेन स्थापितोऽभूत् महेश्वरः । मायालास्यात् पूर्वभागे ताम्राया उत्तरे तटे ॥ १०९. स्थापितः सुमहालिङ्गो दर्शनात् भुक्तिमुक्तिदम् । इत्थं स राजा संस्थाप्य लिङ्गत्रयमनुत्तमम् ॥ ११०. ब्राह्मणान् भोजयित्वा च धनैः सन्तर्प्य भूपतिः । विवेश नगरीं पुण्यां मुहूर्ते शुभसंयुति ॥ १११. वर्धितस्तु मुनीन्द्रेण तथाशीर्भिर्द्विजोत्तमैः । पूर्णकामो महातेजाः परमानन्दमेयिवान् ॥ ११२. पूजिताः पुष्कलैः विप्राः धनैः आपृच्छत तं नृपम् । प्रशंसन्तो महातेजाः जग्मुरेव यथागतम् ॥ ११३. अस्मै वरान् वितीर्यैव देवा इव पुरोगमाः । स्वर्गादपि परां दृष्ट्वा पुरीं भुवनभूषणाम् ॥ ११४. समापृच्छ्य ययुः सर्वे हृष्टात्मानो दिवैकसः । इत्थं गतेषु सर्वेषु देवेषु मुनिभिस्सह ॥ ११५. राजा परमसंहृष्टः तत्रैव वसतिं व्यधात् । इत्थं ज्योतिर्वनस्यास्य माहात्म्यं विस्मयावहम् ॥ ११६. कथयित्वा महायोगी विचित्रं परमाद्भुतम् । भूयः कीर्तिसुधामस्मै ताम्रायाः पापनाशिनीम् । वक्तुं प्रचक्रमे श्यामासङ्गमेऽभ्युदयोज्ज्वलाम् ॥ ११७. इति कलिकलुषापाहामपारामभिनवकालकथारसाभिरामाम् । श्रुतिपदमुपलभ्य धूतपापा परमुपयान्ति परं पदं हि लोकाः ॥ इति एकपञ्चाशोऽध्यायः । Pro.Total = 4709 + 117 =4826.

द्विपञ्चाशोऽध्यायः

मन्त्रतीर्थमहिमा । १. शङ्खः -- श्रुणु राजन् प्रवक्ष्यामि मन्त्रतीर्थस्य वैभवम् । श्रवणात् अस्य वै मर्त्याः न शोचन्ति पुनर्भवम् ॥ २. यत्र भैरवती पुण्या भैरवाचलनन्दिनी । आर्द्रापगेति विख्याता सङ्गता ताम्रया सह ॥ ३. यत्र भक्तजनापायव्यपोहनविचक्षणा । शिवस्तारकवर्णात्मा लिङ्गमूर्तिरभूत् यतः ॥ ४. तस्य तीर्थस्य माहात्म्यं महान्तं सागरोपमम् । श्रवणात् कीर्तनात् अस्य नरो मुच्येत बन्धनात् ॥ ५. इति गाथां समाकर्ण्य मुनिना कथितां शुभाम् । कौतूहलसमाविष्टो वीरसेनो महीपतिः ॥ ६. प्रणम्य भूयो योगीन्द्रं पप्रच्छ विनयोज्ज्वलः । भगवन् का नदी पुण्या कथं भैरवीतीरिता ॥ ७. आर्द्रापगाख्या केनासीत् केन वा भैरवाद्रिजा । सर्वं विस्तार्य मे ब्रूहि सर्वज्ञोऽसि महामते ॥ ८. इति पृष्टो महीपेन भक्तेन प्रणतेन सः । स्नेहात् विस्तार्य तां पुण्यां कथामकथयत् मुनिः ॥ ९. शङ्खः -- राजन्कथयतो मे त्वं काममाकर्णयाधुना । कन्दर्पशिखरो नाम महान् आसीत् महीधरः ॥ १०. यत्र तप्त्वा तपस्तीव्रं वसिष्ठो भगवान् मुनिः । पुत्रशोकात् विमुक्तोऽभूत् अतो लोके प्रतीयते ॥ ११. आयामात् क्रोशमात्रेण दिशमैन्द्रीं च वारुणीम् । अवष्टभ्योच्छ्रितैः श‍ृङ्गैः व्यावृण्वानमिवाम्बरम् ॥ १२. नानातरुलताकीर्णं नानाप्रस्रवणोज्ज्वलम् । समन्तात् योजनायामं वनं चैत्ररथोपमम् ॥ १३. तत्र सौमनसा नाम ऋषयः चोर्ध्वमन्थिनः । वसिष्ठगोत्रसम्भूता नित्यं व्रतपरायणाः ॥ १४. पुत्रैः पौत्रैः च शिष्यैः च साग्निहोत्राक्रियान्विताः । परितः शैलमुख्यस्य कृत्वाश्रमपदं महत् ॥ १५. ऊषुस्स्वाध्यायनिरताः शिवध्यानपरायणाः । तेषां मध्ये महातेजाः हिरण्वान् इति विश्रुतः ॥ १६. तपसा विद्यया ब्रह्मज्ञानेनाप्यधिकोऽभवत् । मायावत्या समं चक्रे गार्हस्थ्यं धर्मभार्यया ॥ १७. अस्यां पुत्रशतं प्राप्य पुत्रीमञ्चिच्छतामुना । तपसाराध्य देवेशं प्राप्तं पुत्रीचतुष्टयम् ॥ १८. कुमुदा रोहिणी भद्रा तुरीयार्द्रा समीरिता । एता देवांशसम्भूता कुमार्या देववर्चसः ॥ १९. क्रमात् शैशवभावेन वियुक्ता प्राप्तयौवनाः । दृष्ट्वा गुणोत्तराः कन्याः पिता दृष्ट्वाति हृष्टवत् ॥ २०. वरेभ्यः चानुरूपेभ्यः दातुमैच्छत् महामतिः । कुमुदामेकतायादात् द्वितीयाहूय रोहिणीम् ॥ २१. तृतीयभद्रां प्रायच्छत् ब्राह्मेण विधिना मुनिः । तासामुद्वाहसमये समाजे ब्रह्मवादिनाम् ॥ २२. अभ्यायौ महातेजाः भैरवाद्रिः सुहृज्जनैः । तमेनमागतं दृष्ट्वा हिरण्वान् प्रीतिपूर्वकम् ॥ २३. प्रत्युद्गम्य प्रसाद्यैनं समाश्लिष्य मुहुर्मुहुः । समानीय गृहं पत्न्या सत्कारेणार्चितेन तु ॥ २४. आथित्येनार्हयामास सर्वानभ्यागतान् मुनीन् । अभयर्चितः तदा तेन मुनिना सुहृदाद्रिराट् ॥ २५. तं प्रसाद्य मुनिश्रेष्ष्ठं प्रीत्या वचनमब्रवीत् । अद्रिराजः -- सखे सम्भावितोऽस्म्यत्र त्वया स्नेहार्द्रचेतसा ॥ २६. इदानीं हृद्गतं तापं तुभ्यमत्र निवेदितुम् । आगतोऽहं त्वया ब्रह्मन् पूर्यतां मे मनोरथः ॥ २७. भद्रावतीयं मे भार्या चित्रसेनस्यकन्यका । प्राणैः प्रियतरा नूनं छायेव सहचारिणी ॥ २८. अनपत्योऽहमस्यां तु न लब्ध्वा पुत्रिकामपि । तस्मात् कुरु कृपां ब्रह्मन् दातुमर्हसि पुत्रिकाम् ॥ २९. एनामार्द्राभिधां कन्यां त्व्द्दत्तां प्राप्य पुत्रिकाम् । लब्ध्वा निधिमिवाकल्पं हृष्यामि सह भार्यया ॥ ३०. तथा प्रसीद मे ब्रह्मन् स्मृत्वा सौहृदमावयोः । इति तद्वचनं श्रुत्वा हिरण्वान् अभिनन्दितः । ३१. प्रदायास्मै सपत्नीको कन्यामार्द्राभिधामिमाम् । इत्थं तां पुत्रिकां लब्ध्वा प्रहृष्टेनान्तरात्मना ॥ ३२. तमापृच्छ्य मुनिः प्रायात् अद्रीशः स्वगृहं पुनः । लालयन् पोषयन् कन्यां स्नेहात् अङ्के निधाय ताम् ॥ ३३. निनाय कतिचित् कालं सन्तोषात् निमिषोपमम् । एवं सा वर्धिता पित्रा मात्रा चाप्युपलालिता ॥ ३४. सखीभिस्सह संयुक्ता विजहाराद्रिसानुषु । लीलोपकरणैर्दिव्यैः मणिपुत्तलिकादिभिः ॥ ३५. कन्दुकैः चित्रझषकैः शारीशुकमयूरकैः । रत्नकन्दकरण्डैश्च स्नेहकुड्मलमण्डितैः ॥ ३६. फलैः पुष्पैः पल्लवैश्च परैः क्रीडापरिच्छदैः । एवं सखीभिः सम्भूय स्वपाणिग्रहणोत्सवम् ॥ ३७. शिवेन कल्पितं नित्यं मानसं कन्यकाकरोत् । कल्पयन्त्या शिवं ध्यात्वा स्वपाणिग्रहणक्रियाम् ॥ ३८. हायनत्रितयं पूर्णमेकदिनेन तु । एकदा सा तु पूजान्ते मालामादाय पाणिना ॥ ३९. शिवं पुरस्तात् ध्यायन्ती तत्कण्ठे तामकल्पयत् । एवं तया कृतां पूजामूरीकृत्यानुरागतम् ॥ ४०. एवं सखीभिः सम्भूय क्रीडन्ती च पदे पदे । कुसुमानि विचिन्वन्ती बध्वा मालां महात्मने ॥ ४१. ताभिराराधयामास देवदेवं पिनाकिनम् । प्रसाद्य देवदेवेशं कृत्वा चापि प्रदक्षिणम् ॥ ४२. लब्ध्वा वागञ्जलारूपैः स्तोत्रैः स्तुत्वा दिने दिने । कण्ठे व्यासज्ययामास ध्यात्वा देवस्य तां स्रजम् ॥ ४३. शिवः प्रत्यक्षतां कृत्वा कण्ठे तामाददे स्रजम् । एवं च लोकास्सुखिनः मातापित्रोश्च सम्भ्रमात् ॥ ४४. अम्बरात् अमलाकारा वागभूत् अशरीरिणी । पुष्पाणि ववर्षुः देवाः तुष्टुवुर्नारदादयः ॥ ४५. करे गृहीत्वा तां कन्यां तावत् अन्तर्दधे शिवः । तिरोहितामिमां सर्वे विद्युल्ल्र्खामिवाम्बरे ॥ ४६. अपश्यन्त्यः शुचा सख्यः हाहेति परिचुक्रुशुः । सख्यो वयस्यो दुःखार्ताःतद्वियोगान्धतातुराः ॥ ४७. बभ्रमुः स्रवतास्राक्षाः क्व याता हा सखीति च । तदा शैलराजः तु दृष्ट्वा वृत्तान्तमीदृशम् ॥ ४८. सपत्नीकः शुचा राजा रुरोदोच्चैर्लुठन् भुवि । हा वत्से क्वासि चन्द्रास्ये केन नीतासि मायया ॥ ४९. पुत्रि प्राणाधिके बाले किं मां त्यक्त्वा तु मातरम् । इति शोकपरिद्यूनं क्रोशन्तमचलेश्वरम् ॥ ५०. दृष्ट्वा दयालुर्भगवान् वामदेवो महामुनिः । आगत्य हेतुभिर्वाक्यैः सान्त्वयित्वा तु दम्पती ॥ ५१. उवाच वचनं धीमान् तयोः प्रियचिकीर्षया । मास्तु शोकेन शैलेन्द्र मोहेनालमिहेदृशा ॥ ५२. कुरु धैर्यं मनस्याग्र्यं बुद्धिं वेशय सत्पते । वक्ष्याम्युपायं ते पुत्र्या पुनर्दर्शनदायकम् ॥ ५३. सा साक्षात् जगन्माता गौरी शैलेन्द्रकन्यका । हिरण्वता मुनीन्द्रेण प्रार्थिता पूजिता भृशम् ॥ ५४. भक्तानुकम्पिनी तस्य पुत्री जाता महात्मनः । त्वया चिरतरं कालं तपसा तोषिता पुनः ॥ ५५. कृपाविधायिनी तुभ्यं पुत्रीभूता दयावती । देवदेवस्य वामाङ्गे संप्राप्तैषा त्रिशूलिनः ॥ ५६. यदि भूयो मनीषा ते तद्दर्शनसमुत्सुका । यत्नं कुरु यथान्यायं मयादिष्टेन वर्त्मना ॥ ५७ ५७. गत्वा मलयजां पुण्यां तत्तीर्थेऽवाप्तमज्जनात् । समाराधय देवेशं भवनीसहितं शिवम् ॥ ५८. इति तस्मै महामन्त्रमुपदिश्य यथाविधि । तेन सार्धमनुप्राप्य मालेयीं तीर्थदेवताम् ॥ ५९. विधिना स्नापयामास शैलराजं च तत्प्रियाम् । मालेयि मातः पापघ्नि भक्ताभीष्टप्रदायिनि ॥ ६०. प्रसीद तीर्थे स्नास्येऽहं पूरयास्मन्मनोरथम् । इति तां तीर्थजननीं प्रार्थयित्वा प्रसाद्य सः ॥ ६१. नद्याः तूदक्तरे कूले ज्योतिश्चक्रस्य पूर्वतः । कन्दर्पशिखरात् शैलात् उदीच्यां क्रोशमात्रतः ॥ ६२. कृत्वाश्रमपदं राजा भूधराणां यतेन्द्रियः । मुनिनादिष्टमार्गेण साम्बमीशं समर्हयन् ॥ ६३. तुष्टाव नित्यं पूजान्ते स्तोत्रैः श्रुत्यन्तचोदितैः । इत्थमर्चयतः तस्य विधिना नियतात्मनः ॥ ६४. अपूर्णेऽह्ना हायनोऽभूत् एकेन पृथिवीपते । अपरेद्युः कृतस्नानो वामदेवेन चोदितः ॥ ६५. मनसा पूजयामास षोडशैः उपचारकैः । भावनासाधितैः द्रव्यैः मन्त्रेण प्रणवात्मना ॥ ६६. तेन पूजाविधानेन तोषितः परमेश्वरः । प्रादुरासीत् लिङ्गरूपी साक्षात् ज्योतिर्मयः प्रभुः ॥ ६७. तं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा धराधरः । समुत्थायासनात् तूर्णं बद्धाञ्जलिपुटोज्ज्वलः ॥ ६८. अस्तौषीत् अग्रतो देवं साम्बमभ्युदयात्मकम् । नमश्शिवाय देवाय सर्वातीताय वेधसे ॥ ६९. गुणत्वाकृति मानाय गुणाकाराय हेतवे । मन्त्रतन्त्रस्वरूपाय पञ्चतन्मात्रसाक्षिणे ॥ ७०. अपञ्चीकृतभूताय पञ्चभूतात्मने नमः । तीर्थमूर्त्या जगत्सर्वं पापात् त्रातात्मसेविनाम् ॥ ७१. योऽसौ सीदन्तमशुचौ मां पालयतु भूतभृत् । गङ्गाधरः शशिधरो भवो भीमो भवान्तकः ॥ ७२. अन्तकस्यान्तस्सोऽयं अवतात् अंहसो विभुः । यमेनमकृताकारमेकद्वित्रिभेदतः ॥ ७३. एकमेव परं प्राहुः तस्मै सोमाय ते नमः । सर्वेषामेव जन्तूनामन्तर्जीवकलात्मकम् ॥ ७४. प्रवृत्तिश्चोपलब्धिश्च कथितः तमुपास्महे । नादबिन्दुकलाभेदैः क्षराक्षरविकल्पनैः ॥ ७५. स्तूयते निगमैर्योऽसौ सदा भवतु मे गतिः । यदेकदेशात् अर्काद्याः द्योतन्ते हि नभस्थले ॥ ७६. यदाज्ञया ब्रह्ममुखाः तस्मै ब्रह्मात्मने नमः । केचित् तरन्ति वै मृत्युं केचित् अंहो दुरत्ययम् ॥ ७७. केचित् तरन्ति दारिद्र्यं नमस्तस्मै दयात्मने । अष्टमूर्तिरनेकात्मा निगमान्तः प्रदर्शितः ॥ ७८. सर्वात्मा शङ्करः साक्षी क्षेमाय पुरतोऽस्तु मे । त्वां देवदेवं पुरुषं सद्योजातमनामयम् ॥ ७९. क्षेमङ्करं वामदेवमघोरं प्रणतोऽस्म्यहम् । ईशानः शाश्वतः साक्षी सोऽयं तत्पुरुषो विभुः ॥ ८०. स मेऽसौ भाग्यदातास्तु पुरतः पूर्वपूजितः । नमो नमश्शाश्वतशान्तिकरिन् शमांवतां भूरिकरप्रियाकरः ॥ ८१. स नः समस्ताभ्युदयैकहेतुको भवेद्भयानामुपशान्तिकृत् विभुः । ऋषिः -- इति स्तवेन पुण्येन भक्त्या चाभिष्टुताऽमुना ॥ ८२. दयानिधिः प्रादुरभूत् गौरीनाथः त्रिलोचनः । कोटिकन्दर्पलावण्यसंसृष्टो यौवनश्रिया ॥ ८३. कर्पूरपाण्डुरश्रीमान् नीलकण्ठो जडाधरः । वामानुषक्तया गौर्या समाश्लिष्टोत्पलश्रिया ॥ ८४. आरुह्य वृषभश्रेष्ठमादिसिद्धैर्निषेवितः । आहूय शैलराजानं व्याजहार महेश्वरः ॥ ८५. शिवः -- प्रीतोऽस्मि तव शैलेन्द्र स्तोत्रैरेभिस्सपर्यया । वरान् वृणीष्व भद्रं ते दास्यामि च मनोरथान् ॥ ८६. शिववामाङ्कगां बालां स्वपुत्रीं चारुदर्शनाम् । आनन्दाश्रुपरीताभ्यां लोचनाभ्यां विलोकयन् ॥ ८७. मन्दं मन्दमुवाचेदं स्नेहसाध्चसविह्वलः । शैलराजः -- यद्यहं वरयोग्योऽस्मि वरदौ मे युवां यदि ॥ ८८. वधूवरौ भवन्तौ मे गृहे नित्यनिवासिनौ । आकल्पमस्मद्रक्षार्थं भवतां भद्रदायिनौ ॥ ८९. एष एव वरः श्लाघ्यः नान्यत् काङ्क्षे कदाचन । एवं जामातरं त्वां भो पुत्रीमेनां च दारिकाम् ॥ ९०. नित्यमस्मत्स्नेहस्निग्धौ पश्याम्याकल्पमञ्जसा । प्रसीद देवदेवेश प्रसादं कर्तुमर्हसि ॥ ९१. इत्थं संप्रार्थितां श्रुत्वा धराधीशस्य शङ्करः । भूयस्तमाह सुप्रीतः सानुरागोऽक्षिरोचिषा ॥ ९२. अहं त्वद्भवने नित्यमनया सह संवसन् । तव श्रेयो विधास्यामि भूम्यां जीमूतताट् इव ॥ ९३. तवेयं पुत्रिका तन्वी गङ्गेवाघौघनाशिनी । महाप्रवाहरूपेण सङ्गमीयात् तु ताम्रया ॥ ९४. भैरवाचलपुत्रीयं लोके विख्यातिमेष्यति । श्यामवर्णतया श्यामानदीति ख्यातिमृच्छतु ॥ ९५. हिरण्वतः कुमारीयं नाम्ना हैरण्वतीति च । आर्द्रायामेव सञ्जाता तस्मात् आर्द्रापगेति च ॥ ९६. रुद्राणीति च सिद्धेयं रुद्रपत्नी यतोऽभवत् । एवमेभिः पुण्यगन्धैः नामभिः लोकपूजितैः ॥ ९७. स्तुतेयं प्राणिभिर्नित्यं भूयात् पापप्रणाशिनी । यत् त्वदर्थे महालिङ्गरूपी विश्वाक्षिगोचरः ॥ ९८. तस्मिन् करिष्ये सततं सान्निध्यमनया समम् । तत्र स्थितानां जन्तूनामन्ते तारकदेशिकः ॥ ९९. सर्वान् कामान् प्रदास्यामि सान्निध्यं तव मे चिरम् । ये मज्जन्ति महातीर्थे ताम्राश्यामानदीयुगे ॥ १००. निर्मुक्तपापाः ते सद्यः भवन्तु सुखिनो जनाः । इत्युक्त्वान्तर्हिते देवे शैलराजः सहानुगः ॥ १०१. सान्तःपुरः क्षणं तस्थौ विस्मयेनान्तरात्मना । तावद्भैरवशैलेन्द्रमहानिर्झररूपिणी ॥ १०२. तटारामाद्विनिष्क्रम्य ताम्रामाप महानदीम् । तरङ्गिणी शैवलिनी महापूरप्रवाहिनी ॥ १०३. मत्स्यकच्छपसम्पाता फेनावर्तशतोज्ज्वला । पापघ्नी तापशमनी मज्जतां भाग्यदायिनी ॥ १०४. आयोजनं पूर्वमुखी ततोऽप्युत्तरवाहिनी । ताम्रामापूरयामास गङ्गामिव कलिन्दजा ॥ १०५. ततो देवा ब्रह्ममुखा नारदाद्याः सुरर्षयः । विस्मिताः ते समागत्य सिद्धैश्च परमर्षयः ॥ १०६. स्नात्वा विधिवत् अभ्यर्च्य ताम्राश्यामासमागमे । मन्त्रतीर्थमिति स्तुत्वा प्रयागसदृशं विदुः ॥ १०७. प्रणवेशं ततो दृष्ट्वा प्रसाद्य गिरिजासखम् । तत्प्रसादं समासाद्य कृतकृत्याः सुरासुराः ॥ १०८. प्रशंसन्तः स्तुवन्तश्च स्वानि स्वानि पदान्यगुः । शङ्खः -- राजन् अद्यापि गौरीशो भैरवाचलपत्तने ॥ १०९. श्वशुरस्य गृहे प्रीत्या भैरवत्या समन्वितः । पूजितः तेन सान्निध्यं कुरुते भक्तवत्सलः ॥ ११०. आपातालं रूढमूलः तेजोरूपी सदाशिवः । नित्यं करोति सान्निध्यं प्रणवेश इतीरितः ॥ १११. तस्मादस्मिन् मन्त्रतीर्थे स्नात्वा ये विधिपूर्वकम् । पश्यन्ति प्रणवेशानं ते यान्ति परां गतिम् ॥ ११२. इत्थं ते कथितं राजन् श्यामानद्याः समुद्भवम् । तीर्थमाहात्म्यमप्युक्तं महिमा परमेशितुः ॥ ११३. अतः परं महाराज वह्नितीर्थचतुष्टयम् । सैषा दर्शनमात्रेण भवतापप्रभञ्जनी ॥ ११४. हत्वा पाण्ड्यः पुरा विप्रं पूजारक्षणहेतवे । अवाप्तहत्यासन्तापः कुम्भयोनेरनुग्रहात् ॥ ११५. निर्मुक्तपापः स्नानेन सुखमाप महीपतिः । इत्थं मुनेरभिनवां कलिकल्मषघ्नीं कीर्तिच्छटामिवगतां मलयस्य पुत्र्याः । आकर्ण्य भूतलशतक्रतुराप हर्षं चान्द्रीं सुधामिव चकोर पतङ्गराजः ॥ इति द्विपञ्चाशः अध्यायः । Pro.Total = 4826 + 115 =4941.

त्रिपञ्चाशः अध्यायः

वह्नि(अग्नि)तीर्थप्रस्तावः । १. अथाकर्ण्य सुधाधारां कथामेनौघघातिनीम् । हृष्टः श्रुतिमुखात् राजा पीतोऽतीव प्रसन्नधीः ॥ २. भूयः शुश्रूषया चित्तमुल्लास्यानन्दमन्दिरे । पप्रच्छ मुनिशार्दूलं पयःपातुमिव प्रसूम् ॥ ३. राजा -- भगवन् को महीपालः पाण्ड्यो हत्यामवाप्तवान् । कथं तीर्थावगाहेन शुद्धिमाप गुरोर्गिरा ॥ ४. इति संप्रार्थितो योगी प्रसन्नात्मा महीभुजे । कथामावेदयामास पुण्यामिव तरङ्गिणीम् ॥ ५. राजन् मुनिवरादिष्टमितिहासं पुरातनम् । श्रवणात् यस्य मुच्यन्ते जन्तवः पापबन्धनात् ॥ ६. पुरा पुरञ्जयो नाम राजा पाण्ड्यकुलोद्भवः । धर्मज्ञः सत्यसन्धश्च वदान्यः शूरसम्मतः ॥ ७. धर्मेण पालयामास महीं निष्कण्टकामिमाम् । तस्य पुत्रो महातेजाः धर्मकेतुरितिश्रुतः ॥ ८. जातः तस्मात् कलावत्यां सोऽयं पितृसमोऽभवत् । याज्ञवल्क्यः पुरोधाभूत् तपस्वी तस्य भूपतेः ॥ ९. एवं संवर्धिताशेषसभाग्योदयसाधनः । सभायामास्थितो राजा मन्त्रिसामन्तसेवितः ॥ १०. निनाय समयं सद्भिः धर्मज्ञैः च सुहृत्तमैः । एतस्मिन्नन्तरे तत्र जना नागरिका नृपम् ॥ ११. एत्य विज्ञापयामासुः सर्वेषां हितकाम्यया । प्रजा ऊचुः -- जय जीव महाराज प्रसीद करुणानिधे ॥ १२. त्रातारं त्वां समासाद्य जीवामः सुखिनो वयम् । अद्य वो मृगयाभावात् मृगाः सिंहादयो वने ॥ १३. नाशयिष्यन्ति सस्यानि यक्ष्मेव तनुसौष्ठवम् । तास्मात् आखेटकरणैः हत्वा दुष्ट्मृगान् वने ॥ १४. त्रातुमर्हसि धर्मज्ञ न कार्यं भो विलम्बनम् । इत्थं संप्रार्थितो राजा जनैः तद्दीनमानसैः ॥ १५. हयरत्नं समारुह्य भटैः तद्गीर्मवेदिभिः । सहितो नगरात् तूर्णं निर्ययौ चित्रकार्मुखः ॥ १६. तद्रक्षणार्थं स्नेहेन याज्ञवल्क्यः पुरोहितः । जगाम विपिनं घोरं नानाद्विजगणायुतम् ॥ १७. हत्वा दुष्टमृगान् भूरि वनं निष्कण्टकमवर्तयत् । मध्यं प्राप्ते दिनकरे परिश्रान्ता क्षुधातुराः ॥ १८. कस्मिंश्चित् विपुले पुण्ये कासारे सागरोपमे । स्नात्वा पीतोदकाः तीरे निविष्टा श्रमशान्तये ॥ १९. पुरोधसा समं राजा स्नात्वा माध्याह्निकां क्रियाम् । कृत्वा तं रुचिरस्निग्धमूषतुः परवेश्मनि ॥ २०. तावताददृशतुः दूरे विचरन्त्यौ मनोहरे । युवत्यौ तुल्यसौभाग्ये विद्युच्चलितवर्चसौ ॥ २१. क्षाणात् अन्तिकमागत्य तावत् राजपुरोधसोः । तयोः चिक्षिपतुः स्कन्धे चाम्लाने पुष्करस्रजौ ॥ २२. ते च दृष्ट्वा वरारोहे राजा परपुरञ्जयः । तद्दत्तमुद्वहन् मालां कन्यके व्याजहार सः ॥ २३. राजा -- के युवां कस्य पुत्र्यौ किं वनं प्राप्ते सुदुर्गमे । अनपेक्षाविह नरावावां कान्तारसमन्वितौ ॥ २४. वक्तुमर्हस्यतोऽभीष्टं सर्वं वक्तव्यमित्यशात् । तयोरेकतरा कन्या स्मयमानं महीपतिम् ॥ २५. आशां जनयती कामं व्याजहार मनोहरम् । आवां विश्रवसः पुत्र्यौ पित्रादिष्टेन वर्त्मना ॥ २६. अर्चयन्तौ महेशानं महेशानीसमन्वितम् । नयावः कालमेतावत् काङ्क्षन्त्यावुचितं पतिम् ॥ २७. आवयोर्जननी नास्ति(शास्ति) विशाला धर्मचारिणी । ज्येष्ठाहमनुजा मह्यं नाम्ना विशारदा ॥ २८. इमां बिन्दुमतीं प्राहुः सर्वलक्षणशालिनीम् । दैवात् इहागतौ योग्यौभर्तारावावयोर्युवाम् ॥ २९. उपेक्ष्येते भवन्तौ यत्प्राणान् त्यक्ष्यावहे ध्रुवम् । इति ताभ्यां वृतावेतौ युक्तौ राजपुरोहितौ ॥ ३०. विचार्य धर्मसूक्ष्मं तु तथास्त्वित्यूचतुर्मुदा । उवाह विधिना राजा कन्यकां तां विशारदाम् ॥ ३१. याज्ञवल्क्यो बिन्दुमतीं पाणिं जग्राह पाणिना । कृतोद्वाहौ तावेतौ प्रीतौ राजपुरोहितौ ॥ ३२. सस्त्रीकौ रथमारुह्य जग्मतुः स्वां पुरीं शुभाम् । नृपः स्वगृहमासाद्य द्वितीयां तां विशारदाम् ॥ ३३. महिष्या स्तबकावत्या चकार सदृशोदयाम् । सोऽपि बिन्दुमतीं प्राप्य याज्ञवल्क्यः प्रसन्नधीः ॥ ३४. चक्रे गार्हस्थ्यधर्मस्य द्वितीयां धर्मचारिणीम् । एवं बहुतिथे काले राजपत्नी विशारदा ॥ ३५. समये सुषुवे वीरं पुरुधामानमात्मजम् । बिन्दुमत्यामभूत् पुत्रः श्रुतकीर्तिरिति विश्रुतः ॥ ३६. तावेतौ पोषितौ काले वर्धितौ गतशैशवौ । अधीतवेदवेदाङ्गौ शस्त्रास्त्रेष्वभिशिक्षितौ ॥ ३७. पित्रोः प्रीतिं कुर्वाणौ सम्मतौ च बभूवतुः । नित्यमेतौ निशाकाले गृहात् निष्क्रम्य मायया ॥ ३८. परीत्य नगरीं सर्वां तथा जनपदानपि । अपरैरपरिज्ञातं हत्वा बालान् ततस्ततः ॥ ३९. तन्मांसैर्विहितारौ दत्वा मात्रे च तावुभौ । निन्यतुः समयं मूर्खौ विचरन्तौ हि चोरवत् ॥ ४०. क्रमात् वृत्तान्तमखिलं प्रथितं हि शनैः शनैः । कर्णाकर्णिजनास्सर्वे जजल्पुः सर्वतो मिथः ॥ ४१. हतः कुमारो बालो मे स्वस्रीयो निहतो मम । पौत्रो हतः कुतः कन्या जामाता निहतो मम ॥ ४२. इत्थमन्वेषमाणाः ते शोचन्तः प्राणिनो भृशम् । न पश्यन्तो गतिं भूयः चुक्रुशुः सर्वतो मिथः ॥ ४३. मणलूरुपुरे श्रुत्वा राजा चारमुखात् सुधीः । पुरोहितं समाहूय मन्त्रयामास मन्त्रिभिः ॥ ४४. तत्र वैतानिको नाम त्रिकालज्ञो महामुनिः । राज्ञे विज्ञापयामास प्रजानां विप्लवं महत् ॥ ४५. राजन् द्वितीया महिषी मायाच्छन्ना तु राक्षसी । याज्ञवल्क्यस्य भार्यापि तथैवेह न संशयः ॥ ४६. कण्ठासक्तामिमां भार्यां व्यालीमिव विषोल्बणाम् । उत्सार्य पुरात् शीघ्रं यदि जीवितुमिच्छसि ॥ ४७. हतानामिह बालानां पुरे जनपदे विभो । सहस्रात् अधिकं मन्ये नात्र कार्या विचारणा ॥ ४८. इति तस्य मुनेर्वाक्यं श्रुत्वा पाण्ड्यमहीपतिः । विशारदां स्वमहिषीं सह पुत्रां सहानुजाम् ॥ ४९. रथमारोप्य वै तूर्णं निनाय विपिनान्तरम् । तावत् विशारदा पुत्रः पुरुधामा वने स्थितः ॥ ५०. भ्रात्रा सञ्चिन्तयामास सहितः श्रुतकीर्तिना । राज्याद्भ्रष्टः सुखाद्भ्रष्टः कथं जीवितुमुत्सहे ॥ ५१. येन केनाप्युपायेन प्राप्यं राज्यार्धमोजसा । परं यत्नं करिष्यामि माभूत् कालविलम्बनम् ॥ ५२. इति निश्चित्य मनसा पुरुधामा नृपात्मजः । याज्ञवल्क्यसुतश्चापि विनिद्रौ ध्यानतत्परौ ॥ ५३. याज्ञवल्क्योपदेशेन तावाराधयतां विधिम् । इत्थमब्दत्रये पूर्णे सुप्रीतो भगवान् विधिः ॥ ५४. वरेण छन्दयमास तावेतौ तपसि स्थितौ । वव्राते विधिमालोक्य प्रयतौ काङ्क्षितं वरम् ॥ ५५. यदि प्रीतोऽसि भगवन् यदि देयो वरो मम । अर्धं मे पाण्ड्यराज्यस्य देहि राजसुतोऽस्मि यत् ॥ ५६. ब्रह्मा -- अब्रह्मण्यैः अजय्यस्त्वं राज्यार्धं प्राप्य दुर्लभम् । पुरोधसा मन्त्रविदा सहितः श्रुतकीर्तिना ॥ ५७. इति मायाशतं तस्मै दत्वा कमलभूर्विभुः । श्रुतकीर्तिमतः प्राह ब्राह्मणं बहुमान्य तम् ॥ ५८. तपसा ते प्रसन्नोऽस्मि याज्ञवल्क्यसुतो यतः । पुरोधा भविता तस्य पुरुधाम्नः तु भूपतेः ॥ ५९. वरमेनं वितीर्यास्मै दत्वा मायाशतं पुरः । तत्रैवान्तरधात् वेधा तौ च प्रीतौ बभूवतुः ॥ ६०. मयेन निर्मितायां वै पुर्यां मलयभूधरे । उवास तस्यां सुप्रीतः तेन साकं पुरोधसा ॥ ६१. तमेनं बान्धवाः भूपमुपतस्थुः निशाचराः । तैरेतैः घोरसङ्काशैः नानाप्रहरणान्वितैः ॥ ६२. गजवाजिरथोपेतैः मायागीतविशारदैः । सेवितो मन्त्रिभिर्विज्ञैः कार्याकार्यविचारणैः ॥ ६३. एवं बली बलोपेतो बाधयामास वै प्रजाः । भक्षिताः च हताः चान्ये जनाः भयनिपीडिताः ॥ ६४. राजानं च प्रजा प्राप्य त्राहि त्राहीति चुक्रुशुः । राजा पुरञ्जयः श्रीमान् सान्त्वयित्वा तदा जनम् ॥ ६५. रथमारुह्य वेगेन सविनीतहयं महत् । चापबाणधरः खड्गी महाकवचसंवृतः ॥ ६६. सैन्येन महता सार्धं सङ्ग्रामाय समाह्वयत् । तदा ते राक्षसाः दृष्ट्वा समायान्तीमनाकिनीम् ॥ ६७. पितुः पुत्रस्य वै जन्यमद्बुभुतं समजायत । पुरञ्जयो दयाविष्टो मृदुयुद्धो निशाचरे ॥ ६८. तमेनं विरथं कृत्वा त्यक्तचापशरं शरैः । तत्सैन्यं नाशयामास शतशोऽथ सहस्रशः ॥ ६९. भग्नायुधं भग्नरथं भग्नकुञ्जरवाजिमत् । पलायिते हते सैन्ये क्रोशमानेऽप्यनाथिवत् ॥ ७०. पुरुधामा सह भ्रात्रा मायामास्थाय दुस्सहाम् । राजानं मोहयामास महाप्रलयकर्मकृत् ॥ ७१. आयोधनमभूत् घोरं विष्वगञ्जनसन्निभम् । अजानन्तो निजास्सर्वा बभ्रमुश्च पदातयः ॥ ७२. मोहमाप तदा राजा निद्रापरवशो यथा । अदृश्यमनौ तौ तत्र हत्वा राजानमोजसा ॥ ७३. निहत्य याज्ञवल्क्यं च क्षणात् अन्तरधीयत । हते तस्मिन् महाराजे हते तस्मिन् पुरोहिते ॥ ७४. राक्षसे स्वपुरं याते हतशेषाः तु सैनिकाः । पुरं प्रविविशुः सर्वे भग्नवर्मायुधध्वजाः ॥ ७५. समेत्य मन्त्रिणः तस्य सेनाध्यक्षाः च भूपतेः । इतः परं नः किं कृत्यं क्षेमयुक्तमतः परम् ॥ ७६. प्रजाः समस्ताः येनेह कर्मणा सुखमाप्नुयुः । एवं चिन्तयमानेषु भयाविष्टेषु मन्त्रिषु ॥ ७७. चमसो नाम मेधावी याज्ञवल्क्यमुनेः सुतः । तानुवाच महायोगी समागत्य गभीरवत् ॥ ७८. रोषात्पितृवधामर्षी कर्तुमिच्छुरराक्षसम् । चमसः -- भो भो बलाधिकाः शूराः मन्त्रिणो बुद्धिसत्तमाः ॥ ७९. पराक्रमस्य समये प्राप्ते शूरजनेप्सिते । किमियं जन्तुता भीरु जनालम्बातिकुत्सिता ॥ ८०. अहमेतौ हनिष्यामि निशाचरकुलाधमौ । राजानमभिषेच्यामि हरिकेतुमिमं ध्रुवम् ॥ ८१. मास्तु वो भयमत्रेति तानाहासौ सभासदः । राक्षसा निहतं सङ्ख्ये पितरं च नराधिपम् ॥ ८२. आनयित्वा भृत्यजनैस्तैलद्रोण्यां निधाय तु । आप्तैःसंरक्षयामास यथा न स्यात्विशीरितम् ॥ ८३. पुरस्यस्यापि रक्षार्थं भटानादिश्य सर्वतः । हरिकेतुममुं स्नेहात् करेणालम्ब्य सान्त्वयन् ॥ ८४. एकान्ते राजभवने स्थित्वा जनविवर्जिते । चमसो राजपुत्रश्च पूजयामासतुर्मुदा ॥ ८५. एकीकृत्य मनोबुद्धिं तस्मिन्कारुणिके शिवे । निराहारौ यतात्मानौ विनिद्रौ कॢप्तनिश्चयौ ॥ ८६. जपतुः परमं मन्त्रं शिवप्रीतिकरं क्षणात् । एवं त्रिरात्रे निर्याते शिवः कारुणिको विभुः ॥ ८७. प्रादुरासीत् तयोरग्रे वरदानाय केवलम् । युगपत्सान्त्वयन् वाचा व्याजहार महेश्वरः ॥ ८८. श्री शिवः -- पूजितोऽहमिहेदानीं भक्तिप्रवणया धिया । वरान् दातुमिहेच्छामि वृणुतं हि मनीषितम् ॥ ८९. इत्थं प्रसन्नं वरदमागतं परमेश्वरम् । स्तुत्वा प्रणम्य चमसो वरमेनमयाचत ॥ ९०. चमसः -- तव प्रसादात् अद्यैव पिता मे मुनिसत्तमः । राजा पुरञ्जयः चापि युज्येतां जीवितेक्षणात् ॥ ९१. एष वरोऽस्माकं काङ्क्षितः कार्यसाधनः । इति तं चमसं भक्तं पूर्णकामं विधाय सः ॥ ९२. हरिकेतुं समाहूय देवो वचनमब्रवीत् । राजपुत्र महाभाग तुष्टोऽस्मि तपसा तव ॥ ९३. वरं वृणीष्व भद्रं ते सर्वान् कामान् ददामि ते । हरिकेतुः -अनुग्रहादहं शत्रून् हन्तुमिच्छामि राक्षसान् ॥ ९४. एष वै परमः कामः प्रसादीक्रियतां मयि । ईश्वरः -- याज्ञवल्क्यो मुनिश्रेष्ठः राजा परपुरञ्जयः ॥ ९५. क्षणात् संसक्तसर्वाङ्गौ तेजोवीर्यबलान्वितौ । निर्व्रणौ नीरुजौ सद्यः प्रीतावुत्तिष्ठतां नृप ॥ ९७. स्वभाललोचनात् वह्नेः आदाय स्यन्दनोत्तमम् । नानाप्रहरणोपेतं साश्वरत्नचतुष्टयम् ॥ ९८. अक्षयं चापि तूणीरं चापं चामीकरप्रभम् । रथचर्यागमाम्भोधिभारणं सूतमुत्तमम् ॥ ९९. अभेद्यं कवचं तस्मै शस्त्रास्त्रैरमरैरपि । पापशत्रून् जयेत्युक्त्वा शिवोऽप्यन्तरधात् विभुः ॥ १००. एवं देवेशदत्तानि संप्राप्य नृपनन्दनः । सहैव गुरुपुत्रेण परं हर्षमवाप्तवान् ॥ १०१. एतस्मिन्नन्तरे राजा याज्ञवल्क्यः च धर्मवित् । अक्षताङ्गौ बलोपेतवास्तां सुप्तोत्थिताविव ॥ १०२. तावुपेत्य सुतौ प्रीत्या परिष्वज्य मुहुर्मुहुः । आनन्दाश्रुपरीताभ्यां पिबन्ताविव पुत्रकौ ॥ १०३. लोचनाभ्यां समालोक्य भूयो हर्षमवापतुः । हरिकेतुः धीरमनाः प्रणम्य स्वगुरुं निजम् ॥ १०४. पितरं च यथान्यायं ताभ्यां संवर्धितौ मुदा । आशीर्भिः संप्रयुक्ताभिः अनुशिष्टः च सम्भ्रमात् ॥ १०५. चमसेनाभ्यनुज्ञातः सङ्ग्रामाय प्रतस्थिवान् । देवदत्तं रथवरं सूतेनाप्तेन संयुतम् ॥ १०६. आरुह्य कवची धन्वी बाणं बाणासनोज्ज्वलः । सैन्येन महता सार्धं गत्वा रक्षोगणोषिताम् । १०७. पुरी मयेन विहितां मायाजालैः दुरासदाम् । बिभेद बाणैर्विविधैः रुद्रदत्तैः सुदुस्सहैः ॥ १०८. अस्त्रेण बध्वा रक्षांसि रौद्रास्त्रेणादहद्रुषा । भस्मसात् अभवत् क्षिप्रं पुरं सह निशाचरैः ॥ १०९. अतो वै पुरुधामापि सह मात्रास्त्रवह्निना । साकं सवित्र्या दुष्टात्मा श्रुतकीर्तिः तया हतः ॥ ११०. एवं निहत्य हरिकेतुरसौ महात्मा रुद्रौजसा गणमशेष निशाचराणाम् । वीरो जयश्रियमवाप विशालकीर्तिः भूयः पुरीमपि निजां सरथो जगाम ॥ १११. तं तुष्टुवुः ब्वियदि सिद्धगणास्समन्तात् देवाश्च पुष्पनिचयैरभिषिच्य हर्षात् । सम्भावितो निजजनैः गुरुभिः स्वपित्रा संवर्धितः परमवाप मुदं तदानीम् ॥ इति त्रिपञ्चाशः अध्यायः । Pro.Total = 4941 + 111 = 5052.

चतुःपञ्चाशः अध्यायः

वह्नितीर्थमाहात्म्यम् । १. इत्थं राजसुतो धीरः जित्वा शत्रुगणं महत् । पूजितो नागरैस्सर्वैः प्रविश्य निजमन्दिरम् ॥ २. अभिवाद्य स्वपितरं गुरुं मातरमेव च । आशीर्भिः वर्धितः श्रीमान् गुरुपुत्रेण संयुतः ॥ ३. निजं संप्राप भवनं हृष्टचित्तोऽभवत् तदा । याज्ञवल्क्यसुतो यस्मात् ब्राह्मणो निहतो रणे ॥ ४. माता च गुरुपत्नी च निहते नृपसूनुना । तेन हत्या महाघोरा दुस्सहा ज्वररूपिणी । ५. जग्राह राजतनयं कक्षमग्निशिखा यथा । तेन तापेन दग्धाङ्गो भ्रान्तचित्त इव स्फुरन् ॥ ६. न निद्राति न चाश्नाति न वक्ति वचनान्यपि । एवं सङ्क्लिश्यमानाङ्गं दृष्ट्वा राजात्मसम्भवम् ॥ ७. शोकेन महताविष्टो गुरुमाह कृताञ्जलिः । राजा -- भगवन् पश्य मे पुत्रं गरीयांसमसोरपि ॥ ८. दह्यमानं ज्वरेणैव त्रायसे न किमग्रतः । आश्वास्य गुरो शीघ्रं त्रातुमर्हसि किल्बिषात् ॥ ९. एवं दुःखितमासाद्य याज्ञवल्क्यो महीपतिम् । मुहूर्तं चिन्तयित्वा तु प्राज्ञो वचनमब्रवीत् ॥ १०. याज्ञवल्क्यः -मा भैषीस्त्वं महाराज हत्या मातृवधादमुम् । बाधते ज्वररूपेण प्रायश्चित्तेन शाम्यति ॥ ११. पाणड्यानामिह भूपानां त्राता दुःखाम्बुधेर्गुरुः । लोपामुद्रापतिः श्रीमान् नान्या गतिरिहास्ति वः ॥ १२. स एव परमो देवः शरणं याहि तं गुरुम् । इति तेनोक्तमार्गेण व्रतेन पृथीवीपतिः ॥ १३. उपतस्थे मुनिश्रेष्ठं प्रीतः प्रादुरभूत् मुनिः । तं दृष्ट्वा मुनिशार्दूलं सूर्यवैश्वानरप्रभम् ॥ १४. समुत्थायासनात् राजा प्रणिपत्य कृताञ्जलिः । सर्वं विज्ञापयामास तदेतत् विप्लवं निजम् ॥ १५. इत्थां संप्रार्थितः तेन राज्ञा पाण्ड्येन कुम्भभूः । बभाषे वचनं धीमान् सर्वान् आह्लादयन् मुनिः ॥ १६. अगस्त्यः -- व्यसनं त्वपकर्षामि श्रुणु राजन् महामते । स्त्रीहत्या ब्रह्महत्या च युगपत् समुपागता ॥ १७. तस्मात् तव सुतस्यास्य प्राप्तः परिभवो महान् । तथापि लोकरक्षार्थं विहितोऽयं वधो महान् ॥ १८. अपि पापसहस्रं वा प्रजारक्षणहेतवे । कर्तव्यं राजपुत्रेण एष धर्मः सनातनः ॥ १९. तदेव हि राजसुतः च करोति स्म भूपते । पश्चात् तापस्य शान्त्यर्थं प्रायश्चित्तं समाचरेत् ॥ २०. इति मन्वादिभिः प्रोक्तं तत्तथा कार्यमेव वः । इति राजानामाभाष्य सर्वान् संप्रीणयन् गिरा ॥ २१. राजपुत्रान्तिकं गत्वा तैरेभिस्सह बन्धुभिः । ददर्श हरिकेतुं तं लुठन्तमवनीतले ॥ २२. त्वगस्थिशेषं निर्मांसं दह्यमानं ज्वराग्निना । शोको मास्त्विति चाभाष्य तमामृज्य स्वपाणिना ॥ २३. तत्तापाग्निं समाधाय राजसूनोः कलेवरात् । क्षणात् आवाहयामास स्वकमण्डलुवारिण ॥ २४. तावन्निर्मुक्तसन्तापः समुत्तस्थौ नृपात्मजः । सर्वे मुमुदिरे तत्र तं दृष्ट्वा विगतज्वरम् ॥ २५. पुरञ्जयो याज्ञवल्क्यः मन्त्रिणः च तथापरे । तुष्टुवुः स्तुतिभिः प्रीताः मुनिं चुलुकिताम्बुधिम् ॥ २६. तापान्मुक्तं कुमारं तं करेणामृज्य कुम्भभूः । इदमाह वचः प्रीतः राजानं तं पुरञ्जयम् ॥ २७. अगस्त्यः -- राजन् तव कुमारेण पापस्यास्योपशान्तये । स्नातव्यममले तीर्थे ताम्रायाः पापहारिणि ॥ २८. तीरे पुण्यतमे देवं प्रतिष्ठाप्य महेश्वरम् । पूजयित्वा यथान्यायं ध्यानहोमजपादिभिः ॥ २९. निश्शेषं शोषितं यावत् भवेत् तावत् घटोदकम् । आराधनीयो विधिनाप्युद्योगं क्रियतां त्वया ॥ ३०. तदर्थं भवता राजन् सह पुत्रेण मन्त्रिभिः । पुरोधसा ब्राह्मणैश्च गन्तव्यं हि मया सह ॥ ३१. इत्थमुक्त्वा मुनिवरः तैरेभिस्सह सङ्गतैः । हैरण्वत्याः सङ्गमतः प्राच्यां क्रोशात् महीपतिम् ॥ ३२. स्नापयित्वा नृपसुतं मन्त्रेण विधिपूर्वकम् । ताम्रायाः दक्षिणे तीरे मङ्गुणस्याश्रमान्तिके ॥ ३३. लिङ्गं संस्थापयामास विधिना हरिकेतुना । पूजयामास देवेशं षोडशैरुपचारकैः ॥ ३४. प्रादात् धनं द्विजादिभ्यः गोसहस्रसमन्वितम् । ब्राह्मणान् भोजयित्वा तु दक्षिणाभिरतोषयत् ॥ ३५. एवं कृतायां पूजायां देवस्य राजसूनुना । सन्तप्ततैलसङ्काशं तदेतत् कलशोदकम् ॥ ३६. क्षीणमाप तुरीयांशं ब्रह्महत्यात्मकं तदा । पुनः क्रोशात् परं गत्वा ताम्रायाः पूर्वरोधसि ॥ ३७. हरिकेतोराश्रमाग्रे दर्शनात् अघनाशने । स्नापयित्वा नृपसुतं मालेयीतीर्थवारिणि ॥ ३८. तत्रापि शाम्भवं लिङ्गं स्थाप्य पूजामकल्पयत् । गवां सहस्रं विप्राणां ददौ हेमाम्बरान्वितम् ॥ ३९. क्षीणमासीत् तृतीयांशं तावत् तत्कलशोदकम् । ततो मुनिवरः प्रीतः तैरेभिस्सह विस्मितैः ॥ ४०. किञ्चित् उत्तरतो गत्वा पुण्ये वैखानसाश्रमे । विधिना स्नापयित्वा तं ताम्रायां नृपनन्दनम् ॥ ४१. ततः शैवं महालिङ्गं प्रतिष्ठाप्य विधानतः । पूजयामास तन्त्रेण महापञ्चक्षरात्मना ॥ ४२. प्रदक्षिण नमस्कारैः स्तोत्रैः सन्तोष्य शङ्करम् । गवां सहस्रं तत्रापि प्रददौ स नृपात्मजः ॥ ४३. तावत् द्वितीयकुम्भस्यमंशं क्षीणमभूत् जलम् । ततः सन्तुष्टहृदयाः सर्वे राजमुखा जनाः ॥ ४४. स्तुवन्तो मुनिशार्दूलं प्रणेमुः शिरसा मुदा । तद्दोषशेषसान्त्यर्थं तानाहूय मुनीश्वरः ॥ ४५. बभाषे वचनं श्रीमान् लोपामुद्रापतिर्मुनिः । अगस्त्यः -- राजन् तव कुमारस्य शेषदोषस्य शान्तये ॥ ४६. प्रायश्चित्तं मया दृष्टं वक्ष्यामि श्रुणु सादरम् । पुरासीत् चमसो नाम मुनिराङ्गिरसाह्वयः ॥ ४७. सोऽधीत्य वेदानखिलान् साङ्गानन्यान् गुरोर्मुखात् । अर्थमालोच्य शास्त्राणां पूर्वं सिद्धान्तमेव च ॥ ४८. निश्चितार्थो मोक्षधर्मे तपस्तप्तुं मनो दधे । अर्णवात् पश्चिमे भागे ताम्राया उत्तरे तटे ॥ ४९. दक्षिणे कुन्दाटव्यास्तु मायालास्यात्तु पूर्वतः । मनोज्ञे भवने देशे विधाय निजमाश्रमम् ॥ ५०. तपः चकार मेधावी प्राणायामपरायणः । ततो वर्षशते पूर्णे तपस्यन्तं महामुनिम् ॥ ५१. उपतस्थुः क्रतुशतमूचुः विनयोज्ज्वलम् । क्रतवः -- वयं सर्वे पुरा ब्रह्मन् ब्रह्मणा लोकहेतवे ॥ ५२. सृष्टाः सकलजन्तूनां चतुर्वर्गफलोदये । तदादि देवता विप्राः ज्ञात्वा ज्ञात्वा श्रुतीरिताः ॥ ५३. यागैरेभिर्यथान्यायं यजन्ति सकलान् सुरान् । त्वमेव सर्वधर्मज्ञः गुरुभूतः तपोऽधिकः ॥ ५४. अस्मान् विहाय भूयिष्ठान् क्रतून् कृत्यविदां वर । तपोभिरेभिर्मोक्षार्थं प्रयत्नं करोषि किम् ॥ ५५. त्वया नादृतान् अस्मान् ज्ञात्वा सर्वेऽपि भूसुराः । त्वयैवाचरितेनार्ये मार्गेणास्मान् विहाय भो ॥ ५६. श्रेयांसि साधयिष्यन्ति नात्र कार्या विचारणा । तस्मात् त्वयापि कर्तव्यं अस्मत् सङ्ग्रहहेतवे ॥ ५७. कृतकृत्योऽपि तपसा मुनेह्यस्मान् यथाविधि । अङ्गीकुरुष्व विप्रर्षे वयं त्वां शरणं गताः ॥ ५८. इति तेषां वचः श्रुत्वा स मुनिः प्रीतमानसः । चकार मानसं धीमान् क्रमात् क्रतुशतं परः ॥ ५९. अग्निष्टोमादिक्रतून् राजन् अश्वमेधावसानकान् । मानसैरेव सम्भारैः चकारात्मविदां वरः ॥ ६०. अन्ते ज्ञानाग्निकुण्डे तु ज्वालामालाशताकुले । अवभृत्यविधिं कृत्वा कृतकृत्योऽभवत् मुनिः ॥ ६१. भूयोऽपि प्रार्थितो यागैः एवमेव समापयन् । तत्रावभृत्यं दत्वा महासंविद्धुताशने ॥ ६२. तृतीयवारमेवं तु विधायाग्नौ तु मज्जनम् । सशरीरो दिवं यातः पुनरावृत्तिवर्जितम् ॥ ६३. तस्मिन् गते मुनिवरे तेनाग्नेर्विहिताग्नयः । ज्वलन्तः तापयन्तश्च बाधन्ते पृथिवीमिमाम् ॥ ६४. तेषु ध्येयं शिवं स्थाप्य शुद्धात्मा स नृपात्मजः । भविष्यति न सन्देहः दीर्घायुः कीर्तिमान् इति ॥ ६५. इति तेषां कथां पुण्यां कीर्तयन् कुम्भसम्भवः । तैरेभिस्सार्धमासाद्य मुनेः पुण्यतपोवनम् ॥ ६६. ददृशुः च तथाप्यग्नीन् दुर्दर्शं मुनितेजसा । तत्र स्नात्वा तु ताम्रायां तर्पयित्वा पितॄन् सुरान् ॥ ६७. विधिना स्थापयामास शिवलिङ्गं पृथक् पृथक् । तदग्नि गर्भे प्रथमं स्थापितं राजसूनुना ॥ ६८. तदुत्तरेऽग्निकुण्डे तु राज्ञा संस्थापितः शिवः । तृतीयेऽपि तथा कुण्डे स्वयं कलशजन्मना ॥ ६९. एवं लिङ्गेषु देवेशं विधिनावाह्य मन्त्रवित् । पूजयामास गन्धाद्यैः नैवेद्यैः धूपदीपकैः ॥ ७०. स्तोत्रैः प्रदक्षिणैर्गीतैः नमस्कारजपार्चनैः । गोसहस्रं द्विजातिभ्यः सालङ्कारं सदक्षिणम् ॥ ७१. प्रददौ नृपशार्दूलः शिवो नः प्रीयतामिति । ब्राह्मणान् भोजयामास भक्ष्यैरन्नैर्विशेषतः ॥ ७२. इत्थं तेनार्चिताः विप्राः प्रीणयन्तः पुनःपुनः । राजानं वर्धयामासुः प्रयुञ्जानः सदाशिषः ॥ ७३. तावदामोदभूयिष्ठाः पुष्पवृष्टिरभूद्दिव ; । देवदुन्दुभयो नेदुः गन्धर्वाश्च जगुर्मुदा ॥ ७४. प्रादुरासीत् महादेवो गौरीनाथः त्रिलोचनः । सेव्यमानः सिद्धगणैः भूतप्रमथगुह्यकैः ॥ ७५. गौरीसहायो भगवान् व्याजहार घटोद्भवम् । शिवः -- साधु साधु मुनिश्रेष्ठ तुष्टोऽस्मि तव कर्मणा ॥ ७६. अयं राजसुतः श्रीमान् क्षीणपापो न संशयः । एतं राजसुतं नित्यं पात्रं सकलसम्पदाम् ॥ ७७. वर्षाणामयुतं राजन् पालयन् पृथिवीमिमाम् । पुत्रे राज्यं समाधाय मम सायुज्यमेष्यति ॥ ७८. एषु तीर्थेषु ये स्नानं विधिना तत्र तत्र हि । तत् तत्लिङ्गेषु मां दृष्ट्वा पूजयन्ति विधानतः ॥ ७९. तेषां पुनर्भवो नास्ति सत्यं मद्व्याहृतं मुने । इत्युक्त्वा मुनिशार्दूलमाभाष्य च पुरञ्जयम् ॥ ८०. हरिकेतोर्वरान् दत्वा पुनरन्यान् च शङ्करः । सर्वेषु हृष्यमाणेषु तत्रैवान्तरधात् विभुः ॥ ८१. इत्थं राजसुतं पापात् मोचयित्वा घटोद्भवः । आशिषा वर्धयित्वा तं राजानं च पुरञ्जयम् ॥ ८२. प्रेषयित्वा सह सुतं मणलूरुपुरं प्रति । प्रेम्णा व्यापृच्छय तान् सर्वान् स मुनिः कुम्भसम्भवः ॥ ८३. जगाम मलयं शैलं यत्राश्रमपदं निजम् । गते तस्मिन्मुनिवरे हृष्टचेताः पुरञ्जयः ॥ ८४. राजधानीं निजं प्राप्य सम्मन्त्र्य च पुरोधसा । अथ राज्ये सुतं प्रीत्या बन्धुभिः चाप्यभिषेचयत् ॥ ८५. ततः चिरतरं कालं ऐहिकान् विषयान् सुखी । अन्ते शिवपदं पाप योगिनामपि दुर्लभम् ॥ ८६. इत्थं मुनिः कलशभूरनुगृह्य हत्यातापोपशान्तिमुपदाय नृपात्मजस्य । शम्भोरवाप्य च वरान् जगतां हिताय प्राप्याश्रमं परमवाप मुदं महात्मा ॥ इति चतुःपञ्चाशोऽध्यायः । Pro.Total = 5052 + 86 =5138

पञ्चपञ्चाशः अध्यायः

रामतीर्थ-- जटायुतीर्थमाहात्म्य म् । १. शङ्खः -- अथापरं महाराज रामतीर्थस्यवैभवम् । आकर्णय कलिक्लेशविनाशनविचक्षणम् ॥ २. यत्तीर्थस्मरणात् एव मुच्यन्ते जन्तवो भयात् । यत्र भक्त्या पुरा राजा केकयो भीमकार्मुकः ॥ ३. गुरुणादिष्टमार्गेण स्नात्वा मालेयवारिणि । निर्मुक्तदोषस्सन्तानं लेभे त्रैलोक्यविश्रुतम् ॥ ४. राजा -- कोऽसौ केकयभूपालः भीमधन्वा बहुश्रुतः । अधर्ममकरोत् केन कुलसन्तानरोधनम् ॥ ५. ज्ञात्वात्र तीर्थे गुरुणा तद्दोषविनिवृत्तये । कथं वा लब्धसन्तानः कृतकृत्योऽभवत् नृपः ॥ ६. एतत् विज्ञातुमिच्छामि मुने कथय विस्तरात् । इति पृष्टः तदा तेन शङ्खयोगी महीभुजा ॥ ७. तस्मै स कथयामास कथामेनां पुरातनीम् । शङ्खः -- आकर्णय कथां राजन् केकयस्य महात्मनः ॥ ८. यस्य श्रवणमात्रेण नानपत्यो भवेत् नृप । वन्ध्यापि लभते पुत्रमायुष्मन्तं यशस्विनम् ॥ ९. पुरा केकयदेशेषु नाम्ना भीमशरासनः । आसीदशेषधर्मज्ञः सत्यवादी महीपतिः ॥ १०. धर्मज्ञः वदान्यश्च यज्वा व्रतपरायणः । गुरुसेवी गुणावासो जेता निखिलभूभुजाम् ॥ ११. मालवी मधुगन्धाख्या तस्यासीत् प्राणवल्लभा । तया सह चिरं राजा कृत्वा धर्मान् अनेकशः ॥ १२. न सन्तानमसौ लेभे राजसूयादिभिर्मखैः । कदाचित् अश्वमेधान्ते कृत्वावभृथमज्जनम् ॥ १३. चिन्तयानः सभां राजा प्रविश्य सह मन्त्रिभिः । पुरोहितैश्च सामन्तैः विद्वद्भिः ब्राह्मणैस्सह ॥ १४. निषसादासने मुख्ये महरत्नपरिच्छदे । तमेनं धर्मनिपुणं राजानं राजसत्तमाः ॥ १५. उपतस्थुर्महाराजं वसवो वासवं यथा । तावत् अत्रिर्भृगुः कण्वः कपिलः शतजित् वसुः ॥ १६. शातातपः शतानन्दः सुमन्थुः कुम्भसम्भवः । एते चान्ये च मुनयो राजानं द्रष्टुमाययुः ॥ १७. एतान् समागतान् दृष्ट्वा प्रत्युवाच कृताञ्जलिः । विधिना पूजयामास पाद्यार्घ्याद्याभिवन्दनैः ॥ १८. उपविष्टेषु सर्वेषु पूजितेषु यथासुखम् । कृताञ्जलिरभिष्टूय वचनं चेदमब्रवीत् ॥ १९. भवन्तो हि महाभागाः मुनयः संश्रितव्रताः । भवतां पादरजसा गङ्गाद्याः तीर्थतां ययुः ॥ २०. युष्मज्जिह्वाग्रनटनाविभ्रमाश्श्रुतयोऽप्यमी । पवित्रयन्ति भुवनं पुराणानि मुहुर्मुहुः ॥ २१. यदालोकनपुण्येन श्रद्धया परया कृतम् । ब्रह्महत्यादि पापानां प्रायश्चित्तं भविष्यति ॥ २२. अपि पापस्य मे नूनं भवन्तो दृष्टिगोचराः । अनपत्यमहापापप्रायश्चित्ताय नोद्यताः ॥ २३. भवतः शरणं प्राप्तं दीनं मां भृत्यमास्थितम् । त्रातुमर्हत सर्वज्ञाः गुरवो दीनवत्सलाः ॥ २४. इति ब्रुवति राजेन्द्रे दीने चाश्रुपरिप्लुते । व्याजहार महायोगी मुनिः कलशसम्भवः ॥ २५. राजन् जहीहि सन्तापमनपत्याघसम्भृतम् । अचिरेणैव कालेन भविता ते तनूद्भवः ॥ २६. चक्रवर्ती महातेजाः सर्वज्ञो लोकसम्मतः । अस्यान्तरायो मध्ये तु वर्तते वज्रकर्कशः ॥ २७. पुरा चोलस्य विषये काचित् सामन्त भूपतिः । धनकेतुरितिख्यातः सर्वशास्त्रार्थतत्त्ववित् ॥ २८. तस्य पुत्रावुभावास्तां धीमान् ज्येष्ठोऽनुजः क्रतुः । तौ वीरौ धर्मिणां श्रेष्ठौ पिता दृष्ट्वा महोत्सवौ ॥ २९. आधिपत्ये सुतं ज्येष्ठं निधायान्यं तथोचिते । सन्त्यक्तरागो नितरां वसन् अत्र गृहे निजे ॥ ३०. शिवमाराधयन् नित्यमवाप परमां गतिम् । ततो धीमान् महातेजाः भ्रात्रा सह कनीयसः ॥ ३१. पितुश्चकार विधिना गुरुणा चोर्ध्वदेहिकम् । ततस्तौ भ्रातरौ सर्वधर्मज्ञगुरुचोदितौ ॥ ३२. काले काले च कार्याणि पैतृकानि प्रचक्रतुः । पितृश्राद्धादिकं सर्वं प्रत्येकं भ्रातृभिस्सदा ॥ ३३. एवं धर्मसमाचारे श्रुतिस्मृत्यनुवर्तिभिः । इत्थं गुरुजनैर्विप्रैः सबहुज्ञैरपि भूपतिः ॥ ३४. अनुशिष्टोऽप्यसौ लोभात् सहैव च कनीयसा । एवं विज्ञातशास्त्राभ्यां द्रव्यलोभेन भूपते ॥ ३५. न चकार पितुः श्राद्धं क्रतुर्ज्येष्ठवशं गतः । एवं बहुतिथे काले तावेतौ शूरसम्मतौ ॥ ३६. युद्धे शत्रुवशं प्राप्तौ युगपत् मृतिमापतुः । वीरस्वर्गाय निष्क्रान्तौ विमानवरमास्थितौ ॥ ३७. उद्भिद्यमण्डलं भानोः तेजोराशिरकल्मषः । जगाम परमान् लोकान् धीमान् कर्मानुरूपकान् ॥ ३८. क्रतुरर्वाक् सूर्यबिम्बात् निरुद्धोऽभूत् सुरोत्तमैः । क्रतुः तावत् स्मयमानः चिन्तामाप दुरत्ययाम् ॥ ३९. आवामेकत्र सञ्जातौ एकधर्मपरायणौ । धर्मानुरक्षां कुर्वन्तौ मार्गे नियमवर्तिनौ ॥ ४०. अत्रैवं स्वर्गयोग्योऽभूत् अहं नाभूवमत्र किम् । इति संशयमापन्ने तस्मिन् धर्मपरायणे ॥ ४१. यदृच्छयागतो योगी नारदो व्योमवर्त्मना । क्रतुमाह समाहूय मा ते चिन्ता महीपते ॥ ४२. नारदः -- त्वया पितृदिने श्राद्धं न कृतं धर्मवर्त्मना । तस्मात् तव गतिः स्वर्गे नास्ति पुण्यशतैरपि ॥ ४३. इति श्रुत्वा परिश्रान्तो भीतः क्रतुः महीपतिः । पुनः प्रणम्य देवर्षिं पप्रच्छ विनयान्वितः ॥ ४४. कथं कर्मगतिर्ब्रह्मन् पवित्री पुरतो मम । कथं निर्वृत्तो दुःखात् मां कृपया वक्तुमर्हत ॥ ४५. नारदः -- राजन् तव गतिः पुण्या पुण्यशीलस्य भूयसी । वक्ष्यमाणान् मयेदानीं श्रुणु वत्स यथातथम् ॥ ४६. दानैर्यज्ञैः तपोभिः च भक्त्या च गुरुसेवया । देहत्यागेन सङ्ग्रामे भवता सुकृतं कृतम् ॥ ४७. नान्तं पश्यामि भोगस्य कर्मभिः स्वार्जितैश्शुभैः । लोभात् पितृदिने श्राद्धमकर्तुः ते न निष्कृतिः ॥ ४८. विनिरुद्धोर्ध्वगतिः भूयः कुरुते जन्म मानुषे । केकयस्य कुले जन्म भाव्यं धर्मभृतः तव ॥ ४९. भीमधन्वेति विख्यातो यज्वा दाता बहुश्रुतः । समस्तराजसामन्तवन्द्यमानपदाम्बुजः ॥ ५०. दारैः तथानुरूपैः तु भृत्यैर्मित्रैश्च सेवितः । महेन्द्रतुल्यभाग्योऽपि पापात् सन्तानवर्जितः ॥ ५१. शोचमानो दिवारात्रं दैवात् सत्सङ्गमेष्यसि । उपदेशेन सदसि कुम्भयोनेर्महात्मनः ॥ ५२. प्रायश्चित्तं विधायैव ततः सन्तानमेष्यसि । इत्युक्त्वा नारदो योगी कैलासाय प्रतस्थिवान् ॥ ५३. क्रतु नामा भवान् राजा पूर्वजन्मनि पुण्यतः । जातोऽसि केकयकुले प्रशस्तः सर्वसम्मतः ॥ ५४. एतत् ते कथितं राजन् वृत्तान्तं पूर्वजन्मजम् । जानन्त्येते च मुनयः त्वं न जानासि मायया ॥ ५५. इतः परं प्रवक्ष्यामि प्रायश्चित्तं तवाधुना । यत्कृत्वा मुक्तपापः त्वं प्राप्य पुत्रान् महौजसः ॥ ५६. अनुभूयश्चिरं भाग्यममानुष्यमतर्कितम् । पञ्चवर्षसहस्रान्ते सनातनात् प्राप्योपदेशतः ॥ ५७. सनातनमुनेर्भूम्ना कल्पान्ते द्रष्टुमर्हसि । इत्थमाकर्ण्य सिद्धस्य विन्ध्यमानप्रमाथिनः ॥ ५८. सर्वे मुमुदिरे सभ्याः हर्षरोमाञ्चमञ्जुलाः । तुष्टुवुः कुम्भजन्मानं स्तोत्रैः तत्कीर्तिभूषितैः ॥ ५९. समुत्थायासनात् राजा हर्षनिर्भरमानसः । मुञ्चन् आनन्दजं वारि लोचनाभ्यां सुशीतलम् ॥ ६०. हर्षगद्गदया वाचा व्याजहार महामुनिम् । कृताञ्जलिपुटो भूत्वा संस्पृशन् तत्पदाम्बुजम् ॥ ६१. नमस्ते मुनिशार्दूल नमस्ते करुणानिधे । धन्योऽस्मि कृतकृत्योऽस्मि तव पादाब्जसेवया ॥ ६२. इतः परं न शोचामि कर्मणा केन वा मुने । तत्मे कथय विस्तीर्य त्वामहं शरणं गतः ॥ ६३. अगस्त्यः -- श्रुणु राजन् प्रवक्ष्यामि तव सौभाग्यहेतुकम् । प्रायश्चित्तमशेषाणामघानामुपशान्तये ॥ ६४. पुरा नारायणः साक्षात् भगवान् करुणानिधिः । हिताय जगतां धात्रा प्रार्थितो देवतैरपि ॥ ६५. भूत्वा दाशरथिः श्रीमान् भ्रात्रा सौमित्रिणा सह । मैथिलीसहितः प्राप्य दण्डकां मुनिसेविताम् ॥ ६६. चकार वसतिं तत्र पञ्चवट्यां जटायुषा । अनुयाते चित्रमृगं रामे सौमित्रिनन्दने ॥ ६७. जहार रावणः सीतां कुहना यतिवेषभृत् । तदा निरुध्य तं पक्षी जटायुर्वीरवत्तरः ॥ ६८. बभञ्ज रावणरथं तं च सम्मोहयन् बलात् । ततो हत्वा दशग्रीवो गृध्रराजं जटायुषम् ॥ ६९. प्राप्य लङ्कां समादाय मैथिलीं जनकात्मजाम् । ततो रामस्समागत्य हृतां श्रुत्वा च मैथिलीम् ॥ ७०. पितुःसखं पक्षिराजं प्रापयित्वा निजं पदम् । तद्देहं पितृमेधेन संस्कृत्य विधिपूर्वकम् ॥ ७१. निवापाञ्जलिमम्भोभिः ताम्राया उत्तरे तटे । तावद्ब्रह्ममुखैर्देवैः सनकाद्यैश्च योगिभिः ॥ ७२. आविरासीत् महादेवो भवान्याः सहितः तदा । प्रशस्य राममात्मानं व्याजहार वचः शुभम् ॥ ७३. भगवान् -- राम राम महाभाग भवता तारितो महान् । प्राप्तवान् अक्षयं स्थानं तोषितेयं जगत् त्वया ॥ ७४. त्वयात्र कल्पितं तीर्थं महापातकनाशनम् । ये सेवन्ते भक्तियुक्ताः तेषां मुक्तिः करे स्थिता ॥ ७५. जटायुसंज्ञिते तीर्थे रामाख्ये च भवत्प्रिये । शिवतीर्थे मदीये च ये मज्जन्त्यपि वा सकृत् ॥ ७६. तेषां पापानि नश्यन्ति शतजन्मार्जितान्यपि । भवन्तु सम्पदः तेषां भवन्तु च मनोरथाः ॥ ७७. सन्ततिः धर्मसंवृद्धा निष्पापा चिरभोगिनी । प्रायश्चित्तमिदं रामतीर्थेऽस्मिन् मज्जनं नृणाम् ॥ ७८. इतः परं महाबाहो हत्वा रावणमाहवे । सीतासमेतं सन्तुष्टं त्वां पश्यामि सलक्ष्मणम् ॥ ७९. इत्युक्त्वामन्त्र्य तं देवो रामभद्रं वृषध्वजः । जगाम सहसा देवैः कैलासमुमया सह ॥ ८०. तदादिमुनयः सिद्धाः ऋषयश्च तपोधनाः । अद्यापि किल सेवन्ते रामतीर्थमनुत्तमम् ॥ ८१. तस्मात् त्वया महाराज गन्तव्यं सह भार्यया । अत्र स्नात्वा महातीर्थे तर्पयित्वा पितॄन् सुरान् ॥ ८२. सन्तर्प्य च ऋषीन् विप्रान् धनधान्यभूतिलैः । प्राप्स्यसि त्वं सुतान् नूनं मर्मज्ञान् भूरिवर्चसः ॥ ८३. इत्युक्त्वोपरते तस्मिन् मुनौ वातापिवैरिणि । सा सभा विस्मयाविष्टा सराजमुनिसङ्कुला ॥ ८४. उच्चैः कलाकलारावा मुहूर्तं समपद्यत । ततो राजा भीमधन्वा तान् ऋषीन् अभिवाद्य च ॥ ८५. गुर्वर्थे प्रार्थयित्वा तं लोपामुद्रापतिं मुनिम् । सान्तःपुरे पुरात्तस्मात् निर्ययौ सदनोच्चयः ॥ ८६. अतीत्य दूरमध्वानं सवाहनपरिच्छदः । दिनैःकतिपयैः प्राप्तः तां नदीं मलयात्मजाम् ॥ ८७. रामतीर्थं समासाद्य सदारः कृतमज्जनः । ऋष्यादिष्टेन विधिना तोषयित्वा धनैर्द्विजान् ॥ ८८. ऋषीन् देवान् पितॄन् चापि क्षेत्रपिण्डविधानतः । उपोष्य तीर्थसिद्ध्यर्थं तीर्थश्राद्धं परेऽहनि ॥ ८९. स्नात्वाग्रे रामतीर्थं च शिवतीर्थमनन्तरम् । जटायुतीर्थे तथा स्नात्वा राजा यथाविधि ॥ ९०. तीरमासाद्य धर्मात्मा धृतः शुद्धाम्बरद्वयः । न्यषीदत् ऋषिभिः तीरे कृतकृत्यः कृतात्मवान् ॥ ९१. एवं स्थितेषु सर्वेषु मुनिवृन्देषु भूपते । अम्बरात् उदभूत् तावत् वार्ता काप्यशरीरिणी ॥ ९२. निर्मुक्तपापः त्वं राजन् शुद्धात्मा सूर्यबिम्बवत् । त्वं लप्स्यसे सुतान् वीरान् पञ्च पञ्चाननोपमान् ॥ ९३. आयुष्मद्भिः कीर्तिमद्भिः पुत्रैः धर्मपरायणैः । अनुभूय सुखं ब्रह्मन् जीवन्मुक्तो भविष्यसि ॥ ९४. इत्याकर्ण्य गिरं राजा संप्रहृष्टतनूरुहः । आशीर्भिर्वर्धितो विप्रैः मुनिना कुम्भजन्मना ॥ ९५. प्रेषितः स्वपुरं प्राप सान्तःपुरपरिच्छदः । राजधानीं निजां प्राप्य हृष्टपुष्टजनाकुलाम् ॥ ९६. धर्मेण पालयन् आस्ते प्रतीक्षन् आत्मजोदयम् । एतस्मिन्नन्तरे तस्य महिषी मृदुगन्धिनी ॥ ९७. क्रमेण सुषुवे पुत्रान् प्रत्यब्दं भूरिवर्चसः । हिरण्यबाहुः शालीकः सिंहकेतुः बृहद्ररथः ॥ ९८. चन्द्रधामेति विख्याताः पुत्राः पञ्चमहैजसः । सर्वज्ञाः कीर्तिमन्तश्च पितुरानन्दवर्धकाः ॥ ९९. तैर्वीरसम्मतैः पुत्रैः धर्मज्ञैः श्रुतिपारगैः । अवापुः परमां तुष्टिं चन्द्रांशुभिरिवार्णवः ॥ १००. पञ्चवर्षसहस्राणि राज्यं कृत्वा महीपतिः । अभिषिच्य सुतं ज्येष्ठं आदिराज्ये गुणोत्तरम् ॥ १०१. आदिसिद्धात् अनुप्राप्य सिद्धिमायुष्करीं पराम् । अद्यापि वर्तते राजा कृतकृत्यो हिमाचले ॥ १०२. इत्थं मलयजा पुण्या सर्वपापप्रणाशिनी । अनपत्यत्वसन्तापात् मोचयामास भूपतिम् । भूयोऽपि सिद्धिमतुलां प्रादात् भक्तानुकम्पिनी ॥ १०३. यस्त्वेनामघशमनीमशेषजन्तोः आश्चर्यात् अमृतमयीं कथां पुराणीम् । ये श‍ृण्वन्त्यपि च पठन्ति भक्तियुक्ताः सङ्कल्पोदयकरणी तथैव तेषाम् ॥ १०४. श्रीमद्राघवतीर्थकलिकामायुष्करीमन्वहं ये श‍ृण्वन्ति कथामिमां कलिमलधंसनैकोक्ताम् । तेषां दोषविवर्जिता भवति सत्सन्तानसम्पत्कला भोगान्ते परमागतिश्च नियता निर्वाणसौख्यावहा ॥ इति पञ्चपञ्चाशः अध्यायः । Pro.Total = 5138 + 104 = 5242.

षट्पञ्चाशः अध्यायः

विष्णुवनमहिमवर्णन म् । १. श्री शङ्खः -- अथान्यदपि वक्ष्यामि ताम्रायाः तीर्थवैभवम् । यस्यैकदेशश्रवणादपि मर्त्यो न शोचति ॥ २. यदेतत् श‍ृण्वतां पुण्यमाख्यानमममृतोदयम् । न मनो याति मालिन्यमाशापाशे न रज्यते ॥ ३. तामिमां कलिदोषघ्नीं कथामादिगुरोर्हरेः । उच्यमानं मया भक्त्या समाकर्णय भूपते ॥ ४. तस्मात् किञ्चित् पुरोभागे क्रोशमात्रमतीत्य तु । क्षेत्रमभ्युदयाकारं जन्तूनां श्रान्तिनाशनम् ॥ ५. समन्तात् योजनायातं तेजिष्ठमिति कीर्तितम् । यत्र चित्रा नदी पुण्या ताम्रामभ्येति पावनीम् ॥ ६. यत्र पाशावती नाम पुत्री सान्तपनस्य सा । तपस्तप्त्वा चिरं कालं नदीभूता शिवाज्ञया ॥ ७. सङ्गता मणिमात्रासीत् लोकानां हितकाम्यया । यत्र विष्णुः तपस्तप्त्वा त्रिविक्रमकृतोद्यमः ॥ ८. ब्रह्माण्डकुहरीपूर्तिं स्वया मूर्त्याव्यवर्त सः । तदादि मुनयः क्षेत्रं जगुर्विष्णुवनमिति ॥ ९. तस्यास्य क्षेत्रमुख्यस्य माहात्म्यं सागरोपमम् । वाचामगोचरं मन्ये बहुत्वात् पृथिवीपते ॥ १०. इति व्याहरतः तस्य महतः शङ्खयोगिनः । वीरसेनः समाकर्ण्य विस्मितो वाक्यमब्रवीत् ॥ ११. अत्र कश्चित् महायोगिन् चित्रं चित्रादिवेदितम् । ब्राह्मणस्य सुता केयं नाम्ना पाशावतीरिता ॥ १२. कथं तपस्समाधत्ते नदीभूता शिवाज्ञया । एतत्सर्वमशेषेण विस्तरात् वक्तुमर्हसि ॥ १३. शङ्खः -- श्रुणु भूमिपते चित्रमाख्यानमघनाशनम् । इदं विष्णुवनं नाम ख्यातं क्षेत्रमनुत्तमम् ॥ १४. अत्र विष्णुः तपस्तप्त्वा वर्षाणामयुतं त्रयम् । देहवृद्धिकरीं शक्तिं संप्रापाभीप्सितोदयाम् ॥ १५. तदा ब्रह्ममुखाः देवाः ऋषयश्च सनातनाः । प्रशशंसुर्विष्णुवनं तेजिष्ठमिति विस्मिताः ॥ १६. उपाख्यानमिदं नद्याः पाशावत्याः श्रुणु प्रभो । पुरा वसिष्ठो भगवान् कदाचित् कार्यगौरवात् ॥ १७. वरुणस्यान्तिकं गत्वा पितरं तं प्रणम्य सः । उवास कतिचित् कालं वरुणेनानुमोदितः ॥ १८. स तं दृष्ट्वा कोशगृहं वरुणस्य महात्मनः । असङ्ख्येयधनाविष्टमपारमणिसञ्चयम् ॥ १९. यस्यैकस्यस्पर्शनेन भवेत् मर्त्यो निरामयः । यच्छायासङ्गमात् एव नरो भूरिबलो भवेत् ॥ २०. यत्र स्थितेन मणिना कर्णासक्तेन मानवः । आकल्पजीवी भवति रूपयौवनसम्पदा ॥ २१. एवं भूतैर्महारत्नैः पुञ्जीकृतमितस्ततः । दृष्ट्वा रागाभिविष्टेन मनसा मुनिपुङ्गवः ॥ २२. रत्नानि कतिचित् दिव्यान्यादाय स्वकमण्डलौ । विनिष्क्रान्तः कोश्गृहात् स्वाश्रमाय प्रतस्थिवान् ॥ २३. पाशशक्तिः पाशपाणेः दृष्ट्वा चौर्येण तद्धनम् । गृहीत्वा प्रतियान्तं तं बबन्ध मुनिपुङ्गवम् ॥ २४. बद्धो वरुणपाशेन निश्चेष्टः समपद्यत । एवं व्यावेष्टमानं तं क्लिश्यमानं ततस्ततः ॥ २५. यदृच्छयागतो देवो वरुणो यादसां पतिः । अदृश्यत ततो भूमौ लुठन्तं स्वसुतं मुनिम् ॥ २६. तस्मै ऋचमिमं दत्वा पुण्यां पापविमोचनीम् । ऋग्वेदसमुद्भूतशाखास्थानविहारिणीम् ॥ २७. कृपया मोचयामास तद्बन्धात् भूरिकर्शनात् । इदमाह वचो धर्म्यं श्रुत्यन्तोल्लासितं हितम् ॥ २८. तात वत्स कृतं दोषं चौर्यं परधनस्य हि । लघिष्ठं कुरुते मर्त्यं निरयावासकारकम् ॥ २९. ईदृशं नैव कर्तव्यं गच्छ तात यथासुखम् । इत्थं समनुशास्यैनं दत्वा रत्नानि भूरिशः ॥ ३०. प्रेषयामास सस्नेहं परिष्वज्य स्वमाश्रमम् । ततो दीनमना भूत्वा ह्रिया क्ञ्चित् अवाङ्मुखः ॥ ३१. तस्मात् लोकात् विनिष्क्रम्य संप्राप निजमाश्रमम् । दिवानिशं चिन्तयानो विनिद्रः सौख्यवर्जितः ॥ ३२. चकार चिन्तां भूयोऽपि स्वाश्रमान्तः स्वयं वसन् । पितुर्धनं हि पुत्राणां साधारणमिति स्मृतम् ॥ ३३. पितुर्धनापहरणदोषो नास्ति सुतस्य हि । इति शंसन्ति मुनयः सर्वत्र ब्रह्मवादिनः ॥ ३४. तस्मात् निरागसमहो मां दण्डयति तामसी । पाशशक्तिः इयं दुष्टा तत्फलं प्राप्नुयात् इति ॥ ३५. निश्चित्य मनसा चैवं वसिष्ठः तां शशाप सः । अयि पापे मूढचित्ते स्वधनाहरणेन माम् ॥ ३६. पापं मत्वा तु दुर्धर्षे निबन्धयसि निर्दया । तेन पापेन घोरेण मर्त्या भव मूढधीः ॥ ३७. इत्थं वसिष्ठशापेन कर्शिता पाशदेवता । निर्गत्य वरुणाल्लोकात् भूमिमापात्र भारतीम् ॥ ३८. भारद्वाजात्मजो भूतः मुनिः सान्तपनाभिधः । ददर्श दुःखितामेनामस्रवाराम्बुनिर्झराम् ॥ ३९. सान्तपनः -का त्वं कुतस्समायाता का चिकीर्षा तवापरम् । इति पृष्टा पाशशक्तिःशोकं तं विनिगृह्य सा ॥ ४०. तस्मै वै कथयामास शापात् अभ्यागतं भयम् । तदशेषं समाकर्ण्य प्रीणयित्वा पुनःपुनः ॥ ४१. उवाच वचनं धीमान् तस्याः प्रियचिकीर्षया । मुनिः -- मास्तु शोकरयो भद्रे प्रीता भव शुचिस्मिते ॥ ४२. मत्पुत्री भव माधव्यां शोकमोक्षं करोम्यहम् । इत्युक्ता मुक्तशोका सा तत्पुत्री समजायत ॥ ४३. ववृधे सा पितुर्गेहे मात्रा पित्रानुलालिता । कृपया गुरुणा दत्ता विद्येव परिवर्धिता ॥ ४४. अवाप शैशवात् किञ्चित् आमृष्टनवयौवना । विजहाराश्रमारामे सखीभिश्च समन्विता ॥ ४५. अद्राक्षीत् कोटरात् कोऽपि व्यालः विषबलोल्बणः । अभ्येत्य बालामदशत् तेन तस्याः कलेवरम् ॥ ४६. दुर्वर्णं कर्कशं कुब्जं शवपीठमभूत् नृप । तं दृष्ट्वा स मुनिर्दुःखात् क्षणं सन्तप्य चात्मनि ॥ ४७. गृहमानीय तां बालां सान्त्वयामास पुत्रिकाम् । चिन्तयामास मतिमान् किं कर्तव्यमतः परम् ॥ ४८. एनां कुरूपिणीं कन्यां नेच्छन्ति मुकिपुत्रकाः । भवितव्यमिदं कर्म फलमस्या निरूपितम् ॥ ४९. तस्मादिमामुपायेन तारयाम्यापदस्सुताम् । इति निश्चित्यचित्तोऽसौ मुनिः सान्तपनः सुधीः ॥ ५०. तस्यै स दीक्षाविधिना शैवीं पञ्चाक्षरां शुभाम् । विधिनोपादिशत् साङ्गां ध्यानसङ्कल्पपूर्विकाम् ॥ ५१. सापि पित्रेरितां विद्यां प्राप्य शोकपराङ्मुखी । उपासताश्रमे तस्मिन् निद्राहारविवर्जिता ॥ ५२. तपस्यन्त्याः शिवध्यानात् निर्धूताशेषकल्मषे । स्वात्मानं दर्शयामास तस्याः स्वान्ते सदाशिवः ॥ ५३. एवं वर्षशते पूर्णे शरीरात् रोमकूपतः । मज्जन्तः रशनादीर्घाः कृष्णवर्णाः ततस्ततः ॥ ५४. तामेवं मुनयो दृष्ट्वा विस्मिताः दीर्घदर्शिनः । पाशशक्तिमिति प्रोचुः स्तुवन्तः तां तपोबलात् ॥ ५५. वरं दातुमभूत् अग्रे तत्तपस्सदृशं फलम् । अयि पाशवति महातपोनिर्धूतकल्मषे ॥ (ईश्वरः समारूढः देवगणैः प्रमथैश्चसमन्वितः ।) ५६. प्रीतोऽस्मि तपसेदानीं तव सन्तु मनोरथाः । त्वं पुरा पाणिपद्मस्थारशना पाशपाणिनः ॥ ५७. वसिष्ठशापात् संप्राप्तमर्त्यत्वमविदुस्सहा । मद्दर्शनमिदं भद्रे शापान्तं विद्धि निश्चयम् ॥ ५८. इतः परं त्वया कार्यं अस्मत्प्रीतिवर्धनम् । द्रोणाख्यस्य मुनेः पत्नी देवलेति पतिव्रता ॥ ५९. कुबेरभवनं याते यज्ञार्थं च निमन्त्रिते । स्वभर्तरि व्रतपरे तिष्ठन्ती सा निजाश्रमे ॥ ६०. शापात् बृहस्पतेः कोऽपि गन्धर्वः चित्रकार्मुखः । रक्षोभूत्वा चचारेमां पृथिवीं काममोहितः ॥ ६१. कदाचित् स्वाङ्गणे सुप्ता बन्धुभिः सह लालसा । यदृच्छयैनामालोक्य सद्यः कामवशं गतः ॥ ६२. आदाय तामङ्केन रावणो जानकीमिव । अश्वारूढः पथा रात्रौ तरसा निर्जगाम सः ॥ ६३. शिलाकर्कशतद्गात्रं स्पृशन् वेदनया भृशम् । निर्मुक्तनिद्रा सा तन्वी वेपमाना भृशातुरा ॥ ६४. कोपाग्निदीप्तज्वालाभ्यां लोचनाभ्यां विलोकयन् । तद्दृष्टिपातमात्रेण तद्रक्षो भस्मसादभूत् ॥ ६५. सा निर्जने घनारण्ये तमस्तोमानुरञ्जिते । विचार्य बुध्या धर्मज्ञा तपोमूर्तिमभीप्सती ॥ ६६. अयोग्यमशुचिप्रायमेतदस्थिकलेवरम् । रक्षसा पापरूपेण दृष्टः कामातुरेण हि ॥ ६७. तस्माद्भर्तुर्धर्ममूर्तेः अयोग्या नात्र संशयः । शुनालीढं हि पर्युष्टं नैव योग्यं यथा भवेत् ॥ ६८. इति निश्चित्य सा तन्वी योगज्ञा योगविद्यया । विसृज्य देहं कलुषं वातस्कन्धात्र वर्तते ॥ ६९. मत्प्रियार्थं त्वया भद्रे तस्याः प्रीतिविधित्सया । तव धर्माभिवृद्ध्यर्थं कुरु मे वचनं शुभम् ॥ ७०. प्रवाहबहुला भूत्वा नदी पापप्रणाशिनी । पतिव्रतायाः तस्यैतत् आदाय च कलेवरम् ॥ ७१. पुण्ये मलयजातोये क्षणात् पापापहारिणि । व्युक्षिप त्वं वेगवती भूत्वा तोयप्रवाहिनी ॥ ७२. तत्तीर्थसङ्गात् भूयोऽपि देहं प्राप्य मनोहरम् । अनुगच्छतु भर्तारं शुचिभूता मुनेः सती ॥ ७३. त्वं चापि पूता तीर्थेन ताम्रायाः दिव्यरूपिणा । वरुणस्य करं प्राप्ता सन्तोषमधिगच्छसि ॥ ७४. शङ्खः -- इति देवगिरा राजन् सैषा पाशवती वधूः । तोयरूपाभवत् सद्यो नानायादोगणावृता ॥ ७५. तरङ्गिणी शैवलिनी सफेनावर्तमण्डला । मुनिपत्न्याः समाधाय वपुः शुष्कतरं तदा ॥ ७६. स्रोतसाकृष्य देहेन ताम्रायां सा व्यचिक्षपत् । सद्यः तत्तीर्थसङ्गेन पवित्रितमिदं वपुः ॥ ७७. अङ्गीचकार सा पत्नी द्रोणाख्यस्य महात्मनः । रूपयौवनसंयुक्ता समुत्तस्थौ महाजलात् ॥ ७८. तावदाविरभूत् व्योम्ना सुगन्धा पुष्परूपिणी । वृष्टिर्नानागुणच्छाया नानामोदैकमेदुरा ॥ ७९. ब्रह्मरुद्रमुखाः तावद्देवाः च सह गुह्यकैः । गन्धर्वयक्षप्रमुखाः सिद्धविद्याधरादयः ॥ ८०. देवर्षयो नारदाद्याः सनकाद्याः च योगिनः । विस्मिताः ते समाजग्मुः प्रशंसन्तः परस्परम् ॥ ८१. त्रिणदीसङ्गमं दृष्ट्वा महापूरप्रवर्तितम् । निर्ममज्जुः तथा तीर्थे पावने परमाद्भुते ॥ ८२. समवायोऽपि मर्त्यानां स्वनतामुदपद्यत । द्रोणोऽपि मुनिशार्दूलः प्राप्य पत्नीं पतिव्रताम् ॥ ८३. हरेरादिगुरोः तावत् आविर्भूतात् वरान् बहून् । आदेशात् देवदेवस्य सपत्नीको ययौ गृहम् ॥ ८४. वरुणस्य करं प्राप शुद्धाङ्गी पाशदेवता । इत्थमत्यद्भुतं दृष्ट्वा माहात्म्यं विस्मयावहम् ॥ ८५. मूर्ध्नावगाह्य तत्तीर्थं पूतात्मानः सुरासुराः । कृतार्थयन्तः चात्मानं जग्मुरेव यथागतम् ॥ ८६. ब्रह्मरुद्रौ हरिं तत्र सम्पूज्य सह देवतैः । ययतुः स्वं पदं हृष्टौ सह देवैः सहागतैः ॥ ८७. तेषां समीप्सितान् कामान् दत्वा तत्रान्तराविशत् । एवं पाशवती नद्याः चरित्रं कथितं विभो ॥ ८८. भूयोऽप्यभिनवा पुण्या कथा तत्तीर्थशंसिनी । उच्यमाना मयेदानीं श्रोतव्या श्रुतिचोदिता ॥ ८९. इत्थं निगत्य महता त्रिणदीसमाज- सौभाग्यकीर्तिकलिकामिव कल्पवल्ली । योगीश्वरः पुनरपारकृपाब्धिरुच्चैः गाथामिमामकथयत् कलुषैकहन्त्रीम् ॥ ९०. अस्य क्षेत्रस्य माहात्म्यं राजन् वाचामगोचरम् । यतो नारायणः साक्षात् क्षेत्ररूपेण वर्तते ॥ ९१. ताम्रापि सर्वपापघ्नी नारायणपरायणा । आमोदवर्णवैशिष्यं मार्दवं च रसोच्चयम् ॥ ९२. एकस्मिन् कुसुमे भाति यथा पुण्यस्य वैभवात् । तथैव हरिणाविष्टं ताम्रातोयविभूषितम् ॥ ९३. सिद्धानां निलयं साक्षात् महामुनिजनास्पदम् । गुणोत्कृष्टमिदं मन्ये क्षेत्रं पापप्रणाशनम् ॥ ९४. यत्र विष्णुकराम्भोजभूषणोऽपि सुदर्शनम् । स्त्रियं हत्वा तदा हत्याक्लेशितो गुरुचोदितः ॥ ९५. अश्वमेधावभृथ्येन स्नानेनापास्तकल्मषः । भूयो नारायणकरं संप्राप परमाद्भुतम् ॥ इति षट्पञ्चाशः अध्यायः । Pro.Total = 5242 + 95 =5337.

सप्तपञ्चाशः अध्यायः

विष्णुवने दोषनिलयप्रस्तावः । १. राजा -- भगवन् योगिनां वर्य सर्वज्ञ करुणानिधे । कदा सुदर्शनः साक्षात् नारायणकलात्मकः ॥ २. किमर्थमवधीत् नारीं सा हत्या विश्वधारिणम् । कथमक्लेशयत् वह्निं पालिकेव पिपीलिका ॥ ३. एतद्विस्तार्य वृत्तान्तं ब्रह्मन् आख्यातुमर्हसि । इत्थमादृत्य तेनैव प्रणतेन महीभुजा ॥ ४. पृच्छ्यमानो मुनिः प्रीतो राजानमिदमब्रवीत् । मुनिः -- राजन् तव मतिः शुद्धा कथापीयूषतर्पिता ॥ ५. न तृप्तिमुपयात्येषा बालिकेव रसायने । नैतत् चित्रमिदं मन्ये शुद्धचित्तस्य ते विभो ॥ ६. पुनर्धर्मेऽपि शुश्रूषा हूयमानहुताशवत् । शुद्धो विशुद्धचित्तोऽसि धर्मासक्तोऽपि धर्मजः ॥ ७. तस्मात् मनो हि राजेन्द्र धर्मेषु परिवर्तते । बहुभिः जन्मभिः प्राप्तैः सुकृतैः श्रद्धया कृतैः ॥ ८. लभते जन्म मर्त्यानां सत्कुले लोकविश्रुते । तमेनमनुयात्येव श्रद्धा पत्नीव धर्मतः ॥ ९. सन्तुष्टोऽस्म्यनुरक्तोऽस्मि तव शुश्रूषयानया । वक्ष्यामि राजन् कल्याणीं कथामेनां पुरातनीम् ॥ १०. यस्यां श्रुतिगतायां तु न पापो मर्त्यमाविशेत् । पुरा देवासुरयुद्धे निहता दैत्यदानवाः ॥ ११. निःशेषाः सागरं जग्मुः हतशेषाः च केचन । दितिर्माता दुःखितार्ता शुक्रं शरणमाविशत् ॥ १२. दितिः -- भगवन् करुणामूर्ते भृगुवंशशिखामणे । त्वं गुरुः सर्वदैत्यानां त्वमेव परमागतिः ॥ १३. त्वदनुग्रहपीयूषरक्षिता दानवाः पुरा । अकारणमिदं जातं नैराश्यं तेषु ते गुरो ॥ १४. पतित्वा घोरदुष्पारे गम्भीरे शोकसागरे । त्रातुमर्हसि मां दीनामनाथामिव कर्शिताम् ॥ १५. इति शोकातुरां देवीं दृष्ट्वा सकरुणं मुनिः । हेतुभिः सान्त्वयामास महीमिव वलाहकः ॥ १६. तावदन्तर्गृहगता काव्यमाता यशस्विनी । शरद्वतीति विख्याता वृद्धातीव तपस्विनी ॥ १७. आकर्ण्य कर्णविषमां नाराचादपि दुःसहाम् । मर्मैककृन्दनी तस्याः प्रलापरचनां गिरम् ॥ १८. कोपाविष्टा काव्यमाता कम्पमाना घनोपमा । उन्निद्रैः धवलैः दीर्घैः केशजालैः इतस्ततः ॥ १९. उद्यन् निशाकरकरैः उदयाद्रितटी यदा । कुचाभ्यामतिपीनाभ्यां कम्पिताभ्यां मुहुर्मुहुः ॥ २०. तटीव मन्थराद्रेः तु भ्राम्यमाणा सुरासुरैः । कोपारुणाभ्यां मुञ्चन्ती बाष्पनिर्झरम् ॥ २१. दितिमाहूय सन्तोष्य व्यामृज्यास्यास्तु लोचने । कराभ्यां परिमृज्याङ्गं प्रीणयन्ती जगाद ताम् ॥ २२. अलं वत्से शुचा मोहं जहि कार्यार्थदर्शनम् । निहता येन ते पुत्राः चक्रेणातिबलीयसा ॥ २३. तमहं नाशयिष्यामि सह सैन्यैर्मरुद्गणैः । नालं त्रिलोकी मे दग्धुं कबलाय भविष्यति ॥ २४. चराचरगणं जीर्णं ब्रह्माण्डं सचतुर्मुखम् । उत्सहे कबलीकर्तुं पश्य मे तपसो बलम् ॥ २५. करोत्यनिद्रं भुवनं मा सन्तु मरुद्गणाः । दैतेयान् दानवान् शिष्टान् भीतानग्रे पलायितान् ॥ २६. पुन्रेवानयिष्यामि तेषां दास्यामि वै जगत् । भवन्तु दैत्याः स्वर्गस्थाः दिगीशाः चाधिकारिणः ॥ २७. इन्द्रत्वमपि चन्द्रत्वं प्राप्नुवन्तु सुताः तव । त्वां त्रैलोक्याधिपत्यश्रीरुपतिष्ठत्वनामया ॥ २८. इत्युक्त्वा योगिनी वृद्धा काव्यमाता तपोबलात् । ववृधे दिव्यसङ्काशा पूरयन्ती दिशो दश ॥ २९. आच्छाद्य गगने व्याप योजनानां सहस्रशः । व्याप्य लोकमिदं कृत्स्नमुपविष्टा समन्ततः ॥ ३०. चन्द्रादित्यौ सनक्षत्रौ कालचक्रानुवर्तिनौ । अभूतामपि संवृत्तावतस्थात् कुचयोर्विभो ॥ ३१. अनेकयोजनायाममास्यं विस्तार्य रोधसी । इन्द्रादीनां दमं चक्रे भक्षितं बडवाग्निवत् ॥ ३२. एतद्दृष्ट्वा तदा भीताः देवा इन्द्रपुरोगमाः । चतुर्मुखं पुरस्कृत्य वैकुण्ठाय प्रतस्थिरे ॥ ३३. तत्र गत्वा जगन्नाथं पुरुषं पूर्वपूर्विकम् । शयानं शेषपर्यङ्के सनकाद्यैः महात्मभिः ॥ ३४. श्रिया भूम्या च गायत्र्या वाक्यैरुपनिषद्गणैः । इतस्ततः स्तूयमानं योगिनामङ्घ्रिपङ्कजम् ॥ ३५. दृष्ट्वा प्रणम्य ते सर्वे स्तुत्वा स्तोत्रैः श्रुतीरितैः । उपस्थितमिदं घोरं भयं तस्मै व्यजिज्ञपन् ॥ ३६. तच्छ्रुत्वा भगवान् विष्णुः अनुकम्पामृतार्णवः । व्याजहार गिरा राजन् मेघनादगभीरया ॥ ३७. श्री भगवान् -- नाथे मयि कथं देवाः यतो वै भयमागतम् । क्षणं नाशमियं यातु काव्यमातातिकर्कशा ॥ ३८. युष्माकमचिरादेव भविष्यन्तु मनोरथाः । इत्युक्त्वा स्वकराग्रस्थं चक्रराजं सुदर्शनम् ॥ ३९. प्रेषयामास तरसा तस्याः शमनहेतवे । अनन्तकालानलसूर्यतेजः प्रकाशिताशेषदिगन्तरालः ॥ ४०. जगाम वेगादिव यत्र सैषा विन्ध्यायमाना ववृधे समन्तात् । छित्वा शिरोऽस्यास्सहसातिशीघ्रं कैलासविन्ध्याचलकूटतुल्यम् ॥ ४१. व्योम्नोज्जहारार्कनिभो महात्मा स चक्रराजोऽशनितुल्यवेगः । हा हेति जल्पो परितोज्जजृम्भे भयातुराणां जगतां समन्तात् ॥ ४२. क्रोशत्सु भूतेषु भयाकुलेषु नदत्सु देवेषु मुनीश्वरेषु । नीत्वा हि चरमाद्रिसानौ निक्षिप्य मूर्धानमतीव भिन्नाम् ॥ ४३. भूयोऽपि वकुण्ठमगात् क्षणेन स चक्रराजो दनुजान्तकारी । इत्थं हतायां तस्यां तु लोकाश्च सुखिनोऽभवन् ॥ ४४. प्रसाद्य तमभिष्टूय पुरुषं शेषशायिनम् । अनुज्ञाता ब्रह्ममुखाः स्वानि स्वानि पदान्यगुः ॥ ४५. इन्द्रोऽपि सह देवैश्च त्रिलोकीमन्वशात् विभुः । कृतकृत्यो महातेजाः चक्रराजः सुदर्शनः ॥ ४६. पुनःप्रतस्थे हृष्टात्मा वैकुण्ठायां पराध्वना । उल्लङ्घ्य सूर्यपदवीं सोमादीनां तथा पदम् ॥ ४७. अतीत्य च ध्रुवं वर्त्म तथा सप्तर्षिमण्डलम् । न शाशाक परं गन्तुमास्कन्धः पक्षिराट् इव ॥ ४८. स्तब्धोऽभूत् चक्रराजोऽपि वृथाभूतमनोरथः । चिन्तां चकार दुःखेन मार्गभ्रष्ट इवाध्वगः ॥ ४९. गतिर्मे किमियं रुद्धा केन वा हन्तु दुर्बलः । कृतं मया स्वकृत्यं किमाघः कृतमद्य वा ॥ ५०. कर्मणा स्वेन भगवान् सन्तोषमधिगच्छति । इति चिन्तयतः तस्य पर्वतो भगवान् ऋषिः ॥ ५१. कपिलाख्यो वासुदेवः दैवात् आविरभूत् महान् । तं दृष्ट्वा परमं क्लान्तं साक्षात् नारायणात्मकम् ॥ ५२. प्रणम्य पादयोर्भक्त्या जगाम विनयोज्ज्वलः । चक्रराजः -भगवन् स्वागतं तेऽस्तु त्वामहं शरणं गतः ॥ ५३. उपरिष्टात् गतिः केन निरुद्धा हेतुना मुने । एतत्सर्वमशेषेण वक्तुमर्हसि साम्प्रतम् ॥ ५४. इति पृष्टः तदा तेन त्रिकालज्ञो महामुनिः । व्याजहार पुनर्वाक्यं चक्रराजाय धीमते ॥ ५५. कपिलः -- साधु सर्वजगत्कर्त्रा नियुक्तः कार्यगौरवे । त्वया तत्साधितं सर्वं लोकानामुपकारकम् ॥ ५६. तथापि गर्हितं कर्म भवता स्त्रीवधं प्रभो । कृतं यत्तेन हत्या त्वामुपविष्टा भयावहा ॥ ५७. तस्मात् तत्पापशान्त्यर्थं प्रायश्चित्तं यथोचितम् । कृत्वा विधानतः तस्मात् शुद्धिमाप्तो महामते ॥ ५८. अनुग्रहात् मुनेः स्थानं वैकुण्ठं गन्तुमर्हसि । इति तेनेरितां वाणीं समाकर्ण्य स चक्रराट् ॥ ५९. भूयः प्रणम्य पप्रच्छ कपिलं योगिनां वरम् । सुदर्शनः -- कथं ब्रह्मन् विधातव्यं पापस्यास्योपशान्तये ॥ ६०. केन वा विधिना तत्र प्रायश्चित्तं ममाधुना । एतत्सर्वमशेषेण दानहोमाग्निपूजनैः ॥ ६१. जपेन वाथ ध्यानेन केन वा मनुना मुने । इत्युक्तः चक्रराजेन कपिलो योगिनां वरः ॥ ६२. तमब्रवीत् महातेजाः प्रायश्चित्तं तथोचितम् । कपिलः -- श्रुणु चक्रेश्वर विभो श्रोतव्यं सावधानतः ॥ ६३. या परा परमा शक्तिः जगत्कारणरूपिणी । उमा गौरीति विख्याता कमला भारतीति च ॥ ६४. सर्वमन्त्रमयी शक्तिः सर्वतीर्थैकरूपिणी । भक्तिभाजां फलाकारा सूक्ष्माकारा दुरत्यया ॥ ६५. ब्रह्मरुद्रमुखैर्देवैः पूज्यमाना दिने दिने । सैषा भगवती शक्तिः मूलप्रकृतिसंज्ञिता ॥ ६६. क्लिश्यमानं जनं दृष्ट्वा कर्मपाशानुपाशितम् । यातायातं प्रकुर्वन्तं जन्मं मृत्युजरातुरम् ॥ ६७. परित्राणाय वै तस्य कर्मविच्छेदहेतवे । प्रार्थिता शङ्करेणापि हरिणा वेधसा पुनः ॥ ६८. तेषामभीप्सितं कामं पूरयन्ति दयात्मिका । कृत्वात्मानं तीर्थरूपं जाता मलयनन्दिनी ॥ ६९. तदम्बुपानात् स्नानात् वा दर्शनात् स्पर्शनादपि । मोचयिष्ये जनं पापात् मुक्तिं दास्याम्यस्संशयम् ॥ ७०. इति कल्पित दीक्षा सा वर्तते दक्षिणापथे । तस्याः तीरे विष्णुवने विष्णुसान्निध्यकारके ॥ ७१. इष्ट्वा विष्णुं यथान्यायं स्नात्वा तस्यापि वारिणि । निर्मुक्तपापो भविता नात्रकार्या विचारणा ॥ ७२. यत्र पुत्राः काश्यपस्य विश्वेदेव इतीरिताः । पितॄणामवमन्तारो नष्टवीर्याभवन् पुरा ॥ ७३. स्वर्गात् च्युताः दुःखेन गुरुं प्राप्य बृहस्पतिम् । पप्रच्छुः पापशान्त्यर्थं प्रायश्चित्तमनुत्तमम् ॥ ७४. सर्वानाहूय दयया सर्वज्ञो गीष्पतिर्गुरुः । अभ्यषेचयत् अत्रैव ताम्रायाः तीर्थवारिणा ॥ ७५. ततो निर्मुक्तपापाः ते स्वर्गं प्रापुः सुखोत्तरम् । त्रिणदी सङ्गमः तस्मात् पुण्ये विष्णुवनान्तरे ॥ ७६. दुर्लभं खलु मर्त्यानां पापिनामकृतात्मनाम् । इति ब्रुवति वै देवेशे कपिले योगिसत्तमे ॥ ७७. अतीव विस्मयाविष्टः चक्रराजः प्रसन्नधीः । मनः प्रसाद्य तं शान्तं वासुदेवमभाषत ॥ ७८. चक्रराजः -- कथं वै काश्यपसुताः विश्वेदेवाः च सम्मताः । सर्वज्ञाः चाविशेषेण कथं पापमकारयन् ॥ ७९. आगः पितॄणां सर्वेषां किं कृतं तैः कृतात्मभिः । कथं तत्पापशान्त्यर्थं ताम्रायां स्नानमाचरन् ॥ ८०. श्रोतुं काङ्क्षे महाभाग सर्वज्ञ वद विस्तरात् । इत्थं श्रीमच्चक्रदेवेन पृष्टो योगी साक्षात् विष्णुरध्यात्मदीपः । वाचा देवं पूजयित्वा च चक्रं प्रीतः तस्मै व्याजहाराघशान्तिम् ॥ इति सप्तपञ्चाशः अध्यायः । Pro.Total = 5337 + 80 =5417.

अष्टपञ्चाशः अध्यायः

विष्णुवने विष्णुप्रसादात् विश्वेषां देवानां पितृशापविमोचनम् । १. कपिलः -- साधु पृष्टो महाभाग त्वया नारायणांश भो । प्रीतोऽस्मि कृतकृत्योऽस्मि यं मामादृत्य पृच्छसि ॥ २. त्वमात्मा जगतां साक्षी मनोबीजेन्द्रियात्मकः । नियन्ता पालको हर्ता मर्यादानां प्रवर्तकः ॥ ३. त्वन्नामस्मरणादेव पापशान्तिर्नृणां भवेत् । स एकः पुरुषो विष्णुः प्राप चक्रात्मनात्मवान् ॥ ४. दैत्यदानवरक्षांसि काले काले निबर्हयन् । पालयिष्यसि दुःखाब्धेः जगदेतच्चराचरम् ॥ ५. लोकसङ्ग्रहमन्विच्छन् पापस्यास्य प्रशान्तये । करोषि निष्कृतिं देव स्वाज्ञासंरक्षणक्षमम् ॥ ६. तस्मात् अत्र महाभाग त्वदाज्ञाकारिणा मया । उच्यते विस्तरात् नाथ यथोक्तं श्रीमता तथा ॥ ७. भवता तत्तथा श्रुत्वा कर्तव्यमघशान्तये । आसन् अदित्यां वै पुत्राः काश्यपस्य प्रजापतेः ॥ ८. विश्वेदेवाः इति ख्याताः दश धर्मभृतां वराः । क्रतुः ज्येष्ठो महातेजा द्वितीयो दक्षसंज्ञकः ॥ ९. तृतीयो वसु नामा स्यात् सत्याख्यः तदनन्तरः । पञ्चमः काल संज्ञःस्यात् षष्ठः काल इतीरितः ॥ १०. सप्तमो धुरी नामाभूत् रुचिरष्टम उच्यते । पुरूरवः स्यात् नवमो दशमो आर्द्रवाभिधः ॥ ११. एते समेताः सुस्निग्धाः विचिन्त्यैवं हृदा तथा । सर्वेषामेव देवानां पितॄणां च विशेषतः ॥ १२. यथा वैशिष्ट्यमस्माकं भविष्यति तपोबलात् । करिष्यामः तथाव्यग्राः तपोयत्नं समास्थिताः ॥ १३. इति निश्चित्य ते सर्वेऽप्यनुज्ञां प्राप्यैव पितुः । मेरोः तु पूर्वभागे तु चन्द्रकूटस्य चोत्तरे ॥ १४. सिद्धयोगिमुनीन्द्राणां योजनायामविस्तृताः । यत्र स्थितानां जन्तूनां धर्मान्न च्यवते मनः ॥ १५. आधयो व्याधयश्चापि क्षुत्पिपासा दुरत्यया । क्लेशयन्ति न तत्रस्थं घर्मे गङ्गोदकं यथा ॥ १६. हरिद्रवा नाम नदी वहते यत्र पार्श्वतः । आधिव्याधिं च मुञ्चन्ति यत्तोयस्पर्शमारुतैः ॥ १७. सिद्धिं लभन्ते निर्विघ्नं तिर्यञ्चोऽपि न संशयः । एतन्माहात्म्यं आकर्ण्य पितुरेकाग्रचेतसः ॥ १८. तदाश्रमपदं कृत्वा तपस्तेपुस्सुदारुणम् । वायुभक्षा निराहारा प्राणायामपरायणाः ॥ १९. ध्यायन्तः परमं धाम जपन्तः परमं मनुम् । सन्नियम्येन्द्रियसङ्ग्राममेकरूपा ह्यवर्तयन् ॥ २०. एवं तपस्यतां तेषामन्तरायविवर्जितः । अत्यगान् निमिषप्रायं वर्षाणामयुतं त्रयम् ॥ २१. वस्वाद्याः पितरः तावत् सानुरागानुकम्पया । तेषां पुरस्तात् आगत्य वचनं चेदमब्रुवन् ॥ २२. पितरः -- वत्साः भवन्तः क्लिष्टाश्च तपसा नियमैर्यमैः । कुतो हि करुणावद्भिः युष्मत्प्रियचिकीर्षुभिः ॥ २३. अत्रैवाभ्यागतं प्रीत्या पितृभिर्लोकपूजितैः । वरान् वृणीध्वं दास्यामः श्रमैरेभिरलं सुताः ॥ २४. इति तेषां वचः श्रुत्वा पितॄणां स्नेहपूर्वकम् । कुपिताः ते पुनः प्राहुः असूयाकृष्टमानसाः ॥ २५. विश्वेदेवाः -- रे रे मदान्धाः निर्लज्जाः मूढाः पण्डितमानिनः । भवन्तो वरदातारो न ह्यस्माकं तपस्यताम् ॥ २६. वरदाता प्रभुः साक्षात् दातास्माकं जगद्गुरुः । अस्मान्मनोरथापूर्तिः क्रियते येन केन वा ॥ २७. किं बिडालः प्रभुर्लोके कलभान् नु रक्षणे । वयं देवाः श्रेष्ठतमाः पूज्याः तपसाधिकाः ॥ २८. अपूज्यैः तामसैः मूढैः न हि रक्ष्या वयं त्विह । गच्छध्वमाश्रमादस्मात् मा विलम्बोऽस्तु निर्गुणाः ॥ २९. ऋषिः -इत्थमाक्षेपिता देवैः तैरेतैः पितरः तदा । भूयो दयालवः क्षान्ताः प्रत्यूचुः विनयोज्ज्वलाः ॥ ३०. पितरः -- भवन्तः पुत्रकास्माकं पोष्या रक्ष्याश्च केवलम् । पितरो गुरवो ज्ञेयाः तथास्तु गुरुपूज्यता ॥ ३१. अवमन्य पितॄन् लोके कः प्राप्नोति परं गतिम् । ब्रह्माद्याः श्राद्धधर्मेण श्रुत्यादिष्टेन वर्त्मना ॥ ३२. तस्मान् पितॄन् समभ्यर्च्य प्राप्ता माहात्म्यमुत्तमम् । यूयं लघिष्ठाः पापिष्ठाः बालिशाः पापकारिणः ॥ ३३. भूयोऽपि कृपया युष्मान् आगः कृत्वातिदुस्सहम् । तपःफलं प्रदास्यामो मास्तु मन्युरघोदयः ॥ ३४. ऋषिः -- इत्थं पितॄणां तद्वाक्यमाकर्ण्य विनयोत्तरम् । तामसाविष्टचित्ताः ते मदमात्सर्यदूषिताः ॥ ३५. धिक्कृत्य तान् पुनः तप्तुं कृत्यामारेभिरे च ते । निराशया प्रयातेषु तेषु वस्वादिषु क्षणात् ॥ ३६. अवमानात् अघात्तस्मात् क्षीणमासीत्तपःफलम् । विश्वेदेवेषु तेष्वत्र प्राविशन् मतिविभ्रमः ॥ ३७. मतिभ्रमात्तपो नष्टं नष्टे तस्मिन् कुतः क्रिया । क्रियाहीनेषु जागर्ति पुरुषेषु दुरत्यया ॥ ३८. निद्रा कलिप्रसूर्घोरा क्षुत्तृट्योये यथाक्रमम् । भ्रष्टाचारा परिद्यूना नियमध्यानवर्जिताः ॥ ३९. बभ्रमुर्विपिने तस्मिन् अनाथमिव गोकुलम् । एतद्विज्ञाय भगवान् काश्यपः कालधर्मवित् ॥ ४०. बृहस्पतिं समाहूय समाभाष्य दिवो गुरुम् । आचचक्षे वचो धर्म्यं पुत्राणां हितकाम्यया ॥ ४१. काश्यपः -- भगवन् भवता रक्ष्याः विपदः त्रिदिवौकसाम् । गतिर्गुरुर्वै शिष्याणां रक्षणीया गुरोश्च ते ॥ ४२. विश्वेदेवाः पितुर्द्रोहात् नष्टसंज्ञा विचेतनाः । नैव जानन्ति वै धर्मं अन्धा इव महामणिम् ॥ ४३. अविलम्बेन तस्मात् त्वमत्र गत्वा महामते । त्रातुमर्हसि धर्मज्ञ तान् एतान् आपदोऽञ्जसा ॥ ४४. इति काश्यपसन्दिष्टो भगवान् गीष्पतिर्गुरुः । तत्र गत्वा क्षणेनैव तान् आहूयेदमब्रवीत् ॥ ४५. श्रुण्वन्तु मे वचः पथ्यं मासूयामधिगच्छत । सर्वेषु जन्तुषु श्लाघ्या मनुष्या एव केवलम् ॥ ४६. मनुष्येषु द्विजाः श्रेष्ठाः श्रुत्यर्थैकान्तवेदिनः । तदादिष्टात्वघाचाराः श्लाग्याः तस्मात् इतीरिताः ॥ ४७. ब्रह्मार्पणधियः तेषां तत्तुल्या त्रिदिवौकसा ; । तेभ्योऽधिका वै पितरः तस्मात् नापरमिष्यते ॥ ४८. पूजयिष्यति तान् वेधाः विष्णुः तान् अर्चयिष्यति । रुद्रः पितॄन् अर्चयित्वा वर्तन्ते सकलाधिकाः ॥ ४९. आदावादि पुमान् सृष्ट्वा लोकान् त्रीन् चराचरान् । तद्रक्षणार्थमज्ञानां द्विधा कृत्वात्मवत्तदा ॥ ५०. प्रथमे सृष्टे स्रुरान् चक्रे ततोऽसुरानपि च । तदन्येनासुरान् चक्रे योगानामर्थसिद्धये ॥ ५१. लोकस्य रक्षणायैव सर्वान् यज्ञान् अकल्पयत् । तैर्यज्ञैः सक्ला लोकाः पूजयन्ति सुरासुरान् ॥ ५२. अग्रपूज्या पूर्वदिने पितरो हि महात्मभिः । तत्परेऽहनि वै देवाः तान् यज्ञान् इज्यात्मवेदिभिः ॥ ५३. ये पितॄन् अवमन्यन्ते मूढाः पण्डितमानिनः । नालमेतान् परित्रातुं ब्रह्माण्डान्तर्गतां गुरुः ॥ ५४. एतद्विज्ञाय वेदानां स्मृतीनामाप शासनम् । श्रेयोर्थिनः पितॄन् विन्देत् वस्वादीन् लोकपूजितान् ॥ ५५. इति गुर्वीरितां वाणीं श्रुतौ कृत्वा मणिप्रभाम् । विश्वेदेवाः समाकर्ण्य किञ्चित् उद्विग्नमानसाः ॥ ५६. पश्चात्तापेन भीताः ते बभ्रमुः निमिषान्तरम् । प्रणिपत्य गुरुं तत्र विनीता वाक्यमब्रुवन् ॥ ५७. धिक्कष्टमिदमस्माभिः विहितं विश्वदूषणम् । घोरात् पापार्णवात् अस्मात् त्राहि ब्रह्मन् दयानिधे ॥ ५८. अज्ञानात् संप्रवृत्तेयं अतोऽस्माकं भवान् गुरुः । वक्तुमर्हसि सर्वज्ञ प्रायश्चित्तं यथोचितम् ॥ ५९. बृहस्पतिः -- नारकस्य घोरस्य पापस्य महतो बुधाः । तथापि परमं गुह्यं प्रायश्चित्तं वदाम्यहम् ॥ ६०. यत्र विष्णुः स्वयं साक्षात् क्षेत्ररूपेण वर्तते । यत्र साक्षात् पराशक्तिः ताम्रा तीर्थाधिदेवता ॥ ६१. यत्र त्रिवेणीसंसर्गं कीर्तयन्ति महर्षयः । यत्र हव्यं च कव्यं च सूते विष्णुः स्वलोचनात् ॥ ६२. कव्यं पितृभ्यो प्रादात् वै देवेभ्यो हव्यमात्मवान् । तस्मात् तत्क्षेत्रमासाद्य स्नात्वा मलयजाम्भसि ॥ ६३. पितॄन् यज्ञेन सन्तर्प्य परिशुद्धेन कर्मणा । निर्मुक्तपापा भवत यूयं प्राप्तमनोरथाः ॥ ६४. इति तान् प्रीणयन् वाचा यूयं भवत धार्मिकाः । सहितः प्रहितः देवैः दशभिः काश्यपात्मजैः ॥ ६५. प्राप विष्णुवनं पुण्यं प्रायश्चित्तं समाविशत् । त एते गुर्वनुज्ञाता विश्वेदेवाः समाहिताः ॥ ६६. सुदारुणं तपश्चक्रुः पितॄणां प्रीतिहेतवे । आराध्य देवमव्यग्राः ताम्रां च नियतात्मभिः ॥ ६७. तुष्टुवुः प्रयताः भक्त्या बद्धाञ्जलिपुटोपमाः । विश्वेदेवाः -- मातः प्रसीद मलयाचलपुत्रि मान्ये पापैकशान्तिकरणैकपटुप्रवाहे ॥ ६८. कामाक्षि शक्तिमखिलाभ्युदयप्रवाहां तां यामि शरणमसि जनैकधात्रीम् । घृतद्रवा विविधमन्त्रतरङ्गमाला आवर्तमूर्तिकल्पिततारकर्णा ॥ ६९. मायामयी मथितपापकुला जनानां मोहापहा भवतु मे मुनिवन्द्यमाना । सैषा समस्तदुरितक्षयहेतुभूता साक्षात् अपारकरुणा तरुणेन्दुमौलेः ॥ ७०. श्रीकण्ठशैलदुहिता महिषी भवाब्धेः श्रान्तिं व्यपोहतु पुरः स्वपदाश्रितानाम् । यत्तोयबिन्दुपरिषेचितमौलिभागा निर्धूतपापमलिना मनुजा क्षणेन ॥ ७१. मोक्षश्रियं शिवमुखैरपि काङ्क्षणीयामन्ते भजन्ति पुनरागमनानपेक्षाम् । इति स्तुवत्सु देवेषु भक्तिनम्रात्ममूर्तिषु ॥ ७२. तत्तोयात् निर्मलाकारात् हरिराविरभूत् विभुः । शङ्खचक्रगदापद्मैः अलङ्कृतचतुर्भुजः ॥ ७३. वनमाली पीतवासाः कौस्तुभोत्भासिकन्धरः । किरीटहारकेयूरैः मण्डलैः उपशोभितः ॥ ७४. स्तूयमानः सिद्धगणैः ब्राह्मणैरमरेश्वरैः । तानुवाच महाभागान् प्रीतोऽस्मीति ब्रुवन् मुहुः ॥ ७५. श्रेष्ठाः भवन्तो देवानां सर्वेषां नात्र संशयः । युष्मत्प्रियाः ते पितरः यूयं चापि पितृप्रियाः ॥ ७६. युष्मानग्रे समभ्यर्च्य पितॄन् च तदनन्तरम् । अन्ते च मां समभ्यर्च्य कृतकृत्यमिदं जगत् ॥ ७७. इति प्राप्य वरं विष्णोः विश्वेदेवाः सुरोत्तमाः । देवं प्रसाद्य तं विष्णुं परिक्रम्य प्रणम्य च ॥ ७८. वस्वादीन् च पितॄन् नत्वा स्वगणैः च प्रतस्थिरे । एवं बृहस्पतिः तेषां प्रायश्चित्तं विधाय च ॥ ७९. स्वमाश्रमं महादेवैः ऋषिभिश्च महात्मभिः । इत्थं रहस्यमाख्यानं पुण्यमेतत् पुरातनम् ॥ ८०. प्रकाशितं मया तुभ्यं माहात्म्यज्ञानसिद्धये । इति कथितमनेन चक्रराजो गुरुवर्येण माहात्म्यमुत्तमं श्रुत्वा परं हर्षं जगाम तावत् ॥ इति अष्ट्पञ्चाशः अध्यायः । Pro.Total = 5417 + 80 =5497.

एकोनषष्टितमः अध्यायः

विष्णुवने चक्रराजस्य विमोचनम्, जन्मनिवृत्तिः चक्रराजकृत - विष्णुस्तुतिः । १. इत्थं सुदर्शनो देवः देवस्य करभूषणः । प्रसन्नात्मा तमभ्यर्च्य तं गुरुं तपसां निधिम् ॥ २. श्लाघयन् मनसा वाचा क्षेत्रस्य च महोत्सवम् । तेन साकं समागत्य गुरुणा दीर्घदर्शिना ॥ ३. संप्राप्य महतीं ताम्रां नदीं मलयनन्दिनीम् । परितः तीरयोः तस्याः सम्भाव्य नयनांशुभिः ॥ ४. दृष्ट्वा विचित्रामटवीं नानाद्रुमलताकुलाम् । आससाद शनैः पुण्यं विष्णोरायतनं महत् ॥ ५. त्रिवेणीसङ्गमं चापि महावेगजलोज्ज्वलम् । देवाकारैः परिक्षिप्तमाश्रमैः पुण्यकर्मणाम् ॥ ६. आरामैरद्भुताकारैः सर्वर्तुकुसुमोज्ज्वलैः । मालतीमल्लिकाजातिकरवीरकदम्बकैः ॥ ७. रसालैः पनसैः कोरैः पूगनागरकेसरैः । एलोशीरलवङ्गैश्च चन्दनागरुतिन्दुकैः ॥ ८. नारङ्गैः लिकुचैः नीपैः प्रियालपनसोज्ज्वलैः । अलङ्कृत्य नवोद्यानमनेकतरुमण्डितम् ॥ ९. नानामृगसमाकीर्णं नानाद्विजनिषेवितम् । होमधूमसमाक्रान्तवह्निमण्डलमण्डितम् ॥ १०. ब्रह्मघोषमहाघोषं मुनीशाप्यासमावृतम् । क्वचित् स्नानपरैर्विप्रैः क्वचित् होमपरायणैः ॥ ११. परत्र पूजां कुर्वद्भिः हरेरभ्युदयात्मनः । साक्षसूत्रकरैः दान्तैः मन्तार्णध्यानपूर्विकम् ॥ १२. क्वचित्स्वाध्यायनिरतैः कर्मकाण्डविशारदैः । क्वचित् पौराणिकान् धर्मान् क्वचित् सद्भिः सनातनान् ॥ १३. व्याहरद्भि ; यजूंष्युच्चैः अन्यत्रक्रमपाठकैः । ऋचः क्वाप्युपगायद्भिः विधानागमनैपुणैः ॥ १४. क्वचित् सामानि गायद्भिः मन्त्रब्राह्मणवेदिभिः । व्याकुर्वद्भिः शास्त्रजालं धर्मव्याकरणादिभिः ॥ १५. वालखिल्यैः वासिष्ठैः याज्ञवल्क्यैश्च वैष्णवैः । अन्यैः पञ्चाग्निमध्यस्थैः महाव्रतपरायणैः ॥ १६. समन्तात् निबिडाकारं क्षेत्रमेतत् हरेः सुखम् । ददर्श भगवान् साक्षात् हरेरंशः सुदर्शनः ॥ १७. पूज्यमानः च धर्मज्ञैः पाद्यर्घ्याभिवन्दनैः । प्रथमं क्षेत्रनाथान् तु पूजयित्वाथ किङ्करान् ॥ १८. देवं भैरवमासाद्य प्रसाद्य हरिमीश्वरम् । देवीं स्तुत्वा ताम्रपर्णीं सर्वपापप्रणाशिनीम् ॥ १९. स्तुत्वा स्तुत्वा च सम्पूज्य कापिलोक्तेन वर्त्मना । सङ्कल्पपूर्वं धर्मात्मा चकार स्नानमात्मवान् ॥ २०. ऋषीन् देवान् पितॄन् चैव तर्पयित्वा महाम्भसा । धनैः सन्तर्पयामास ब्राह्मणान् च विशेषतः ॥ २१. स्नाते तस्मिन् यथान्यायं आकाशात् अशरीरिणी । वागजृम्भत भूयिष्ठा स्पष्टाक्षरपदोज्ज्वला ॥ २२. चक्रराज महाभाग धूतपापोऽसि निर्मलः । न हि ते पापलेशोऽस्ति भानुबिम्बे यथा तमः ॥ २३. इतः परं त्वया देव लोकानां हितकाम्यया । त्वन्नाम्नि तीर्थे पुण्येऽस्मिन् अश्वमेधेन देवताः ॥ २४. इष्ट्वा दक्षिणया विप्रान् सन्तोष्य विधिपूर्वकम् । ततो वैकुण्ठमभ्येहि स्वया कान्त्या समुज्ज्वलन् ॥ २५. इत्युक्त्वोपरतायां तु पुष्पवृष्टिरभूद्दिवः । मधुगन्धैः सुगन्धैः तु मेदुरा सर्वतो दिशः ॥ २६. पूरयन्तीव तत्क्षेत्रं मुहूर्तं विष्णुकानने । ततो दुन्दुभयो नेदुः तूर्यारावाः प्रवर्तिताः ॥ २७. तावदाविरभूत् शम्भुः वृषारूढोमया सह । सेवितः प्रमथैः भूतैः नन्दिभृङ्गिमुखैरपि ॥ २८. महेन्द्रो हुतभुक् सौरिः निरृतिः मकरासनः । वायुः यक्षो विराट् ईशो ब्रह्माद्याः च सनातनाः ॥ २९. आगम्य पूजयामासुः चक्रराजं सुदर्शनम् । सर्वे जय जयेत्यूचुः प्रशशंसुः तं मुदा ॥ ३०. तत्र देवो महादेवः समागत्याग्रतो हरिम् । उवाच वचनं श्लक्ष्णं श‍ृण्वतां प्रीतिवर्धनम् ॥ ३१. साधु संयगिदं कार्यं चक्रराज कृतं त्वया । ताम्रपर्णीनदीस्नानलब्धोदयमहोत्सवम् ॥ ३२. सर्वे देवाः समागम्य सुदर्शनमपूजयन् । उत्तमदेवत्वं प्रददुः सुदर्शनाय धीमते ॥ ३३. विष्णुः प्रशशंसुः तं चक्रं सर्वदेवादिदैवतम् । रुद्रः होता ब्रह्मा च तस्मै ब्रह्मत्वं ददुः पुनः ॥ ३४. दीक्षां प्रविश्य धर्मात्मा हरिमेधं चकार ह । दक्षिणाभिः प्रगल्भाभिः पुष्कलाभिः अविच्युतैः ॥ ३५. तोषयित्वा द्विजवरान् अन्नैरप्यमृतोपमैः । कृत्वावभृथं तीर्थेऽस्मिन् सर्वान् लोकान् अतोषयत् ॥ ३६. एवं विधाय भूयोऽपि विचार्य सुचिरं हृदि । निश्चितार्थः कृतार्थः च चक्रराजः सुदर्शनः ॥ ३७. सम्मन्त्र्य मुनिना तेन कपिलेन महात्मना । ताम्राया उत्तरे तीरे त्रिवेण्या पूर्वभागतः ॥ ३८. भगवन्तं रमानाथं स्थापयित्वा तु मन्त्रतः । पूजयामास विधिना महापुरुषविद्यया ॥ ३९. धूपैर्दीपैश्च नैवेद्यैः सुगन्धैः विविधैः फलैः । पूजयित्वा तु देवेशं तुष्टाव पुरुषोत्तमम् ॥ ४०. नमस्ते देवदेवेश वासुदेवाय विष्णवे । नारायणाय नालीकनयनाय नमो नमः ॥ ४१. नाथ नारायण विभो नलिनायतलोचन । प्रसीद करुणामूर्ते प्रसीद जगतां गुरो ॥ ४२. यमेकमीशमाद्यन्तमनन्तमकुतोभयम् । अक्षरमनिर्देश्यं शरणं यामि शाश्वतम् ॥ ४३. पुराणमाद्यं पुरुषं वृषसेनं वृषाकपिम् । वेदान्तवेद्यं विश्वस्य जनितारमुपास्महे ॥ ४४. तारकः परमो योगी योगिध्येयाङ्घ्रिपङ्कजः । स मे गतिरनन्तात्मा सर्वसाक्षी जगद्गुरुः ॥ ४५. गुणातीतः परःशुद्धो हंसाख्यः प्रपितामहः । श्रुतिकर्मः पुमान् साक्षात् आविरस्तु पुरो हरिः ॥ ४६. अणोरणीयान् आत्मा च महतोऽपि महान् महान् । ममैव दृशि सम्भूयात् मोहान्धध्वान्तभास्करः ॥ ४७. श्यामो हिरण्यपरिधिः वनमालाविभूषितम् । श्रीपतिं शरणं यामि विश्वस्यास्यैवहेतुकम् ॥ ४८. आलोलतुलसीदाममारूढविनतासुतम् । ज्योतिरिन्दीवरश्याममाविरस्तु ममाग्रतः ॥ ४९. नमो नमः पुराणाय पुरुषायादिवेधसे । सतां सन्मार्गबन्धूनां परित्राणाय साधवे ॥ ५०. सत्वमेकाक्षरं ज्योतिः आकारः खगरूपकः । यत्तमन्तस्स्मराम्येतत् पञ्चमस्वरमक्षरः ॥ ५१. खगः भोक्ता च कर्मात्मा पुरुषो व्यञ्जनात्मकः । ऊर्ध्वतिर्यग्गतः स्वान्तः केशवो दयितो मम ॥ ५२. शेषाङ्कशायिनमशेषगुरुं पुराणं नारायणं त्रिजगतां प्रणतापवर्गम् । नाथं व्रजामि शरणं करुणामृताब्धिं नास्त्यत्र मे विशति चित्तमिदं मुकुन्दात् ॥ ५३. इत्थं स्तुवति वै तस्मिन् चक्रराजे सुदर्शने । प्रादुर्बभूव भगवान् प्रसन्नात्मा जनार्दनः ॥ ५४. चतुर्भुजः पीतवासाः वनमाल्यातिसुन्दरः । इन्द्रनीलमणिश्यामैः अङ्गैरभिनवोदयैः ॥ ५५. बिभ्रत् नानामणिस्तोमहेमाभरणमण्डलम् । कुण्डलैर्वलयैर्दीप्तैः हारनूपुरकङ्कणैः ॥ ५६. कटिसूत्रब्रह्मसूत्रग्रैवेयपदकादिभिः । भ्राजमानं महात्मानं सूर्यकोटिसमप्रभम् ॥ ५७. स्तूयमानं सिद्धगणैः सेव्यमानं सुरासुरैः । श्रिया च दात्रा सहितं श्रीवत्सादिविभूषितम् ॥ ५८. भ्राजमानं पुनस्साक्षात् नारायणमनामयम् । भूयो भूयो नमस्तुभ्यं साष्टाङ्गं पादपद्मयोः ॥ ५९. शनैर्विज्ञापयामास प्रणतः स मनोरथम् । नाथ देव दयासिन्धो परिश्रान्तोऽस्मि केवलम् ॥ ६०. अङ्गीकुरुष्व मां क्षिप्रं दीनं च शरणागतम् । इत्थं प्रणतमत्यर्थं याचमानं मुहुर्मुहुः ॥ ६१. करैरुत्थाप्य तं देवो व्याजहार सुदर्शनम् । प्रीतोऽस्मि वत्स ते स्तुत्या पूजया तीर्थमज्जनात् ॥ ६२. तव सन्तु महाभाग निरपाया मनोरथाः । त्वया कृतमिदं कार्यं लोकाभ्युदयहेतुकम् ॥ ६३. गायन्तु मर्त्याः देवाश्च मुनयश्च सनातनाः । यत्ते चरित्रं सौगन्ध्यं प्रबन्धसंहितम् ॥ ६४. श‍ृण्वन्तोऽपि पठन्तोऽपि स्मरन्तोऽपि हि जन्तवः । अवाप्य धर्म्यमैश्वर्यं कामं कलुषवर्जितम् ॥ ६५. अनुभूय चिरं कालमन्ते मां यान्तु केवलम् । त्वत्प्रियार्थमिदं क्षेत्रं न त्यक्ष्यामि कदाचन ॥ ६६. अत्र स्थितानां जन्तूनां न हि शास्ता यमो विभुः । अत्र कर्मक्षयं कृत्वा मोक्षयिष्यामि बन्धनात् ॥ ६७. मत्क्षेत्रे यातना बाधा जन्तूनां वसतां न हि । मामुद्दिश्यात्र ये ब्राह्मणाः प्रीणयन्ति वै ॥ ६८. अन्नं भूमिं जलं गां च ये दास्यन्ति मद्विधाः । तेषां कोटिगुणं पुण्यं भविष्यति न संशयः ॥ ६९. इत्थं संप्रीणयन् वाचा चक्रराजं च ह्यव्ययम् । पाणिभ्यां परिगृह्याग्रे तत्रैवान्तरधीयत ॥ ७०. शङ्खः -- इत्थं तस्मिन् भगवति वासुदेवे जनार्दने । सचक्रान्तर्हिते तावत् तत्रत्याः परमर्षयः ॥ ७१. प्रहृष्टाः परितस्सर्वे स्तोत्रैः उच्चैः तमस्तुवन् । चक्रराजस्य माहात्म्यं तीर्थवैभवभावितम् ॥ ७२. प्रादुर्भूतस्य देवस्य प्रसदात् जगतां गुरोः । प्रशंसन्तः स्तुवन्तश्च ध्यायन्तः तत्पदाम्बुजम् ॥ ७३. मुहूर्तं बभ्रमुः सर्वे कौतूहलसमावृता ; । स्नात्वा सर्वेषु तीर्थेषु पुनर्जग्मुर्यथागतम् ॥ ७४. शङ्खः -- इत्थं वनस्यास्य माहात्म्यं पापनाशनम् । संक्षेपात् काथितं राजन् तव प्रीतिविधित्सया ॥ ७५. भूयोऽपि चित्रमाख्यानं ताम्रायाः कीर्तिभूषणम् । येषां कर्णपथाविष्टं तेषां मुक्तिप्रदं भवेत् ॥ ७६. पुरा कश्चित् पिङ्गलाख्यः कृषिकः शूद्रवंशजः । धान्यगोधनसम्पन्नः पुत्रमित्रकलत्रवान् ॥ ७७. अनेकां भूमिमाहृत्य चकार कृषिमुत्सुकः । शालीनारध्वनाश्च श्यामाकारकपैटसाः ॥ ७८. मुद्गसर्षपमाषाणां राशिं चक्रे महोदयम् । एतस्मिन्नन्तरे काले मेघः समुदपद्यत ॥ ७९. हलाकर्षणसाम्रर्थ्यधुरीणैः गोवृषैः तथा । तद्भृत्याः क्षेत्रमासाद्य चकर्षुर्महिषैः वृषैः ॥ ८०. तस्मादेको वृषो वृद्धो दुर्बलो हलाकर्षणे । निर्मुक्त परितोऽरण्यं यूथभ्रष्टः ततस्ततः ॥ ८१. अतीत्य दूरमध्वानं ताम्रायाः तीरमाप सः । तत्स्वामी वृषं नष्टमन्न्विष्य परितो वनम् ॥ ८२. अदृष्ट्वाऽचिन्तयन्नष्टं व्याघ्राद्यैरिति भक्षितम् । निवृत्य स्वगृहं प्रायात् स्वभृत्यैः कृषीवलः ॥ ८३. वृषोऽपि वातवर्षाद्यैः किश्यमानो वनान्तरे । ताम्रायाः सैकते भागे पतितोऽभूत् तदालसः ॥ ८४. तावन्मलयजा पुण्या पूर्यमाणा सुवृष्टिभिः । समाकृष्य वृषं प्रायात् पूरेणैव हि भूरिणा ॥ ८५. किञ्चित् दूरान्तरं गत्वा कूले क्षिप्तोऽभवत् क्षणात् । दैवाद्विष्णुवनं प्राप्य समाश्वस्य क्षणान्तरात् ॥ ८६. शनैः तीरं समारुह्य रुरोदातीव दारुणम् । तत्रत्येषु मुनीन्द्रेषु विस्मितेषु समन्ततः ॥ ८७. ददर्श तं वृषं धीमान् मुनिः कात्यायनाभिधः । वृषोऽयं स्रोतसा नीतः जराविष्टोऽतिदुर्बलः ॥ ८८. रुदत्यतीव किं ज्ञातं पूर्वं कर्मकृतं त्विति । विचार्य करुणाविष्टो ज्ञानदृष्ट्या विलोकयन् ॥ ८९. ज्ञातं तत्कर्म काठिन्यं मुनिः संस्पृश्य पाणिना । मन्त्रितेनाम्भसा चैनं असिञ्चत् अमृतात्मना ॥ ९०. तावत् निर्भिन्नमौलेः तु वृषभस्यातिदुःखिनः । निर्जगाम क्षणात् ज्योतिः व्योम्ना भासानुभासयन् ॥ ९१. दिव्यरूपी पुमान् आसीत् श्यामः कमललोचनः । शनैर्मुनिमुपागम्य नत्वा वचनमब्रवीत् ॥ ९२. तारितोऽस्मि महाभाग त्वया शोकार्णवात् अहम् । धन्योऽस्मि कृतकृत्योऽस्मि भवत्पादाब्जसेवया ॥ ९३. गन्तुमीहे परं लोकमक्षयं वैष्णवं शुभम् । अनुज्ञां देहि मे ब्रह्मन् सर्वज्ञ करुणानिधे ॥ ९४. इत्यग्रे प्रणतं दान्तं कृताञ्जलिमुपस्थितम् । याचमानमिदं वाक्यं व्याजहार महामुनिः ॥ ९५. कस्त्वं भद्र महाभाग तेजोराशिरकल्मषः । केन वा प्रापितो दुःखं तिर्यग्योनिविभावितम् ॥ ९६. एतत्मे कथ्यतां साधो तत्कर्मफलभाविकम् । श्रोतुमिच्छन्त्यमी विप्राः तपस्सिद्धाः कुतूहलात् ॥ ९७. इति वादिनि वै तस्मिन् मुनौ कात्यायने तदा । स्पष्टमाचष्ट सिद्धोऽसौ निजवृत्तान्तमद्भुतम् ॥ ९८. सिद्धः -- अहं पूर्वभवे ब्रह्मन् कारूशो नाम वैश्यराट् । धनी कुलीनो धर्मज्ञः कार्याकार्यविवेकवित् ॥ ९९. शाकल्याख्ये पुरवरे वसन् वाणिज्यजीवितः । तथा मे गृहिणी पुण्या धर्मज्ञा रूपशालिनी ॥ १००. पतिव्रता महाभागा नाम्ना सौगन्धिका किल । तया सह चिरं कालमनुभूतं सुखं मया ॥ १०१. तत्रान्तरे विटङ्कस्य वैश्यनाथस्य कन्यका । मालती नाम काप्यासीत् महासौन्दर्यमुद्रिका ॥ १०२. कुमारीं कुलचूडालां रूपेण मणिपुत्रिकाम् । तां दृष्ट्वा कामबाणार्तो दत्वा भूरि धनं पुनः ॥ १०३. तां द्वितीयां धर्मपत्नीं कृत्वा सार्धं तया सह । रममाणो दिवारात्रं नाचिन्तयमनन्तरम् ॥ १०४. अस्यामासक्तचित्तस्य कार्याकार्यविवेकिनः । द्वेषोऽभूत् अग्रधर्मिण्यां मम पापात्मनो भृशम् ॥ १०५. अदुष्टामपि तां नित्यं ताडनाद्यैरुपद्रवैः । निर्बन्धयित्वा भृशं कारागारे न्यवेशयम् ॥ १०६. आहारहीना क्षुत्क्षान्ता कृशा दीना दुरासदा । कालेन सा धर्मपत्नी चिरात् प्राणान् जहौ शुचा ॥ १०७. सर्वे ते बान्धवाः स्निग्धाः मां शपन्तः मुहुर्मुहुः । स्त्रीघातकोयमित्युक्त्वा सर्वे ते स्वगृहान् ययुः ॥ १०८. तत्पिता श्वशुरोऽस्माकं वृद्धो धर्मपरायणः । तपस्वी कोपितोऽभ्येत्य पुत्रीशोकातुरो भृशम् ॥ १०९. शशाप मां वज्रतुल्यं वचनं चेदमब्रवीत् । रे रे पापिष्ठ दुष्टात्मन् पापासक्तमदान्धधीः ॥ ११०. जघ्निवान् तेन पापेन ऋषभो भवितेति माम् । तावदेव महघोरात् शापात् अशनिसन्निभात् ॥ १११. अभूवं वृषभो भीमो पश्यत्सु खलु बन्धुषु । नष्टस्मृतिरहं तस्मात् निर्गतो नगरात् बहिः ॥ ११२. अटवीं सञ्चरन् काले गृहीतः केनचित् बलात् । चकार मां बलीवर्दैः हलाकर्षणकर्मणि ॥ ११३. ब्रह्मन् एवं तस्य गृहे निवसन् चिरकालतः । वार्धक्यकालमागत्य दैवात् अत्रागतोऽस्म्यहम् ॥ ११४. यदा महानदीतोयसंसर्गं प्राप्य दुर्लभम् । जातमेतत् समग्रं मे कराग्रामलकोपमम् ॥ ११५. पूर्वजन्मार्जितं ज्ञानं काले मे सङ्गमे मुनेः । सत्सङ्गमात् कृतार्थोऽस्मि निर्मुक्तोऽस्मि भयाद्गुरो ॥ ११६. त्वयैव् मन्त्रपूतेन वारिणा कृतसेचनः । कष्टं शापसमुद्भूतं त्यक्तमासीत् कलेवरम् ॥ ११७. नमस्तुभ्यं भगवते गुरवे परमात्मने । त्वया दत्तान् गमिष्यामि लोकान् अव्याहतोदयान् ॥ ११८. इत्युक्त्वा तं परिक्रम्य प्रणम्य च मुहुर्मुहुः । विमानवरमास्थाय जगाम परमां गतिम् ॥ ११९. एवं दृष्ट्वाद्भुतं कर्म मुनेः कात्यायनस्य ते । मुनयः तं यथान्यायं पूजयामासुरादरात् ॥ १२०. शापेनाशनिकल्पेन परिपूतममुं विशम् । मोचयामास तीर्थेन ताम्रा मलयनन्दिनी ॥ १२१. गतिमाप महातीर्थे प्रादात् अस्मै तदद्भुताम् । तस्मात् अमुष्य क्षेत्रस्य तीर्थस्याभ्युदयस्य च ॥ १२२. ये पठन्त्यपि माहात्म्यं श्रुण्वन्त्यपि लिखन्ति च । तेषामक्षय्यमैश्वर्यमायुरारोग्यमेव च । ददाति भगवान् विष्णुः अन्ते मुक्तिं च शाश्वतीम् ॥ इति एकोनषष्टितमः अध्यायः । Pro.Total =5497 + 122 = 5619.

षष्टितमः अध्यायः

विशेषतो विष्णुवनमहिमानुवर्णनम् । १. इत्थं भगवती गाथा पुण्या गङोदकोपमा । विस्तारिता मुनीन्द्रेण कल्पवल्लीव कामदा ॥ २. राजानमानन्दगिरा चकाराश्चर्यनिर्भरम् । प्रणम्य राजा भूयोऽपि तमपृच्छन् महामुनिम् ॥ ३. वीरसेनः -- अहो महामुने दिव्यमाख्यानं भवतेरितम् । क्षीरार्णवमिवाभाति मनसामप्यगोचरम् ॥ ४. अनन्तगुणरूपस्य विष्णोः अद्भुतकर्मणः । तुल्यतामिव संप्राप्तं पुण्यं विष्णुवनं महत् ॥ ५. तस्यैव भूयः श्रोतव्यं माहात्म्यश्रवणामृतम् । कथयस्व पुनर्ब्रह्मन् मह्यं शुश्रूषवे गुरो ॥ ६. शङ्खः -- राजन् अतिविशालस्य व्योमाकारस्य भूयसः । वनस्यास्य महाबाहो माहात्म्यं श्रवणामृतम् ॥ ७. वक्ष्यमाण मयेदानीमाकर्णय महामते । अतः परं महाराज पुण्ये विष्णुवनाश्रमे ॥ ८. पुरतोऽथार्धभागं तु साध्यारण्यमुदाहृतम् । ब्रह्मभूतमिदं क्षेत्रं यत्साध्याः सिद्धिमागताः ॥ ९. शापापिभूता रुद्रस्य कदाचित् चन्द्रमौलिनः । विसृष्टदेवभोगाः ते वचनात् श्रीपतेर्हरेः ॥ १०. तपःकृत्वा चिरं कालं देवमास्थाय दुष्करम् । तत्प्रसादात् पुनः प्राप्य त एते परमं मुदम् ॥ ११. स्वर्गं सुकृतिभिः प्राप्यं प्रापुः संहृष्टमानसाः । राजा -- कथं विष्णुवने ब्रह्मन् साध्यारण्यं क्वचिद्भवेत् ॥ १२. सत्वोद्भूताः साध्यगणाः कथमागः प्रचक्रिरे । शिवशापात् कथं मुक्ताः केनोपायेन दुस्सहात् ॥ १३. एतत्सर्वमशेषेण ब्रूहि निःसंशयं गुरो । शङ्खः -- श्रुणु राजन् प्रवक्ष्यामि पुण्यमाख्यानमुत्तमम् ॥ १४. तच्छ्रुत्वा मुच्यते मर्त्य सद्यः पातककोटिभिः । पुरा कदाचित् त्रेतायां काले सावर्णिकेऽन्तरे ॥ १५. श्रुतधामाभिधः श्रीमान् मुनिरासीत् महायशाः । आङ्गीरसोऽन्वयोद्भूतः वेदवेदाङ्गपारगः ॥ १६. वात्स्यायनकुलोद्भूतां नाम्नाममलिनीं प्रियाम् । उद्वाह्य विधिना राजन् गृहस्थाश्रममाश्रयन् ॥ १७. चकार धर्मान् सकलान् त्रिवर्गोदयसाधनान् । तपोविशेषसन्तुष्टात् देवदेवात् महात्मनः ॥ १८. तनयामाप तन्वङ्गीं सौन्दर्यामृतवाहिनीम् । सैषा कालेन ऋजुना कन्या काञ्चनमालिनी ॥ १९. युवलोकमुखाम्भोजसम्भावितमहोदयाम् । संप्राप यौवनावस्थां वासन्तीमिव श्रियम् ॥ २०. तां दृष्ट्वा मदनाविष्टः कश्चित् विद्याधरोर्मिमान् । निहत्य पितरौ तस्याः निशि निद्रापरायणौ ॥ २१. जहार तरुणीरत्नं चोरवत् कृतनिश्चयः । सा बाला शोकसन्तप्ता गृहीता दारुणात्मना ॥ २२. रुरोद हा हेति भृशं विलपन्ती मुहुर्मुहुः । शिव शम्भो दयासिन्धो बन्धो किं नावबुध्यसे ॥ २३. कथं त्वां शरणं प्राप्तां निमग्नां शोकसागरे । पाहि मां पाहि मां शम्भो पाहि मां पाहि मामिति ॥ २४. इति तस्याः समाकर्ण्य महाक्रन्दनं शिवः । दयानिधिः प्रादुरभूत् लिङ्गरूपी तदाश्रमे ॥ २५. मा भैषटेत्यब्रवीत् वाचा तामाश्वस्य जगद्गुरुः । ललाटेनानलेनैव तं ददाहान्तकान्तकः ॥ २६. तस्मिन् विद्याधरे तावत् भस्मीभूतकलेवरे । तामाहूयातिदुःखार्तां पुत्रीमिव पुरः स्थिताम् ॥ २७. स्वकराम्भोरुहैः श्रीमत्कल्याणामृतवर्षिभिः । परिमृज्य तदङ्गानि प्राह गम्भीरया गिरा ॥ २८. श्रीशिवः -मा भीःतन्वङ्गि कल्याणि मुञ्च शोकं सुदारुणम् । भवितव्यमिदं तेऽद्य कारणेन न संशयः ॥ २९. पुरा त्वया पूर्वभवे कस्यचित् गृहिणी सती । कामार्तौ दम्पती मुख्यौ औषधेन बलीयसा ॥ ३०. वियोजितौ पापबुध्या सोऽयं विद्याधरोऽभवत् । संयोज्यातीव शोकेन कर्मेण फलमाप्तवान् ॥ ३१. त्वं च विद्याङ्गना काले भर्तर्युपरते सति । अप्राप्य जारमेतं तु विधिना विधवा कृता ॥ ३२. तावत् कण्वेन मुनिना करुणाविष्टचेतसा । दत्ता पाशुपती विद्या तन्महिम्नाप्यजन्मनाम् ॥ ३३. तत्काले जन्मविज्ञानं भक्तिर्मय्यनपायिनी । मदनुग्रहेण युगपत् प्राप्तासि वरवर्णिनि ॥ ३४. इतः बन्धुजनैः मिलिता धर्मवत्सलैः । प्रणीता वरमुख्येन सौख्यं प्राप्नुहि मा चिरम् ॥ ३५. काञ्चनमालिनी -भगवन् नाहमाकाङ्क्षे वरमन्यं कदापि वा । त्वामेव शरणं प्राप्तामनाथां दीनमानसाम् ॥ ३६. पालयिष्यसि मातेव पितेव प्रियबन्धुवत् । याचे त्वां पुनरीशानं गतिर्मे भव भूयसी ॥ ३७. श्रीशङ्खः -- इत्येवं प्रलपन्तीं तां कृपणां तरुणीमणिम् । प्राह गम्भीरया वाचा शङ्करो लोकशङ्करः ॥ ३८. अयि वत्से मदीयेस्मिन् लिङ्गे मां सार्वकालिकम् । आराधय यथान्यायं स्नात्वा ताम्रानदीजले ॥ ३९. कालेन ते प्रदास्यामि मत्सायुज्यं महोदयम् । अद्य दक्षिण वाहिन्यां ताम्रायां कृतमज्जनाः ॥ ४०. ये मां पश्यन्ति वै मर्त्याः तेषां क्वापि न मर्त्यता । इत्युक्त्वोपरतः शम्भुः तस्मिन् लिङ्गमहामणौ ॥ ४१. विवेश सोमया गौर्या स्तूयमानः सुरासुरैः । सापि नित्यं वरारोहा नियमैः दुष्करैः शिवम् ॥ ४२. निनायाराधयन्ती तं योगिनी कालसञ्चयम् । तावत्साध्यो देवमुख्यः द्युमान् नाम महायशाः ॥ ४३. परीत्य भारतीं भूमिं कौतुकालोकनेच्छया । क्रमेण ताम्रामासाद्य मलयाद्यासमुद्रकम् ॥ ४४. अटमानो ददर्शाग्रे तन्वीं विद्युल्लतामिव । आविष्टमदनोऽभ्येत्य तामेतां तु तपस्विनीम् ॥ ४५. ग्रहीतुमुत्सुको भूत्वा धर्षणायान्वधावत । तपःशक्त्यानया कोपात् दूरे निस्सारितः ततः ॥ ४६. स्वर्लोकं प्राप कामेन सद्यः परवशोऽभवत् । तद्भ्रातरो महाभागाः श्रुत्वा तं शोकविह्वलम् ॥ ४७. किमेतत् इति पप्रच्छुः ततस्सोऽयं व्यजिज्ञपत् । तेन सम्भूय सहसा भ्रातरं दीनमानसम् ॥ ४८. सान्त्वयित्वा तु तेनैव प्रापुर्मलयनन्दिनीम् । तत्रैनां पश्चिमे तीरे ध्यायन्तीं शिवसन्निधौ ॥ ४९. स्वाहामिवापरामाभां भास्करीमिव निर्मलाम् । विलोक्य विस्मिताः साध्याः तत्सौन्दर्यप्रभादिभिः ॥ ५०. वञ्चिता इव ते सर्वे जगदुः च परस्परम् । केयं जाता किलाश्चर्यं विधातुः सृष्टिकौशलम् ॥ ५१. अदृष्टपूर्वरूपं तु जगन्मोहनहेतुकम् । इन्द्रनीलमणिच्छाया किमस्याः देह संहतिः ॥ ५२. अष्टमीचन्द्ररेखेव बालरेखा विभाति नः । कमलावासभवनं किमसौ लपनाम्बुजम् ॥ ५३. मृणालमुकुराकारौ करौ कल्पलतोपमौ । कुचावेतौ शातकुम्भशैलकूटमहोदयम् ॥ ५४. पादादिकेशपर्यन्तमस्याः सौन्दर्यसम्भृतम् । कस्मै विसृष्टा विधिना पुण्यराशिः विभूतये ॥ ५५. एनां गृहीत्वा तन्वङ्गीं सर्वे वयं अतन्द्रिताः । भोक्ष्यामः क्रमशः चान्द्रीं सुधामिव दिवैकसः ॥ ५६. इत्थं सर्वेषु तेष्वेषु कल्पमानेषु सादरम् । चिन्तामवाप महतीं साध्वसेन तदङ्गना ॥ ५७. अहो महति तं भाव्यमस्माकमधिकं किल । माता मृता पिता नष्टः बान्धवाः च न सन्ति हि ॥ ५८. रक्षितारो न सन्त्यत्र विना देवात् महेश्वरात् । दुर्बलस्य विषं नारी विषं नारी यतात्मनः ॥ ५९. अनाथानां पुनः स्त्रीणां सौन्दर्यं विषमुच्यते । युवत्यः कामिना मन्दाः वागुराकारिणीमिमाम् ॥ ६०. तनुं त्यक्ष्याम्यहं वह्नौ व्याघ्रीमिव दुरासदाम् । इति निश्चित्य मनसा दृढसङ्कल्पमाश्रिता ॥ ६१. ध्यायन्ती शिवपादाब्जं जपन्ती नृहरेर्मनुम् । परिक्रम्य स्वहोमाग्निं प्रविवेशाहुतिर्यथा ॥ ६२. तावत् हाहाकृतं राजन् देवतैः दिवि संस्थितैः । भूतैश्च सकलैः किञ्चित् चकम्पे च वसुन्धरा ॥ ६३. आश्रमानोकहस्थानं आरावैरिव पक्षिणाम् । तटद्वयी तदा नद्याः रुरोद करुणामयी ॥ ६४. इत्थं भूतेषु सर्वेषु पतितायां हुताशने । अनुकम्पाकम्पमानात् लिङ्गात् आविरभूत् शिवः ॥ ६५. शूलटङ्कवराभीतिपरिष्कृतमहाभुजः । स्तूयमानो महासिद्धैः साध्यान् आहातिमन्युना ॥ ६६. महापापतरं कर्म युष्माभिर्मूढबुद्धिभिः । मदग्रेऽपि विशेषेण विहितैः प्राकृतैरपि ॥ ६७. तस्मात् न स्वर्गतिर्न भूयात् महताज्ञाबलात् मम । इत्युक्त्वा भगवान् शम्भुः तेन संरक्तलोचनः ॥ ६८. हुङ्कारेणैव तान् सर्वान् साध्यान् देवान् तदाश्रमात् । दूरमुत्सारयामास तूलराशिमिवानलः ॥ ६९. सा दग्धरूपा तन्वङ्गी तेजोरूपो हुताशनात् । विनिष्क्रम्याम्बरेणैव सर्वेषां पश्यतां तदा ॥ ७०. संप्राप हृदयं शम्भोः तदद्भुतमिवाभवत् । एवं तामनुशास्यादिगुरुः गङ्गाधरो विभुः ॥ ७१. विवेश तस्मिन् विमले लिङ्गे देववरार्चिते । तेऽपि साध्याः भयाविष्टाः सन्तप्तारः तस्य मन्युना ॥ ७२. तस्मिन् विष्णुवने विष्णुं शरणं जग्मुरातुराः । त्रिणदीसङ्गममभ्येत्य आर्तिमापुः दुरत्ययाम् ॥ ७३. किं कर्तव्यं इहास्माभिः काममोहालसात्मभिः । नह्यन्यो रक्षिता लोके शरण्यात् माधवात् ऋते ॥ ७४. तस्मात् तमापच्छरणं शरणागतवत्सलम् । यास्यामः सर्वदा सोऽयं पालयिष्यति नो विभुः ॥ ७५. इति निश्चित्य ते सर्वे तत्रैव हरिसन्निधौ । तपस्तेपुर्महाराजन् नियमैर्दुष्करैरपि ॥ ७६. एवं वर्षशते पूर्णे सन्तुष्टः कमलापतिः । प्रादुरासीत् पुरस्तेषां स्मयमानमुखाम्बुजः ॥ ७७. श्रीभगवान् -- प्रीतोऽस्मि सहसा चाहं वृणुताभीप्सितं वरम् । साध्याः -- भगवन् यदि सन्तुष्टो वरार्हा यदि वा वयम् ॥ ७८. शिवकोपाभूतान्नः त्राहि देव दयानिधे । श्रीभगवान् -- नैव श्रेयांसि जायन्ते शिवचित्तापराधिनाम् ॥ ७९. तस्मात् उपायं वक्ष्यामि येन श्रेयो भविष्यति । व्रतं पाशुपतं नाम महापातकनाशनम् ॥ ८०. शिवप्रीतिकरं पुण्यं यो धत्ते भुवि मानवः । यदनुष्ठानमात्रेण प्रयान्ति शिवतुल्यताम् ॥ ८१. इति तेषां ददावादिपूरुषो विधिना स्वयम् । तेऽपि तस्मात् गुरोर्विष्णोः प्राप्य पाशुपतं व्रतम् ॥ ८२. तेन देवं समानर्चुः आशुतोषमुमापतिम् । तेषां पुरस्तात् व्रतिनां प्रादुर्भूतो वृषध्वजः ॥ ८३. मुख्यत्वं सर्वदेवानां कामरूपातिसम्पदः । बुद्धिं च सात्विकीं ज्ञानं मुच्यन्ते तेन जन्तवः ॥ ८४. संसारसागरात् घोरात् ददौ ब्रह्मप्रकाशकम् । इत्थं दत्वा वरं तेभ्यः प्रसन्नः स उमापतिः ॥ ८५. प्राह भूयोऽपि तान् वाचा प्रीणयित्वा पुनःपुनः । श्रीशिवः -- भवद्भिः यत्र ताम्रायां स्नानं त्रिषवणं मुदा ॥ ८६. साध्यतीर्थमिति ख्यातं भूयात् तन्मदनुग्रहात् । कन्यारूढे दिनकरे क्षीयमाणे निशाकरे ॥ ८७. त्रिपञ्चतिथ्यपुण्याः पितृदेवप्रियङ्कराः । तस्मिन् काले सकृद्वापि तीर्थेऽस्मिन् कृतमज्जनाः ॥ ८८. श्राद्धदेवार्चनं वापि ये कुर्वन्ति व्रतादिकम् । तेषां भुक्तिं च मुक्तिं च प्रदास्याम्यहमेव हि ॥ ८९. मामामर्च्य यथायोगं जप्त्वा पञ्चाक्षरं मनुः । अष्टाक्षरमनुं वापि जप्त्वा सम्पूज्य केशवम् ॥ ९०. प्राप्नोत्यपुनरावृत्तिं पदमानन्दलक्षणम् । इत्युक्त्वान्तर्हिते देवे ते देवाः साध्यसंज्ञिताः ॥ ९१. पूर्णकामाः समामन्त्र्य जग्मुर्स्वर्लोकमद्भुतम् । राजन् भूयः कथा काचित् पुण्या पौराणिकी हरेः ॥ ९२. तामिमामखिलाघौघशमनीं श्रोतुमर्हसि । साध्यानां देवमुख्यानां क्षेत्रस्मिन् नैमिशोपमे ॥ ९३. आश्रमं चन्द्रमालिन्याः साक्षात् नारायणात्मकम् । दशावतार तीर्थाख्यं तुल्यं मन्दाकिनीजलैः ॥ ९४. माघे तु रथसप्तम्यां ये नद्यां कृतमज्जनाः । दशावतारमूर्तीनां जप्त्वा नामानि भूपते ॥ ९५. नमस्कृत्वा दिनकरं ब्रह्मभूयाय कल्पते । वीरसेनः -- भूयोहं श्रोतुमिच्छामि कथामेनां तु विस्तरात् ॥ ९६. का वेयं कस्य वा पुत्री योगिनी चन्द्रमालिनी । दशावतारतीर्थाख्यं तत्तीर्थं शंस्यते कथम् ॥ ९७. एतत्सर्वमशेषेण वद विस्तरतो गुरो । शङ्खः -- हन्त ते कथयिष्यामि कथां कौतूहलावहाम् ॥ ९८. यस्याः श्रवणमात्रेण न भूयो जायते नरः । अग्रहारो महानासीत् नाम्ना मणिमहोदयः ॥ ९९. ताम्रायाः पूर्वभागे तु नानाजनसमाश्रयः । वेदविद्भिः महासिद्धैः यायजूकैः मनस्विभिः ॥ १००. क्षेत्रं क्षेमकरं नॄणां धनधान्यसमन्वितम् । तत्र कश्चित् महातेजा यज्वा वेदविदां वरः ॥ १०१. ब्राह्मणो नाम तेजस्वी सम्मतो वासमातनोत् । तस्य कालेन सञ्जातः पुत्रो मित्रसखाभिधः ॥ १०२. शुश्रूषमाणः पितरौ निनाय कतिचित् समाः । एतस्मिन्नन्तरे केचित् शैलूषानाट्यलम्पटाः ॥ १०३. स्त्रीभिः काञ्चनरूपाभिः तरुणीभिः समन्विताः । ननृतुर्विविधैः चित्रैः तालरागलयान्वितैः ॥ १०४. तत्रैकां तरुणीं तन्वीं विद्युद्वल्लीमिवापराम् । दृष्ट्वा तु मदनाविष्टः सोऽयं मित्रसखो युवा ॥ १०५. तां ययाचे तु रमणीं सापि तं प्रेक्ष्य सम्मता । विहाय बन्धून् सुस्निग्धां तामादाय वराङ्गनाम् ॥ १०६. देशात् देशान्तरं प्राप कुलधर्मान् विहाय तु । तत्र तत्र समभ्यस्य गाननाट्यादिकं तया ॥ १०७. नानारूपधरो वेषभूषाभाषणचारुभिः । रञ्जयित्वा जनपदान् तेभ्यो गृह्णन् धनं बहु ॥ १०८. शिष्यैः प्रशिष्यैः भृत्यैः च बलीवर्दैः च रासभैः । झल्लिमृदङ्गनिस्सानपणवानकगोमुखैः ॥ १०९. घोषयन् गायमानः च पूज्यमानः च भूमिपैः । समन्तात् भारतीभूमिं परिचक्राम हर्षयन् ॥ ११०. एवं सञ्चारमाणः तु शनैः काश्मीरमाप सः । तद्देशभूपतिः कोऽपि कुङ्कुमाङ्क इतीरितः ॥ १११. तत् मित्रसखमाहूय बहुमानपुरस्सरम् । तेन विस्तार्यमाणानि कौतुकान् यदि कौतुकी ॥ ११२. ददर्श मन्त्रिसामन्तैः सेनाध्यक्षपुरोहितैः । मत्स्यावतारवेषेण जनलोचनहारिणा ॥ ११३. प्रथमं तोषयामास राजानं तत्र संसदि । तथा कामठरूपेण वराहेण ततः परम् ॥ ११४. वपुषा नृहरेरादि वामनाकृतिना तथा । नाम(राम)त्रयवतारैः तु यादवेन्दावतारतः ॥ ११५. तथैव कल्किवपुषा नटित्वा जनसंसदि । सन्तुष्टात् भूपतेः प्राप्य वसुरत्नधनादिकम् ॥ ११६. सहानुयायिभिः भूयः स्वं प्राप शिबिरं निजम् । एवं गते तु शैलूषे ताः च राज्ञः कुमारिकाः ॥ ११७. रूपयौवनसम्पन्ना सा नाम्ना चन्द्रमालिनी । तमेनं चकमे कान्तं शैलूषं वेषधारिणम् ॥ ११८. मूर्च्छामवाप महतीं विषमायुधलक्षणाम् । मुक्तलीलामनाहारां भूताविष्टामिवस्थिताम् ॥ ११९. तामेनां तत्सखी काचित् उपसृत्यान्तिकं रहः । पप्रच्छ विनयोपेता प्रीणयन्ती मृदूक्तिभिः ॥ १२०. कायेन मनसा वाचा विद्यया वा धनेन वा । तोषयिष्याम्यहं सर्वं यत्ते मनसि काङ्क्षितम् ॥ १२१. इति तस्याः वचः श्रुत्वा सैषा प्राह प्रियां सखीम् । सखि ते कथयिष्यामि यो मामाधिर्दहत्यलम् ॥ १२२. वक्ष्यामि तदशेषेण रहस्तत् अवधार्यताम् । कोमलाकारपुमान् सोऽसौ विष्णोः चारुसुवेषधृत् ॥ १२३. योऽसौ शैलूषके लोके एकः परमाश्चर्यमूर्तिमान् । सोऽयं दहति मामन्तर्वेषभूषणभाषणैः ॥ १२४. तस्मिन् लब्ध्वैव रमणे जीवाम्येव हि नान्यथा । इति तस्याशयं ज्ञात्वा सेयं मायाविलासिनी ॥ १२५. विद्यया कर्षयामास रात्रौ मित्रखाभिधम् । तया सा योजयामास रत्यानङ्गमिव क्षणात् ॥ १२६. तं लब्ध्वा विस्मयाविष्टा नरवर्यं नृपात्मजा । रमयामास लीलाभिः तदानङ्गाकमोक्तिभिः ॥ १२७. स तु प्रीतमना सोऽपि समालिङ्याङ्गनामणिम् । सुधातरङ्गिणीपूरधारामाह गिरं प्रियाम् ॥ १२८. अकार्यमिदमावाभ्यां श्रेयसे न वराङ्गने । चोरवत् नृपतेरन्तः पुरे हन्त दुरासिका ॥ १२९. इयमापत्प्रसूः पुंसामंसासक्तेव पन्नगी । मनीषितस्य तन्वङ्गि महतः तव सिद्धये ॥ १३०. बुद्धिं प्रबोधायां यद्य वयस्यामिव सम्मताम् । अलक्ष्यमाणा कल्याणि तथा त्वं त्रिदशैरपि ॥ १३१. समागच्छ सकाशं मे लक्ष्मी सुकृतिनां यथा । इत्युक्त्वा तल्लटाग्रे दत्वा तिलकमद्भुतम् ॥ १३२. मायावी च स्वयं प्रायात् अदृश्य स्वजनं क्षणात् । इत्थं तस्मिन् मित्रसखे प्रयाते प्राणवल्लभे ॥ १३३. साधनानि समाधाय भूषणान्यम्बराणि च । भक्ष्यभोज्यपदार्थानि जनैः सर्वैरलक्षिता ॥ १३४. यत्रासौ वर्तते जारः तं देशं प्राप सत्वरम् । परिरेभे च बाहुभ्यां रतिं चित्तभवो यथा ॥ १३५. ततः स परिवाराणि समुत्थाप्य तु साधनैः । विनिष्क्रम्य पुरात्तस्मात् तया साकमदृश्यया ॥ १३६. शनैः शनैः अतिक्रम्य पुरग्रामादिकान् बहून् । काश्मीरान् नैषधान् साल्वान् सिन्धुसौवीरकेकयान् ॥ १३७. स प्राप सर्वतोभद्रां भद्रश्रीसर्वभूषिता । पाण्ड्यभूपुरुहूतस्य भुजतेजोभिरर्चिता ॥ १३८. यत्र नानामणिस्तोमकरुणारुणवाहिनी । ताम्रपर्णी मलयजा जयते पावनी नृणाम् ॥ १३९. पाण्ड्यभूमिं समासाद्य स्वदेशं विष्णुकानने । चकार वसतिं तीरे ताम्रायाः पूर्वरोदसि ॥ १४०. रममाणः तया सार्धं भुञ्जानः स्वमनोरथान् । निनाय कालं विषयं भगवन्नामकीर्तने ॥ १४१. कदाचित् जारमाहैषा तरुणी चन्द्रमालिनी । भवता दर्शितान्यादौ हरेरद्भुतकर्मणः ॥ १४२. दशावताररूपाणि द्रष्टुमिच्छाम्यहं प्रभो । तेन तेन स्वरूपेण स्वानुरूपा स्वलङ्कृता ॥ १४३. रन्तुमिच्छामि चैकान्ते परो मे नाद्य काङ्क्षितः । इति पृष्टः तया तन्व्या प्रीतोऽसौ तत्तथाकरोत् ॥ १४४. अनुस्यूतरतिध्वस्तः समस्तेन्द्रियपाटवः । शनैरेनं क्षयं प्राप शोषिताशेषशोणितः ॥ १४५. इत्थं संक्षीणसत्वस्य कामासक्तस्य दुर्मतेः । शरीरात् अपलायन्त कुत्सिता इव चासवः ॥ १४६. मृते तस्मिन् महाराज सा नारी शोकविह्वला । रुरोद सुस्वरं दीना हा हतास्मीति वादिनी ॥ १४७. कुतो मे राजभवनं क्व भृत्या च बान्धवाः । किं करिष्यामि कं यामि को वा मे रक्षिता भवेत् ॥ १४८. इति चिन्ताकुलां दृष्ट्वा मरणे कृतनिश्चया । महाप्रवाहवेलायां ताम्रायां प्राविशत् शुभा ॥ १४९. विकृष्यमाणा तस्यैव ध्यायन्ती रूपमद्भुतम् । हरेर्दशविधं स्निग्धं मनोज्ञं जारकल्पितम् ॥ १५०. हरिः कारुणिकः तावत् दृष्ट्वा तां मरणोन्मुखीम् । कृपयागत्य वेगेन वृद्धब्राह्मणवेषवान् ॥ १५१. उद्धारयन् कराभ्यां तां परिमृश्य वरप्रदः । प्रीणयन् मधुरैर्वाक्यैः व्याजहार गिरं वधूम् ॥ १५२. हरिः -- यमुद्दिश्य परं भीरु पतिता शोकसागरे । तमेनं शरणं शीघ्रं द्रष्टुमर्हसि हृष्टवत् ॥ १५३. इत्युक्त्वा वासुदेवाख्यं मन्त्रं तु द्वादशाक्षरम् । साङ्गं समुपदिश्यास्यै जपेत्यन्तरधात् द्विजः ॥ १५४. ततः परमसंहृष्टा विश्वस्ता विप्रवाक्यतः । नानारूपधरं देवमच्युतं वनमालिनम् ॥ १५५. दशावताररूपेण भावयन्तं जगत्त्रयम् । ध्यायन्ती स्वान्तमन्तस्थं जजापैगाग्रमानसा ॥ १५६. स्नात्वा त्रिषवणं तीर्थे नियता चन्द्रमालिनी । न जल्पति न निद्राति न करोत्यपरां क्रियम् ॥ १५७. त्वगस्थिगात्रशेषाङ्गी पूजयामास केशवम् । इत्थमब्दत्रये जाते प्रातः स्नात्वा महानदीम् ॥ १५८. माघस्य शुक्लद्वादश्यां ध्यायन्ती जपमातनोत् । तावदाविरभूत् पुष्पवृष्टिरम्बरवर्त्मना ॥ १५९. देवदुन्दुभिनिर्घोषः शुश्रुवे पटहस्वनैः । विलोकयन्ती गगनमद्राक्षीत् अर्कसन्निभम् ॥ १६०. विमानमद्भुताकारमनेकप्रमदाकुलम् । तन्मध्ये दशधा भिन्नं रूपालङ्कारभूषितम् ॥ १६१. हरिं चतुर्भुजं कान्तं शङ्खचक्रगदाधरम् । अनेककोटिकन्दर्पलावण्यामृतवारिधिम् ॥ १६२. स्वकामुकसमाकारं स्वरहासावलोकनैः । उपलक्षितसर्वाङ्गं दृष्ट्वानन्दमवाप सा ॥ १६३. तत्र जग्मुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः । स्तुवन्ति स्तुतिभिः विष्णुं हर्षयन्तो गिरा वधूम् ॥ १६४. तत्र देवो महादेवो महावृषभमास्थितः । एनामाहूय तन्वङ्गीं व्याजहार महेश्वरः ॥ १६५. शिवः -- श्रुणु वत्से महाभागे तपस्विनि नृपात्मजे । पश्य त्वामागतं भाग्यं महतः तपसः फलम् ॥ १६६. आराधितः त्वया विष्णुः मन्त्रेण महता चिरम् । समृद्धकामां त्वां कर्तुमागतो लोकपूजितः ॥ १६७. सोयं मित्रसखो देवः दुर्विनीतोऽपि केवलम् । तवैव तपसा नूनं देवभावमुपागतः ॥ १६८. अनेन सह संयुक्ताः वैकुण्ठपरमाद्भुते । प्रशंसन्ति सुरास्सर्वे सनकाद्याः च योगिनः ॥ १६९. ताम्राम्भसि सकृत् स्नात्वा तीर्थे सत्पुण्यगौरवे । ममापि विष्णोर्नामानि जपन्तः कृतमज्जनाः ॥ १७०. ते यान्ति परमानन्दं तद्विष्णोः परमं पदम् । चन्द्रमालिनि पश्य त्वं संस्थितान् अम्बरे सुरान् ॥ १७१. मत्स्यमूर्तिरसौ श्रीमान् कूर्ममूर्तिरसौ हरिः । यस्य वराहरूपोऽयं नृहरिः दानवान्तकः ॥ १७२. लोकमाता वामनोऽयं भार्गवः क्षत्रभञ्जनः । पश्य दाशरथिं रामं यमाहुः तारकं बुधाः ॥ १७३. आकृष्टयमुनापूरं रामं मां वपुरास्थितम् । येन लोकाः त्रयः कृत्स्नाः भवन्ति हि निरामयाः ॥ १७४. तमेनं गोपिकाकान्तं कृष्णं कमललोचनम् । पश्य पश्य महाभागे त्वत्प्रियार्थमिहागतम् ॥ १७५. हयग्रीवममुं येन निर्म्लेच्छा कल्पिता मही । कुरु प्रणाममेतेषां कुरु स्नानमिहोदके ॥ १७६. समारोह विमानं त्वं महादेवेन शासिता । वद्धाञ्जलिपुटा तन्वी जय शम्भो हरे विभो ॥ १७७. पाहि पाहीति जल्पन्ती ममज्जाम्भसि निर्मले । समुत्तस्थे तदा तस्मात् तीर्थात् आर्तिहरात् नृणाम् ॥ १७८. सूर्यवैश्वानराकारा तरुणी तनुमध्यमा । अनङ्गराजवनितामधःकृत्य स्वचर्चसा ॥ १७९. पूज्यमानामरगणैः आरुरोह रथोत्तमम् । महाकन्दर्पसौन्दर्यसिन्धुं मित्रसखाभिधम् ॥ १८०. चिराय काङ्क्षितं कान्तमवाप तपसः फलम् । तावेतौ दम्पतीमुख्यौ रतिकामाविवापरौ ॥ १८१. देवान् प्रणम्य देवर्षीन् विमानेनातिरंहसा । जग्मतुः परमं लोकं पुनरावृत्तिवर्जितम् ॥ १८२. शिवो मुकुन्दो भगवान् ब्रह्मलोकपितामहः । समुपस्पृश्य तत्तीर्थं जग्मुर्देवैर्यथागतम् ॥ १८३. इत्थं निगत्य महतीं श्रुतिमौलिमालां पुण्यां कथां नृपवराय महातपस्वी । बद्धाञ्जलिर्मलयजां मनसा प्रणम्य तूष्णीमभूत् निमिषमेष महानुभावः ॥ १८४. यस्त्वेनां सकलजनाघपङ्कप्रक्षोभप्रकटितजाह्नवीप्रवाहाम् । ये मर्त्याः श्रवणपुटेन धारयन्ते ते मुक्ताः परमकथासुधां मुनीन्द्राः ॥ इति षष्टितमः अध्यायः । Pro.Total = 5619 + 184 =5803.

एकषष्टितमः अध्यायः

श्रीवैकुण्ठादि श्रीपुरादि क्षेत्रमाहात्म्यम् । १. शङ्खः -- राजन् कलिमलध्वान्तविध्वंसनविनोदिनीम् । आकर्णय कथां पुण्यां वक्ष्यमाणां मयाधुना ॥ २. तस्माद्विष्णुवनात् पुण्यात् पुरतो महदद्भुताः । नवस्थानानि विष्णोः च मुक्तिदाः च महीपते ॥ ३. ब्रह्माश्रमं नाम वनं महामुनिनिषेवितम् । यत्र वैकुण्ठकैलासौ प्रकाशेते महोदयौ ॥ ४. रोमशेनार्चितः शम्भु उमया सह जायते । रोमशाख्यं तीर्थमुख्यं ताम्रायां संप्रदृश्यते ॥ ५. तत्र स्नात्वा महादेवं प्रणम्य गिरिजासखम् । इह लोके सुखी भूत्वा निर्मुक्ताशेषकिल्बिषः ॥ ६. देहान्ते शाम्भवं लोकं गच्छन्ति मनुजा ध्रुवम् । तत्र नारायणः साक्षात् सान्निध्यं कुरुते सदा ॥ ७. कलशीतीर्थसंज्ञं तु तीर्थं जागर्ति पावनम् । यदम्बुकणिकापानात् स्नानात् संस्पर्शनात् अपि ॥ ८. ब्रह्महा मुच्यते पापैः किमन्ये पापिनो नराः । अहङ्कारहृतान् वेदान् ज्ञानविज्ञानहेतुकान् ॥ ९. यत्राराध्य हरिं भक्त्या भूयस्तान् प्राप पद्मभूः । यदृच्छया समागत्य पापिनोऽपि तदाश्रमम् ॥ १०. जायन्ते नैव भूयस्ते नात्र कार्या विचारणा । ततोऽपि किञ्चिदग्रे क्ष्रेत्रं तु विजयासनम् ॥ ११. पुरा सङ्कुचितानां म्लेच्छानां शतकोटयः । जिता तद्देशराजानं प्रतापाङगदसंज्ञितम् ॥ १२. राज्यं चक्रुः स्वयं म्लेच्छाः दुर्विनीताः समागताः । मणलूरुपुरं गत्वा राष्ट्रकोशबलैः सह ॥ १३. पलायमानो विपिनं प्रविवेश भयङ्करम् । पूर्वभागे तु वैकुण्ठे ताम्राया उत्तरे तटे ॥ १४. निवासाय स्थलं कृत्वा पूजयामास केशवम् । तावदाविरभूत् विष्णुः पुरतो पाण्ड्यभूपतेः ॥ १५. शङ्खचक्रगदापद्मपरिष्कृतचतुर्भुजः । किरीटमुकुटाद्यैश्च भूषितो भूषणोत्तमैः ॥ १६. श्रिया भूम्या सेवमानो देवतैः सनकादिभिः । स्वासनात् आसनं दिव्यमादाय मणिभास्वरम् ॥ १७. कृत्वा स्वाङ्के समारोप्य राजानं करुणानिधिः । ताम्रातोयं समानीय पाञ्जजन्येन पाणिना ॥ १८. अभिषिच्याप्यनुग्राह्य तत्रैवान्तरधीयत । तावत् राज्ञः पाण्ड्यपतेः विस्मयाविष्टचेतसः ॥ १९. सिंहासनस्य पादेभ्यः निस्सृताः शतकोटयः । योधाः च परमायत्ताः नानाशस्त्रास्त्रवेदिनः ॥ २०. ते गत्वा म्लेच्छनिकरं हत्वा सबलवाहनम् । प्रतापाङ्गदनामानं मण्लूरुपुरोत्तमे । २१. तमेव चक्रुः राजानं सर्वे मुमुदिरे जनाः । तावद्देवाः सगन्धर्वाः ब्रह्मरुद्रपुरोगमाः ॥ २२. विकीर्य पारिजातस्य कुसुमैरवनीतलम् । विजयासननामानं तुष्टुवुःपुरुषोत्तमम् ॥ २३. तीर्थं तु पाञ्जजन्याख्यं क्षेत्रं तु विजयासनम् । पश्यन्तः च निमज्जन्तो न पुनर्गर्भवासिनः ॥ २४. तस्यैव निकटे पूर्वे भूमिपालाभिधे हरिः । अद्यापि वरदः शेते शेषपर्यङ्कसंज्ञिते ॥ २५. भूमिपालमिति स्तोत्रे स्तुवन्ति सनकादयः । पुरा भार्गवकोपेन हन्यमाने तु सर्वतः ॥ २६. भीतः तदा पाण्ड्यपतिः तत्राराध्य जनार्दनम् । अयाचत रहःस्थानं निवासाय हि निर्भयम् ॥ २७. दत्वाभयं नृपयास्मै पाण्ड्यराजाय सादरम् । तमेनं हरिधामाख्यं सपुत्रज्ञातिबान्धवम् ॥ २८. समादाय कराम्भोजैः स्वमुख्यैः प्राक्षिपत् क्षणात् । स तत्कुक्षिविवरं संप्रविश्य महीपतिः ॥ २९. ददर्श सर्वतोभद्रं राज्यं नयनभूषणम् । ताम्रां च मलयाद्रिं च मणलूरुपुरं तथा ॥ ३०. तत्र गत्वा स्वभवनं राज्यं चक्रे महीपतिः । हरिः स्वयं पाण्ड्यमहीं जुगोपापायतः प्रभुः ॥ ३१. इत्थं सहस्रे शरदामपयाते शनैश्शनैः । जामदग्न्यः तदा रामो विरतः क्षत्रियक्षयात् ॥ ३२. काश्यपाय महीं दत्वा न्यस्तशस्त्रो जितेन्द्रियः । प्राप्य शैलं महेन्द्राख्यं स चक्रे तप उत्तमम् ॥ ३३. ततः कुक्षिगतं भूपमास्यात् निर्वास्य भूतले । मणलूरुपुरे चक्रे राजानं सह बन्धुभिः ॥ ३४. इत्थमस्य हरेर्लीलां दृष्ट्वा देवाः सविस्मयाः । अवकीर्याम्बरात् पुष्पाण्यानर्चुः सनकादिभिः ॥ ३५. तत्र हर्षाभिधं तीर्थं मज्जतां पापनाशनम् । तत्र स्नात्वा हरिं दृष्ट्वा सर्वान् कामनवाप्नुयात् ॥ ३६. तदग्रे युग्मलस्थानं देवदेवस्य शार्ग्गिणः । पुराश्विनौ अश्विसुतौ यज्ञभागविवर्जितौ ॥ ३७. ताम्राया उत्तरे तीरे कृत्वाश्रमपदं निजम् । पूजयामासतुर्देवं गुरूक्तेनैव वर्त्मना ॥ ३८. इत्थमब्दशतं पूर्णं भक्त्या चार्चयतः तयोः । द्विधाभूतः प्रादुरभूत् वरदो गरुडध्वजः ॥ ३९. वरेण छन्दयामासः वव्राते तौ तमीश्वरम् । प्रसीद भगवन् विष्णो प्रसीद करुणानिधे ॥ ४०. यदि तुष्टोऽसि तपसा यद्यावां वरोचिते । त्रयस्त्रिंशत्सुरगणाः कोटयः काश्यपात्मजाः ॥ ४१. एतेषु गण्यमानेषु मुक्यावावां न संशयः । तथापि शक्रः कोपेन यज्ञभागं न दत्तवान् ॥ ४२. भिषजाविति यद्दोषं आवयोः तदपाकुरु । देह्यावयोर्यज्ञभागं यज्ञेषु श्रुतिचोदितम् ॥ ४३. तत्तथास्त्विति तावुक्त्वाप्यरविन्दलोचनः । देवानाहूय देवेशो भागं दातुं समादिशत् ॥ ४४. इति लब्ध्वा वरौ दस्रौ देवेशं पङ्कजेक्षणम् । प्रणम्य च परिक्रम्य तोषयित्वा स्तवैरपि ॥ ४५. समीयतुः पुनः स्वर्गं प्राप्तकामाविमौ यतः । तस्मात् तत् अश्विनीतीर्थे स्नात्वाश्विन्यां दिनोदये ॥ ४६. देवेशं पङ्कजाक्षं च दृष्ट्वा मुच्येत किल्बिषात् । युग्मलाख्यमिदं क्षेत्रमाश्विनं यः प्रपश्यति ॥ ४७. तमेनं नैव बाधन्ते राजयक्ष्मादयो गदाः । कुत्सिता वा न जायन्ते न दारिद्र्यपरिप्लुताः ॥ ४८. ये चात्र तीर्थे मज्जन्ति ते यान्ति परमां गतिम् । अलङ्कृत्य श्रिया तस्मात् ऐन्द्रीमाशामदूरतः ॥ ४९. हरेरायतनं पुण्यं जयते परमाद्भुतम् । मायालास्यमिदं क्षेत्रं नाम्ना माया यत्र प्रवर्तिता । ५०. पुरा राथन्तरे कल्पे पुण्ये सावर्णिकेऽन्तरे । आङ्गीरसकुलोद्भूतः श्रुतधामेति विश्रुतः ॥ ५१. परीत्य सकलामुर्वीं तीर्थयात्रापरायणः । क्रमात् आगत्य तत्क्षेत्रं ताम्राया उत्तरे तटे ॥ ५२. दृष्ट्वा तु सर्वतोभद्रं श्रिया सम्पूर्णतेजसम् । सिद्धक्षेत्रं परं ज्ञात्वा तत्रादिष्टः तपो महत् ॥ ५३. निराहारो यताहारो यतवाक्कायमानसः । ध्यात्वा हृदि हृषीकेशं तोषयामास भक्तितः ॥ ५४. एवं वर्षसहस्रान्ते तपसाराधितः प्रभुः । प्रादुर्भूतः तमाहूय वरदो वाक्यमब्रवीत् ॥ ५५. सन्तुष्टोऽस्मि महाभाग तपसा तेन साधुना । वरान् वरय भद्रं ते सर्वान् कामान् ददामि ते ॥ ५६. श्रुतधामा -- भगवन् करुणामूर्ते नमस्तुभ्यं श्रियःपते । यदि मे वरदोऽसि त्वं वरार्हो यद्यहं मतः ॥ ५७. द्रष्टुमिच्छामि ते लीलां कृष्णमूर्तेः यदोः कुले । अवताराणि कर्माणि सस्वर्गारोहणानि प्रभो ॥ ५८. इति संप्रार्थितः तेन ब्राह्मणेन स पुमान् । दर्शयामास भगवान् निजलीलां पुरा कृताम् ॥ ५९. अवतारं च मायया यशोदायां च गोकुले । देवक्यां सम्भवं चैव हरेर्भोजेन्द्रमन्दिरे ॥ ६०. गोकुलप्रतियानं च मायामाहात्म्यदर्शनम् । पूतनाप्राणहरणं शकटसुरमोक्षणम् ॥ ६१. तृणावर्तस्य निधनं यमलार्जुनभेदनम् । वृन्दावनप्रयाणं च निग्रहं बकरूपिणः ॥ ६२. अघासुरविमोक्षं च ब्रह्माहङ्कारनाशनम् । वत्सासुरस्य निधनं प्रलम्बस्य निबर्हणम् ॥ ६३. धेनुकस्य वृषस्यापि शङ्खचूडस्य नाशनम् । हयासुरस्य निधनं अक्रूरागमनं तथा ॥ ६४. मथुरायां प्रवेशं च कंसस्यापि विनाशनम् । कारागृहात् परित्राणं पित्रोः प्रीतिवर्धनम् ॥ ६५. उग्रसेनाभिषेकं च मातुलस्य बलक्षयम् । तद्द्वारकायाः निर्माणं म्लेच्छनीचवधं पुनः ॥ ६६. उद्वाहं राजकन्यानां नरकासुरमर्दनम् । निधनं चेतिराजस्य धर्मजक्रतुपालनम् ॥ ६७. कुरुक्षेत्रे महीपानां कुरूणां च समागमम् । दुर्योधनादिनिधनं धर्मपुत्राभिषेचनम् ॥ ६८. पुनर्वैकुण्ठगमनं उद्धवस्योपदेशनम् । एतान्यन्यानि पुण्यानि दृष्ट्वा कर्माणि शार्ङ्गिणः ॥ ६९. विस्मयोत्फुल्लनयनः परमानन्दनिर्भरः । हर्षगद्गदया वाचा तुष्टाव पुरुषोत्तमम् ॥ ७०. ॐ नमस्सत्यसङ्कल्पविकल्पोल्लासितात्मने । निर्गुणाय गुणाविष्ट कर्मणे ब्रह्मणे नमः ॥ ७१. सत्यं ज्ञानमनन्तं यत् धाम नामादिवर्जितम् । ओमित्युपहिताकारमहङ्कारमुपास्महे ॥ ७२. यतो वाचो निवर्तन्ते मनसाप्राप्य माधवम् । हृद्यन्तं परं पश्ये भद्रस्यावाप्तये हरिम् ॥ ७३. हृषीकं जगतां साक्षात् श्रुतयो यत् प्रशंसिरे । तमादिपौरुषं तेजः प्रपद्ये व्योमलक्षणम् ॥ ७४. अलक्ष्यमक्ष्णां गुणिनां ब्रह्मादीनां यदैश्वरम् । महःप्रपद्ये निर्मायं यत् परं परमं हरिः ॥ ७५. यमन्विष्य महस्तत्त्वमागमान्तगिरां ततिः । तद्धाम कामयैकान्तकलिकल्मषनाशनम् ॥ ७६. अणोरणीयमाद्यन्तमध्यविप्लववर्जितम् । अहमाराधये चित्ते मायाजालविमुक्तये ॥ ७७. देवदेवं महादेवं हरिमभ्युदयेश्वरम् । पश्यामि परतत्त्वार्थं निर्मुक्ताशेषकल्मषम् ॥ ७८. भगवन् परितुष्टोऽस्मि मायालास्यप्रदर्शनात् । अहो विभूतिविस्तारो लीलावैशिष्यलक्षणः ॥ ७९. पुनाति लोकान् गङ्गेव दर्शनात् कीर्तनात् अपि । इतः परं न शोचामि येनाहं त्वत्प्रसादतः ॥ ८०. तथा कुरु दयां मह्यं त्वामहं शरणं गतः । इत्थं काङ्क्षितं ज्ञात्वा करुणामृतवारिधिः ॥ ८१. भूय प्रहर्षयन् वाचा व्याजहार मुनीश्वरम् । श्री भगवान् -- ब्रह्मन् मत्प्रार्थनादत्र वस्तव्यं भवता मुदा ॥ ८२. गार्हस्थ्यं कर्म कृत्यैव पुत्रमित्रधनादिभिः । ततः कालेन महता मत्सायुज्यमुपैष्यसि ॥ ८३. मोहापहमिदं तीर्थं ताम्रायाः परमाद्भुतम् । मज्जतामेव जन्तूनां मत्सायुज्यप्रदायकम् ॥ ८४. सकृत् अत्रैव मज्जन्तो द्रष्टारो मामकीं तनुम् । न ते भूयः प्रपद्यन्ते मायामोहविकल्पनैः ॥ ८५. इत्युक्त्वान्तर्हिते तस्मिन् भगवत्यम्बुजेक्षणे । तत्रैवाराधयामास युगानामेकसप्ततिम् ॥ ८६. अन्ते जगाम स मुनिः तद्विष्णोः परमं पदम् । नद्याः तु दक्षिणे भागे श्रीदेव्याः परमाद्भुतम् ॥ ८७. श्रीपुरं चेति विख्यातं हरेरानन्दवर्धनम् । यत्रादिसिद्धो भगवान् हरिः कारुण्यमानुषः ॥ ८८. वेदसिद्धान्तसारस्य वक्ता भुवनवर्तिनाम् । आगामिनि कलौ राजन् अवतारं करिष्यति ॥ ८९. तीर्थानां पञ्चकं यत्र ताम्रपर्ण्यां प्रशंस्यते । विनिद्रो भुजगेन्द्रोऽपि चिञ्चापादपो गतः ॥ ९०. यत्र क्रीडति सानन्दं नित्यं सिद्धविहङ्गमाः । यत्र सारूप्यतां प्राप तपसा विहगेश्वरः ॥ ९१. अस्य क्षेत्रस्य माहात्म्यं महत्वात् सागरोपमम् । यदत्र कमलादेवी करोति करुणां मुहुः ॥ ९२. अस्मिन् सुकीर्त्यमाने तु माहात्म्ये मङ्गलालये । पुरा वैकुण्ठभवने हरिर्विश्वम्भरो विभुः ॥ ९३. शयानो भोगिपर्यङ्के योगमुद्रां समुद्वहन् । विश्वत्राणाय महतीं मनीषामभ्यवर्तयत् ॥ ९४. श्रिया भूम्या ह्रिया चैव तुष्ट्या पुष्ट्येलोर्जया । श्रद्धयाश्रद्धया कान्त्या सेव्यमानः समन्ततः ॥ ९५. मौलिमङ्गे रमायाः तु पादौ कृत्वा भुवो विभुः । तमेनमादिपुरुषं सिद्धाश्च सनकादयः ॥ ९६. वैनतेयो भृगुः शङ्खः पाञ्जजन्यः सुदर्शनः । कौमोदकी नन्दनश्च शार्ङ्गाख्यं च महद्धनुः ॥ ९७. उपासाञ्चक्रिरे चैते पार्षदाः च पृथक् पृथक् । ऋचां ततिः शुक्लवर्णा शारिकारूपमास्थिताः ॥ ९८. इन्द्रनीलशिलाकॢप्तपञ्जरान्तरवर्तिनी । तुष्टाव जगदीशानं पुरुषं ब्रह्मपूर्विकम् ॥ ९९. गणोऽयं इन्द्रनीलाभो यजुषां शुकविग्रहः । तप्तकाञ्चनमाणिक्यपञ्जरस्थोऽस्तुवत् हरिम् ॥ १००. अरुणा सामपङ्क्तिः तु कोकिलाकारदर्शना । पद्मरागशिलाजातपञ्जरोदरसंस्थिता ॥ १०१. चुकूज पञ्चमं विष्णोः प्रसादाय मुहुर्मुहुः । अथर्वाणां ततिरियं सारमेयवपुर्धरा ॥ १०२. सालङ्कारा शङ्खवर्णा द्वारि सेवमसेवत । अष्टादशपुराणानि शास्त्राणि विविधान्यपि ॥ १०३. स्मृतयोऽप्यागमाद्याः च नानावर्णगुणोत्तराः । पक्षिमक्षिकभृङ्गाणामाकारेण गृहाङ्गणे ॥ १०४. अलङ्चक्रुः कल्पवृक्षान् मकरान्दालिदुर्दिनान् । एवं स्थितेषु सर्वेषु भगवद्ध्यानवृत्तिषु ॥ १०५. तत्रालोक्य शुकं स्निग्धं स्चनीडपरिवर्तिनम् । किञ्चित् उल्लासितस्वान्तरागामृततरङ्गिणी ॥ १०६. व्याजहार चलच्चञ्चच्छायापाटलकान्तिका(शारिका) । नाथ कीरमणे किञ्चित्प्रष्टुमिच्छामि शङ्कितम् ॥ १०७. वक्तुमर्हस्यसन्दिग्धं तदिदानीं सखे मम । विधिना विहिता लोके समस्ताजीवकोटयः ॥ १०८. स्त्रीपुंसोर्व्यक्तिमभ्येत्य त्वद्वशो विहरत्यहो । मिथुनीभूय कर्माणि कुर्वतः तानि तानि हि ॥ १०९. फलानि रूपभाग्यानि भुञ्जन्ते च पुनःपुनः । योनिभेदेषु कृष्यन्ते स्वकर्मफलगौरवात् ॥ ११०. जायन्ते च म्रियन्ते च यान्ति स्वर्गं च यातनाम् । एवं परिभ्रमजुषां जन्तूनां कर्मवर्त्मनि ॥ १११. कथं सौख्यं भवत्यद्धा केन वा जन्मना पुनः । केन वाश्रमधर्मेण पुरुषार्थचतुष्टयम् ॥ ११२. कथं कर्तारमभ्येत्य वक्तुमर्हसि मे भवात् । इति सम्पृष्टसंप्रश्नः शुकः शारिकया मुदा ॥ ११३. मौलिमान्दोलयत्किञ्चित् व्याहर्तुमुपचक्रमे । शुकः -- अयि तन्वङ्गि मे गाथामन्तर्निगमदर्शिताम् ॥ ११४. अशेषसंशयध्वान्तनिराकरणकौमुदीम् । येन लोकमिदं विश्वं कर्मारब्धं प्रशस्यते ॥ ११५. कर्मणोदयमभ्येति कर्मणैव प्रमीयते । कर्मबीजमिदं जन्तोः शरीरं नात्र संशयः ॥ ११६. तरुगुल्मादयः प्रोक्ताः निगमाः चोद्भिज्जादयः । स्वेदजाः कृमिकीटाद्याः पतङ्गाद्याः तथाण्डजाः ॥ ११७. जरायुसम्भवाः प्रोक्ताः नृगवाद्याः वरानने । तत्रैव मर्त्या ज्येष्ठाः स्युः तेषु ज्येष्ठाः द्विजादयः ॥ ११८. तथापि तेषां विप्राणां शान्तानां ब्रह्मवादिनाम् । चतुर्धा पदवी दृष्टा चतुराश्रमसंज्ञिता ॥ ११९. तेष्वेष्वेकतमेनैव साधयन्ति सुखं द्विजाः । चत्वार्येतान्याश्रमाणि घ्नन्यनिन्द्रियनिग्रहात् ॥ १२०. निगृहीतेन्द्रियग्रामं पालयन्ति सुखं यथा । ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थं च भिक्षुता ॥ १२१. क्रमात् एतानि वर्तव्यान्यात्मवद्भिः द्विजोत्तमैः । शरीरश्रमसाध्यानि विना गार्हस्थ्यमुत्तमम् ॥ १२२. आत्मत्राणाय कल्पन्ते नेतरेषां कदाचन । गार्हस्थ्यमेतत् आश्चर्यं चराचरसुखप्रदम् ॥ १२३. विना परिश्रमं तन्वि वर्तनीयं मनीषिभिः । भुक्तिं मुक्तिं च युगपत् महाविभवसंयुताम् ॥ १२४. करोति सद्यो विप्राणां चिन्तामणिरिवापरः । यद्याश्रमं द्वितीयं तु गार्हर्स्थ्यमनुवर्तते ॥ १२५. त्रयाणामापि लोकानां भवेत् पालयिता गृही । अनुकूलेन दम्पत्योः निरन्तरसुखोदयः ॥ १२६. विपरीतं कलत्रं चेत् नरकाद्यातनावहम् । स नित्यब्रह्मचारी स्यात् ऋतुकाले हि वर्तनात् ॥ १२७. इष्ट्वा क्रमात् पञ्चयज्ञैः बलिदानैः चराचरम् । वैश्वदेवाहुतीर्हुत्वा ब्रह्मभूयाय कल्पते ॥ १२८. सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । आदौ प्राणाहुतीः कृत्वा यतिभिक्षावशेषितैः ॥ १२९. यदि मृष्टन्नभोक्तापि विप्रो नित्योपवासकृत् । ब्रह्मानन्दो गृहस्थस्य कलत्रात् उपजायते ॥ १३०. तत्सौख्यमानुकूल्येन दम्पत्योर्जायते ध्रुवम् । ब्रह्मानन्दानुभूत्या यदभ्युपैति सुखं नृणाम् ॥ १३१. ब्रह्मणोऽपि हरेर्वापि महादेवात् च केवलम् । मन्ये सुखिनमेवाहं गृहस्थं नात्र संशयः ॥ १३२. इत्थं तयोः प्रवचनमधिगम्याब्धिकन्यका । परं हर्षवापैषा सुधासूक्तेव वल्लरी ॥ १३३. एवमेव मया भर्त्रा वर्तनीयं सुखाप्तये । इति सञ्चिन्त्य सञ्चित्य तुतोष कमलालया ॥ १३४. अङ्गैरुन्निद्ररोमाञ्चैः अलङ्कारवती यथा । तदन्तःकरणारण्यविहरत्धरणीं हरिः ॥ १३५. मनीषामेष विज्ञाय व्याजहार स्ववल्लभाम् । अयि कल्याणि भद्रं ते यत्राशाविषयाङ्गणे ॥ १३६. विहरिष्यति सामोदं सा मामामोदयिष्यति । पूर्णकामामहं भद्रे त्वां करिष्ये न संशयः ॥ १३७. गच्छ त्वं भारते वर्षे पुण्ये पुष्पितकानने । तीरे मलनन्दिन्याः दक्षिणे मोक्षदायिनि ॥ १३८. ममास्ति क्षेत्रमतुलं महाबकुलमण्डितम् । यत्र शेषो ममांशोऽयं चिञ्चापादपरूपधृत् । १३९. तत्प्रसादाय सततं करोति तप उत्तमम् । तत्र त्वं नियताहारा मामर्चय शुचिस्मिते ॥ १४०. कुर्वन् मनोरथान् सर्वान् आगमिष्याम्यहं किल । आवयोः सङ्गमं तत्र हिताय जगतां भवेत् ॥ १४१. इत्यादिश्य रमां देवीं तच्छुश्रूषाविधित्सया । वैनतेयं तया सार्धं प्रेषयामास माधवः ॥ १४२. सैषा भगवती लक्ष्मी समुत्थाय कृताञ्जलिः । स्वसीमन्तमणिश्रेण्या तदाज्ञामनुकुर्वती ॥ १४३. परिक्रम्य प्रणम्याग्रे संप्रतस्थे सखीजनैः । स्तूयमाना मुनिगणैः ब्रह्मरुद्रादिदेवतैः ॥ १४४. अतीत्य वियदध्वानं तारकालिविभूषितम् । संप्रापमहतीं भूमिं पुण्यां भारतसंज्ञिताम् ॥ १४५. अलञ्चकार करुणापीयूषापाङ्गवीक्षणैः । ताम्रां महानदीं दृष्ट्वा मलयं चन्दनाचलम् ॥ १४६. कुसुमैः काञ्चनमयैः महामाणिक्यमण्डितैः । मुक्ताजालसमाकीर्णैः विकिरन्ती महीतलम् ॥ १४७. नयनादित्यमकरोत् मरत्चिञ्चामहीरुहम् । अनेकबकुलाक्रान्तं चम्पकाशोकमण्डितम् ॥ १४८. मुनिवृन्दैः सेव्यमानं वेदघोषनिनादितम् । हरिनामाक्षरश्रेणीभणितास्वातनोत् सुखैः ॥ १४९. भक्तैर्निबिडितं विष्वग्जनैर्निर्मुक्तकिल्बिषैः । दृष्ट्वा प्रसन्नहृदया जननी हरिवल्लभा ॥ १५०. अवतीर्य महीभागे तिन्त्रिणीपादपात्मिके । कृत्वाश्रमपदं देवी वैनतेयेन कल्पितम् ॥ १५१. प्रविश्य पर्णशालां तु तपस्तेपे हरिप्रिया । स्नात्वा महानदीतीर्थे मन्त्राराधनतर्पणैः ॥ १५२. पूजयामास देवेशं लोकनाथं जगद्गुरुम् । ब्रह्मचारीवटुर्भूत्वा वैनतेयो हरिप्रियः ॥ १५३. परिचर्यां चकारास्यै समित्पुष्पकुशोदकैः । पूजोपकरणैरन्यैः फलमूलविशेषकैः ॥ १५४. इत्थमब्दसहस्रं तु गतमासीत् ततोत्तरम् । फाल्गुने मासि संप्राप्ते वृद्धिभाजि निशाकरे ॥ १५५. उपोष्यैकादशीं पुण्यां कमला कमलेक्षणम् । पूजयित्वा विनिद्राक्षी प्रातरुत्थाय वाक्यता ॥ १५६. अभिषिच्यामृतजलैः आत्मानमभिमन्त्रितैः । प्रसाद्य मलयोद्भूतां काल्यं कृत्वा क्रियागणम् ॥ १५७. द्वादश्यां पूजयामास द्वादशाक्षरविद्यया । पुष्पैः सुगन्धैः धूपैः च दीपैः नीराञ्जनादिभिः ॥ १५८. पूजान्ते तोषयामास स्तोत्रैः स्तुतिसमीरितैः । आद्यं नमः कारुणिकं पवित्रं नतार्तिशमनाधरबद्धदीक्षम् ॥ १५९. साक्षिं पुनःसकलजीवनपरिश्रमाणां विश्रान्तिमण्डपपदाम्बुरुहं नतानाम् । आद्योऽयमस्य जनकः स्वपिता पिता च नेता गतिं निजपदाम्बुरुहाननानाम् ॥ १६०. नाथः समस्तभुवनस्य ममापि जीवलेखामयो भवतु नः पुरतः पुराणः । वाणी पुराणपदवी निखिलश्रुतीनां सार्थं परिश्रममुपेत्य मनो विकारैः ॥ १६१. जानाति वा न हि विमृश्य निवर्तिता वा तं केवलं परमकारुणिकं नतास्मि । यं प्राहुराद्यमनपायमशेषवेधा मोहान्धकारपटलाथ परं प्रकाशम् ॥ १६२. ब्रह्मादयोऽपि तमिमं हृदयं प्रपद्ये प्राप्तं प्रकाममभिलाषमहोदयानाम् । यज्ञैर्जपैरपि मनुप्रवरस्य दानैः पूजाविशेषपुषिताभ्युदयप्रणामैः ॥ १६३. प्राणेन्द्रियोपशमनैः प्रविशन्ति सिद्धाः यन्तं पुमांसमुरुकायमुपैमि नित्यम् । यत्पादपद्ममकरन्दजुषां मुनीनां ब्रह्मेन्द्ररुद्रपदवीविभवो हि हेयः ॥ १६४. नाथो ममास्तु नलिनायतलोचनोऽयं अग्रे जगत्त्रयसुरक्षणजागरूकः । एकोऽप्ऽयनेकविधमूर्तिविकल्पनाभिः कर्ता यमाविति पिपीलिकजीविकानाम् ॥ १६५. भक्त्या पुनः प्रलयतः प्रणयैकधामा कामाय मे भवतु कारणकारणात्मा । आद्योऽयमस्य जगतः प्रभुरप्रकाशः पापात्मनामसुकृतिनां विहितप्रकाशः ॥ १६६. ईशे पदे भवतु मे भगवान् पुराणः भक्तावलम्बितपदाम्बुरुहः श्रुतीनाम् । श्रान्तास्मि नाथ निखिलश्रमशान्तिहेतो- स्वान्तात् प्रमृज्य परितापततिं मदीयाम् ॥ १६७. आयाहि पाहि पुरतो न सहे वियोग- मुर्वीव घर्मतपनांशुमसह्यमानाम् । नारायणं नरसखं नलिनायताक्षं साक्षात्करोमि हृदये सदयं दयालुम् ॥ १६८. त्वामादिनाथमखिलश्रुतिसारमेकं मा ते विलम्बनदशा परिवर्तनीया । मा हर्तुमर्हसि भवच्छरणाब्जभृङ्गी- मङ्गीकुरुष्व सहसा करुणामृताब्धे ॥ १६९. काङ्क्षे मुहुर्कमललोचनपादमूले कर्तुं शिरस्सकरुणं परिपश्य दीनाम् । इत्थं स्तुत्वा रमानाथं माता क्षीराब्धिकन्यका ॥ १७०. नेत्राभ्यामश्रुपूर्णाभ्यामासीदानन्दनिर्भरा । तावदाविरभूद्व्योम्ना महान् दुन्दुभिनिस्स्वनः ॥ १७१. कल्पपादपसम्भूता पुष्पवृष्टिरभूद्दिवि । हाहाहूहूमुखाः देवाः गायकाः नारदादिभिः ॥ १७२. उच्चैश्चेदमगायन् च वीणावेणुविनोदनैः । क्षणादाविरभूद्व्योम्नि विमानं सूर्यसन्निभम् ॥ १७३. तस्मिन् मध्ये समासीनं देवदेवं जगद्गुरुम् । नीलमेघघनश्यामं पीतकौशेयवाससम् ॥ १७४. जाम्बूनदमयैः छत्रैः भूषितं भूषणोत्तमैः । सेव्यमानं सिद्धगणैः देवैर्मुनिगणैरपि ॥ १७५. शङ्खचक्रगदापद्मैः परिष्कृतचतुर्भुजम् । श्रीवत्सकौस्तुभधरं वनमालाविराजितम् ॥ १७६. अतितेजोमयं दृष्ट्वा पुरुषं पुष्करेक्षणम् । हर्षानुरागसौहार्दभक्तिविस्मयविभ्रमैः ॥ १७७. देवी परवशस्वान्तलज्जोन्मीलितलोचना । पाहि पाहि दयासिन्धो नाथ नारायणप्रभो ॥ १७८. हर्षगद्गदया वाचा मन्दमान्दोलितेक्षणा । भयाविष्टेव हृष्टेव तूष्णीमासीत् जगत्प्रसूः ॥ १७९. दृष्ट्वातिप्रणतां देवीं कृशाङ्गीमात्मवल्लभाम् । पाणिभ्यां सहसारोप्य विमानं गरुडध्वजः ॥ १८०. वरेण छन्दयामास पारावारवरात्मजाम् । श्री भगवान् -- प्रीतोऽस्मि तपसा भद्रे स्तोत्रमुख्यैः तदर्हणैः ॥ १८१. दास्यामि कामानखिलान् आत्मानमपि केवलम् । श्रीदेवी -- यदि प्रीतोऽसि भगवन् वरार्हा यद्यहं मता ॥ १८२. कदापि त्वत्पदाम्भोजात् वियोगो मास्तु मे विभो । कर्तुमिच्छाम्यहं दास्यं नित्यं त्वत्पादपद्मयोः ॥ १८३. अस्माद्वरादभिमता नाधिको मे वरोत्तमः । इद्धानताङ्गीं जगतां मातरं कमलेक्षणाम् ॥ १८४. भूयःप्रहर्षयन् वाचा व्याजहाराम्बुजेक्षणः । अत्रैवाहं त्वया सार्धमाकल्पमखिलप्रभो ॥ १८५. वसामि वरदो भूत्वा तव प्रीतिविधित्सया । ये चात्र तीर्थे ताम्रायाः निमज्ज्य कमलाभिधे ॥ १८६. त्वां च मां च समभ्यर्च्य जप्त्वा स्तोत्रमिदं शुभम् । परिक्रमन्ति मत्क्षेत्रं तेषां कामान् ददाम्यहम् ॥ १८७. श्रद्दयाश्रद्धया वापि कार्यार्थे वापि कौतुकात् । सकृद्वालोक्य निर्मुक्ताः पापेभ्यो नात्र संशयः ॥ १८८. ये त्यजन्त्यत्र मत्क्षेत्रे कर्मान्ते तु कलेवरम् । तेषां मुक्तिं प्रदास्यामि दुर्लभां मत्कृतात्मभिः ॥ १८९. इत्यालिङ्ग्य महालक्ष्मीं अभिन्नात्मात्मवल्लभाम् । वैनतेयाय सन्तुष्टः प्रादात् सारूप्यमात्मनः ॥ १९०. तत्रैव वासं विदधे लोकानां हितकाम्यया । श्रीभूमिसहितः तत्र क्षेमाय जगतां विभुः ॥ १९१. गार्हस्थ्यधर्मान् अकरोत् ब्रह्माद्यैरपिपूजितः । तस्मात् लक्ष्मीपुरमिति ख्यातं प्रथितं भुवनत्रये ॥ १९२. राजन् तत्क्षेत्रमाहात्म्यं श‍ृण्वतां भुक्तिमुक्तिदम् । न दरिद्रो भवेन्मर्त्यो रमासामीप्यगौरवात् ॥ १९३. अलक्ष्मी कलहाधारा कदाप्यत्र न गच्छति । न रोगा पिशाचाद्याः न पातकविकल्पना ॥ १९४. आयुष्मन्तो भाग्यवन्तो भुक्त्वा भोगान् यथेप्सितान् । अन्ते कैवल्यमासाद्य ते यान्ति परमं पदम् ॥ इति एकषष्टितमः अध्यायः । Pro.Total = 5803 + 194 = 5997.

द्विषष्टितमः अध्यायः

श्रीपुरम् - चिञ्चातरुमूलम् - क्षेत्रतीर्थयोः तत्तरोश्च माहात्म्यम् । १. वीरसेनः -- कथं ब्रह्मन् महाक्षेत्रे शेषः साक्षाथरिः स्वयम् । तिन्त्रिणीतरुतां प्राप्य वर्तते यत्तदद्भुतम् ॥ २. यन्नामवर्णनिबिडरसना यस्य सन्ततिम् । तद्दर्शनान्तमार्तानां महापातककोटयः ॥ ३. तमः किं तुदते भानुं किं गङ्गां विपिनानलः । अनन्तमक्षयं देवमंहः कथमुपागतम् ॥ ४. एतन्मे संशयं ब्रह्मन् विलोभयितुमर्हसि । श्री शङ्खः -- हन्त ते कथयिष्यामि कथां पापप्रणाशिनीम् ॥ ५. पुरा विरिञ्चिप्रमुखैः अमरैः असुरार्तितैः । दशग्रीववधार्थाय प्रार्थितोऽभूत् जनार्दनः ॥ ६. भूत्वा दाशरथी रामो देवकार्यमसाधयत् । भूत्वा तदनुजः शेषः सौमित्रिरिति विश्रुतः ॥ ७. राममाराधयामास भक्त्या प्रयत मानसः । कृतकृत्यो रामभद्रः सीतया सह धर्मवित् ॥ ८. भ्रातृभिः सहितः दारैः अनुरक्तैः महात्मभिः । दशवर्षसहस्राणि कृत्वा राज्यमखण्डकम् ॥ ९. धर्मं संस्थापयामास चतुर्भिः चरणैः विभुः । एवं चिरगते काले समादिष्टः स्वयम्भुवा ॥ १०. यम ; तु यतिरूपेण तत्रायोध्यां समाययौ । आगतं तं समभ्यर्च्य रामो विज्ञाय विश्वकृत् ॥ ११. एकान्ते शमनं नीत्वा यतिना एन विस्मयात् । मन्त्रयामास कार्याणि यानि लोकहिताय वै ॥ १२. तदा लक्ष्मणमाहूय द्वाररक्षार्थमन्विशत् । यावत् संप्रेषयाम्येनं यतिनं कार्यवादिनम् ॥ १३. तस्मात् मामननुज्ञाय कोऽपि मा गच्छतु ध्रुवम् । यद्यागमिष्यत्यन्योऽत्र पुरुषः कार्यविघ्नकृत् ॥ १४. त्वच्छिरःछेदनं मन्ये मदाज्ञालङ्घनादहम् । प्रायश्चित्तं न सन्देहो युज्यतां द्वारलक्षणम् ॥ १५. इति लक्ष्मणमादिश्य यतिना तेन राघवः । सह सम्मन्त्रयामास विजने स्वचिकीर्षितम् ॥ १६. तदन्तराययौ योगी दुर्वासा ह्यतिमन्युमान् । तं दृष्ट्वा लक्ष्मणः किञ्चित् समुद्विग्नमना इव ॥ १७. प्रणम्यपादयोः तस्मै बृसीमास्वेत्यकल्पयत् । इत्थमञ्जलिसंसक्तमौलिना प्रार्थितोऽमुना ॥ १८. चण्डकोपकलाक्रान्तदन्तच्छदविलम्बिना । व्याजहार मुखेनासौ वाचं हालाहलाक्षरम् ॥ १९. दुर्वासाः -- द्रष्टुमिच्छामि सौमित्रे मुहूर्तेस्मिन् रघूत्तमम् । यदि विघ्नो भवेदत्र सकुलं त्वां शपाम्यहम् ॥ २०. इति वादिनि वै तस्मिन्निर्दये बडवाग्निवत् । मास्तु मदंशभूतानां ब्रह्मशापोऽतिदारुणः ॥ २१. अहमेको भविष्यामि सापराधो महीपतेः । इति निश्चित्य सौमित्रिः चिन्तयान्तरदह्यत ॥ २२. अन्तर्गन्तव्यमधुना भवता करुणात्मना । इत्युक्त्वा सं प्रणम्यासौ मार्गमस्मै समादिशत् ॥ २३. रामोऽपि सह सम्मन्त्र्य प्रेषयित्वा यतिं पुनः । तं मुनिं पूजयामास पाद्यार्घ्यासनवन्दनैः ॥ २४. तदात्रेयोऽपि तं नत्वा लब्धकामः प्रसादयन् । संप्रतस्थे प्रहृष्टात्मा वनं मुनि निषेवितम् ॥ २५. रामो लक्ष्मणमाहूय कुपितो वाक्यमरवीत् । श्री रामः -- वधार्हः त्वं हि सौमित्रे ममाज्ञामार्गलङ्घनात् ॥ २६. पूर्वोपकारकर्माणि कृतानि भवता मयि । रुन्धन्ति मां यदद्यैव तस्मात् त्यागो वधाधिकः ॥ २७. त्वां द्रष्टुं नैव शक्नोमि गच्छ शीघ्रं यथेप्सितम् । इत्युक्तवति वै तस्मिन् रामे रमयतां वरे ॥ २८. लक्ष्मणः शोकसन्तप्तः परिक्रम्य प्रणम्य तम् । निरयात् राजभवनात् एकाकी विनताननः ॥ २९. नियम्य वाचमात्मानं अन्तरार्थिः च केवलम् । उत्तरेण विनिष्क्रम्य द्वारेण महता पुनः ॥ ३०. संप्राप च महारण्यं नानामृगनिषेतम् । उदीच्यां दिश्ययोध्याः तार(तीर)कूट इति श्रुतः ॥ ३१. पर्वतः तस्य पर्यन्ते वनं सान्तपनाभिधम् । नानातरुलताकीर्णं नानामुनिनिषेवितम् ॥ ३२. तस्मिन् महातरुच्छाया शीतले भूतले शुभे । आस्तीर्य दर्भान् प्रागग्रान् असीनोऽयमुदङ्मुखः ॥ ३३. निवर्त्य विषयेभ्यः स्वमिन्द्रियाणां कुलं बलात् । अन्तरानीय चात्मानं निर्मले स्वान्तपङ्कजे ॥ ३४. प्राणादिवातस्तबकं सुषुम्नायां समुन्नयन् । योगाधारणसामर्थ्यनिश्चलाङ्गोऽस्तसम्भ्रमः ॥ ३५. दध्यावध्यात्मभावेन रामपादाब्जमादरात् । इत्थमेयुषि वै तस्मिन् प्रायः प्रमुदिताशये ॥ ३६. आविरासीत् पुरः तस्य दुर्वासाः तावत् आत्मवान् । प्राह लक्ष्मणमाहूय वाणीं तापापहारिणीम् ॥ ३७. दुर्वासाः -- प्रसादये त्वां सौमित्रे श्रुणु मे वचनं हितम् । त्वमेव सर्वलोकानामाधारो हेतुरीश्वरः ॥ ३८. त्वमेव साक्षात् विश्वात्मा शेषो नारायणः स्वयम् । अवतीर्णस्य पूजार्थं राघवानां कुले विभो ॥ ३९. अनुज्ञातोऽसि सौमित्रे वधायासुररक्षसाम् । अनुकुर्वन् प्रियं नित्यं मनोवाक्कायकर्मभिः ॥ ४०. अमुक्तपार्श्वसंसेवी तुल्यहर्षप्रिये रतः । कृतवानसि पाप्मानं प्रियबुध्या प्रसादतः ॥ ४१. अभिषेकविघाते तु केकेय्या विहिते सति । उक्तवान् निग्रहं राज्ञो यत्तत् पापं सुदारुणम् ॥ ४२. तदहो रघुवीरस्य चित्तक्षोभमकल्पयत् । धर्मात्मानो दयामूर्तेः अप्रियं कृतवान् अतः ॥ ४३. अन्यत् च श्रूयतां साधो भवता यदनुष्ठितम् । मायासीते विनाशे तु भवता धर्मदूषणम् ॥ ४४. तद्दारुणमघं मन्ये भवता समुपार्जितम् । अनयो पापयोस्तात प्रायश्चित्तं महामते ॥ ४५. वर्तनीयं त्वया तत्र स्थावरत्वं न संशयः । लोकसङ्ग्रहमन्विच्छन् अन्यथा कर्तुमीशितुः ॥ ४६. ये धर्मखण्डनं कुर्युः ये गुरून् भर्त्सयन्ति हि । निर्दिष्टा धर्मशास्त्रेषु तेषां तु तरुता ध्रुवम् ॥ (अन्तःसंज्ञाः भवन्त्येते सुखदुखसमन्विताः स्थावराः -- मनुस्मृतिः) ४७. इत्थं मुनीन्द्रेण वचो धर्म्यं स लक्ष्मणः । श्रवणाभ्यां समारोप्य तुतोष हृदये स्मरन् ॥ ४८. आत्मनः पापशान्त्यर्थं तरुतामनुभावयन् । किञ्चित् उन्मील्य नयने समद्राक्षीत् कृताञ्जलौ ॥ ४९. अङ्गुलीयकसंसक्तमहामाणिक्यदर्पणे । प्रतिबिम्बं निजं तत्र कलामावेशयत् स्वकम् ॥ ५०. तत्र दैवात् इवागत्य दम्पती तापसोत्तमौ । प्रणम्य लक्ष्मणं मूर्ध्ना वचनं चेदमूचतुः ॥ ५१. नमस्तुभ्यं भगवते विश्वाधाराय विष्णवे । आदिभूताय भूतानां शेषायानन्तमूर्तये ॥ ५२. विज्ञाप्य श्रूतयां देव सुतीर्थे तप आस्थिते । विप्रवंशसमुद्भूतौ सन्तानार्थमुमापतिः ॥ ५३. प्रादुर्भूतः प्रसाद्यैवं प्रेषयामास तेऽन्तिकम् । प्रायोपवेशं कृत्वान्य देवं रामानुजं विभुम् ॥ ५४. प्रणम्य गृह्णतां तस्मात् तत्कराङ्गुलिभूषणम् । तस्मिन् ब्रह्मणि संलीने तच्छरीरमकल्मषम् ॥ ५५. गङ्गाम्भसि विक्षिप्य गन्तव्यं स्वगृहं प्रति । यदा तस्मिन् महारत्ने सञ्जाते तैजसाङ्कुरे ॥ ५६. युवयोः उदितः पुत्रो लोकत्रयमहोदयः । इत्युक्त्वान्तर्हिते तस्मिन् आवां सञ्जातकौतुकौ ॥ ५७. त्वामेव शरणं प्राप्तौ जानीहि पुरुषोत्तम । एतदाकर्ण्य वचनं लक्ष्मणो राघवानुजः ॥ ५८. प्रसन्नात्मा ददौ ताभ्यामूर्मिकां रत्नभूषिताम् । तस्मिन् वै मिथुने हृष्टे दुर्वाससि मुनौ स्थिते ॥ ५९. योगमार्गेण भगवान् परित्यज्य स्वकां तनुम् । व्योमयानः संप्रतस्थे सूर्यवैश्वानरप्रभः ॥ ६०. पपात कुसुमाकारा वृष्टिः अम्बरमण्डलात् । तुष्टुवुः च तदा देवाः प्रहृष्टाः नारदादयः ॥ ६१. ब्रह्मलोकाय भगवान् आत्रेयोऽपि प्रतस्थिवान् । तौ दम्पती च संहृष्टौ समादाय महद्वपुः ॥ ६२. प्रक्षिप्य जाह्नवी तोये तस्मिन् तु द्रवते पुनः । स्नात्वा सन्तर्प्य गङ्गायां विधिनैव पितॄन् सुरान् ॥ ६३. कृतकृत्यौ दक्षिणाशां प्राप्य स्वभवनं मुदा । ताम्राया दक्षिणे तीरे महाबकुलकानने ॥ ६४. निजधर्मरतोऽध्यास्ते स विप्रो भार्यया समम् । निजाङ्गके प्रतिष्ठाप्य तामिमामणिमुद्रिकाम् ॥ ६५. तत्रैवाराधयामास सन्तानार्थं द्विजो विभुम् । तावदारभ्य तत्पत्नी सान्तर्वर्त्नी व्यजायत ॥ ६६. मणिरत्नमिवोद्भूतमाश्चर्यं किञ्चिदङ्कुरम् । दृष्ट्वा हर्षमवाप्योच्चैः भार्यया सह भूसुरः ॥ ६७. असूत तावत्तनयं सैषा विप्रेन्द्र्गेहिनी । महद्दुन्दुभिनादेन पूर्यमाणनभस्थलात् ॥ ६८. विकीर्यमाणजालानि ब्रह्माद्याः तुष्टुवुः सुराः । महानामानि पुण्यानि प्रोच्चरन्तो मुदान्विताः ॥ ६९. अनन्तो भूधरोऽस्वप्नो मणिबीजो मणिद्रुमः । अमृतात्मवान् योगी भूमण्डलशिखामणिः ॥ ७०. वरदो मुद्रिकाङ्कुरो वनस्पतिकुलेश्वरः । द्वादशैतानि नामानि प्रजल्पन्तो पुनःपुनः ॥ ७१. देवदेवमनन्ताख्यं पूजयामासुरादरात् । तमेवमर्भकं दृष्ट्वा तेजोराशिमकल्मषम् ॥ ७२. तस्य चिञ्चातरोर्मुले भासयन्तं दिशो दश । आनर्चुः अक्षतैः पुष्पैः ब्रह्माद्याः प्रेमनिस्स्वनाः ॥ ७३. दिगीशाः सेश्वराः सर्वे सेनाभिः विष्वगर्भकम् । आशीर्भिः वर्धयामासुः हविर्भिरिव पावकम् ॥ ७४. ततो वागाह व्योम्न्येषा धारेवाम्बरमण्डलात् । असावंशेन सञ्जातः वासुदेवस्य वीर्यवान् ॥ ७५. विष्वक्सेन इति ख्यातः विष्वक्सेनावृतो यतः । लोकवन्द्यो लोकपूज्यो जेता दैतेयरक्षसाम् ॥ ७६. सत्वरं हि समुद्भूतां वाणीमाकर्ण्य ते सुराः । विष्वक्सेनममुं प्रोचुः विस्मयोत्फुल्ललोचनाः ॥ ७७. सोऽपि वृक्षो महानासीत् महास्कन्धप्रवालवान् । वैनतेयरथो विष्णुः तावदागत्य गौरवात्(कौतुकात्) ॥ ७८. तमेनमङ्कमारोप्प्य दत्वा तस्मै वरान् बहून् । सारूप्यं च समस्तानां पार्षदानां महात्मनाम् ॥ ७९. आधिपत्यमदात् तस्मै वृक्षराजस्य सन्निधौ । अग्निधृत् तनयो यस्मात् आग्नीध्रमिति तं विदुः ॥ ८०. तमन्वशात् गिरा राजन् अर्भकं गरुडध्वजः । तत्र वर्षसहस्रं तु विष्वक्सेनो महामते ॥ ८१. आराध्य पितरावेतौ दत्वान्ते मोक्षमुद्रिकाम् । मामुपेहि ततो वत्स स्वस्त्यस्तु जगतामिति ॥ ८२. तमुक्त्वा वृक्षमाशिष्य तत्रैवान्तरधीयत । इत्थं भगवता भूपते कॢप्तां लीलामालोक्य विस्मिताः ॥ ८३. देवाः च सह सिद्धौघैः जग्मुर्वै त्रिदशालयम् । सोग्निधृत् सह पत्नीको बन्धुभिश्च समन्वितः ॥ ८४. पुत्रमेनं समाश्लिष्य संप्राप परमां मुदम् । पुण्यैर्द्वादशभिः नाम्नाभिः स्तुवन्तः तत्र योगिनः ॥ ८५. तमानर्च्य महावृक्षं विष्वक्सेनं च भूपते । तत्रैव वासं विदधुः स्वर्गस्था इव देवताः ॥ ८६. ये तत्र मानवाः प्राप्य तीर्थेषु कृतमज्जनाः । पूजयित्वा महावृक्षं जीवन्मुक्ता न संशयः ॥ ८७. एवं शेषाख्यवृक्षस्य माहात्म्यं पापनाशनम् । विज्ञाय देवताः सर्वाः वितेनुः कृत्तिमुत्तमाम् ॥ ८८. विनिद्रस्यादिवृक्षस्य रमदेव्याः महात्मनः । वैनतेयस्य विष्णोः च समवायो यतः प्रभोः ॥ ८९. तस्मात् तत्सदृशं नास्ति ब्रह्माण्डगह्वरे । चिञ्चाशाखी रमाभिख्या श्रीपुरी बकुलाटवी ॥ ९०. प्रणवस्थाननगरी प्राक्तना पापहारिणी । इत्यमर्त्या प्रजल्पन्तो मुक्तिभाजो न संशयः ॥ ९१. अतः परं प्रवक्ष्यामि श्रुणु भूप महामते । ततोऽपि किञ्चित् आग्नेय्यां हरिः त्रैलोक्यपुजितः ॥ ९२. शेषपर्यङ्कशयने योगनिद्रामुपासते । तमेनमीशितारं तं कुर्वाणं विधिसङ्ग्रहम् ॥ ९३. वितरन्तं धनं भूरि भक्तेभ्यो भक्तवत्सलः । दयातरङ्गितापाङ्गकुबेरो निधिलब्धये ॥ ९४. विधिना चिरमाराध्य शङ्खपद्मादिकान् निधीन् । ताम्राया वसुधाराख्ये तीर्थे स्नात्वा यथाविधि ॥ ९५. तत्पुण्यगौरवात् राजन् प्रसादात् शार्ङ्गधन्वनः । प्रार्थितान् च वरान् प्राप्य निधीनामीश्वरोऽभवत् ॥ ९६. तदादि वसुधाराख्यं तीर्थं त्रैलोक्यपूजितम् । तत्तीर्थे वसुधाराख्ये स्नात्वा निक्षेपनायकम् ॥ ९७. ये भजन्ति नराः तेषां करस्थाः सर्वसम्पदः । तस्मात् प्राच्यां महीपाल क्षेत्रं क्रोशद्वयात्ततः ॥ ९८. विष्णोः प्रियकरं दिव्यं वरुणाश्रमसंज्ञितम् । तत्र माकरिके तीर्थे स्नात्वा वै वरुणो विभुः ॥ ९९. भजते स्म वासुदेवं तं वैनतेयरथं पुरः । दृष्ट्वा परमसन्तुष्टः तुष्टाव पुरुषोत्तमम् ॥ १००. वरुणः अत् ठेन्तिरुप्पेरै -- जयदेव जगन्नाथ रमानाथ दयानिधे । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०१. शङ्खचक्रधराशेषदोषशोषणभास्कर । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०२. समस्तदैत्याहङ्कारनिर्वापणविचक्षण । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०३. लक्ष्मीरमण राजीवनवाम्भोरुहलोचन । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०४. समस्तबन्धो विस्तारकृपापीयूषवारिधे । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०५. लसन्माणिक्यखचितकिरीटाङ्गदभूषण । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०६. देवासुरमुनीन्द्राद्यैः वन्द्यमानपदद्वय । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०७. रमानाथ जगन्नाथ मन्नाथ जगताम्पते । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥ १०८. इत्थं संस्तुवता तेन वरुणेन महात्मना । वासुदेवः प्रसन्नात्मा ददौ तस्मै वरान् बहून् ॥ १०९. जेतुकामाय दैत्यादीन् ददौ पाशमनुत्तमम् । स्वकुण्डलमणिस्तोमकिरणारुणिताम्बुनि ॥ ११०. तीर्थे मलयनन्दिन्याः प्रभामादाय पाणिना । मकरं दत्तवान् विष्णुः वाहनं विजयावहम् ॥ १११. तावदम्बरमार्गस्थाः सिद्धाश्च सनकादयः । उच्चैर्जजल्पुः सन्तुष्टाः पाशपाणिममुं मुदा ॥ ११२. मकरायोधनरथं दैत्यारिमिति सम्भ्रमात् । इत्थं दैवात् वरं प्राप्य वरुणो यादसां पतिः ॥ ११३. निर्जित्य दानवान् सर्वान् राजसूयं चकार ह । तस्मात् माकरिकं नाम तीर्थं त्रैलोक्यपावनम् ॥ ११४. तत्र स्नात्वा महातीर्थे देवं दृष्ट्वा जनार्दनम् । पूजयन्ति जनाः तेषां मोक्षलक्ष्मी करस्थिता ॥ ११५. इत्थं तस्मै वरान् दत्वा सन्तुष्टो मधुसूदनः । पूज्यमानः सिद्धगणैः तत्रैवान्तरधीयत ॥ ११६. तदादि वारुणं क्षेत्रं प्रशस्तं भुवनत्रये । तत्र नित्यं हरिस्साक्षात् रमते रमया सह ॥ ११७. तस्मात् हरिपदं नाम क्षेत्रमाहुः मनीषिणः । अत्र श्रीभूमिसहितं देवं पश्यन्ति मानवाः ॥ ११८. स्नात्वा तु माकरे तीर्थे तर्पयित्वा पितॄन् सुरान् । तत्र श्रीभूमिसहितं देवं पश्यन्ति मानवाः ॥ ११९. न पिबन्ति पुनः स्तन्यं मातुः ते नात्र संशयः । इत्थं हरेः प्रियतमानि नवानि पुण्या- न्यालोकनात् अखिलकल्मषनाशनानि ॥ १२०. स्थानानि यन्नयनवर्त्मगतानि तेषां जागर्ति मुक्तिकमला करपङ्कजेषु । यत्कीर्तनात् श्रवणतो मननं नराणां व्यक्तं भवेत् फलमनेकमखावभृथ्यम् । तस्मादिमामहरहः श्रुणुयात् पठेत् वा नासौ प्रयाति विपदं हरिवाक्प्रमाणम् ॥ इति द्विषष्टितमः अध्यायः । Pro.Total = 5997 + 120 = 6117.

त्रिषष्टितमः अध्यायः

सोमारण्यमहिमानुवर्णनम् । १. वीरसेनः -- नमस्तुभ्यं भगवते हरये परमात्मने । पुरुषाय पुराणाय मोहापनयभास्वते ॥ २. अमन्थधरापेक्षमवासुकिभूषणम् । कथामृतमिदं मन्ये त्वन्मुखाम्भोजनिस्सृतम् ॥ ३. श्रवणाभ्यां पिबन् मर्त्यः कथामृतरसायनम् । न तृप्तिमुपगच्छामि हविषा वीतिहोत्रवत् ॥ ४. भूयोऽहं श्रोतुमिच्छामि कथां पापप्रणाशिनीम् । सोमारण्ये महारण्ये शङ्खराजपुरीरिता ॥ ५. कादम्बरीं समुद्वाह्य शङ्खराजः प्रतापवान् । राज्यं चकार धर्मेण यथा स्वायम्भुवो मनुः ॥ ६. यत्र शम्भुरुमानाथो रमानाथोऽपि माधवः । नित्यं दधाते सान्निध्यं इति पूर्वं श्रुतं मया ॥ ७. तत्र क्षेत्रस्य माहात्म्यं भूयोऽपि मुनिपुङ्गव । वद विस्तार्य भगवन् योगीन्द्र करुणानिधे ॥ ८. इति पृष्टः तदा योगी सादरं भूबलारिणा । किञ्चित् समाधिना चित्ते विचार्य सकलं मुनिः ॥ ९. स्मयमानः तमाहूय राजानं वचनामृतैः । वर्धयन् आशिषा प्राह पर्जन्य इव वृष्टिभि ;॥ १०. शङ्खः -- हन्त ते कथयिष्यामि कथां पापप्रणाशिनीम् । कथैकदेशश्रवणात् स्मरणात् अपि जल्पनात् ॥ ११. निर्मुक्तपातकाः यान्ति परमानन्दमक्षयम् । पातकानां च सर्वेषां कृतानां जन्तुभिर्भुवि ॥ १२. प्रायश्चित्ताय जयते कथेयं ब्रह्मचोदिता । पुरा कश्चित् महीपालो मानसाङ्ग इति श्रुतः ॥ १३. पाञ्चालानामधिपतिः शूरः शूरजनेडितः । सर्ववित् सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥ १४. प्रतापेन समोऽर्केण प्रतापेन इन्दुना समः । तेजसा वह्निसङ्काशो बुध्या गुरुरिवापरः ॥ १५. कन्दर्पसदृशो रूपे बलेन हरिणा समः । एवमाश्चर्यसौभाग्यसागरो भूपुरन्दरः ॥ १६. परीत्य सकलामुर्वी जित्वा शत्रून् स्वविक्रमैः । आशापालान् वशे कृत्वा रथेनाकाशगामिना ॥ १७. अवतीर्य शनैरुर्वीं पार्श्वे हिमवतो गिरेः । कस्यचित् सालवृक्षस्य मूले स्थाप्य रथं निजम् ॥ १८. अश्वान् विमुच्य मेधावी पाययित्वोदकं ततः । सह सूतेन वृक्षस्य निषसाद समीपतः ॥ १९. तावत्कलाकलारावैः बृहत्सेनो महीपतिः । तस्य राज्ञः तु निगमं प्राप भृत्यजनैः सह ॥ २०. तावत्तमागतं स्निग्धं मित्रं प्रियसखं नृपम् । बृहत्सेनं समायान्तं चिराद्दृष्टं सुहृत्तमम् ॥ २१. प्रेम्णा चैनं समालिङ्ग्य स्वासने सन्निवेश्य च । अन्तःपुरे पुरे चैव कोशे राष्ट्रे च बन्धुषु ॥ २२. पप्रच्छ कुशलं प्रेम्णा मानसाङ्गो महीपतिः । पृच्छ्यमानः तदा तेन शोकोपहतचेतनः ॥ २३. तूष्णीं बभूव पुरतः तदा किञ्चित् अवाङ्मुखः । इति शोकपरिप्लुष्टे तस्मिन् अस्य पुरोहितः ॥ २४. पाञ्चालेन्द्रमुवाचेदं समदुःखः तदिङ्गितैः । पुरोहितः -- महाराज तव श्रीमान् विदुषां सम्मतः सुहुत् ॥ २५. विहाय राज्यं नगरं दारानभिमतानपि । त्वामेव शरणं प्राप शत्रुणा निर्जितः किल ॥ २६. शङ्खगो नाम बलवान् इदानीं म्लेच्छभूपति ; । पराजित्य बलैरेनं जग्राह नगरादिकम् ॥ २७. पलायितोऽयं सङ्ग्रामात् गिरिगह्वरमाश्रितः । चिन्ताविषाग्निसन्तप्तः कालं पालयति ध्रुवम् ॥ २८. इति श्रुत्वास्य वृत्तान्तमाख्यानं विस्तरेण सः । बृहत्सेनं विषणाङ्गं पाञ्चालोऽभ्यभाषत ॥ २९. सखे संहर सन्तापं मोहात् उद्धरमानसम् । नाशयिष्यामि ते शत्रुं समित्रज्ञातिबान्धवम् ॥ ३०. इत्युक्त्वा घोरसङ्काशं महाकालनलप्रभम् । याम्यमस्त्रं समाधाय म्लेच्छमुद्दिश्य भूपतिः ॥ ३१. चिक्षेप तरसा कोपात् वज्रं वज्रधरो यथा । सोऽस्त्रराजो महातेजाः मुक्तस्तेन महीभुजा ॥ ३२. प्रद्योतमानो गगनं तापयन् सर्वतो दिशः । ददाह सकलं सैन्यं समन्तात् म्लेच्छभूपतेः ॥ ३३. उलूकाख्यं च दुर्धर्षं हत्वा म्लेच्छमहीपतिम् । तत्पत्नीमण्डलं सर्वं सखीजनसमावृतम् ॥ ३४. निःशेषं भस्मसात् कृत्वा कृतकृत्योऽस्त्र शेखरः । आससाद पुनः शीघ्रं पाञ्चालेन्द्रकराम्बुजम् ॥ ३५. इत्थं हते तस्मिन् सबले म्लेच्छराजनि दुर्मतौ । स राजो मानसाङ्गः तु बृहत्सेनं सुहृत्तमम् ॥ ३६. तत्पुरे स्थापयामास मन्त्रिसामन्तबान्धवैः । स्वां पुरीं प्रययौ धन्वी रथेनाकाशगामिना ॥ ३७. पूज्यमानः पौरजनैः प्रविवेश निजां पुरीम् । नानापताकसन्नद्धमणिप्रासादसङ्कुलाम् ॥ ३८. आससाद महातेजा निजमन्तःपुरं महत् । तस्मिन् प्रविष्टे स्वगृहं गते द्वित्रिदिने मुदा ॥ ३९. संप्राप च शनैरेनं भूमिरोगः सुदारुणः । प्रत्यहं वर्धमानःतु मौलिकम्पवहः तदा ॥ ४०. मुहुर्विवशतां प्राप बहुमोहं मुहुर्व्यथाम् । एवमामयभूयिष्ठे मोहमेयुषि भूपतौ ॥ ४१. कृपयाभ्याययौ योगीश्वरः कात्यायनो मुनिः । निश्चितार्थः पुनः प्राह सर्वेषामेव श‍ृण्वताम् ॥ ४२. कात्यायनः -मा भैष्ट यूयमद्यैव सत्याः श‍ृण्वन्तु मे वचः । एनमुद्धारयिष्यामि राजानं वृजिनार्णवात् ॥ ४३. पश्यन्तु मन्त्रिणः सर्वे तपोबलमिदं मम । इत्युक्त्वा वचनं तत्र जगत् विस्मापयन् मुनिः ॥ ४४. संस्पृश्य भस्मनात्वेनमामौलिचरणं विभोः । यज्ञशेषेण मन्त्रेण वायव्याङ्कुशमुद्रया ॥ ४५. अक्षीभ्यान्त इत्युपाक्रम्य महापातकजालिकाम् । व्याधिं संवेशयामास घटात् इव घटे जलम् ॥ ४६. स्वस्थदेहः तदा राजा समुत्तस्थौ सुविस्मितः । सर्वे मुमुदिरे स्निग्धाः तत्रत्याः सह मन्त्रिभिः ॥ ४७. मानसाङ्गोऽपि तं प्राप्तं कात्यायनं मुनिम् । समुत्थाय नमस्कृत्वा दत्वा पाद्यं समर्हणम् ॥ ४८. कृताञ्जलिपुटो राजा कात्यायनमभाषत । मानसाङ्गः -- भगवन् करुणामूर्ते प्रसीद मयि साम्प्रतम् ॥ ४९. भवादृशाः त्रिजगतीं पूर्णकामाः चरन्ति हि । भूतानुकम्पापीयूषपोषितस्वान्तवृत्तयः ॥ ५०. मादृशानां तु रक्षार्थं नत्वन्या गतिरस्ति हि । तस्मात् त्वां शरणं प्राप्तं दीनं मामगतिं पुनः ॥ ५१. त्रातुमर्हसि कारुण्यात् मातेव तनयं शिशुम् । कुतो मे दुर्दशा चैषा पिशाचातिभयङ्करी ॥ ५२. संप्राप्तो केन पापेन ब्रह्मन् आख्यातुमर्हसि । येनाहं भवता मुक्तः समस्तात् दुरितात् गुरो ॥ ५३. इति पृच्छति राजेन्द्रे निर्व्याजं मुनिपुङ्गवः । आशीर्भिः वर्धयन् वाचा व्याजहार कृताञ्जलिम् ॥ ५४. कात्यायनः-श्रुणु राजन् प्रवक्ष्यामि यत्ते शोकस्य कारणम् । पुरा पिङ्गलको नाम गन्धर्वः कामरूपधृत् ॥ ५५. स्त्रिया सह स गन्धर्वो विमानेनार्कवर्चसा । पर्यटन् सर्वतः कामी पश्यन् भूमण्डलं मुहुः ॥ ५७. वर्षमाश्चर्यनिलयं किम्पुरुषाख्यमुपागमत् । तत्र कश्चित् गिरिवरः शुचिष्मान् इति विश्रुतः ॥ ५८. तस्य पार्श्वे महापुण्या दधिसाराभिधा नदी । तत्तीरे भवनं कृत्वा तपसा मुनिपुङ्गवः ॥ ५८. उद्दालकसुतः कश्चित् नाम्ना कुसुमबिन्दुकः । तपस्तेपे हरिं भक्त्या सर्वदेवनम्स्कृतम् ॥ ५९. सपत्नीको वसन् साक्षात् नारायण इवापरः । तैः संवर्धिता तत्र पुष्पवाटी सुगन्धिनी ॥ ६०. आमोदं पुष्करे दूरात् आघ्रायाघ्राय हर्षितः । नानाविधानि पुष्पाणि तस्मात् आहृत्य सम्भ्रमात् ॥ ६१. तस्याः कचभरे बध्वा प्रियामामोदयन् पुनः । चचार विपिनं पुण्यं पश्यन् अभ्युदयं ततः ॥ ६२. एतस्मिन्नन्तरे योगी काल्यं कुसुमबिन्दुकः । कृत्वा पुष्पोपहारार्थं पुष्पाहरणकौतुकी ॥ ६३. प्रविवेश निजारामं न दृष्ट्वा कुसुमान्वयम् । गन्धर्वेणाहृतं ज्ञात्वा शशाप कुपितो मुनिः ॥ ६४. विष्णोरभ्यर्हणार्थाय कल्पितानीह मोहतः । कुसुमान्यपनीतानि येन केनचित् अत्र तु ॥ ६५. स पापी भार्यया सार्धं म्लेच्छो भवितुमर्हति । इति तेनेरितां वाणीं हालाहलबलोपमाम् ॥ ६६. श्रुत्वा भीतः स गन्धर्वः प्रणनाम मुनेः पुरा । याचमानं भयाविष्टं पतन्तं पादप्द्मयोः ॥ ६७. कृपाविष्टः पुनः प्राह शापान्तं मुनिपुङ्गवः । यमराजकराम्भोजभूषणायितमूर्तिमान् ॥ ६८. योऽस्त्राग्निः तेन संस्पृष्टो भूयः प्राप्स्यसि शोभनम् । इत्यादिष्टो म्लेच्छकुले जातो जानीहि ते रिपुः ॥ ६९. विप्रशापपराभूते चेताय नृपनन्दनः । बृहत्सेनस्य नगरे दग्धो याम्यास्त्रवह्निना ॥ ७०. प्राप्तवानसि याम्यास्त्रं प्रीतात् प्रेतपतेः पुरा । अप्रत्यक्षे त्वया तात विसृष्टोऽस्त्रः सुदारुणः ॥ ७१. स तु रात्रौ शयानः तु म्लेच्छराजः सुदुर्जयः । सुन्दरीणां सहस्रेण हत्या पापेन हिंसितः ॥ ७२. स्त्रीहत्या दारुणा तस्मात् त्वां क्लेशयति दुर्जया । सेयं हत्या महाराज मया निष्क्रमिताधुना ॥ ७३. दण्डे संस्थापिता मन्त्रं शक्त्या नान्येन केनचित् । तस्मात् स्त्रीवधदोषस्य प्रायश्चित्तं विधानतः ॥ ७४. कर्तव्यं भवता राजन् नान्यथा नाशमेष्यति । मुक्तशापः स गन्धर्वः संप्राप्य निजसम्पदम् ॥ ७५. तव प्रत्युपकाराय काङ्क्षत्येव यथोचितम् । एवमाकर्ण्य वै राजा कात्यायनसमीरितः ॥ ७६. पुनः प्रणम्य पप्रच्छ मुनीन्द्रं हृष्टमानसः । मानसाङ्गः -- प्रायश्चित्तं कथं ब्रह्मन् कर्तव्यं पापशान्तये ॥ ७७. तदस्माकं विशेषेण कर्तव्यं वरुणाज्ञया । इत्युक्त्वा पादयोर्मूले पतन्तं राजनन्दनम् ॥ ७८. समाश्वस्य मुनिश्रेष्ठो राजानं वाक्यमब्रवीत् । कात्यायनः -- राजन् श्रुणु कथां पुण्यां श्रुतिदृष्टां विशेषतः ॥ ७९. पुरादिसर्गे भगवान् सुसृक्षुः सकलाः प्रजाः । तामसी तनुमास्थाय दध्यौ किञ्चित् स्वसिद्धये ॥ ८०. असत् प्रादुरभूत् तावत् अनाकारं तमोमयम् । तद्गर्भात् पापपुरुषाः घोराघोराश्च जज्ञिरे ॥ ८१. असौम्यरूपान् घोराभान् कर्कशान् च चतुर्मुखः । समुद्वीक्ष्य किमेतेन पापेनेति विहस्य सः ॥ ८२. विहाय तां तनुं भूयः सात्विकीं तनुमास्थितः । भूयोऽपि किञ्चित् चित्ताब्जे दध्यौ कार्यं सुदुष्करम् ॥ ८३. तत्तेजसाकारं सञ्जज्ञे सर्वतः शुभम् । तद्गर्भात् कोमलाकारा सञ्जाताः धर्ममूर्तयः ॥ ८४. चन्द्रपाण्डरसङ्काशाः शुक्लाम्बरविभूषणाः । एवं सर्गं समालोक्य प्रीतिमापाम्बुजासनः ॥ ८५. पापबीजेन दैत्याः तु राक्षसाः च सहस्रशः । धर्मतः समपद्यन्त देवाः इन्द्रपुरोगमाः ॥ ८६. आसुर्येणैव शूद्राः च श्रुत्येतरविधानतः । देवांशभूताः विप्राद्याः वैदिकाचारशालिनः ॥ ८७. देवानां चैव विप्राणां हस्ते धर्मं ददौ विधिः । इतरेषामदात् पापमेभिर्लोकमवर्तयत् ॥ ८८. वर्तमाने जगच्चक्रे मर्यादापदवीक्रमात् । अन्योन्यं वैरिणः तावत् पापाः धर्माः च भूपते ॥ ८९. ब्रह्महत्यात्मके पापे सर्वतो व्यापृते भुवि । सत्बात्मके धर्मपथौ शेषाःतत्सैनिका अभवन् ॥ ९०. एवं तयोरभूत् घोरं सङ्ग्रामः शस्त्रयोधिनोः । कालेन राजन् धर्मोऽयं क्षीणसत्वोऽतिदुर्बलः ॥ ९१. स्वबलैः तु मृतप्रायैः अपालयत भीतवत् । पापो विजित्य धर्मान् तु बलात् आक्रम्य दुर्मतिः ॥ ९२. क्रमेण नाशयामास ब्राह्मणान् च सुरोत्तमान् । इत्थं विध्वंसिते धर्मे श्रुतयः तु विनिन्दिताः ॥ ९३. देवाः च ऋषयः चैव भयोद्विग्ना क्षुधातुराः । नत्वा विज्ञापयामासुः ब्रह्मणे पापचेष्टितम् ॥ ९४. श्रुत्वा तेषां वचो वेधाः किञ्चित् साध्वसकम्पितः । तैः सहैव समासाद्य श्वेतद्वीपं हरेः पदम् ॥ ९५. प्रणम्य कथयामास तमेतत् पद्मसम्भवः । लोकात्मा शेषपर्यङ्कात् समुत्थाय विचिन्तयन् ॥ ९६. वैनतेयं समारुह्य मेरुमाप महीधरम् । सर्वे ब्रह्ममुखाः देवाः ऋषयः च तपोधनाः ॥ ९७. तमेनमनुजग्मुः ते राजानमिव सैनिकाः । तावत् कैलासभवनात् सर्वज्ञो वृषभध्वजः ॥ ९८. संस्मृतो गरुडारूढः प्रायात् तत्र हरिः स्वयम् । एवमेकत्र मिलिता ब्रह्मरुद्रजनार्दनाः ॥ ९९. आत्मानं चिन्तयामासुः योगक्षेमाय केवलम् । तत्र वागाह कल्याणी गम्भीराम्भोधिसन्निभा ॥ १००. मुञ्चन्तु देवाः सन्तापं त्यजन्तु भयमुल्बणम् । अहमाविर्भविष्यामि पापानामुपशान्तये ॥ १०१. लोके संस्थापयिष्यामि धर्ममभ्युदयात्मकम् । पापान् विद्रावयिष्यामि भवन्तु सुखिनः सुराः ॥ १०२. इत्युक्त्वा वरदे वाक्ये माला काञ्चनपुष्करात् । कोटिसूर्यप्रतीकाशा महाकाञ्चनपुष्करा ॥ १०३. समन्तात् कुसुमामोदैः पूरयन्ती जगत्त्रयम् । यत्सुमस्पन्दसञ्जातमन्दमारुतविद्रुताः ॥ १०४. समजायन्त वै पापा निर्वीर्या विबलौजसः । अक्षयाः बलवन्तश्च धर्मोऽपि निरता भवन् ॥ १०५. ब्राह्मणाः चैव गावः च वेधाः च सह योगिभिः । संप्रापुः परमानन्दे षट्पदा इव माधवे ॥ १०६. या लोकमाता महती माया मायापहारिणी । अष्टलक्ष्मीति विख्याता सर्वदेवनिवासभूः ॥ १०७. तस्याः कण्ठे महाराज पपात स्रगियं शुभा । तां तुष्टुवुः ब्रह्ममुख्याः देवाश्च परमर्षयः ॥ १०८. निपेतुः कल्पकोत्थानि कुसुमानि समन्ततः । स्वस्त्यस्तु जगतां नित्यमित्युक्त्वा साम्बुजासना ॥ १०९. तावदन्तरादाभिः स्तूयमाना चराचरैः । व्याप्तमेतत् जगच्चक्रं सौमाङ्गल्यमहोदयैः ॥ ११०. दृष्ट्वा देवाश्च संहृष्टाः स्वानि स्वानि पदान्यगुः । सैषा माला महाराज गौरीकन्धरमेत्य च ॥ १११. अलङ्कृत्य पुनस्कन्धमादिशम्भोरनुग्रहात् । कुम्भजाय पुनर्दत्ता सैषा मलयनन्दिनी ॥ ११२. सर्वमन्त्रमयी सर्वदेवता शक्तिरूपिणी । तीर्थात्मिका देवरूपा सर्वदेवमयी पुनः ॥ ११३. सर्वक्रतुमयी कर्मरूपा तत्फलरूपिणी । ताम्रेति ताम्रपर्णीति माला मलयजेति च ॥ ११४. जपतामपि जन्तूनां महापातकनाशिनी । अस्यां तु वर्तमानायां जीवानां दक्षिणापथे ॥ ११५. कः पापः कापि वा माया को मोहः का चतुर्गतिः । मुञ्च राजन् भयं शोकं धैर्यमालम्ब्य चेतसा ॥ ११६. अद्यैव विजयाभिख्ये मुहूर्ते कार्यसिद्धिदे । प्रयाणायाद्य रथं शीघ्रं अरोहान्तःपुरान्वितः ॥ ११७. इत्युक्तो गुरुणा राजा संप्रहृष्टतनूरूहः । आरुरोह रथं शीघ्रं ब्राह्मणैश्च सह महात्मभिः ॥ ११८. स्तूयमानः पौरजनैः सूतमागधबन्दिभिः । आशीर्भिः वर्धितो हृष्टो ब्राह्मणैः आप्तवादिभिः ॥ ११९. महाराजः स्त्रिया युक्तः प्रतस्थे मलयात्मजाम् । भ्राम्यमाणेषु चक्रेषु चलमानेषु वाजिषु ॥ १२०. राजा परमसंहृष्टः तं प्रणम्य महामुनिम् । मेघगम्भीरया वाचा व्याजहार कृताञ्जलिः ॥ १२१. भगवन् सा कथं पुण्या नदी परमपावनी । स्नातव्या कथमस्माभिः वर्तनीया कथं पुनः ॥ १२२. ब्रूहि मे स्नानजं पुण्यं तद्विधिं च महामते । श्री शङ्खः-- इति पृष्टो नरेन्द्रेण मुनिः कात्यायनोऽब्रवीत् ॥ १२३. सर्वेषु दत्तकर्णेषु जनेषु परितो नृपम् । विचार्य सर्वशास्त्राणि निश्चितार्थः प्रसन्नधीः ॥ १२४. उवाच वचनं धीमान् अशेषश्रुतिमङ्गलम् । कात्यायनः-- राजन् महानदीमेनां प्राप्य वाचा स्तुवन् नमन् ॥ १२५. नारायण हरे शम्भो मातः पाहि तरङ्गिणी । इत्युच्चैर्व्याहरन् मर्त्याः स्नात्वा तदमलाम्भसि ॥ १२६. सद्यो द्वादशकृच्छ्रस्य फलं प्राप्नोत्यसंशयम् । तीर्थे तु पापनाशाख्ये मेषमेयुषि पूषणि ॥ १२७. अष्टाक्षरं महामन्त्रं पञ्चाक्षरमथापि वा । जप्त्वा सोमनाथस्य दर्शनं च करोति यः ॥ The verses from 128 to 132 have connection with the verse no.177। १२८. ब्रह्मतीर्थं बृहत्तीर्थं सोमारण्यं नदीपुरम् । सोमेशमादिपुरुषं शयानं विश्वधारिणम् ॥ १२९. इत्येकमुच्चार्य प्रमादादपि मानवः । महापातकयुक्तो वा मुच्यते पापकोटिभिः ॥ १३०. इत्थं कथामृतसारं संप्राप नयनाथित्यम् । श‍ृण्वन् स तु महीपतिः तेषां चन्दनभूधरः ॥ १३१. ददृशुः सर्वतोभद्रां महीं मङ्गलमण्डिताम् । अशेषलोकजननीमानन्दामृतवाहिनीम् ॥ १३२. ताम्रामालोकयामासुः सुधामिवतृषातुराः । सह सर्वैर्मुनिगणैः तां प्रणम्य महानदीम् ॥ १३३. जपन् स्नात्वा नरो भूप राजसूयफलं भवेत् । वैशाखे पुर्णिमायां तु द्वादशाक्षरमुच्चरन् ॥ १३४. गजेन्द्रवरदे स्नात्वा इन्दुव्रतसहस्रकम् । ज्येष्ठस्य शुक्लद्वादश्यां विष्णुसूक्तं जपन् नरः ॥ १३५. सोमतीर्थे ताम्रपर्ण्यां क्षयरोगविनाशने । स्नाति यद्यपि राजेन्द्र तस्य पूर्णफलं श्रुणु ॥ १३६. फलं परागकृच्छ्राणां बहूनां लभते द्विजः । दुर्गातीर्थात् पूर्वभागे सोमतीर्थात् तु पश्चिमे ॥ १३७. विष्णुतीर्थं महापुण्यं सर्वपापविनाशनम् । सर्वदारिद्र्यशमनं सर्वदुःखनिवारणम् ॥ १३८. तत्र स्नात्वा नरो राजन् तद्विष्णुरिति वै जपन् । अग्निष्टोमफलं प्राप्य विष्णुलोके महीयते ॥ १३९. आषाढदर्शयोर्मर्त्यो बाणतीर्थे निमज्जनात् । गायत्रीं मनसा स्मृत्वा सोमपानफलं भवेत् ॥ १४०. श्रावणे पौर्णमास्यां तु क्षिप्तपुष्पवती जले । रुद्रसूक्तं जपन् स्नात्वा सर्वक्रतुफलं भवेत् ॥ १४१. तथा भाद्रपदे शुक्लचतुर्दश्यां हरिं स्मरेत् । वैकुण्ठकलशाख्ये तु वाजपेयफलं स्मृतम् ॥ १४२. तथैवाश्वयुजे मासि शुक्लपक्षे दिवामुखे । देवीसूक्तं पञ्चदुर्गां शुक्रवारे जपन् नरः ॥ १४३. दुर्गातीर्थे शुचिः स्नात्वा सर्वक्रतुफलं भवेत् । वन्ध्यापि लभते पुत्रं धनकामो धनं लभेत् ॥ १४४. मनसा प्रेप्सितं कार्यं लभते नात्र संशयः । विजयायां दशम्यां तु गौरीतीर्थे निमज्जनात् ॥ १४५. ज्योतिर्वने सर्वभूम्यादानस्य फलमाप्नुयात् । कार्तिक्यां कृत्तिका योगे ताम्रा सागरसङ्गमे ॥ १४६. षडक्षरेण संयुक्तं स्कन्दसूक्तं महामनुम् । जपन् स्नात्वा च यो मर्त्यो गोसहस्रफलं भवेत् ॥ १४७. मार्गशीर्षे महापुण्ये द्वादश्यामरुणोदये । पुरुषसूक्तेन मन्त्रेण ताम्रपर्ण्यां महामते ॥ १४८. व्यासतीर्थे नरः स्नात्वा वेदपारायणं फलम् । द्वादश्यामेव तस्यां तु श्रीपुरे हरिसन्निधौ ॥ १४९. लक्ष्मीसूक्तं नारायणं जपन् उपनिषत्तथा । मज्जनात् एव लभते कपिलाकोटिदानजम् । १५०. पुष्ये मासि च पौर्णम्यां पुटार्जुनपुरे शुभे । रुद्रानुवाकं जप्त्वा च रुद्रमन्त्रेण प्रोक्ष्य च ॥ १५१. स्नात्वा वृषभलग्ने तु ब्रह्मभूयाय कल्पते । तन्मासे शुक्लपक्षे यः त्रिरात्रं व्रतमाचरन् ॥ १५२. एकाक्षरं सोममनुं जपन् मुक्त्यैकसाधनम् । मकराख्ये महातीर्थे कन्यादानशतादिकम् ॥ १५३. शिवरात्र्यामुषःकाले सोमारण्ये नदीजले । शैवं षडक्षरं मन्त्रं जपन् स्नात्वा महामनुम् ॥ १५४. नत्वा देवं सोमनाथं तप्तकृच्छ्रफलं बहु । शुक्लपक्षे च तन्मासि पुण्ये च हरि(बुध)वासरे ॥ १५५. सुदर्शनं महामन्त्रं जप्त्वा नद्यां महाजले । स्नात्वा चित्रानदीसङ्गे महाव्रतफलं भवेत् ॥ १५६. तथैव फाल्गुने दर्शे श्यामाताम्रासमागमे । पञ्चाक्षरमहामन्त्रं जपन् मुक्त्यैकसाधनम् ॥ १५७. मन्त्रतीर्थे नरस्स्नात्वा कोटिब्राह्मणभोजनम् । रामतीर्थे तु रोहिण्यां क्षेत्रस्यवादिने ॥(पुनर्वसु इत्यर्थः) १५८. तां भद्रो भद्रेत्युच्चैः गायन् स्नात्वा महाजले । ब्रह्महत्यासहस्रेभ्यः मुच्यते नात्र संशयः ॥ १५९. कृष्णाष्टम्यां तु रोहिण्यां हंसाख्यं याजुषं जपन् । त्रिणदीसङ्गमे स्नात्वा मुच्यते सर्वपातकैः ॥ १६०. श्रवणद्वादशी अर्के महापुष्करसंज्ञिता । उपोषिताः पूर्वदिने ध्यात्वा विष्णुं जपन् नरः ॥ १६१. ब्रह्मविदाप्नोति मन्त्रेण स्मरन् पादाम्बुजं हरेः । गजेन्द्रवरदे स्नात्वा ब्रह्मभूयाय कल्पते ॥ १६२. तीर्थे तु दक्षिणावर्ते शिवाग्रे स्नानमाचरेत् । सुपर्णकर्मानुवाकान् तु जपन् मुच्येत् गुरुद्रुहात् ॥ १६३. चन्द्रार्कयोगे विषुवे रौद्रं वा अर्धे महोदये । घटनासङ्गमे स्नात्वा मुच्यते गोवधात् नृप ॥ १६४. गजच्छाये महायोगे छायातीर्थे निमज्जनात् । अघमर्षणवारुण्यौ जपन् मुच्येत मित्रहा ॥ १६५. महाजयन्त्ये रोहिण्यां रोमशे स्नानमाचरन् । कल्मषघ्नीं मनुं जप्त्वा भ्रूणहा मुच्यते ध्रुवम् ॥ १६६. विष्णुश‍ृङ्खलकाभिख्यौ यथा योगः प्रवर्तते । विष्णोर्वने नरः स्नात्वा मुच्यते सर्वपातकैः ॥ १६७. सोमारण्ये ब्रह्मतीर्थे स्नात्वा रुद्रेत्यृचं जपन् । त्रिरावृत्तिः प्राणरोधात् मुच्यते स्त्रीवधात् अपि ॥ १६८. मासमेकं प्रतिवर्षे जपन् प्रणवसंयुतम् । स्नात्वा स्त्रीवधात् पापात् मुच्यतेऽभिमतं विधेः ॥ १६९. ज्योतिर्वनात् उत्तरतः तीर्थे गान्धर्वसंज्ञिते । अवते हेल इत्येनां जपन् स्नात्वा विमुच्यते ॥ १७०. यद्देवा देवहेलनमनुवाकं समुच्चरन् । ऋषितीर्थे नरः स्नात्वा नरः पपैः प्रमुच्यते ॥ १७१. पुरोचनसुतां हत्वा स्त्रीहत्यामाप वृत्रहा । राज्यहीनो गुरोर्वाक्यात् सोऽपि राजयमवाप च ॥ १७२. ब्रह्मतीर्थे स च स्नात्वा मुक्तः स्त्रीवधपातकात् । अन्येऽपि पापिनो ह्यत्र स्नात्वा मुख्यपदान्यगुः ॥ १७३. बहुना किं प्रलापेन ब्रह्मतीर्थं महत्तरम् । इत्थं तीर्थस्य माहात्म्यं राजा श्रुत्वा प्रहृष्टधीः ॥ १७४. ब्रह्मतीर्थं समागत्य कात्यायनपुरस्कृतः । पञ्चाङ्गविधिना स्नात्वा गोदानादि बहून् अदात् ॥ १७५. अवरुह्य विमानाग्रात् संहृष्टो राजनन्दनः । सोमारण्यं महारण्यं संप्राप शनकैर्मुदा ॥ १७६. ऊचुर्जयजयेत्युच्चैः मातः पाहीति हर्षिताः । तमेनं राजतनयं मान्साङ्गं महामुनिः ॥ १७७. पूजयित्वा यथान्यायं विधिज्ञः तीर्थदेवताः । आशान्तः प्रथमं सम्यक् कृतं सङ्कल्पमेव च ॥ १७८. तथाघमर्षणं स्नानं तर्पणं च विधानतः । कारयामास भूपाय मुनिः कात्यायनो गुरुः ॥ १७९. चक्रवत्भ्रममाणोऽयं पापवेगेन गौरवात् । दण्डः तु पश्यतां तेषां निश्चलः समपद्यत ॥ १८०. ततो हर्षसमायुक्तो राजान्तःपुर संयुतः । दत्वा भूरिधनं तत्र ब्राह्मणेभ्यो विशेषतः ॥ १८१. गवां शतसहस्रं तु ब्राह्मणेभ्यो ददौ पुनः । सर्वे तमेव राजानमाशीर्भिः अभिवर्धयन् ॥ १८२. श्रीशङ्खः -- इत्थं सर्वेषु तुष्टेषु विस्मितेषु पुनःपुनः । पुष्पवृष्टिरभूत् पुण्या व्योम्नि देवप्रचोदिता ॥ १८३. देवाश्च ऋषयस्सर्वे विस्मिताः तं समस्तुवन् । तावत् पिङ्गलको व्योम्ना विमानेनार्कवर्चसा ॥ १८४. अनेकसिद्धगन्धर्वैः गन्धर्वज्ञो महात्मभिः । समागत्य महीपालं मानसाङ्गं सुहृत्तमम् ॥ १८५. प्रीणयन् वचसा प्रेम्णा बभाषे हर्षगद्गदम् । पिङ्गलकः -- सखे राजेन्द्र तुष्टोऽस्मि कर्मणानुष्ठितेन ते ॥ १८६. मामवेहि महाराज नाम्ना पिङ्गलकं प्रियम् । सुहृत्तमं पूजयितुं त्वामिदानीमुपागतम् ॥ १८७. पूतात्मासि महानद्यां स्नानेनानेन दानतः । धन्योऽनुगृहीतोऽस्मि गुरुणानेन योगिना ॥ १८८. अस्य तीर्थस्य माहात्म्यं ब्रह्मरुद्रादिभिः सुरैः । उपगीयमानं सर्वत्र लब्धं ते पुण्यगौरवात् ॥ १८९. ददामि तव गान्धर्वमस्त्रमाश्चर्यकारकम् । अङ्गारकमिदं दिव्यं नित्ययौवनकारणम् ॥ १९०. मत्तो वृणीष्व भद्रं ते सर्वत्र विषयावहम् । त्वय्यनुग्रहकर्तारं प्रेषयन् मां दिवैकसः ॥ १९१. यदा यदा मां स्मरसि तदागत्य स्वबन्धुभिः । कर्तुमिच्छामि साहाय्यं जानीहि सुहृदं हि माम् ॥ १९२. इत्थं तेनार्पितं प्राप्य महाधनमनुत्तमम् । तमालिङ्ग्य पुनः प्रेम्णा तथास्त्वित्यब्रवीत् द्विजः ॥ १९३. गते गन्धर्वभूपाले मुनिना तेन भूपतिः । तीर्थदेवीं नमस्कृत्य सोमेशं संप्रणम्य च ॥ १९४. शयानं पुरुषं नत्वा संप्राप्य च वरान् बहून् । परिक्रम्य पुरश्रेष्ठं ताम्रां च मलयात्मजाम् ॥ १९५. आशैलमावारिनिधिं स्नात्वा दत्वा पदे पदे । तीर्थानि देवतागाराणि नत्वागस्त्यं प्रणम्य च ॥ १९६. कात्यायने गुरौ तस्मिन् अनुज्ञाप्य दयान्विते । प्रस्थिते मुनिलोकाय सह शिष्यैर्मुनीश्वरे ॥ १९७. सान्तःपुरो महीपालः परिपूर्णमनोरथः । प्रायात् रथेन महीपालः पाञ्चालनगरीं शुभाम् ॥ १९८. त्रिंशद्वर्षसहस्राणि राजा भुक्त्वाप्यखण्डकम् । स्थाप्य सिंहासने पुत्रं ब्रह्मलोकमवाप्तवान् ॥ १९९. इत्थं ते कथितं राजन् सोमारण्यस्य वैभवम् । पवित्रं पापशमनमायुरारोग्यसौख्यदम् ॥ २००. ये पठन्ति नराः भक्त्या ये श‍ृण्वन्ति सादरम् । तेषां प्रसन्नो भगवान् नीलकण्ठो वृषध्वजः । ऐहिकामुष्मिकान् कामान् ददाति जगतीगुरुः ॥ इति त्रिषष्टितमः अध्यायः । Pro.Total = 6117 + 200 = 6317.

चतुष्षष्टितमः अध्यायः

ताम्रासागरसङ्गममहिमानुवर्णनम् । १. अतः परं नृपश्रेष्ठ ताम्रासागरसङ्गमः । तीर्थराजो महाघौघसंक्षोभणविचक्षणः ॥ २. यत्र ताम्रा त्रिधाभूतप्रवाहा सागरङ्गमा । महापातकसङ्घातभस्मीकरणगौरवात् ॥ ३. अग्नित्रयं प्रशंसन्ति मुनयो वेदवादिनः । आनन्दविद्यासम्पत्तिविश्राणनविनोदतः ॥ ४. ज्योतिषां त्रितयं केचित् वेदानां त्रितयं परे । त्रिपदी केवला सेयं त्रिमुखा येन सा नदी ॥ ५. अत्रेतिहासः श्रोतव्यः पुरा दृष्टो महीपते । यस्य श्रवणतो मर्त्यो मुच्यते सर्वकिल्बिषैः ॥ ६. पुरा सह्याद्रिपर्यन्ते कावेर्याः दक्षिणे तटे । चन्द्रशालेति विख्याता पुरी भुवनभूषणा ॥ ७. चातुर्वर्ण्यस्य समाकीर्णा धनधान्यसमायुता । तस्यां कश्चित् अभूत् विप्रो नन्दको नाम नामतः ॥ ८. तस्य कन्या वरारोहा विद्युच्चलनविभ्रमा । पर्णावतीति विख्याता यौवनाविष्टशैशवा ॥ ९. याते पितरि चान्यत्र मात्रा सह शुभाप्तये । तावत् सद्युम्नको नाम योगिनामग्रणीश्वरः ॥ १०. परिभ्राम्य महीं कृत्स्नां क्षुत्क्रान्तोऽध्वश्रमालसः । नन्दकस्य गृहं प्राप मृष्टान्नापेक्षया मुनिः ॥ ११. सैषा कन्या समालोक्य समागतममुं मुनिम् । आसनाद्युपचारैः च पूजयित्वा यथाविधि ॥ १२. व्यजनेन परिश्रान्तं वीजयन्तं सविस्मया । बभाषे संप्रणम्यैषा वाचामृतसदृक्षया ॥ १३. पर्णावती-भगवन् स्वागतं तेऽस्तु कुतः श्रान्तः समागतः । पितरौ मे गतौ कार्यहेतोः ग्रामान्तरं प्रति ॥ १४. किं मया करणीयं ते साधयिष्यामि ते प्रियम् । तयोक्तस्स मुनिः प्राह क्षुधार्तोऽस्मि वरानने ॥ १५. स्वाद्वन्नं देहि मे तेन श्रेयः तव भविष्यति । इत्युक्ता सा मुनिं वाचा क्षणमास्वेति कन्यका ॥ १६. प्रसाद्यन्तर्गृहं गत्वा मृष्टान्नमदात् तदा । अन्नमभ्यवहृत्यासौ सूपसस्यसमन्वितम् ॥ १७. स सन्तुष्टमना योगी कन्यामाहूय तामिमाम् । विद्याद्वयमदात् सर्वसत्वाकर्षणसाधनम् ॥ १८. कान्तं कञ्चिद्वरं योग्यं काङ्क्षन्ती जप्तुमर्हसि । स कामदो भवेत् स्निग्धो इत्युक्त्वान्तर्हितोऽभवत् ॥ १९. तस्मिन् गते मुनिवरे पित्रोः स्वगृहमेयुषोः । कदाचित स्वगृहात् सैषा निर्गत्य स्नानहेतवे ॥ २०. विलोकयन्ती सर्वत्र नद्याः तस्याः तटद्वयम् । ददर्श दूरे कमपि युवानं सुन्दरं मुनिम् ॥ २१. काङ्क्षन्यथाङ्गना राजन् समाहृष्टहृदम्बुजा । कौतूहलसमाविष्टा तां विद्यां मनसा स्मरन् ॥ २२. सद्यः परवशो योगी तेन मन्त्रबलेन सः । तदन्तिकमुपागम्य तामाहूय नदीतटे ॥ २३. विहृत्य च लतागेहे रतान्ते तामुवाच ह । अहो दुष्टे तपस्यन्तं मां समाधिमुपागतम् ॥ २४. विद्यया विवशीकृत्य तपोनाशः त्वया कृतः । तस्मात् भव चिरं कालं पिशाची काननान्तरे ॥ २५. इति शप्त्वा गते तस्मिन् सूत्वा सुतशतं क्षणात् । तैः सुतैः तद्वने घोरे सैषा जाता पिशाचिका ॥ २६. सह पुत्रैः महाघोरैः विकृताकारदर्शनैः । हिंसन्ती प्राणिनः तावत् परिचक्राम काननम् ॥ २७. वनाद्वनं परिक्रम्य दूराद्दूरं शनैःशनैः । रुदन्ती च हसन्ती च मूर्च्छिता च पुनःपुनः ॥ २८. प्राप्य नागाटवीं घोरां भूतवेतालसंवृताम् । तावत् सद्युम्नको योगी सह शिष्यैः महातपाः ॥ २९. यदृच्छया समागत्य तां ददर्श पिशाचिकाम् । पिशाचैः सह सङ्कीर्णां धावन्तीं च पदे पदे ॥ ३०. पर्णावतीं तु विज्ञाय नन्दकस्य कुमारिकाम् । मृष्टान्नदात्रीं समये दयाञ्चक्रे दयानिधिः ॥ ३१. सन्तुष्टेन मया दत्ता सैषा विद्या सुखप्रसूः । गतामेनां महाघोरे शोकाम्भोधावपातयत् ॥ ३२. अपात्रे पतिता विद्या क्षीरधारा इवोरगे । सञ्जाता विषमायैव अविवेकेन मे ध्रुवम् ॥ ३३. अस्तु कालवशेनैव भवितव्यं भवत्यहो । एनामुद्धारयिष्यामि पापात् अन्नप्रदायिनीम् ॥ ३४. इति निश्चित्य मनसा मन्त्रपातैः सहात्मजाम् । बध्वा विकृष्य संप्राप ताम्रासागरसङ्गमम् ॥ ३५. तपोबलेन तां तीर्थे मज्जयामास मन्त्रवित् । तत्क्षणादेव राजेन्द्र मुक्ता पैशाचबन्धनात् ॥ ३६. सा तं विज्ञाय योगीन्द्रं रुदन्ती सह पुत्रकैः । पपात पादयोः तस्य पाहि मां पाहि मामिति ॥ ३७. तामिमां तरुणीं प्रेम्णा परिमृज्य स्वपाणिना । यथाविधानं तत्पुत्रैः स्नानं सङ्कल्पपूर्वकम् ॥ ३८. शान्तिसूक्तं महामन्त्रं अस्य वाम्यं महामनुम् । पुरतः स्नापयामास तत्तीर्थे तां सपुत्रकाम् ॥ ३९. तावदाविरभूद्देवी ताम्रा कमलमालिका । ब्रह्मविष्णुमुखैर्देवैः स्तूयमानेदमब्रवीत् ॥ ४०. देवी -- त्वया कृतमिदं भद्रे मुनेः कारुण्यशालिना । त्वया निर्मुक्तपापेयं कृता पर्णावती किल ॥ ४१. ममैवानुग्रहात् एषा नित्यकन्या भवेदियम् । अस्यैव कमिता योगी भविता ब्राह्मणात्मजः ॥ ४२. वत्सकः सर्वधर्मज्ञः चैतेषां जनकः खलु । एते च बालकाः पुत्राः महायोगैकवादिनः ॥ ४३. अनामयाः योगीन्द्राः भवन्त्याकल्पजीविनः । ब्रह्मज्ञाः च भविष्यन्तु वेदवेदाङ्गपारगाः ॥ ४४. भर्त्रा समेता तेनैव भुक्त्वा भोगान् यथेप्सितान् । अन्ते तेनैव कान्तेन ब्रह्मलोकं गमिष्यति ॥ ४५. इत्युक्तवत्यामम्बायां अम्बरात् दैवचोदिता । पपात महती वृष्टिः कल्पकप्रवात्मिका ॥ ४६. इन्द्राद्याः सकलाः देवा ऋषयो नारदादयः । वत्सकोऽपि समागत्य वसिष्ठाद्यैः महात्मभिः ॥ ४७. देवानां वचनं श्रुत्वा तामुद्वाह्य विधानतः । देवताभ्यो वरं प्राप्य स्वगृहं प्रययौ मुनिः ॥ ४८. ते चास्याः तनयाः सिद्धाः योगिनः सम्बभूविरे । सापि देवी महापुण्या ताम्रा पापप्रणाशिनी ॥ दानानि यानि प्रोक्तानि वेदागमशिखान्तरे । तानि त्वयैव दत्तानि ताम्रामन्तरुपासना ॥ (refer 64th verse of this chapter) ४९. तेषामभीप्सितान् कामान् प्रणम्य मलयात्मजाम् । तस्मात् अस्येह तीर्थस्य माहात्म्यं पापनाशनम् ॥ ५०. वाचामगोचरं पुण्यं शिवो जानाति नान्यथा । साक्षात् उमासुतः स्कन्दः जयन्तीमास्थितः पुरीम् ॥ ५१. देवसेनां च वल्लीं च समुद्वाह्य जगद्गुरुः । अद्यापि जगतां प्रीत्यै तीर्थं पालयते गुहः ॥ ५२. श्रेयात्मनो महाराज ताम्रासागरसङ्गमे । स्नात्वा सन्तर्प्य देवर्षीन् पितॄन् विप्रान् धनादिभिः ॥ ५३. जयन्ती पठनाच्चैव पूर्णकामा भवन्ति ते । आसागरमिमां दृष्ट्वा प्राप्य चन्दनशिलोच्चयम् ॥ ५४. उभयोः तीरयोः स्नात्वा दृष्ट्वा देवान् च यथाविधि । तर्पयित्वा पितॄन् विप्रान् ब्रह्मभूयाय कल्पते ॥ ५५. शङ्खः -- यथाज्ञातं यथागीतं श्रुतं गुरुमुखाद्यथा । तावद्विस्तरतो राजन् मया ते कथिता कथा ॥ ५६. इतः परं ते ज्ञातव्यं न पश्यामि महीपते । कृतकृत्योऽसि धन्योऽसि पूर्णकामोऽसि केवलम् ॥ ५७. त्वया कृत्वा शतं राजन् क्रतुसर्गं सदक्षिणम् । यानि तीर्थान्यसङ्ख्यानि पुण्यानि जगतीतले ॥ ५८. स्नातानि तानि भवता ताम्रामन्तरुपासता । सप्तकोटिमहामन्त्राः वेदान्तेषु प्रकाशिताः ॥ ५९. तानि त्वयैव जप्तानि ताम्रामन्तरुपासता । इत्युक्त्वा हर्षसन्तुष्टः तुष्टाव जगतीगुरुः ॥ ६०. नमः परमकल्याणनिधये वीतरागिणे । लोपामुद्रासमेताय कुम्भोद्भूताय योगिने ॥ ६१. पुण्यायै पुण्यभूतायै पुत्र्यै मलयभूभृतः । सर्वतीर्थस्वरूपायै ताम्रपर्ण्यै नमो नमः ॥ ६२. या पञ्चकृत्यनादेव कुज्जापाञ्चितदुर्दशा । तामादिलक्ष्मीं क्षेमाय साक्षान्मोक्षप्रदां नमः ॥ ६३. एकत्र श्यामलाकारा एकतः चन्द्रपण्डुरम् । उमारमापतिं देवं वन्दे हरिहराकृतिम् ॥ ६४. ताम्रां मलयशैलेन्द्रमादिलक्ष्मीं हरिप्रियाम् । लोपामुद्रामगस्त्यं च नित्यमन्तःस्मराम्यहम् ॥ ६५. व्यासः -- कथां पुरातनीं पुण्यां वीरसेनो महीपतिः । श्रुत्वा संहृष्टहृदयः प्रणनाम महामुनिम् ॥ ६६. रत्नैः दिगन्तरानीतैः अनर्घ्यैः सूर्यसन्निभैः । तप्तकाञ्चनपुष्पैश्च मुक्ताजालसमावृतैः ॥ ६७. अभिषिच्य गुरुं भक्त्या शङ्खाख्यं योगिनां वरम् । भक्त्या सन्तोषयामास स्तोत्रैश्च विविधैरपि ॥ ६८. प्रदक्षिणक्रमेणैव तीर्थेषु सकलेष्वपि । आसागरं तु यया स्नात्वा तीरयोरचलाग्रतः ॥ ६९. देवताः प्रीणयित्वैव पुष्पपर्णार्हणादिभिः । प्राप्य प्रसादं श्रीदेव्याः दुर्लभं ह्यकृतात्मनाम् ॥ ७०. अभिवाद्य सपत्नीकं मुनीन्द्रं कुम्भसम्भवम् । गुरुमापृच्छ्य योगीन्द्रं पूर्णकामो महीपतिः ॥ ७१. विमानवरमारुह्य कामगं काञ्चनोज्ज्वलम् । कृताञ्जलिपुटो राजा तां प्रणम्य महानदीम् ॥ ७२. व्योमयानः संप्रतस्थे द्वितीय इव भास्करः । प्रियां प्रणयिनीं स्निग्धां नादेयीं धर्मचारिणीम् ॥ ७३. अङ्केनादाय हर्षेण प्रस्थितो भारतीं महीम् । प्रियायै दर्शयन् पुण्यक्षेत्राणि विविधानि च ॥ ७४. पाण्ड्यराजमतिक्रम्य कावेरीं सह्यसम्भवाम् । तुङ्गभद्रां कृष्णवेणीं श्रीशैलं वेङ्कटाचलम् ॥ ७५. समतीत्य च गोकर्णं सप्तगोदावरीतटम् । विन्ध्याद्रिसम्भवां रेवां गङ्गां दुरितभञ्जनीम् ॥ ७६. सरयूं पुष्कलां भद्रां तथैव च शरावतीम् । प्रियायै दर्शयन् एव नगराणि वनान्यपि ॥ ७७. गौरीगुरुमभिष्टूय हिमवन्तं शिलोच्चयम् । गौरीं च शङ्करं नत्वा समुल्लङ्घ्याम्बराध्वना ॥ ७८. किम्पुरुषवर्षालङ्कारान् नानाजनसमावृतान् । प्रविवेश पुरीं रम्यां पूज्यमानः स्वमन्त्रिभिः ॥ ७९. त्रिंशद्वर्षसहस्राणि राज्यं कृत्वाप्यखण्डकम् । स्मृत्वा स्मृत्वा च ताम्रायाः माहात्म्यं परमाद्भुतम् ॥ ८०. अभिषिच्यात्मजं श्रेष्ठं स्निग्धं राजासने विभुः । प्रार्थ्यमानं सिद्धजनैः ब्रह्माद्यैः योगिसत्तमैः ॥ ८१. यत्पदं परमानन्दनिलयं लयवर्जितम् । सर्वगं सर्वगं शुद्धमवापासौ नृपोत्तमः ॥ ८२. श्री सूतः -- इत्थं व्यासेन कथितं शुकाय ब्रह्मवादिने । सैषा तु परमानन्ददर्शिनी कलुषापहा ॥ ८३. यथाश्रुतं यथादृष्टं मयाद्य कथितं द्विजाः । सैषा भगवती ताम्रा सेवतां सर्वदेहिनाम् ॥ ८४. प्रयच्छति न सन्देहो मोक्षलक्ष्मीं सनातनाम् । य इमां प्रातरुत्थाय स्मरन् मुक्तामणिप्रसूम् ॥ ८५. तेषां न जायते दुःखं न दारिद्र्यं न चामयम् । स्मरन् स कीर्तयन् नित्यं सर्वान् कामानवाप्नुयात् ॥ ८६. ये चेमां संहितां पुण्यां महापातकनाशिनीम् । श‍ृण्वन्तः च पठन्तश्च कीर्त्यन्तश्च मानवाः ॥ ८७. ते यान्ति शिवसायुज्यं नात्र कार्या विचारणा । इतिहासमिदं पुण्यं सर्वपापप्रणाशनम् ॥ ८८. लिखित्वा पूजयन् मर्त्यो न पापैः अभिभूयते । ये चेमां नियमेनैव नित्यं गुरुमुखात् नरः ॥ ८९. श‍ृण्वन्तो भक्तिसहिताः तेषां नास्ति दरिद्रता । पुत्रकामो लभेत् पुत्रं धनकामो लभेत् धनम् ॥ ९०. आयुष्मान् पुत्रवान् चैव विद्यावान् धनवान् नरः । जायते कीर्तनात् अस्याः कथायाः कलिवर्जिताः ॥ ९१. न दुस्स्वपात् भयं तेषां न पापेभ्यो न रोगतः । न शत्रुतो भयं क्वापि न च व्यालभयं तथा ॥ ९२. न चैनं पीठयन्यद्धा भूतवेतालराक्षसाः । यथा गयायां सन्तृप्ताः पिण्डदानादिभिः सुतैः ॥ ९३. पितरः श‍ृण्वतां तेषां तृप्तिं यान्ति न संशयः । आयुष्करं पुष्टिकरं पवित्रं पापनाशनम् ॥ ९४. श्रूण्वन्तु मुनयः पुण्यमितिहासं दिने दिने । ये च भक्त्या पठन्त्येदं माहात्म्यं पुण्यवर्धनम् ॥ ९५. तेषां करोति सौभाग्यं हरिः शम्भुः चतुर्मुखः । नाग्निपातो भवेत्तस्य न तोयात् न च मारुतात् ॥ ९६. न जायते भयं क्वापि माहात्म्यस्यास्य कीर्तनात् । यः श‍ृणोति सदा भक्त्या तमेनं सर्वसम्पदः ॥ ९७. स्वयं यान्ति विप्रेन्द्राः नात्र कार्या विचारणा । यस्तुसाक्षात्ब् स्वयं शम्भुः यस्तु साक्षात् स्वयं हरिः ॥ ९८. लोपामुद्रापतिः श्रीमान् नित्यं प्रीतिसमन्वितः । सान्निध्यं कुरुते नूनं पठेत् यत्र कथामिमाम् ॥ ९९. तस्मात् सर्वगुरोरस्य प्रसादाय दिने दिने । श्रोतव्यं पठितव्यं हि ब्राह्मणेन विजानता ॥ १००. यस्यैतत् भगवत ईश्वरस्य विष्णोः वीर्याढ्यं वृजिनहरं सुमङ्गलं च । आख्यानं पठति श‍ृणोत्यनुस्मरेद्वा दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ॥ इति चतुष्षष्टितमः अध्यायः । Pro.Total = 6317 + 100 =6417. इति ताम्रपर्णीमाहात्म्यं सम्पूर्णम् । पाटीरशैलतनयां तीर्थराज्ञीं सुमङ्गलाम् । अनादि शक्तिसम्भूतां श्रीताम्रां प्रणमाम्यहम् ॥ A Note by the Late K. Bhutanatha who transcribed the Devanagari and Tamil text. CONCLUSION After writing manuscripts as fair copies in Tamil and Devanagari script by me, my guru vidyAratnam has accorded the following AshIrvAdAs for me रामायणमणये ताम्रपर्णीमणये कैलासनाथभूतनाथाय सर्वाणि श्रेयांसि सन्तु ॥ -- ताम्रपर्णीरामयणियार् । I have finished श्रीताम्रपर्णीमाहात्म्यपारायण first on 6-10-73, Saturday, विजयदशमी at my house, second pArAyaNa on 26-1-1974 at my guru's house at शुद्धमल्ली and the third पारायण on 15-1-1975 at my house--6, Varatharaajapuram, Tuticorin-628002. My bio-data can be studied in my dissertation papers regarding my M.Phil.(Sanskrit). भद्राश्रीताम्रपर्णी जयति भुवि सदा मङ्गलानां विधात्री शोभां पुष्टिं च दात्री लसति मणिनिधि : दक्षिणाशाप्रवृत्ता । स्थैर्यं च लक्ष्मीं च विद्यां वितरति सततं सज्जनानां बुधानां लोपामुद्राप्रियेण स्थिरतममुनिना पालिता लोकमाता ॥ इत्थं कै।भूतनाथ : 13-3-2015. G-3, Gitanjali Corner--I, Gitanjali Layout, H.A.L.--III Stage, New Thippasandra, Bangalore-560075, Karnataka
% Text title            : tAmraparNImAhAtmyam
% File name             : tAmraparNImAhAtmyam.itx
% itxtitle              : tAmraparNImAhAtmyam
% engtitle              : tAmraparNImAhAtmyam
% Category              : devii, devI, nadI, mAhAtmya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text 1, 2)
% Acknowledge-Permission: Sri K.A.L.V.I. trust, Sringeri Jagadguru Maha Samsthanam, K.Bhoothanathan and family
% Latest update         : August 28, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org