श्रीताम्रपर्ण्यष्टकम्
या पूर्ववाहिन्यपि मग्ननृणामपूर्ववाहिन्यघनाशनेऽत्र ।
भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु ॥ १॥
माधुर्य नैर्मल्य गुणानुषङ्गात् नैजेन तोयेन समं विधत्ते ।
वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु ॥ २॥
या सप्तजन्मार्जित पापसङ्घनिबर्हणायैव नृणां नु सप्त ।
क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु ॥ ३॥
कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम् ।
निवार्य चैषामपवर्ग दात्री सा ताम्रपर्णी दुरितं धुनोतु ॥ ४॥
श्री पापनाशेश्वर लोकनेत्र्यौ यस्याः पयोलुब्धधियौ सदापि ।
यत्तीरवासं कुरुतः प्रमोदात् सा ताम्रपर्णी दुरितं धुनोतु ॥ ५॥
नाहं मृषा वच्मि यदीयतीरवासेन लोकास्सकलाश्च भक्तिम् ।
वहन्ति गुर्वाङ्घ्रियुगे च देवे सा ताम्रपर्णी दुरितं धुनोतु ॥ ६॥
जलस्य योगाज्जडतां धुनाना मलं मनस्थं सकलं हरन्ती ।
फलं दिशन्ती भजतां तुरीयं सा ताम्रपर्णी दुरितं धुनोतु ॥ ७॥
न जह्रुपीता न जटोपरुद्धा महीध्रपुत्र्यापि मुदा निषेव्या ।
स्वयं जनोद्धारकृते प्रवृत्ता सा ताम्रपर्णी दुरितं धुनोतु ॥ ८॥
इति श्रीताम्रपर्ण्यष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor